लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५५६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५५५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५५६
[[लेखकः :|]]
अध्यायः ५५७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! शंकराद्याः कृत्वा तीर्थानि चार्बुदे ।
व्योमयानैर्ययुर्व्योम्नि पश्यन्तो भूतलादिकान् ।। १ ।।
सती च पार्वती दृष्ट्वा सुशोभम् ऋक्षपर्वतम् ।
पप्रच्छ शंकरं नम्रा कोऽयं प्रकाशते गिरिः ।। २ ।।
शंभुः प्राह महानास्ते ऋक्षाख्यः पर्वतो ह्ययम् ।
यत्र वै ऋषयः सन्ति तापसा वनवासिनः ।। ३ ।।
ओंकाराख्यो वसाम्यत्र त्वया साकं हि ऋक्षके ।
श्रुत्वैवं पार्वती प्राह शंभोऽत्र भूतले पुनः ।। ४ ।।
हिमालयात् समारभ्य समुद्रं प्रति पर्वताः ।
कति त्वदाश्रयाः सन्ति कति नद्यश्च मे वद ।। ५ ।।
शंभुः प्राह शृणु हैमि! सप्ताऽत्र कुलपर्वतान् ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ।। ६ ।।
विन्ध्यश्च पारियात्रश्च ह्येते वै कुलपर्वताः ।
अन्ये तु मन्दरः शारः कैलासो दर्दुरस्तथा ।। ७ ।।
मैनाको वैद्युतो वारन्धमः पाण्डुरकस्तथा ।
तुंगप्रस्थः कृष्णगिरिर्जयन्त ऋष्यमूककः ।। ८ ।।
ऐरावतश्च गोमन्तश्चित्रकूटः श्रीपर्वतः ।
चकोरकूटः श्रीशैलः शत्रुंजितः कृतस्मरः ।। ९ ।।
रैवताद्रिर्बरदादः शालमालादयोऽपि च ।
वर्तन्ते पावनास्तीर्थभूमयस्तारकाः शुभाः ।। 1.256.१ ०।।
हिमाचलो महानास्ते पिता तेऽयुतशृंगवान् ।
तस्मान्नद्यो निर्गता याः स्वसारस्तव ताः शृणु ।। ११ ।।
गंगा सिन्धुः शतद्रुश्च वितस्ता च सरस्वती ।
विपाशा चन्द्रभागा च सरयूर्यमुना तथा ।। १ २।।
इरावती देविका च कुहूर्गोमती बाहुदा ।
धूतपापा दृषद्वती निस्वीरा कौशिकी तथा ।। १ ३।।
चक्षुष्मती गण्डकी च लोहिता ब्रह्मपुत्रकः ।
याः समुद्रं यथानिम्नं मिमीलुः पुण्यपावनाः ।। १४।।
पारियात्रोद्भवाश्चापि समाकर्णय शोभने । ।
वेदस्मृतिर्वेदवती सिन्धुपर्णा चर्मण्वती ।। १५।।
चन्द्रनाभा रोहिपारा नाशदाऽऽचारनामिका ।
वेदत्रयी विदिशा च वपन्ती ताः समुद्रगाः ।। १६ ।।
नदीः ऋक्षप्रसूताश्च शृणु त्वं पावनीः शुभाः ।
शोणो ज्योतीरथा चापि नर्मदा सुरसा तथा ।। १७।।
मन्दाकिनी दशार्णा च तमसा पिप्पला तथा ।
चित्रकूटा करतोया चित्रोत्पल्ला पिशाचिका ।। १८।।
विशाला वंजुका वालुवाहिनी विरजा तथा ।
शुक्तिमती पंकिनी च रात्री ताः ऋक्षपुत्रिकाः ।। १९।।
विन्ध्यपादोद्भवाश्चापि शृणु पापविनाशिनीः ।
शुभा तापी पयोष्णी च मणिजाला कुमुद्वती ।।1.256.२०।।
वेष्णा पाशा वैतरणी शीघ्रादाऽन्त्या गिरा तथा ।
दुर्गा तोया वैदिपाला विन्ध्यपर्वतजाश्च ताः ।।२ १ ।।
सह्यपादोद्भवाश्चापि शृणु नदीः समुद्रगाः ।
गोदावरी भीमरथी कृष्णा वेणी च वञ्ज्रुला ।।२२।।
तुंगभद्रा सुप्रयोगा बाह्यकावेरीति स्मृता ।
मलयाचलजा नद्यस्ताम्रपर्ण्युत्पलावती ।।२३।।
पुष्पावती शतमाला एताश्चापि समुद्रगाः ।
महेन्द्रतनया नद्यस्त्रियामा इक्षुला तथा ।।२४।।
ऋषिकुल्या त्रिविन्दाला वंशवरा च मूलिनी ।
अथ शुक्तिमती नद्यः पलाशिनी च लूतसी ।। २५।।
ऋषिका मन्दगामा च समुद्रगास्तु ता अपि ।
एता महत्तमा नद्यस्तथा गोमती भद्रिका ।।२६ ।।
ओजस्वती स्वर्णरेखा नागनदी च देविका ।
साभ्रमती हिरण्या च न्यंकुमती शत्रुंजिता ।।२७।।
मनोरमा चन्द्रकला नारायणी माहेश्वरी ।
एताश्चान्या भवन्त्येव पापघ्न्यो मोक्षदायिकाः ।।।२८।।
श्रुत्वा चैवं सती शंभुं समुवाच ततः परम् ।
एतासु नाथ कुत्र त्वं समूर्तो वर्तसे वद् ।।२९।।
शंभुः प्राह च रेवायां वर्तेऽहं लिंगमूर्तिकः ।
नर्मदाकंकराः सर्वे शंकरा इति मे स्थितिः ।। 1.256.३० ।।
पार्वती प्राह मे वाञ्छा जायते नर्मदातटम् ।
द्रष्टुं दर्शय रेवां मे यस्मात् सा निर्गता तथा ।।३ १ ।।
यत्र प्रविष्टा चाब्धौ सा सर्वां दर्शय मे शिव ।
तथास्त्विति हरः प्राह ऋक्षे चावातरत् तदा ।।३ २।।
पार्वत्या सहितः शंभुस्तथा स्वगणकोटिभिः ।
रेवा यस्मान्निःससार तत्रैवाऽवाततार ह ।।३ ३ ।।
ऋक्षे च पर्वते सर्वे न्यूषु सस्नुर्विशश्रमुः ।
जलं पपुर्भोजनानि चक्रुस्ततश्च पार्वती ।।३४।।
गणानां तु सभामध्ये शंकरं समपृच्छत ।
रेवोद्भवं मम ब्रूहि तथा तीर्थानि चांजसा ।।३५ ।
शंकरस्तां नर्मदाया आगमं निजगाद ह ।
शृणु हैमि! पुरा दैत्यो हिरण्यकशिपुर्महान् ।।३६ ।।
देवादीनर्दयामास देवा नारायणं ययुः ।
विष्णुं विज्ञापयामासुर्दैत्यदुःखं सुदारुणम् ।।३७।।
विष्णुर्नृसिंहरूपेण हतवान् दानवेश्वरम् ।
ततो देवैरर्थितेयं पावनार्थं हरेर्गृहात् ।।३ ८।।
वैकुण्ठात्पावनी मूर्तिः रेवा दिव्यस्वरूपिणी ।
नारायणस्य भक्ता या दिव्या दासी सुसेविका ।।३ ९ ।।
जलरूपा स्वयं भूत्वा देवैः सह समाययौ ।
स्वर्गे सा देवलोके वै तस्थौ च वहुवत्सरान् ।।1.256.४० ।।
अथ राजाऽभवत् पृथ्व्यां हिरण्यतेजानामतः ।
सोमवंशोद्भवः सोऽयं त्वेकदा तपसे वने ।।४१ ।।
ययौ तपश्चचाराति ब्राह्मणानां समाज्ञया ।
महादेवस्य तुष्ट्यर्थं हिताय देहधारिणाम् ।।४२।।
नर्मदाया भुवि त्वानयनार्थं स जनाधिपः ।
महादेवं चाऽपरोक्षं ददर्श नृपतिस्तदा ।।४३।।
वव्रे वरं नर्मदायाः पृथ्व्यामागमनं शुभम् ।
सर्वेषां देहिनां येन समुद्धारो भवेदिति ।।४४।।
शंभुः प्राह तथाऽस्त्वेतत् त्वया सम्यग् विचारितम् ।
सस्मार नर्मदां सापि शंकराग्रे ह्युपस्थिता ।।४५।।
शंभुः प्राह भुवं याहि रेवे मोक्षस्य हेतवे ।
जनकल्याणदा तत्र भव पापप्रणाशिनी ।।४६।।
रेवा प्राह निराधारा कुत्र तिष्ठामि शंकर! ।
शंभुः प्राह नगश्चास्ते तूदयाचलनामकः ।।४७।।
स त्वां धारयितुं शक्तस्तच्छृंगेऽवतर प्रिये ।
ततः सा नर्मदा स्वर्गादवाततार वै शनैः ।।४८।।
हिरण्यतेजास्तस्यास्तु सलिलैः समतर्पयत् ।
पितॄन् पितामहादींश्च तिलोदकानि वै ददौ ।।४९।।
उद्धृताः पितरः सर्वे ययुः स्वर्गं च मोक्षणम् ।
सोऽयं नार्मदवार्भिश्च पवित्रोऽस्ति पदे पदे ।।1.256.५०।।
नर्मदा वर्ण्यते सेयं सप्तकल्पानुगामिनी ।
ते देशाः पर्वताः पुण्यास्ते ग्रामास्तेऽपि चाश्रमाः ।।५ १।।
यत्र यात्रा सरिच्छ्रेष्ठा नर्मदा सप्तकल्पगा ।
त्रिभिः सारस्वतं पुण्यं सप्ताहेन तु यामुनम् ।।५२।।
सद्यः पुनाति गांगेयं दर्शनादेव नर्मदा ।
रेवातटेषु ये वृक्षाः पतिताः कालपर्यये ।।५३।।
नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् ।
रेवाया यत्र कुत्रापि संगमे च तटेऽपि वा ।।५४।।।
स्नानं दानं जपो होमः स्वाध्यायः पितृपूजूनम् ।
देवभक्तिर्महादीक्षा न्यासो देहविसर्जनम् ।।५५।।
यत्किञ्चित् स्यान्मनुष्याणामनन्तफलदं भवेत् ।
नार्मदे मूलतीर्थे तद् वाजिमेधफलप्रदम् ।।५६।।
कुलानां शतमागामि समतीतं तथा शतम् ।
उद्धरेदात्मना सार्धं रेवातीर्थावगाहनात् ।।५७।।
भूदानस्य प्रदात्राऽत्र राज्यप्राप्तिं लभेद् ध्रुवम् ।
नर्मदातोयपानस्य स्नानस्य प्रेक्षणस्य च ।।५८।।
अपि चान्द्रायणशतादधिकं फलमस्ति वै ।
प्रातर्यो नर्मदां पुण्यां स्मरेन्मोक्षं लभेत्तु सः ।।५९।।
उदयाद्रिस्थितां तां चानिनाय भूतले पुनः ।
पुरूरवाख्यराजर्षिः सोमवंशे बभूव यः ।।1.256.६ ०।।
चन्द्रपुरीमहाराज्यं सार्वभौमं चकार सः ।
निराबाधाः प्रजास्तस्य भवद्दारिद्र्यवर्जिताः ।।६१ ।।
चिरायुषो जनाश्चासन् कामदुघाश्च धेनवः ।
कौशेयपट्टवस्त्राश्च नरा नार्यो विभूषिताः ।।६२।।
वृक्षे वृक्षे रसधारा धरणिः सस्यशालिनी ।
एवं राज्ञा कृते राज्ये सर्वं सिद्धिमयं ह्यभूत् ।।६३।।
तेन सूर्यग्रहे हस्तिवाजिगोभवनानि च ।
स्वर्णरूप्यकरत्नानि दाने दत्तानि भूरिशः ।।६४।।
अतर्पयत् पितॄँश्चापि हव्यकव्येन भूपतिः ।
तदाश्चर्यमभूद् राज्ञो पितॄणां दर्शने शृणु ।।६५।।
अतिकष्टेन पितरो जलं पिबन्ति वीक्षितम् ।
क्षुत्क्षामकण्ठताल्वोष्ठान् कश्मलाँश्च मृदंभसा ।।६६।।
नग्नान् मलिनवस्त्राँश्च शतशोऽथ सहस्रशः ।
दृष्ट्वा पुरूरवा राजा नत्वा पितॄनुवाच ह ।।६७।।
के यूयं विकृताकाराः प्रेतभूता बुभुक्षिताः ।
कथयध्वं यथा मोक्षो भवेत्प्रेतस्वरूपतः ।।६८।।
पितरस्तु नृपं प्राहुर्वयं वै तव पूर्वजाः ।
सदिद्धीनमिदं क्षेत्रं धर्मकर्मविवर्जितम् ।।६९।।
न वै तीर्थं विना मुक्तिस्तीर्थं चानय भूमिषु ।
इत्युक्त्वा ते ययुर्याम्यां दिशं राजापि तत्क्षणात् ।।1.256.७०।।
पुत्रे राज्यधुरं न्यस्य ययावुदयपर्वतम् ।
कन्दमूलफलाहारः शिवपूजापरायणः ।।७१ ।।
भक्तिं चकार परमां तया तुष्टो महेश्वरः ।
प्रत्यक्षोऽभूदुवाचैनं भूपं वरं वृणु नृप ।।७२।।
राजा वव्रे सप्तकल्पवहां श्रीनर्मदां नदीम् ।
पितॄणां तारणार्थं वै भूमिषु त्ववतारय ।।७३।।
शंभुना भक्ततुष्ट्यर्थमाहूता नर्मदा नदी ।
मकरासनमारूढा दिव्याभरणभूषिता ।।७४।।
प्रोज्ज्वला युवती कन्या नारायणांगसंभवा ।
सर्वसौभाग्यसम्पन्ना कृष्णकुन्तलशोभना ।।७५।।
आगत्य शंकरं नत्वोवाच कथं नु संस्मृता ।
शिवः प्राह त्वदर्थं वै चतुर्दशसहस्रकम् ।।७६ ।।
वर्षाणां नृपतिस्तेपे हिरण्यतैजसो नृपः ।
भावात् पितृप्रमोक्षार्थम् ऋक्षाद्रौ त्वं प्रयाहि वै ।।७७।।
प्रेतरूपान् सर्वपितॄन् नरकस्थान् समुद्धर ।
इत्युक्त्वा व्योममार्गेण रेवा ऋक्षाद्रिमाययौ ।।७८।।
शंभुस्तस्यै ददावग्र्यं सुदृढमृक्षपर्वतम् ।
गगनात् प्रच्युता रेवा पपात पर्वतोपरि ।।७९।।
पुरूरवाः स राजर्षिर्नर्मदां त्विदमब्रवीत् ।
अनुग्रहः कृतो देवि! पितॄणां तारणाय मे ।।1.256.८०।।
राज्ञा ततस्तत्र नद्यां स्नात्वा सुराः सुतर्पिताः ।
पितरस्तर्पिताश्चापि पिण्डाद्यैस्तोषितास्तथा ।।८१ ।।
नरकादुद्धृताः सर्वे देवयानपथे स्थिताः ।
कृमिकीटपतंगाद्याः पक्षिणश्चाण्डजाश्च ये ।।।८२।।
एषोऽवतारश्च पुन आदिकल्पे कृते युगे ।
एवं सा श्रीकृष्णनारायणवामांगजा सती ।।८३।।
कन्या श्रीनर्मदादेवी देवैः स्वर्गं समाहृता ।
स्वर्गादुदयशिखरं नीता हिरण्यतेजसा ।।८४।।
उदयाद्रेः ऋक्षशैलं पुरूरवा निनाय च ।
ततो भूभागमापन्ना पावनी चाब्धिगाऽभवत् ।।८५।।
स्नानावगाहनात्पानात्स्मरणात्कीर्तनादपि ।
अनेकभवजं घोरमघं सर्वं विनश्यति ।।८६।।
अथ प्राप्ते प्रथमे च कलौ नद्यश्च सर्वशः ।
पञ्चसाहस्रसौरान्ते ययुः स्वर्गं तदा पुनः ।।८७।।
प्राप्ते कृतेऽभवद् राजा पुरुकुत्सः प्रतापवान् ।
तपस्तेपे नर्मदाया अवताराय वै पुनः ।।८८।।
मया तुष्टेन तस्मै च वरोऽर्पितस्ततस्तु सा ।
स्मृता रेवा समायाता ममाऽऽज्ञया भुवं प्रति ।।८९।।
पर्यंकपर्वते रम्ये वेणुस्तम्बे ह्यवातरत् ।
पर्यंकान्निःसृता वेगाद् वारुणीं दिशमब्धिगा ।।1.256.९०।।
पुरुकुत्सं पतिं कृत्वा शापात् समुद्रतां गता ।
वर्तते पावनी लोके स्वर्गसोपानपद्धतिः ।।९१ ।।
येऽप्यधर्मरता लोके नर्मदायां मृता यदि ।
तेऽपि रुद्रत्वमायान्ति रेवातोयप्रसंगतः ।।९२।।
तत्र वैण्येश्वरं देवं वेणुमूले व्यवस्थितम् ।
आद्यं तीर्थं परं तद्धि पापतापप्रणाशनम् ।।९३।।
रेवोद्गमोत्तरे भागेऽनन्तपुरं सुपत्तनम् ।
ऋष्याश्रमात्मकं त्वास्ते दिव्यं मुक्तिप्रदं सदा ।।९४।।
व्यासाश्रमं पुरा तत्र सदासीत्पावनं परम् ।
शैवक्षेत्रं परं तीर्थं विद्यते शाश्वतं शुभम् ।।९५।।
उत्पलावर्त्तनामा च माधवो यत्र तिष्ठति ।
सहस्रमस्तको विष्णुर्वर्तते पावने स्थले ।।९६।।
क्रोशमात्रं हरिक्षेत्रं नर्मदायां प्रकथ्यते ।
रेवाया उत्तरे कूले कपिलातीर्थमुत्तमम् ।।९७।।
त्रिपुरीतीर्थमत्राऽस्ति शंकरस्तत्स्वरूपधृक् ।
क्रोशद्वयप्रमाणं तद् विद्यते स्वर्गदं शुभम् ।।९८।।
त्रिपुरं विनिहत्यैव विशश्राम क्षणं हरः ।
तीर्थं तत्पावनं स्वर्गमोक्षदं स्नानमात्रतः ।।९९।।
इत्येवं शंकरः प्राह पार्वतीं नर्मदासखीम् ।
मयोक्तं तु पुरा वृत्तं लक्ष्मि! ते मनसेप्सितम् ।। 1.256.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नर्मदाया ब्रह्मलोकादुदयाचलागमस्ततः ऋक्षाद्र्यागमस्ततोभूतलावतरस्ततो वेणुतीर्थाऽनन्तपुरतीर्थादीतिहासेषु पुरूरवसो नृपस्य रेवावतारेण पित्रुद्धारादिनिरूपणनामा षटपंचाशदधिकपञ्चशततमोऽध्यायः ।।।२५६।।