लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५५५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५५४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५५५
[[लेखकः :|]]
अध्यायः ५५६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततः शंभुः पार्वतीं प्राह चार्बुदे ।
तीर्थान्यन्यानि ते वच्मि पापनाशकराणि हि ।। १ ।।
तत्राऽऽस्ते चण्डिकातीर्थं विप्रैश्चण्डी समर्चिता ।
स्थापिता वेदमन्त्रैश्च महिषासुरनाशिनी ।। २ ।।
अर्बुदे जाह्नवीकुण्डं शिखरे विद्यते शुभम् ।
यत्र गंगा शंकरेण लभते वत्सरान्तरे ।। ३ ।।
सहयोगं तु सेवायां वरदानेन चार्बुदे ।
अथाऽचलेश्वरं तीर्थं शैवं तत्र च विद्यते ।। ४ ।।
यत्र पूर्वे पापचारः कुष्ठक्षामतनुर्नरः ।
भिक्षार्थमागतस्तत्र सक्तूभिक्षामवाप सः ।। ५ ।।
कुडवे न्यस्य रात्रौ स सुप्तस्तत्र क्षणं यदा ।
तावत् श्वा प्रसमागत्य भक्षयामास सक्तुकम् ।। ६ ।।
अन्ये श्वानः समागत्य शुना कुर्वन्ति विग्रहम् ।
उन्निद्रः सोऽभवच्छ्रुत्वा सक्तूनाशं ददर्श च ।। ७ ।।
ततो वै केवलं वारि पीत्वा स्नात्वा द्रुमान्तिके ।
सुष्वाप च ततः प्रातश्चोन्निद्रः स बभूव ह ।। ८ ।।
यावत् पश्यति चात्मानं देवगन्धर्वसन्निभम् ।
जलस्नानप्रपानादेः प्रतापं ज्ञातवाँश्च सः ।। ९ ।।
अथ कालान्तरे दैववशात् स निधनं गतः ।
ततो जातिस्मरो जातो विदर्भाधिपतेर्गृहे ।। 1.555.१ ०।।
भीमो नाम नृपश्रेष्ठो दमयन्तीपिता हि सः ।
शुने सक्तूप्रदानस्य फलं राज्यमवाप सः ।। ११ ।।
गत्वा तत्र ददात्येव सक्तून् वै प्रतिवासरम् ।
पप्रच्छुर्गालवाद्यास्तं कथं सक्तून् ददासि वै ।। १२।।
हस्त्यश्वरथदानानि दीयन्ते न कथं त्वया ।
स तदा कथयामास प्राग्भवस्याऽद्भुतं फलम् ।। १३।।
सक्तूदानप्रभावेण राज्यं प्राप्तं यतो मया ।
सक्तवो मम वै तीर्थे श्वभिस्तत्र हि भक्षिताः ।। १४।।
मया स्नानं तथा पीतं जलं पुण्यप्रदं ततः ।
क्षीणपापोऽभवं राजा करोमि सक्तुदानकम् ।।१५।।
ज्ञात्वा दानेन सक्तूनां फलं मे शाश्वतं भवेत् ।
तीर्थेऽत्र मुक्तिसंयुक्ते भक्त्या सक्तून् ददामि हि ।। १६।।
श्रुत्वा ते मुनयः सर्वे विस्मयं परमं गताः ।
साधु साधु परं राजन्नित्यब्रुवन् पुनः पुनः ।। १७।।
एतस्य पठनाद्वापि श्रवणादपि भूपतिः ।
भवेदत्र परत्रापि शाश्वतं सुखमाप्नुयात् ।। १८।।
कुलसन्तारणं तीर्थं वर्तते चार्बुदाचले ।
पुरा त्वासीत् पापकर्मरतश्चाऽप्रस्तुताभिधः ।।१ ९।।
नृपः सत्कारशून्यश्च ज्ञानदानविवर्जितः ।
न्यायतोऽन्यायतो वापि करोति धनसंग्रहम् ।।1.555.२० ।।
ततो वार्धक्यमापन्नो वृद्धैरन्यैश्च बोधितः ।
कुरु राजन् धर्मकार्यं मरणादौ शुभं भवेत् ।।२१ ।।
राजा प्राह बलं धर्मो बलेन च कृतं मया ।
धनं राज्यं दारगृहं तथाऽन्यत्त्वर्जितं बहु ।।२२।।
नाऽस्माच्चाऽस्ति परो धर्म इन्द्रियतृप्तिदात् परः ।
इत्युक्ता मौनमादाय ययुः स्वं स्वं निकेतनम् ।।२३।।
अथाऽन्ते तस्य पितरो दुःखिता ऊचुरेव तम् ।
वयं शुद्धसमाचारा दानधर्मपराः पुरा ।।२४।।
पुण्यैः स्वर्गं गताश्चाद्य कुपुत्रेण निपातिताः ।
त्वं तु कुपुत्रः सञ्जातो धर्मकार्यविवर्जितः ।।२५।।
ततश्चोद्धर नः सर्वान् कृत्वा किञ्चिच्छुभार्जनम् ।
कर्मभिस्तव पापात्मन् वयं नरकमाश्रिताः ।।२६।।
नरकं दश यास्यन्ति भविष्याश्च त्वया युताः ।
श्रुत्वा राजा परं दुःखमवाप प्राह योषितम् ।।२७।।
पत्नी प्राह तथा श्रुत्वा पितॄनुद्धर शोभनैः ।
राजा विप्रान् समाहूय पितृमेधं चकार ह ।।२८।।
तीर्थयात्रां तथा चक्रे चार्बुदेऽपि समागतः ।
कुलसन्तारणं प्राप्य स्नानं तत्र चकार सः ।। २९।।
जलाञ्जलीन् ददौ स्मृत्वा पितॄन् पितामहादिकान् ।
विमुक्ताः पितरो रौद्रान्नरकात्सुप्रहर्षिताः ।।1.555.३ ०।।
ततो दिव्यविमानस्था दिव्यमालाम्बरान्विताः ।
तमूचुस्तारिताः सर्वे वयं पुत्र त्वयाऽधुना ।।३ १ ।।
यस्मात् कुलं त्वया पुत्र तीर्थेऽस्मिँस्तारितं ततः ।
कुलसन्तारणं नाम तीर्थमेतद् भविष्यति ।।३२।।
आगच्छ त्वं स्वपुत्राय वसवेऽर्पय्य भूधुरम् ।
दिवं प्रतीति संश्रुत्वाऽप्रस्तुतं स्वधुरं सुते ।।३३।।
दत्वा पितृविमानं च समारुह्य गतो दिवम् ।
एषः प्रभावस्तीर्थस्य मया ते कथितः प्रिये ।।३४।।
ततो गच्छेत् परं तीर्थं पर्शुरामाश्रमात्मकम् ।
तपस्तप्तं यत्र तेन प्राप्तान्यस्त्राणि शंकरात् ।।३५।।
रामतीर्थमिति ख्यातं पापतापप्रणाशनम् ।
तत्र वारिह्रदे स्नात्वा भुक्तिं मुक्तिमवाप्नुयात् ।।३६।।
ततो गच्छेद् ब्रह्मपदं तीर्थं परमशोभनम् ।
पुरा ब्रह्माऽर्थितो विप्रैर्मोक्षदं देहि वस्तु नः ।।३७।।
ब्रह्मा प्राह ददाम्येव पदं मे तस्य पूजनात् ।
जनानां मोक्षणं स्याच्चरणारविन्दसेवनात् ।।३८।।
स्पृशन्तु ऋषयः सर्वे देवाश्चापि पदं मम ।
पूजयिष्यन्ति संप्राप्ते कार्तिके पूर्णिमादिने ।।३९।।
तोयैः फलैश्च कुसुमैर्गन्धभोज्यानुलेपनैः ।
ते यास्यन्ति न सन्देहो मम लोकं सुदुर्लभम् ।।1.555.४०।।
पितामहपदं चार्च्य भुक्तिमुक्तिप्रदं हि तत् ।
तत्र वै वर्तते मुख्यं पुष्करं त्रिविधं प्रिये ।।४१ ।।
पद्मजस्य सदाऽभीष्टं ब्रह्मणा च पुरा कृतम् ।
वशिष्ठाद्या ऋषयो वै पुरा सत्रं समाचरन् ।।४२।।
ब्रह्मा तु सत्यलोकाद्वै यज्ञे तत्र समागतः ।
त्रिसन्ध्यार्थं प्रगन्तव्यं सत्यलोके पुनः पुनः ।।४३ ।।
ब्रह्मणा मुनिभिश्चापि विचार्यैव च लाघवम् ।
सत्यलोकात् समानीतं पुष्करं चार्बुदाचले ।।४४।।
यावत् सत्रं चार्बुदे वै सन्ध्या तेषां बभूव ह ।
तत्राऽन्यानि पुष्कराणि समाजग्मुस्तदा भुवि ।। ४५।।
उत्तमं पुष्करं व्योम्नि मध्यमं शिखरोपरि ।
तृतीयं तु पृथिव्यां वै सरोवरमभूत्तथा ।।४६।।
कार्तिके पूर्णिमायां ये स्नानं कुर्वन्ति भावतः ।
तेषां लोकाः शाश्वताश्च स्वर्गाद्या अपि भोगदाः ।।४७।।
तत्रोत्तरे च सावित्रीकुण्डं वै पापनाशनम् ।
ब्रह्मणः प्रतिमा रम्या दर्शनान्मोक्षदायिनी ।।४८।।
धुन्धुमारोऽभवत् पूर्वं भक्तः श्रीशंकरस्य ह ।
उमामहेश्वरस्तेन स्थापितो भवनाशनः ।।४९।।
तं देवं परिपूज्यैव निमितीर्थं समाचरेत् ।
यत्र वै निमिना राज्ञा वार्धक्ये चार्बुदाचले ।।1.555.५०।।
लोमशोऽपि तदा तत्र बह्वर्षिभिः समागतः ।
ब्रह्मयज्ञः कृतस्तत्र विष्णुयागश्च वर्तितः ।।५१ ।।
रुद्रयागः कृतश्चापि संहितायाः कथा कृता ।
महोत्सवे समस्तानि जम्बूद्वीपगतान्यपि ।।५२।।
तीर्थानि त्वाययुस्तत्राऽवभृथार्थं जलाशये ।
जम्बूतीर्थं तु तज्जातं प्रत्ययार्थं द्रुमस्तथा ।।५३।।
जम्बूवृक्षोऽभवत्तत्र दिव्यो द्राक् संव्यजायत ।
तत्र स्नानं निमिश्चक्रे सर्वतीर्थमये ततः ।।५४।।
सदेहः स गतः स्वर्गं दिव्यो भूत्वा सुरोपमः ।
एतत् सर्वं त्वर्बुदस्य माहात्म्यं पार्वति! तव ।।५५।।
समाख्यातं मम स्थानमयं पुण्यप्रदं प्रिये ।
अर्बुदस्तु स्वयं तीर्थं तत्र तीर्थानि कोटिशः ।।५६।।
वसन्ति च निवत्स्यन्ति गुणकर्मादिभिः सताम् ।
पार्वति! ते प्रसंगेन श्रद्धया च मयाऽपि वै ।।५७।।
कृतानि बहुतीर्थानि धन्योऽहं वै त्वया प्रिये! ।
यस्य पत्नी देवपरा भक्तिमती परेश्वरे ।।५८।।
धर्मकार्ये समुत्साहा सश्रद्धा पुण्यकर्मणि ।
आतिथ्येऽतिप्रसन्ना च सत्सेवायां शुभादरा ।।।५९।।।
आत्मकार्येऽतिवेगा च ज्ञाने प्रेमवती सदा ।
यशस्येवाऽनुसन्धानवती जपपरायणा ।।1.555.६०।।
तपःशौचादिसंयुक्ता होमयज्ञपरायणा ।
भर्तृदेवा पितृदेवा भृत्यरक्षाकरी तथा ।।६ १ ।।
गोभूब्राह्मणसाधूनां साध्वीनां मानकारिणो ।
सर्वभूतात्मभूतस्य नारायणस्य किंकरी ।।६२।।
क्षमया पृथिवीतुल्या वैराग्ये वृक्षसदृशी ।
सौशील्ये ब्रह्मतुल्या च सेवने स्नेहपात्रिका ।।६ ३ ।।
सहाये स्तम्भवन्नित्यं दाने चात्मसमर्पिणी ।
परलोके सहाया च धन्यस्तस्य गृहाश्रमः ।।६४।।
स एव साधुरत्रोक्तो यस्य पत्नी पतिव्रता ।
यस्य नास्ति तथा पत्नी न स साधुः स पापवान् ।।६५।।
यस्य पत्नी कटु वक्ति क्रूरं चक्षुः करोति च ।
करोति रोषवद् वक्त्रं मानसं न ददात्यपि ।।६ ६।।
धिक् तस्य जीवनं लोके निरयश्चात्र तस्य वै ।
यस्य गृहे न वै पुण्यं नास्ति सेवा तु शार्ङ्गिणः ।।६७।।
नास्ति भोज्यसमुत्साहो नास्ति वस्त्रादि शोभनम् ।
नास्ति प्रेममयी वाणी नास्ति स्नेहावलोकनम् ।।६८।।
नरे नार्यां च वाऽपत्ये तस्य जन्म निरर्थकम् ।
धन्योऽहं कृतकृत्योऽहं यस्येदृशी सती प्रिया ।।६९।।
त्वयाऽस्मि सर्वदा धन्यो विरक्तो रक्तया सह ।
उद्वेगं स्त्रीकृतं लब्ध्वा यान्ति त्वन्ये वनान्तरम् ।।1.555.७०।।
न तेषां वनवासेन सिद्धिर्भवति तादृशी ।
यादृशी स्त्रीप्रसादेन गृहस्थस्याऽपि संभवेत् ।।७ १।।
अबलानामनाथानां बालानां रोगिणां तथा ।
दरिद्राणां क्षुधितानां तृषितानां विवस्त्रिणाम् ।।७२।।
निराश्रयाणां लोकानां सतां सतीनां योगिनाम् ।
आशीर्वादाः फलन्त्यत्र द्रुतं सिद्धिप्रदा हि ते ।।७३ ।।
यत्र देव्यो रमण्यश्च मोदन्ते गृहमेधिनाम् ।
तत्र लक्ष्मीः सम्पदश्च स्वर्गं मोक्षोऽस्ति धर्मिणाम् ।।७४।।
यत्र सर्वविधा शान्तिर्निर्वृत्तिर्विद्यतेऽनिशम् ।
तत्र मोक्षो भवत्येव धन्योऽहं तादृशो गृही ।।७५।।
यो गृहस्थो दिवारात्रं धनं त्वर्जयति ध्रुवम् ।
भारवाही न जानाति रक्षणं स्त्रीकुटुम्बिनाम् ।।७६।।
भोजनं चासनं वस्तुयोजनं तूत्सवादिकम् ।
धनं तस्य निरर्थं वै निःश्वासदग्धमेव तत् ।।७७।।
यद्धनं नैव देवानां गृहस्थानां कुटुम्बिनाम् ।
वंश्यानां च निजानां च भोग्यं तन्मृत्तिकासमम् ।।७८।।
यः पतिर्न प्रसन्नोऽस्ति हास्याननो न दृश्यते ।
प्रसन्नशब्दः प्रेमाढ्यः स्नेहनेत्रो न दृश्यते ।।७९।।
समानहृदयो नास्ति नास्ति भावयुतस्तथा ।
नाऽनुग्रहं विधत्ते च न चाऽऽवश्यकतां चरेत् ।।1.555.८० ।।
न रमेत रमयेद्वा न च ध्यानं करोति च ।
न चाह्वयति मिष्टेन नाऽऽकारयति वै हृदा ।।८१ ।।
न वा मिष्टं भोजयेद्वा पाययेन्मधुरं न च ।
मधु सम्मेलयेन्नैव मिलत्येव न निर्जने ।।८२।।
न च स्पृशति सौख्यार्थं स्मरेन्नैव शुभस्थले ।
न पृच्छेद् गृहिणीभावं मानसं न च रञ्जयेत् ।।८३।।
किं तेन पतिना लोके वृथा तस्या जनुर्भुवि ।
तस्माद् देवि! त्वया रक्ष्यो वैराग्ये संस्थितोऽप्यहम् ।।८४।।
त्वयैव मम गार्हस्थ्यं प्रकाशमेति सर्वथा ।
त्वया पूर्वं तपः कृत्वा मम मूल्यं प्रवर्धितम् ।।८५।।
त्वया दग्ध्वा सतीदेहं देवत्वं मम वर्धितम् ।
त्वया दैत्याँस्तथा हत्वा स्वामिश्रैष्ठ्यं प्रकाशितम् ।।८६।।
त्वया पुत्रौ गणस्कन्दौ दत्त्वा मे पूज्यता कृता ।
त्वयैव देवि गार्हस्थ्यं स्वर्गे मोक्षो वनेऽपि मे ।।८७।।
त्वयैव देवि तीर्थानि कृतान्यद्य मया भुवि ।
गमिष्यामोऽधुना नैजं कैलासं वद किं परम् ।।८८।।
यद्यत् ते रोचते हैमि! वद सम्पादयेप्सितम् ।
इत्युक्त्वा विररामाऽसौ शंकरो लोकशंकरः ।।८९।।
इत्येवं कथितं लक्ष्मि! तुभ्यं चार्बुदतीर्थकम् ।
पापतापहरं मोक्षकरं शान्तिकरं परम् ।।1.555.९०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽर्बुदाचले चण्डिकातीर्थजाह्नवीकुण्डाऽचलेश्वरभीमतीर्थकुलसन्तारणतीर्थपर्शुरामतीर्थब्रह्मपदतीर्थत्रिपु-
ष्करसावित्रीकुण्डनिमितीर्थानां सोपाख्यानं वर्णनं, शिवकृता सतीप्रशंसा चेतिनिरूपणनामा पञ्चपञ्चाशदधिकपञ्चशततमोऽध्यायः ।। ५५५ ।।