लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५५३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५५२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५५३
[[लेखकः :|]]
अध्यायः ५५४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! शंकरं त्वागतं श्रुत्वाऽर्बुदाचले ।
अगस्त्यस्तद्दर्शनार्थं दक्षिणात् समुपागतः ।। १ ।।
नत्वा शंभुं पूजयित्वा सुखासीनः शुभासने ।
शंभुना सत्कृतोऽगस्त्यः पप्रच्छ शंकरं ततः ।। २ ।।
चिरंजीवित्वमेवाऽत्र कथं स्यान्मे वद प्रभो! ।
शंभुः प्राह भज कृष्णनारायणं पुमुत्तमम् ।। ३ ।।
सौराष्ट्रे वर्तमानं वै काम्भरेयं रमापतिम् ।
विना भक्तिं हरेः क्वापि दिव्यत्वं नैव जायते ।। ४ ।।
विना च दिव्यभावेन चिरंजीवो न जायते ।
कालक्षयादिकं दिव्ये स्पृशत्येव न कर्हिचित् ।। ५ ।।
दिव्ययोगं विना दिव्यभावो नैव कदाचन ।
दिव्यो नारायणो विष्णुर्भूतभावन ईश्वरः ।। ६ ।।
तस्मिन् देहे प्रविष्टे च दिव्यता स्याद् विशेषतः ।
सिद्धयस्तत्र वर्तन्ते यत्र कृष्णनरायणः ।। ७ ।।
अहं वै शंकरो ब्रह्मा विष्णुश्चान्ये दिवौकसः ।
दिव्या नारायणांशेन तस्मान्नारायणं भज ।। ८ ।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
जप नित्य महामन्त्रं ध्यानं कुरु हरेः सदा ।। ९ ।।
जुहुधि श्रीकृष्णनारायणाय स्वामिने स्वाहा ।
प्रसन्नः सन् यथेष्टं ते दास्यत्येव स दिव्यताम् ।। 1.552.१ ०।।
 इत्युक्तोऽगस्त्यमुनिराड् ध्यानं चकार पूजनम् ।
वन्दनं स्मरणं नित्यं कृष्णनारायणस्य वै ।। ११ ।।
लोमशस्याऽऽश्रमे गत्वोवासाऽश्वपट्टके तदा ।
अथैकदा स मुनिराट् तीर्थार्थं काशिकां ययौ ।। १ २।।
व्योम्ना हिमगिरिं गत्वा प्रययौ मानसं सरः ।
कच्छपं मानसे दिव्यं ददर्श मुनिपुंगवः ।। १ ३।।
कमलानि सुदिव्यानि ददर्श कानकानि च ।
कच्छपेनाऽर्पितं दिव्यं कमलं स्वागते शुभम् ।। १४।।
तावत् स मुनिराट् तत्र बभूव दिव्यदृष्टिमान् ।
उड्डीय कच्छपं नत्वा ययाविलावृतं ततः ।। १५।।
मेरोः पार्श्वस्थिते खण्डे ददर्श सुसरोवरम् ।
तस्य तटे शुभा तेन दृष्टा काचिन्महाकुटी ।। १ ६।।
तत्रोपवासशिथिलो दृष्टस्तेन हि तापसः ।
अस्थिचर्मावशेषश्च चीरवल्कलकाम्बरः ।। १७।।
पृष्टश्च प्रतिपत्त्यर्थं कस्त्वं चेति महात्मना ।
स त्वगस्त्यं समुवाच स्थीयतां स्थीयतां द्विज ।। १८।।
आतिथ्यं गृह्यतां ब्रह्मन् प्रविश्यतां स्थलं मम ।
इति श्रुत्वा संप्रविष्टोऽगस्त्यः पर्णकुटीं च ताम् ।। १९ ।।
तावद्ददर्श पुरुषं विप्रं ज्वलन्तमीश्वरम् ।
भूमौ शुभासनस्थं प्राजपन्तं ब्रह्म शाश्वतम् ।। 1.552.२० ।।
स्वकरे मालिकां युञ्जन् ललाटे तिलकं दधन् ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।। २१ ।।
होममेवं प्रकुर्वन्तं प्रत्येकं मणिमाप्य च ।
वदन्तं मालिकान्ते च पौरुषं सूक्तमुत्तमम् ।। २२ ।।
एतादृशः स पुरुषो लक्ष्मीसूक्तमुवाच ह ।
सूक्तोत्तरं तु तत्कुट्यां कुण्डाद्वै पञ्चकन्यकाः ।। २३ ।।
निर्ययुः काञ्चनं सिंहासनं त्वेका ददौ तदा ।
द्वितीया जलपात्रेण पादप्रक्षालनं व्यधात् ।। २४ । ।
तृतीया व्यजनं धृत्वा मुनये पवनं ददौ ।
चतुर्थी पञ्चमी धृत्वा चामरे पक्षयोः स्थिते ।। २५ ।।
पुनः श्रीसूक्तमुच्चार्य कुट्यां स तापसो मुहुः ।
होमं चकार वै तावत् कन्यास्तु शतशः शुभाः । । २५ ।।
हेमकुंभकरास्तत्रोत्पन्नाः पार्श्वे सरोवरम् ।
वारुणेन च होमेन शीघ्रं तत्रैव निर्मितम् । । २७ ।।
तास्तु जलानि चानीय स्नापयामासुरेत्य तम् ।
वस्त्रेण मार्जनं चक्रुश्चालंकारान् ददुस्ततः । । २८ । ।
वस्त्राणि च द्दुः पूजां चक्रुर्नैवेद्यमुत्तमम् ।
जलं ददुस्ततस्ताश्चाऽन्तर्धान प्रययुः क्षणात्। ।। २९ । ।
अथाऽगस्त्यः समालोक्याऽऽश्चर्यं ध्यानं चकार ह ।
नेत्रे सम्मीलिते यावत् तावन्मेरुगिरौ निजम् ।। 1.552.३० । ।
उच्चशृंगे स्थितं मूर्ध्नि पश्यत्यात्मानमात्मना ।
पश्यति सागरान्सप्त तथैव कुलपर्वतान् ।। ३१ ।।
सप्तद्वीपवतीं पृथ्वीं द्दर्श मेरुसंस्थितः ।
दृष्ट्वा सर्वं पुनर्ध्यानं चकाराऽगत्त्यको मुनिः ।। ३२ ।।
भुवर्लोकं तथा स्वर्गं जनं सत्यं द्दर्श ह ।
ब्रह्मसभां च वैकुण्ठं द्दर्श तत्र वै स्थितः ।। ३३ । ।
तत्र ददर्श पुरुषं चतुर्बाहुं जनार्दनम् ।
उन्मील्य नेत्रे यावच्च बहिः पश्यति तावता ।। ३ ४।।
न वै मेरुर्न वै दिव्या कुटी नैव सरोवरम् ।
मानसं न सरश्चापि काशिकाऽपि न विद्यते ।। ३५ ।।
अश्वपट्टसरस्तीरे लोमशस्याऽऽश्रमे शुभे ।
अगस्त्यः स्वं ददर्शैव नैजे पर्णगृहे तदा । । ३६ ।।
तदारभ्याऽत्र लोके चागस्त्यस्य दिव्यता यथा ।
चिरंजावित्वमत्यर्थमैश्वर्याण्यतिगानि च ।। ३७ ।।
जातान्येव च तद्देशं कदा प्राप्स्ये पुनः शुभम् ।
इत्येव चिन्तयानोऽसौ शंभुं द्रष्टुं हिमाचलम् । । ३८ ।।
नरनारायणं द्रष्टुं मुहुर्याति नरायणम् ।
द्रष्टुं चापि श्वेतभूमिं सत्यलोकं पुनः पुनः । । ३९ । ।
तथापि च पुनर्नैव जायते तस्य दर्शनम् ।
इत्येवं शंकरः प्राह पार्वतीं तावदेव च ।।1.552.४० । ।
पुनरगस्तिरायातो दर्शनार्थं तमार्बुदम् ।
नत्वा शंभुं प्रणम्यैवोवाच जिज्ञासितं तदा ।।४१ ।।
भगवन् दिव्यलोकस्य पुरा दृष्टस्य वै मया ।
व्रतं तपो वा धर्मो वा प्रात्यर्थं साधने वद ।। ४२।।
शंकरः प्राह तच्छ्रुत्वा यत्ते लक्ष्मि! वदाम्यहम् ।
अनाराध्य हरिं भक्त्या तल्लोकाप्तिर्न वै भवेत्। ।। ४३ । ।
आराधिते हरौ लोका भवेयुर्वै करेऽखिलाः ।
यो यज्ञे त्विज्यते देवो यस्मात् सर्वमिदं जगत् ।।४४। ।
उत्पन्नं सर्वदा यस्मिन् लीनं भवति सामरम् ।
अनादि श्रीकृष्णनारायणो देवः परात्परः । । ४५ । ।
अक्षराधिपतिः श्रीमान् पूर्णः श्रीपुरुषोत्तमः ।
परिपूर्णतमः सोऽयं भजनीय सदा जनैः ।।४६ । ।
सकामैर्वापि निष्कामैः सवार्थदः स वै प्रभुः ।
चतुर्धात्माऽभवत्पूर्वं स एव पुरुषोत्तमः । । ४७ । ।
गोलोके श्रीकृष्णरूपो वैकुण्ठे स नरायणः ।
वासुदेवोऽव्याकृते च हैमे नरनरायणः ।। ४८ । ।
पुनश्चाऽयं चतुर्धा चाऽभवच्छ्रीपुरुषोत्तमः ।
सत्यलोकोत्तरे विष्णुर्विष्णुश्च क्षीरसागरे ।। ४९ । ।
श्वेतद्वीपे तथा विप्णुर्विष्णुरादित्यको दिवि ।
पुनश्चायं स भगवान् त्रिधात्मानं ससर्ज ह । । 1.552.५० । ।
सदाशिवं महाविष्णुं महाकालं च शाश्वतम् ।
पुनश्चायं स भगवान् त्रिधात्मानं ससर्ज ह । । ५१ । ।
अनिरुद्धं च प्रद्युम्नं संकर्षणं च शाश्वतम् ।
पुनश्चायं स भगवान् त्रिधात्मानं ससर्ज ह । ।५२ । ।
ब्रह्माणं राजसं रूपं सात्त्विकं विष्णुमेव च ।
तामसं रुद्ररूपं च सृष्टिपुष्टिविनष्टिकृत् ।। ५३ ।।
एक एव हि भगवान् कल्पे कल्पे प्रजायते ।
सृष्टौ सृष्टौ गोलकेषु स एवाऽसंख्यरूपधृक् । ।५४।।
यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्माऽसौ महेश्वरः ।
चत्वारो वा त्रयश्चैते तत्त्वं त्वेकं सनातनम् ।। ५५ ।।
मोक्षदं पररूपेण कार्यरूपेण भूतिदम् ।
सत्त्वेनात्मा शुद्ध्यति श्रीनारायणानुभावतः ।। ५६ ।।
शुद्ध्या वै मु्च्यते जन्तुः शुद्धिर्नार्यणाश्रया।
नारायणश्च भगवान् यज्ञरूपी विवर्तते ।।५७।।
कृते नारायणः शुद्धः सूक्ष्मरूप उपास्यते ।
त्रेतायां यज्ञरूपेण कथाभिर्द्वापरेऽर्चनैः ।।५८।।
कर्मभिर्बहुभिः कल्के कल्पितैरपि पूज्यते ।
इज्यते चेद् द्वेषबुद्ध्या चैतेषु रूपधारिषु ।।।५९।।
भेदबुद्ध्या ज्ञायते चेन्न मुक्तिस्तस्य वै क्वचित् ।
एकं ज्ञात्वा भजेद् यः स मुक्तः स्यान्नात्र संशयः ।।1.552.६ ० ।।
भेदं कृत्वा भजेच्चेकं परं नैव द्विषीत चेत् ।
पातिव्रत्यपरस्याऽस्य मुक्तिर्भवेन्न संशयः ।।६१ ।।
भेदं कृत्वा भजेच्चैकं निन्देदन्यं तु यो जनः ।
सर्वं नष्टं भवेत्तस्य दुर्गतिं स समाप्नुयात् ।।।६२।
इदं च शृणु मेऽगस्त्य! गदतः प्राक्तनं यथा ।
सृष्ट्यारंभे हरेर्भक्ता ह्यभवन् सृष्टिवासिनः ।।६३ ।।
सर्वज्ञा इव ते सर्वे धर्मस्था मोक्षभागिनः ।
चतुर्दशस्तरस्था वै यष्ट्वा श्रीपुरुषोतमम् ।।६४।।
मोक्षं क्रमात् प्रयान्ति स्म ततो ब्रह्मा हरिं प्रभुम् ।
सस्मार श्रीहरिश्चापि प्रादुर्भूतो हि सर्वगः ।।६५।।
उवाच ब्रूहि किं कार्यं ब्रह्मोवाच हरि ततः ।
देवदेव! जनः सर्वो मुक्तिमार्गे व्यवस्थितः ।।।६६ ।।
कथं सृष्टिर्हि भविता स्वर्गादिषु च को वसेत् ।
नारकेष्वेषु लोकेषु केषां वासे मनो भवेत् ।।६७।।।
एवमुक्तस्तदा श्रीमन्नारायणो जगाद् तम् ।
युगानि त्रीणि बहवो मामुपेष्यन्ति भागतः ।।६८।।
अन्त्ये युगे प्रविरला भविष्यन्ति महाशयाः ।
एष मोहं सृजाम्याशु यः सर्वान् मोहयिष्यति ।।६९।।
रुद्रश्च बहुरूपाणि तामसानि पुनः पुनः ।
भैरवादीनि चान्यानि पार्वत्यपि पराणि च ।।1.552.७० ।।
दैत्यानां नाशनार्थाय घोराणि धारयिष्यति ।
मद्यमांसादिलुब्धाश्च मोहिता वै शरीरिणः ।।७१ ।।
तानि चाश्रित्य वै सत्त्वमार्गहीना विमार्गगाः ।
भविष्यन्ति तथा वेदं त्यक्त्वा तामसमोहतः ।।७२।।
तन्त्राणि तामसान्येव हिंसाढ्यानि यथारुचि ।
करिष्यन्ति च तान्याश्रित्य ये द्वेषपरास्तदा ।।७३ ।।
भविष्यन्ति न वै तेषां मुक्तिर्निरयगामिनाम् ।
अथाऽह ब्रह्मणा प्रोक्तः कुरु मोहवचांसि वै ।।७४।।
यान्याश्रित्य जना लोके जन्मभागा भवन्तु हि।
तस्मादारभ्य कालात्तु मयाऽगस्त्य! कृतान्यपि ।।७7९ । ।
तामसानि च तन्त्राणि सकामानां प्रियाणि हि ।
तेषु चाभिरतो लोको बाहुल्येन व्यवस्थितः ।।७६ । ।
प्रवहत्येव संसारे मृतौ जन्मनि वै मुहुः ।
कल्के युगे जनाः प्राय आश्रयिष्यन्ति मानुषान् ।। ७७ । ।।
मत्वा तान् परमात्मानं निन्दिष्यन्ति शिवादिकान् ।
तेन पापेन ते सर्वे यास्यन्ति निरयान् ध्रुवान् ।।७८ ।। ।
गुरवो वञ्चयिष्यन्ति स्वयं मुग्धा हि मानवान् ।
निन्दारागैश्च विद्वेषैर्ममाऽहंकारदूषणैः ।।७९ ।।
कापट्यचौर्यविश्वासघातैः स्वार्थैर्निरन्तरम् ।
तेन पापेन गुरवो यास्यन्ति निरयान् बहून् ।।1.552.८ ० । ।
श्ववत् मान्या भविष्यन्ति लोकेषु गुरवो जनाः ।
यममार्गा याम्यलोकाः काशिष्यन्ते च तद्बलात् ।।८ १ ।।
तस्मादगस्त्य! लोकोऽयं काम्येन कर्मणा मया ।
बहुधा पूरितश्चास्ते मोक्षगस्तु क्वचित् क्वचित् ।।८२। ।
य एवं वेत्ति विप्रर्षे परं नारायणं प्रभुम् ।
सर्वात्मानं परंब्रह्म तथा नश्चाऽपरान् बहून् ।।८३- । ।
मुख्यतो गुणतश्चापि मोहस्तस्य न बाधते ।
पश्याऽगस्त्य! मयि ब्रहापरं रूपं सनातनम् ।।८४।।
एवमुक्तोऽगस्तिमुनिर्ददर्श शंकरं यदा ।
तत्र ददर्श व्रह्माणं ब्रह्मण्यन्तर्नरायणम् । ।८५ । ।
नारायणे परंब्रह्माऽनादिनं पुरुषोत्तमम् ।
ज्वलद्भास्वरवर्णाभं कोटिकन्दर्पसुन्दरम् । ।८६ । ।
एवं दृष्ट्वाऽगस्तिविप्रस्तुष्टाव परमेश्वरम् ।
भवान् विष्णुः परंब्रह्म कृष्णनारायाग प्रभो ।।८७। ।
विश-प्रवेशने धातुस्तत्र स्नुप्रत्ययादनु ।
विष्णुः स व्यापकः सर्वदेवादौ परमेश्वरः ।।८८ । ।
क्वचिद् ब्रह्मा क्वचिद् रुद्रो भवानेव परात्परः ।
विष्णुर्नारायणः शंभुर्ब्रह्मा कृष्णनरायणः ।।८९ । ।
एभिश्च नामभिर्ब्रह्मपरं प्रोक्तं सनातनम् ।
नास्ति भेदोऽवताराणामेकस्मिन्नवतारिणि ।। 1.552.९० ।।
योऽन्यथा भावयेदेतत् ते बोध्याः कलिधर्मिणः ।
ते यान्ति नरकं घोरं निन्दकाः पापपूरुषाः ।।९ १ । ।
एतादृशा भविष्यन्ति भेदका हि कलौ युगे। ।
मोहका वंचका लोके ज्ञानगोष्ठ्या विडम्बकाः ।। ९२ । ।
वदिष्यन्ति वयं सुज्ञा जानीमः परमं प्रभुम् ।
नान्ये जानन्ति तत्तत्त्वमवतारादिचिन्तकाः ।।९३ ।।
इत्येतेषां निन्दकानां हर्यवतारद्रोहिणाम् ।
क्षेत्राणि धर्मराजस्य नगर्यां कारितानि वै ।।९४।।
तेन बाह्यव्रते शुभ्रा हृदि कृष्णा विनिन्दकाः ।
द्रोहिणश्चावमन्तारो यास्यन्ति नरके ध्रुवम् ।। ९५।।
ब्रह्मणाऽहं पुरा सृष्टः प्रोक्तश्च सृज वै प्रजाः ।
अविज्ञानसमर्थोऽहं निमग्नः सलिले तदा ।। ९६ ।।
तत्राऽपश्यं सुपुरुषं दिव्यं त्वंगुष्ठमात्रकम् ।
किशोरं मेघसंकाशं पुण्डरीकनिभेक्षणम् ।। ९७।।
तमहं पृष्टवान् कस्त्वं कथं जातः प्रकथ्यताम् ।
स मामाह त्वमेवाऽहं ब्रह्माऽहं विष्णुरस्म्यहम् ।। ९८।।
अहं नारायणो देवो जलशायी सनातनः ।
अनादिश्रीकृष्णनारायणो भवामि धामनि ।। ९९।।
दिव्यं तेऽस्तु नेत्रमत्र पश्य मां यत्नतो हर ।
एवमुक्तस्तदा तेन यावत्पश्याम्यहं च तम् ।। 1.552.१०० ।।
तावत् परेऽक्षरे दिव्ये धाम्नि दृष्टो मया प्रभुः ।
स एव वीक्षितश्चापि गोलोकेऽपि विकुण्ठके ।। १०१ ।।
महाविष्णुर्जले दृष्टो विराड्रूरूपोऽपि वीक्षितः ।
तन्नाभौ पंकजं दृष्टं ब्रह्मा तत्र विलोकितः ।। १०२ ।।
तत्पार्श्वेऽहं मया दृष्टो दृष्ट्वाऽहं हर्षमागतः ।
तपसा तद्गुणान् स्मृत्वाऽस्तौषं श्रीपरमेश्वरम् ।। १०३ ।।
इत्येवं शंकरः प्राहाऽगस्त्यं वै त्वर्बुदाचले ।
तन्मया तेऽत्र कथितं लक्ष्मि! मोक्षप्रदं वचः ।। १ ०४।।
पठनाच्छ्रवणाच्चास्य मोक्षो भवेत् परेऽक्षरे ।
सकामानां गृहलक्ष्मीधनपुत्रादिकं भवेत् ।। १०५ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽऽगस्त्यस्य दिव्यता चिरजीवित्वादिप्राप्तिः, अर्बुदाचले रुद्रस्य चमत्कारः, सत्येतरयुगीयमानवानां त्रिदेवविषयक- परस्परद्रोहकारिणां संसारप्रवाहसजीवनतेत्यादि-
निरूपणनामा द्विपञ्चाशदधिकपञ्चशततमोऽध्यायः ।। ५५२ ।।