लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५५४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५५३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५५४
[[लेखकः :|]]
अध्यायः ५५५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! हरः प्राह पार्वतीं तीर्थमण्डलम् ।
विश्वावसुस्तपस्तेपे सिद्धः शिवपरायणः ।। १ ।।
तुतोष नृपतेस्तस्य शंभुर्दर्शनमाययौ ।
वरं वृणु समुवाच सिद्धिं वव्रे हराच्च सः ।। २ ।।
सिद्धेश्वरं च तल्लिंगं तीर्थरूपं व्यजायत ।
शुक्रेश्वरं च शुक्रेण स्थापितं तीर्थमुच्यते ।। ३ ।।
शुक्रः श्रीशंकरात् प्राप्तस्तपस्तप्त्वाऽत्र दुष्करम् ।
विद्यां सञ्जीवनीं मृत्युञ्जयां सन्धायिनीं तथा ।। ४ ।।
तत्राऽस्ति निर्झरणं च जलस्य पावनं शुभम् ।
तत्र कुण्डे जनः स्नात्वाऽल्पमृत्युभयमुत्सृजेत् ।। ५ ।।
ततो गच्छेद् वालखिल्यतपःस्थानं सुपावनम् ।
तत्र कुण्डे जनः स्नात्वा दिव्यरूपधरो भवेत् ।। ६ ।।
किरातवनिता तत्र कुरूपाऽपि तृषान्विता ।
जलं पातुं ययौ दृष्ट्वा स्नानार्हं जलमुत्तमम् ।। ७ ।।
स्नात्वा यावद्बहिर्याति दिव्या देवी तदाऽभवत् ।
तस्याः पतिस्तु तां दृष्ट्वा पप्रच्छ काऽसि सुन्दरि! ।। ८ ।।
मम पत्नी समायाता कुण्डेऽत्र जलवाञ्च्छया ।
त्वया दृष्टा कृष्णवर्णा चेद् यदि वद देविके ।। ९ ।।
सा चोवाच निजं कान्तं तवैव दयिताऽस्म्यहम् ।
कुण्डस्नानप्रभावेण जाताऽस्मि देवकन्यका ।। 1.554.१० ।।
स्वामिस्त्वं स्नाहि कुण्डेऽत्र देवतुल्यो भविष्यसि ।
इत्युक्तः स्नानमकरोत् तावन्नष्टान्यघानि वै ।। ११ ।।
देहं त्यक्त्वा मृतिं यातो वनितापि पतिव्रता ।
पुनः स्नात्वा तनुं त्यक्त्वा विमानेन सुवर्चसा ।। १ २।।
देवकन्याभिराजुष्टा स्वामिना सह सुन्दरी ।
नमस्कृत्वा शुभं तीर्थं प्रययौ त्रिदिवं प्रति ।। १३ ।।
मणिकर्णाऽभिधा यत्र किराती मोक्षणं गता ।
माणिकर्णेश्वरः कुण्डं लिंगं तीर्थं हि तन्मतम् ।। १४।।
वालखिल्यास्तत्र नित्यं तिष्ठन्ति कुतुपे शुभे ।
तत्र सूर्यग्रहे स्नानं कुरुक्षेत्रस्य पुण्यदम् ।। १ ५।।
स्नाने यत्स्मरणं स्यात् तत्प्राप्यते नात्र संशयः ।
अथाऽपरं पङ्गुतीर्थं पङ्गुविप्रेण संस्थितम् ।। १६ ।।
च्यवनस्याऽन्वये पङ्गुनामा विप्रः कदाचन ।
शनैः शनैः समायातोऽर्बुदे सार्थस्य योगतः।।१७।।
एकं निर्झरमासाद्य तपस्तेपे सुदारुणम् ।
शिवभक्तिपरो वायुभक्षो होमजपक्रियः ।। १८।।
तस्य तुष्टो महादेवः साक्षात्तत्र समाययौ ।
चैत्रशुक्लचतुर्दश्यां वरदानं ददौ हरः ।। १ ९।।
याहि मोक्षं पङ्गुभावं विहाय दिव्यदेहवान् ।
स च मोक्षं गतो नत्वा पङ्गुतीर्थं हि तन्मतम् ।।1.554.२ ० ।।
यत्रोमासहितः शंभू राजते निर्झरान्तिके ।
स्नात्वा पीत्वा जलं याति मोक्षं शंभोः प्रसादतः ।।२ १ ।।
अथ चित्रांगदो राजा पुरा पापपरोऽभवत् ।
मृगयार्थं वनं यातोऽर्बुदे ह्रदसमीपतः ।।२२।।
जलपानाय च यातः स्नातस्तत्र ह्रदे तथा ।
अकस्मात्स धृतो राजा ग्राहेण भक्षितोऽपि च ।।२३।।
-२२८च्छ्रष्टपुच्छ्र यमराजश्च तान् प्राहाऽर्बुदे मत्तीर्थके स्थले ।।।२४।।
मृतोऽयं वै ह्रदे पुण्ये नाऽयं दण्डार्ह एव यत्। ।
यातु स्वर्गं सहस्राणि युगानां त्वेकविंशतिः ।।२५।।
यत्र पूर्वं मया तप्तं तपस्तत्र मृतो ह्यसौ ।
तत्र तीर्थे जनः स्नाता स्वर्गं प्राप्स्यति निश्चितम् ।।।२६।।।
यमतीर्थं हि तत्प्रोक्तं चित्रांगदविमुक्तिदम् ।
पुण्ड्रोदं च ततस्तीर्थं गच्छेत् पापप्रणाशकम् ।।२७।।
पुरा पुण्ड्रोदको नाम विप्रो वैराग्यमास्थितः ।
अर्बुदे निर्झरे रम्ये मर्तुकामः समाययौ ।।२८।।
एकस्मिन्नेव काले तु तत्रैव च सरस्वती ।
वीणाविनोदसंयुक्ता विविक्ते पथि संस्थिता ।।२९।।
उवाच ब्राह्मणं देवी वद किं तेऽस्ति वाञ्छितम् ।
स प्राह नास्ति मे बुद्धिरूपाध्यायैस्तिरस्कृतः ।।1.554.३०।।
न मे सरस्वती माता जिह्वाऽग्रे वर्तते यतः ।
मर्तुमिच्छामि चात्रैव येन श्रेयो भविष्यति ।।३१।।
माता प्राह प्रसादान्मे वाणी तेऽस्तु सदोत्तमा ।
विद्या वेदादिजन्यास्ते त्रासन्तां तर्कशोभनाः ।।३२।।
अद्यप्रभृति वाग्मी त्वमत्र लोके भविष्यसि ।
सारस्वतं शुभं तीर्थं पुण्ड्रोदाख्यं भविष्यति ।।।३ ३।।
त्रयोदश्यां स्नानकर्ता विद्वान् सम्यग् भविष्यति ।
एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ।।।३४।।।
पुण्ड्रोदको हि सर्वज्ञो भूत्वा त्वन्ते दिवं ययौ ।
ततो गच्छेन्नलतीर्थं श्रीमाता यत्र राजते ।।।२५।।
नलाख्ये शिखरे तत्र बाष्कलिर्नाम दानवः ।
पुराऽभवन्महाघोरस्तद्विनाशाय पार्वती ।।३६ ।।
श्रीमाता रूपिणी जाता हिताय जगतां सती ।
बाष्कलिं च जीवग्राहं गृहीत्वा मृत्युवर्जितम् ।।३७।।
पर्वतस्य महच्छृंगं नत्वा तस्योपरि स्वयम् ।
निविष्टा सा जगन्माता वसत्यालोकरक्षिणी ।।३८।।
तत्रैव पादुके दिव्ये तया न्यस्ते शुभे ततः ।
करोति तद्दर्शनं यः संसारं स न पश्यति ।। ३९।।
मत्पादुकाभराक्रान्तो बाष्कलिर्दैत्यपुंगवः ।
नाऽस्मात् स्थानाद् बहिः क्वापि निर्गत्योर्ध्वं गमिष्यति ।।1.554.४० ।।
चैत्रे चतुर्दशीरात्रौ पादुकापूजनं मम ।
कर्तव्यं गह्वरे तत्र निवत्स्याम्यणुरूपिणी ।।४१ ।।
अत्र तीर्थं करिष्यन्ति यै ते कैलासवासिनः ।
भविष्यन्ति न सन्देहश्चेत्युक्त्वाऽदृश्यतां गता ।।४२।।
ततो गच्छेच्छुंभनाशकरीं विन्ध्याचलीं सतीम् ।
अर्बुदे दिव्यरूपेण राजते सा शिवाज्ञया ।।४३।।
गुहामध्यं समासाद्य विविक्ते दुर्गमे स्थले ।
यस्तां पश्यति भावेन सर्वमीप्सितमाप्नुयात् ।।।४४।।
अथ पूर्वे तपस्तप्तं मंकिना ब्राह्मणेन वै ।
पूर्वं विप्रो महामूर्खः पर्वते महिषीं शुभाम् ।।४५।।
दुग्धदां रक्षयामास तथाऽन्या महिषीः पुनः ।
ताश्च विक्रीय भूक्षेत्रं वृषद्वयं च जगृहे ।।४६।।
वृषौ क्वचिद् धुरि न्यस्तौ तावदुष्ट्रः समागतः ।
आघ्राय तौ धुराकाष्ठे ग्रीवां प्रोतां चकार सः ।।४७।।
अथोष्ट्रः स भययुक्तो गले प्रालग्नगोधुरः ।
गोयुगेन हि ग्रीवायां लम्बमानेन वै तदा । ।४८।।
दुद्राव तेन तु वृषौ विप्राणो वै मृतौ ततः ।
मंकिर्वैराग्यमापन्नो निर्झरे चार्बुदाचले ।।४९।।
समाश्रित्य तपो घोरं चकार प्रजपन् हरिम् ।
मंकिः पिण्डारकः सोऽयं द्दर्श शंकरं पुरः ।।।1.554.५०।।।
तुष्टाव तं तथा मुक्तिं जगाम शंकरेच्छया ।
मंकेः पिण्डारकस्यैतत् स्थलं पिण्डारकं ततः । । ५१ ।।
ख्यातं पिण्डारकं तीर्थे स्नातव्यं त्वष्टमीतिथौ ।
देयं गोमहिषीदानं भुक्तिं मुक्तिं लभेत् ततः ।।५२।।
रक्ताबन्धं शुभं तीर्थं गच्छेत् ततोऽर्बुदाचले ।
पुराऽऽसीत् पार्थिवो नाम्ना इन्द्रसेनो महाबलः ।।५३ ।।
तस्य पत्नी सुनन्दाऽऽसीत् पातिव्रत्यपरायणा ।
राजा ययौ रणे योद्ध जीत्वा शत्रून् समागतः ।।५४।।
दूतं स प्रेषयामास राज्ञीं प्रति परीक्षया ।
सुनन्दां ब्रूहि गत्वा त्वम् इन्द्रसेनो हतो रणे ।।५५। ।
श्रुत्वा करोति कां चेष्टां विदित्वाकारमेव तु ।
मरणाय यदि यत्नं कुर्याद् रक्ष्या प्रयत्नतः ।।५६।।
इत्युक्तः स गतो दूतश्चोवाचापि यथोदितम् ।
सुनन्दाऽऽकर्ण्य शीघ्रं स्वप्राणान् जहौ निरुद्ध्य वै ।।५७। ।
हत्यापापं नृपे लग्नं हास्यपरीक्षयोत्थितम् ।
राज्ञो गुरुतरं कायं सालस्यं समपद्यत ।।५८।।
तेजोहीनं विवर्णं च प्रसन्नता विवर्जितम् ।
गृहमागत्य राजा स ज्ञात्वा तत् पर्यदेवयत्। ।।५९। ।
स्त्रीहत्याया विनाशार्थं ततस्तीर्थाय निर्ययौ ।
प्राप्तौ रक्तानुबन्धाख्यं तीर्थं चार्बुदपर्वते । ।1.554.६ ०। ।
तत्र स्नात्वा विनिष्क्रान्तो यावन्निजं प्रपश्यति ।
तावन्न दृश्यते छाया या लग्ना स्त्रीवधोद्भवा ।।६ १ ।।
सुरूपो वीर्यवान् जातस्तेजोवृद्धिः पराऽभवत् ।
तत्र तीर्थे तपस्तप्त्वा विसृज्य वर्ष्म योगतः ।।६२।।
आरुह्य दिव्ययानं च कैलासं प्रययौ द्रुतम् ।
प्राणिनामनुरक्तानां तारणं प्रकरोति तत् ।।६३।।
तीर्थं रक्तोद्धारकं तन्नाम्ना ख्यातं ततः सदा ।
विनायकं शुभं तीर्थं कुर्याद् विघ्नप्रशान्तये ।।६४।।
ततः पार्श्वेश्वरं तीर्थं गच्छेत् पापप्रणाशनम् ।
देवलस्याऽभवत्पत्नी पार्थाऽभिधा पतिव्रता ।।६५।।
तया तप्तं तपस्तत्र वन्ध्यात्वनाशहेतवे ।
साऽत्र ददर्श शंभुं वै पुत्रवरं ललाभ च ।।६६।।
पुत्रशतं ततः प्राप्तं शंकरस्य वरात् तया ।
यत्राऽस्ति निर्मलं तोयं गिरिगह्वरनिःसृतम् ।।६७।।
तीर्थस्याऽस्य विधानेन दारपुत्रादिकं लभेत् ।
मांमुञ्चह्रदतीर्थं च कर्तव्यं मोक्षकाङ्क्षिणा ।।६८।।
मुद्गलर्षिः पुरा तत्र तपस्तेपेऽतिदारुणम् ।
ओं नमः श्रीकृष्णनारायणेति जपन् सदा ।।६९।।
अर्बुदे त्रिषवणश्च बभूव क्षीणकल्मषः ।
तं तु नेतुं महास्वर्गं देवदूतः समागतः ।।1.554.७०।।
विमानस्थो मुनिं प्राहाऽऽरुहैतद् गम्यतां दिविं ।
इन्द्रेण प्रेषितश्चाऽस्मि शीघ्रमागच्छ मा चिरम् ।।७१ ।।
पप्रच्छ मुद्गलस्तं वै गुणान् दोषान् दिवस्तथा ।
श्रुत्वा यास्यामि चेन्मन्ये क्षमं स्वर्गं शुभं मम ।।७२।।
दूतः प्राह स्वकैः पुण्यैः प्राप्यते स्वर्जनै मुने! ।
मुनिः प्राह यर्थार्थं तत्फलं श्रावय मेऽनुग ।।७३।।
अश्रुतैस्तैर्न गच्छेयमिति मे हृदि निश्चितम् ।
चरिष्ये च तपो भूरि पूजयिष्ये नरायणम् ।।७४।।
दूतः प्राह गुणान् सर्वान् यौवनं सर्वथा समम् ।
नन्दनादीनि रम्याणि दिव्यदेववनानि च ।।७५।।
अनन्यसदृशा भोगाः सदा तृप्तिप्रदाः सुखाः ।
बुभुक्षा नैव न तृष्णा नाऽऽलस्यं नाऽपि निद्रिका ।।७६ ।।
देव्यो रम्याश्चैकरूपा भोगयोग्याः पुनः पुनः ।
गान्धर्वा गायनं नित्यं श्रावयन्ति च वाद्यजम् ।।७७।।
रमयन्ति गृहे रामा गीतनृत्यप्रहासनैः ।
न च रोगाः शरीरेषु पुष्टिस्त्वमृतसंभवा ।।७८।।
वीर्यं देहे पूर्णतत्त्वं ह्रासो यस्य न विद्यते ।
भोज्यं चामृतमेवाऽस्ति बहुधा स्वेच्छया कृतम् ।।१७९।।
वातपित्तकफादीनां संसर्गो देवतासु न ।
दुर्गन्धादि न विद्येत रूपं त्वेकप्रमाणकम् ।।1.554.८०।।
वृद्धिह्रासौ त्वचां नास्ति मलं चापि न विद्यते ।
दिव्यदृष्टिर्दिव्यभोगा दिव्याम्बराणि सन्ति च ।।८१ ।।
व्योममार्गे गतिमन्तः सुराद्या विहरन्ति हि ।
विमानान्यप्यसंख्यानि मणिरत्नानि हीरकाः ।।८२।।
दिव्यास्तेजोमयाः सर्वे सौधे दीपा निसर्गजाः ।
चन्द्रकान्तिसमाऽऽव्याप्तं भवनं प्रतिदैवतम् ।।८३।।
दासा दास्यः सहस्राणि पेयरसाश्च कामदाः ।
कामचाराः कामभोगा मानसाः सृजिरूपिणः ।।८४।।
सहस्रयुगपर्यन्तं पराऽऽयुश्च ततोऽधिकम् ।
पुण्यानुरूपं स्वर्गं संभुज्यते भोगदेहिना ।।८५।।
यावत्पुण्यक्षयस्तावत् पश्चात् पातमवाप्नुयात् ।
एवं गुणाः प्रवर्तन्ते नोदरार्थं हि भृत्यता ।।८६।।
नूतनं पुण्यकं स्वर्गे जायते न कथंचन ।
तेन पातो भवेत् तस्मात् पुण्यक्षये दिवौकसाम् ।।८७।।
अयमेव महान् दोषः पतनं वै भयंकरम् ।
कर्मभूमिरियं ब्रह्मन् भोगभूमिर्दिवं मतम् ।।८८।।
यदत्र क्रियते श्रेष्ठं पुण्यं तत्रोपभुज्यते ।
दानवानां बले जाते क्वचिद्धरन्ति दानवाः ।।८९।।
गृहं दाराश्चोपवस्तून्यपि सर्वाणि वै बलात् ।
तदिदं दूषणं चापि परभुक्ताः स्त्रियोऽपि च ।।1.554.९०।।
तथा कोटिगुणितान् वै दृष्ट्वा पुण्यप्रभाविणः ।
बहुस्मृद्धानल्पपुण्यः पश्चात्तापं करोत्यपि ।।९ १।।
न च यैः सुकृतं भूरि कृतं तेऽल्पाः सुदुःखिनः ।
यन्न मर्त्ये प्रदत्तं तत्स्वर्गे न प्राप्यते क्वचित् ।।९२।।
तद् दुःखं तु महत् प्रोक्तं मानवे पूर्वकर्मवत् ।
एतत्ते सर्वमाख्यातं गुणदोषात्मकं दिवम् ।।९३।।
आगच्छ सुमुने! शीघ्रं यद्वेप्सितं वदाऽत्र मे ।
श्रुत्वा विचार्य तत्सर्वं मर्त्यवत् प्राह मुद्गलः ।।९४।।
यथा चात्र तथा तत्र धनदारगृहादिकम् ।
क्लेशस्य भाजनं चास्ति पतनस्य भयं तथा ।।९५।।
पुण्यहानिः सदा त्वास्ते वर्धनं न हि जायते ।
तेन स्वर्गेण मे दूत! नैव कार्यं कथञ्चन ।।९६।।
वाच्यस्त्वया ममाऽऽदेशाद् देवराजः स्फुटं वचः ।
क्षम्यतामपराधो मे न स्वर्गीया स्पृहा मम ।।९७।।
तत्कर्माऽहं करिष्यामि येन स्यात् पतनं न वै ।
साधयिष्यामि तान् लोकान् ये सदा भयवर्जिताः ।।९८।।
एवं श्रुत्वा मुद्गलं तं स दूतः स्वर्गनिस्पृहम् ।
ययौ शीघ्रं महेन्द्रं सम्प्राह विस्तारपूर्वकम् ।।९९।।
शक्रः श्रुत्वाऽथ तं प्राह बलादानय तं मुनिम् ।
स्वर्गभोगार्थकं पुण्यं नाऽभुक्त्वा क्षयमेष्यति ।। 1.554.१ ००।।
दूतः श्रुत्वा ययौ तत्र यत्र तिष्ठति मुद्गलः ।
विलोक्य मुद्गलः शीलं जलं विवेश योगतः ।। १०१ ।।
दूतः स जडवज्जातो मुनेर्दृष्ट्या विचेष्टकः ।
इन्द्रः स्मृतोऽथ दूतेन समायातः सुरेश्वरः ।। १ ०२।।
वज्रहस्तः स्थितो व्योम्नि मुनिं नेतुं समीहते ।
स्तम्भयामास चेन्द्रं तं दृष्टिपातेन मुद्गलः ।। १ ०३।।
तदा शक्रः स्तुतिं चक्रे भग्नोत्साहश्च मुञ्च माम् ।
स्वर्गे वा यदि वा मर्त्ये तिष्ठ त्वं मुञ्च मां मुने ।। १ ०४।।
मुद्गलः प्राह देवेन्द्र! दुर्लभं दर्शनं तव ।
याहि स्वर्गं सदूतस्त्वं स्थास्याम्यत्रैव चाऽनघ ।। १ ०५।।
भजिष्ये श्रीकृष्णनारायणं यास्येऽक्षरं पदम् ।
मां मुञ्चेति त्वया प्रोक्तं तीर्थं मांमुञ्चनामकम् ।। १ ०६।।
भवत्विदं सदा प्रख्यं तव शब्देन वज्रभृत् ।
फाल्गुने पूर्णमास्यां ये स्नास्यन्त्यत्र ह्रदे जनाः ।। १ ०७।।
तर्पयिष्यन्ति पितॄँश्च यास्यन्ति मोक्षणं हि ते ।
श्रुत्वैवं प्रययौ स्वर्गं दूतमादाय वज्रभृत् ।। १ ०८।।
मुद्गलोऽपि परंब्रह्म चिन्तयँस्तत्र संस्थितः ।
अनादिश्रीकृष्णनारायणं ध्वात्वाऽक्षरं ययौ ।। १ ०९।।
इत्याह शंकरो लक्ष्मि! पार्वतीं त्वर्बुदाचले ।
मया ते कथितं तद्वै मोक्षदं लोकपावनम् ।। 1.554.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सिद्धतीर्थशुक्रतीर्थमणिकर्णतीर्थपंगुतीर्थयमतीर्थपुण्ड्रोदतीर्थश्रीमातृविन्ध्याचलीमंकिपिण्डारकरक्तोद्धारपार्थामुद्गलमांमुञ्चतीर्थानां सोपाख्यानानां वर्णनं स्वर्गस्य गुणदोषनिरूपणं चेत्यादिनामा चतुःपञ्चाशदधिकपञ्चशततमोऽध्यायः ।।५५४।।