लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५६९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५६८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५६९
[[लेखकः :|]]
अध्यायः ५७० →


श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! शंभुः परमवैष्णवः ।
पार्वतीं प्राह माहात्म्यं मम तीर्थादिसंभवम् ।। १ ।।
चन्द्रद्वीपः प्रभासेतुस्ताम्रपार्णेय इत्यपि ।
गभस्तिमान् नागद्वीपः सौम्यो गन्धर्व इत्यपि ।। २ ।।
वारुणः कौमारिकेयश्चैते देशा हि नार्मदाः ।
नर्मदाजलसिक्तास्ते तद्वारिपानकारिणः ।। ३ ।।
देहिनः पुण्ययोगेन स्वर्गे मोक्षे प्रयान्ति च ।
जीवाः कर्मफलं स्वेषां प्राप्नुवन्ति शुभाशुभम् ।। ४ ।।
श्रेयोऽर्थं च तपो होमं दानं ध्यानं च पूजनम् ।
कारुण्यं नर्मदास्नानं कर्तव्यं शुभलब्धये ।। ५ ।।
आख्यानं कथयिष्यामि यथावृत्तं पुरातनम् ।
कुवलयाश्वो राजर्षिः पुरा कृतयुगेऽभवत् ।। ६ ।।
अनेकानि सहस्राणि दानानि विविधानि च ।
दत्तानि तेन राज्ञा वै सर्वतीर्थेषु भावतः ।। ७ ।।।
इष्टाश्च क्रतवस्तेन वर्जयित्वा तु नर्मदाम् ।
राजा कुवलयाश्वः स दानधर्मपरायणः ।। ८ ।।
राहुसूर्यसमायोगे कुरुक्षेत्रं ययौ किल ।
लक्षमेकं हयानां च दन्तिनामयुतं तथा ।। ९ ।।
हेममाणिक्यरत्नानि वासांसि विविधानि च ।
श्रद्धया परया युक्तो ब्राह्मणेभ्यो ददौ ग्रहे ।। 1.569.१ ०।।
शेषं द्रव्यं च तत्क्षेत्रे सर्वं कंकरवन्नृपः ।
अञ्जलिना प्रतिस्थलं विकीर्य स्नानमाचरत् ।। ११ ।।
ततो जगामाऽवध्यायां निजे राज्येऽभजद्धरिम् ।
अथ राजा मुचुकुन्दो विष्णुभक्तो जितेन्द्रियः ।। १ २।।
दैत्यानामधिपश्चासीत् स च सूर्यग्रहे ययौ ।
नर्मदामोंकारनाथं वैदूर्यसिद्धपर्वतम् ।। १ ३।।।
नर्मदाकपिलायोगे कोटितीर्थेऽवसच्च सः ।
लक्षमेकं तु दोग्ध्रीणामयुतं वाजिनां तथा ।। १५८।।
सहस्रं दन्तिनां चैव रथानां च सहस्रकम् ।
कामिकानां तु यानानां सहस्रं हेममालिनाम् ।। १५।।
धनं धान्यं सुवासांसि रत्नानि विविधान्यपि ।
स्नानं कृत्वा यथायोग्यं विप्रेभ्यः प्रददौ तदा ।। १६।।
ददावोंकारनाथाय दक्षिणां च शतायुतम् ।
यो यं कामयते कामं तं तस्मै स प्रयच्छति ।। १७।।
एवं कृत्वा परं तीर्थे स्वालयं पुनराययौ ।
अथ कालान्तरे भूपौ स्वस्वपुण्यप्रभावतः ।। १८।।
स्वर्गं प्राप्तौ चाप्सरोभिः सेविताविन्द्रसदृशौ ।
मुचुकुन्दरथस्तूर्ध्वं सदा प्रयाति वै दिवि ।। १ ९।।
कुवलयाश्वयानं तु तदधो याति सर्वदा ।
उभौ निवेदितौ दूतैर्धर्मराजस्य धीमतः ।। 1.569.२० ।।
कुवलयाश्वो राजर्षिर्मुचुकुन्दो महाबलः ।
लोकान्तरमुभावेतौ विमानस्थौ समागतौ ।।२१ ।।
तावदुत्पतितं यानं मुचुकुन्दस्य चोपरि ।
योजनानां सहस्रेण ह्युपर्युपरि वर्तते ।।२५।।
अवध्याऽधिपतेर्यानमधोभागे प्रवर्तते ।
श्रुत्वा तद्धर्मराजोऽपि पप्रच्छ चित्रगुप्तकम् ।।२३।।
कतरं पूजये राज्ञोर्वद् मेऽर्घादिकर्मभिः ।
पुण्यबलं द्वयोर्वीक्ष्य प्राह वै चित्रगुप्तकः ।। २४।।
मुचुकुन्दं प्रथमं प्रार्चय रेवाप्रतापतः ।
सप्तर्षीनपि पप्रच्छ तेऽब्रुवन् चित्रगुप्तवत् ।। २५।।
मुचुकुन्दं समासाद्य त्वर्घपाद्येन पूजय ।
दानेन कापिलेनेज्यो दानवेन्द्रोऽतिपुण्यवान् ।।२६।।
एवमुक्तो धर्मराजो दानवेन्द्रमुपाश्रयत् ।
अञ्जलिं तु ततो बद्ध्वा यानस्याऽग्रे व्यवस्थितः ।।२७।।।
कुशलं तेऽद्य दैत्येन्द्र सर्वधर्मान्वितौ भवान् ।
निर्जितास्ते त्रयो लोका दानेनाऽनेन भूतले ।। २८।।
ओंकारदक्षिणस्याऽन्ते मूर्तौ कापिलसंगमे ।
सप्तकल्पवहातीरे पुण्यसंख्या न विद्यते ।।२९।।
एवमुक्त्वा पूजयित्वा दर्शयामास मार्गकम् ।
विष्णोर्वैकुण्ठलोकस्य मुचुकुन्दो जगाम ह ।।1.569.३०।।
अथाऽऽसाद्य ततो भूपं कुवलयाश्वमेव तु ।
धर्मराजः स्वयं प्राह स्वागतं ते करोमि वै ।।३ १ ।।
राजा प्राह विरोधो वै देवदानवयोः सदा ।
त्वं देवो वै कथं दैत्यं प्राक् प्रपूजितवानसि ।।३२।।
मां त्यक्त्वा दानवेन्द्रः स पाद्यार्घ्येण त्वयाऽर्चितः ।
विपरीतं तु तत्सर्वं धर्मराज कृतं कथम् ।।३३।।
यमः प्राह यथाकर्म कर्तव्यं मेऽवशिष्यते ।
विषादं त्यज राजेन्द्र गहना कर्मणां गतिः ।।३४।।
कुरुक्षेत्रादधिकं वै पुण्यं स्यान्नार्मदे स्थले ।
कलां नार्हन्ति तीर्थानि सार्धं कल्पगया क्वचित् ।।३५।।
कर्मसाक्षी तु सर्वेषां यथान्यायं करोमि हि ।
स राजा विस्मयापन्नो द्रुतं नत्वा यमेश्वरम् ।।३६।।
नर्मदां स्नातुकामश्च कपिलासंगमं प्रति ।
आययौ संगमे सस्नौ दिव्ययानं हि भूभृतः ।।३७।।
तदा तूर्ध्वं गतं पूर्णे विष्णुलोकं सनातनम् ।
एतादृशं परं पुण्यप्रदं तीर्थं हि नार्मदम् ।।३८।।
भुक्तिमुक्तिप्रदं पापक्षालकं कमले प्रिये! ।
जना पापा अपि यान्ति मुक्तिं रेवाजलाप्लवात् ।।३९।।
तीर्यते विष्णुधर्मेण संसाराब्धिः सुदुस्तरः ।
रक्ता मूढाश्च लोका वै प्रवर्तन्तेऽतिपापके ।।1.569.४० ।।
ते नात्मानं विजानन्ति न कृष्णं नहि देवताः ।
न शृण्वन्ति परं श्रेयः सति चक्षुषि नेक्षते ।।४१ ।।
समे पथि शनैर्यान्तो प्लवन्ते स्म पदे पदे ।
यममुक्ता अपि जीवा न जानन्ति प्रबोधिताः ।।४२।।
क्लिश्यन्ते ते वृथा नानारागलोभवशा नराः ।
दृष्ट्वा गर्भखनिं कष्टां प्रत्यक्षां त्रासबोधिनीम् ।।४३ ।।
मोक्षमार्गं न बुद्ध्यन्ति तेषां रेवा विमुक्तिदा ।
प्रेतभूता प्रजाः सर्वा यमलोकाधिकारिकाः ।।४४।।
शिवः प्राह शणु शैले! पुराख्यानं वदामि ते ।
सूर्येण कथितं त्वासीत्पुराख्यानं तु नार्मदम् ।।४५ ।।
यमाय निजपुत्राय लोकतारणहेतवे ।
आश्रयेन्नर्मदां देवीं सप्तकलावहां सतीम् ।।४६ ।।
स्नानावगाहनात्पानात् तथा दानक्रियादिभिः ।
धामदा मोक्षदा स्वर्गप्रदा श्रेयःप्रदा हि सा ।।४७।।
ध्यायमाना नर्मदा पापिनां पापविनाशिनी ।
संस्मृता कीर्तिता नाम्ना स्वर्गदा याम्यवारिणी ।।४८।।
नर्मदे नर्मदे चोक्त्वा पापो याम्यं न पश्यति ।
नरकस्थोऽपि रेवां स हरिं हरं स्मरेद् यदि ।।४९।।
मुच्यते यमदूतैः स तत्क्षणान्नात्र संशयः ।
वैदूर्यपर्वतः ऋक्षस्तथा चामरकण्टकः ।। 1.569.५ ० ।।
ओंकारो नर्मदा चैते भुक्तिमुक्तिफलप्रदाः ।
सिद्धेश्वरं च यज्ञेशं मध्यस्थं शशिभूषणम् ।।५ १ ।।
कपिलेशं चतुर्थं तच्छिवक्षेत्रं प्रमुक्तिदम् ।
तेषां पूजां प्रकुर्वन्ति पुष्पधूपाऽऽर्त्तितर्पणैः ।। ७। २ ।।
शिवलोकं तु ये यान्ति शाश्वतं पदमैश्वरम् ।
गोदानं हेमदानं च तिलदानं तथैव च ।।२३ ।।
अन्नदानं पयोदानं सर्वोपस्करमित्यपि ।
प्रासादाऽऽरामदानं च ददाना यान्ति मोक्षणम् ।।५४।।
यमलोकं न ते यान्ति भक्ता भगवतो ननु ।
लोको विचारणीयोऽयं मिश्रितो वर्तते सदा ।। ५१५।।
सन्मानं चापमानेन वियोगे नेष्टसंगमः ।
यौवनं जरया ग्रस्तं सौख्यं कष्टादुपद्रुतम् ।।५६ ।।
बलिभिः पलितैश्चापि जर्जरीकृतविग्रहः ।
स्त्रीपुंसोर्यौवनं रूपं यदन्योन्यं प्रियंकरम् ।। ५७ ।।
तदेव जरया ग्रस्तमुभयोरपि न प्रियम् ।
अपूर्ववत्तथात्मानं शैथिल्येन समन्वितम् ।।५८ ।।
यः पश्यन्न विरज्येत कोऽन्यस्तस्मादचेतनः ।
जराऽभिभूतः पुरुषः पत्नीपुत्रादिबान्धवैः ।।५९।।
अशक्तत्वाद् दुराचारैर्भृत्यैश्च परिभूयते ।
धर्ममर्थं च कामं च मोक्षं न जरया युतः ।।1.569.६ ० ।।
शक्तः साधयितुं तस्माच्छीघ्रं धर्म समाचरेत् ।
वातपीतकफादीनां वैषम्यं व्याधिमण्डलम् ।।६ १ ।।
देहे तिष्ठति नित्यं वै बहुदुःखकरं मुहुः ।
दुःखानि स्वात्मवेद्यानि किं तत्र वेद्यते परैः ।।६२।।
एकोत्तरं मृत्युशतं हे नित्यं प्रवर्तते ।
तत्रैकं कालरूपं च शेषास्त्वागन्तुकाः स्मृताः ।।६३ ।।
कालः प्रतिक्षणं देहं क्षपयत्येव शान्तिमान् ।
आगन्तुकाः क्षपयन्ति तत्त्वानि हि प्रतिक्षणम् ।।६४।।
आगन्तुका मृत्यवस्तु नात्यन्तं मारयन्ति वै ।
भेषजादिप्रतिस्पर्द्धिसाधनैर्विद्रवन्ति ते ।।६५।।
कालमृत्युः क्षणाद्यात्मा महाकालात्मकस्तथा ।
जपहोमप्रदानाद्यैर्भैषजैश्च न शाम्यति ।।६६ ।।
अपमृत्युस्तु देहस्य विषमद्यादिसंभवः ।
सर्वेषां जलपातादिवह्निपातादिसंभवः ।।६७।।
क्षयं करोति वृष्ट्यादि कीटानां जलपूरतः ।
ज्ञाताऽयं पुरुषो नित्यमपमृत्योर्बिभेति च ।।६८।।
विविधा व्याधयः कष्टाः सर्पाद्याः प्राणिनोऽपि च ।
विषाणिनोऽभिचाराश्च मृत्योर्द्वाराणि देहिनाम् ।।६९।।
आवृतं रोगसर्पाद्यैरपि धन्वन्तरिः स्वयम् ।
स्वस्थं कर्तुं न शक्नोति कालग्रस्तं हि देहिनम् ।।1.569.७० ।।
नौषधं न तपो दानं न मित्राणि न बान्धवाः ।
परित्रातुं समर्था नो कालग्रस्तं प्रवासिनम् ।।७१ ।।
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमो रिपुः ।
नास्ति मृत्युसमः कालो देहिनां सुखमानिनाम् ।।७२ ।।
सद्भार्यासुतमित्राणि राज्यैश्वर्यसुखानि च ।
मृत्युश्छिनत्ति सर्वाणि वार्यमाणोऽपि वेगतः ।।७३ ।।
इद्ं तै कथितं पुत्र धर्मराज मयाऽर्थवत् ।
परिणामे भवेत् सर्वं सर्वथा कालभोजनम् ।।७४।।
तस्मात् सर्वप्रयत्नेन सेव्या नारायणी सृतिः ।
सर्वदुःखहरा रेवा सर्वशोकविनाशिनी ।।७५।।
यान् यान् कामयते कामान् तांस्तान् रेवा प्रयच्छति ।
ज्ञानं ध्यानं चाध्ययनं रेवासेवनमेव तत् ।।७६।।
यज्ञो दानं तपः सत्यं लक्ष्मि! रेवाम्बुसेवनम् ।
ब्रह्मकूर्चसहस्राणि रेवातोयसमानि न ।।७७।।
गोदानं तत्र वै दत्तं गोमेधायुतपुण्यदम् ।
शशांकोऽभूत् पुरा राजा नर्मदातीरमाश्रितः ।।७८।।
दानं यज्ञं तपश्चक्रे पर्वतेऽमरकण्टके।
ददौ चार्धप्रसूतां गां ब्राह्मणाय महात्मने ।।७९।।
दानस्याऽस्य प्रभावेण दिव्यूर्ध्वयायानगोऽभवत् ।
यावद्वत्सस्य पादौ द्वौ मुखं योनौ प्रदृश्यते ।।1.569.८० ।।
तावद्गौः पृथिवी ज्ञेया सशैलवनकानना ।
स्वर्णशृंगी रूप्यखुरी सवत्सा कांस्यदोहना ।।८ १ ।।
नर्मदास्नानयुक्ता च सकुशा तिलसंयुता ।
ओंकाराऽमरयोर्मध्ये कोटितीर्थे शशांककः ।।८२।।
एताः सहस्रसंख्याका ब्राह्मणेभ्यो ह्यकल्पयत् ।
स राजा दानपुण्येन दिव्ययानेन वै दिवि ।।८३ ।।
राजते तु तदा नेदुर्देवदुन्दुभयो दिवि ।
तत्क्षणे यानमारूढो हरिश्चन्द्रोऽपि भूपतिः ।।८४।।
कुरुक्षेत्रे गोसहस्रं दत्वा यानेन चाययौ ।
धृतस्वर्णातपत्रस्तु वीज्यमानश्च चामरैः ।।८५।।
योजनानां सहस्रेण हरिश्चन्द्रो ह्यधःस्थितः ।
एवं दृष्ट्वा निम्नभावं जगामाऽजं स सत्वरम् ।।८६ ।।
विषण्णवदनोऽपृच्छत् पितामहं तु कारणम् ।
मया तु कौरवे क्षेत्रे दानं दत्तमनन्तकम् ।।८७।।
शशांकेन तु रेवायां दानं दत्तमनन्तकम् ।
कथं पुण्यं नार्मदं तु कुरुक्षेत्राद् विशिष्यते ।।८८।।
येनाऽहमस्मि निम्नस्थो हरिश्चन्द्रः समूर्ध्वगः ।
श्रुत्वा ब्रह्मा हरिश्चन्द्रं प्राह मा खेदमावह ।।८९।।
शशांकेन पुरा सूर्यग्रहेऽद्र्यमरकण्टके ।
अनेकानि सहस्राणि कृतानीष्टानि भूपते ।। 1.569.९ ०।।
अन्यतः सर्वतीर्थानि चैकतोऽमरकण्टकम् ।
तोलितं च मया पूर्वममरेशो विशिष्यते ।। ०११ ।।
सेव्यतां कल्पगा देवी यदिच्छेत्परमं पदम् ।
हरिश्चन्द्रस्ततो नत्वा ययावमरकण्टकम् ।। ९२।।
नर्मदायास्तटे द्रव्यं धनं गाश्च ददौ तदा ।
अथ पुण्योदयेनाऽस्य विमानं चोर्ध्वगं ह्यभूत् ।। ९३ ।।
तदा सन्तोषमापन्नः कृत्वा राज्यं चिरं ततः ।
ययौ वैकुण्ठमेवाऽयं नर्मदायाः प्रभावतः ।। ९४।।
यद्यप्यनेन दत्तानि कौरवे च बहून्यपि ।
दानानि तत्फलं नैव नार्मदेन समं ह्यभूत् ।। ९५।।
एवं वै नार्मदं तीर्थं सर्वश्रेयस्करं परम् ।
भुक्तिदं मोक्षदं चापि कोटितीर्थसमन्वितम् ।। ९६।।
एतत्सर्वं समाख्यातं शिवायै शंकरेण ह ।
मया तुभ्यं महालक्ष्मि! प्रोक्तं तन्नार्मदं फलम् ।। ९७।।
यः शृणोति जनो लक्ष्मि गोसहस्रफलं लभेत् ।
पठनाच्छ्रवणात्स्मृतेर्लभेद्वै तादृशं फलम् ।। ९८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कुवलयाश्वमुचुकुन्दविमानवैषम्ये हरिश्चन्द्रशशांकविमानवैषम्ये नर्मदामरकण्टकमाहात्म्याधिक्यादिकथननामैकोनसप्तत्यधिकपञ्चशततमोऽध्यायः ।।५६९ ।।