लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५४९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५४८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५४९
[[लेखकः :|]]
अध्यायः ५५० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततः शंभुः पार्वत्यै प्राह वच्मि तत् ।
तीर्थं मोक्षकर स्मृद्धिप्रदं चोन्नतमण्डले ।। १ ।।
दुर्गादित्यं शुभं तीर्थं विनायकसुतीर्थकम् ।
यत्र गजस्वरूपधृग् विनायकोऽभवत्पुरा ।। २ ।।
महाकालेश्वरं तीर्थं सर्वरक्षाकरं महत् ।
महोदयं परं तीर्थमृषितोयाजलस्थितम् ।। ३ ।।
तलस्वाम्यभिधे तीर्थे क्षेत्रपः कालमेघकः ।
वर्तते वनरक्षार्थं सिंहाण्यनिवासकृत् ।। ४ ।।
न्यंकुमत्यास्तटे शंखावर्ततीर्थं हि शोभनम् ।
कृष्णनारायणगृहाद् दक्षिणे गोष्पदं वरम् ।। ५ ।।
तीर्थं चानन्तनागेन रक्षितं विष्णुभोगिना ।
स्नाता श्राद्धस्य च कर्ता तारयेदेकविंशतिम् ।। ६ ।।
कुलानां च स्वयं मोक्षं स्वर्गं सम्प्राप्नुयाच्छुभम् ।
पदे पदेऽश्वमेधस्य फलवान् स्याच्च तीर्थकृत् ।। ७ ।।
गुप्तगयाऽपि सा प्रोक्ता विष्णुना स्वयमेव तत् ।
गन्धदानेन गन्धादि सौभाग्यं पुष्पदानतः ।। ८ ।।
धूपदानेन राज्याप्तिर्दीप्त्याप्तिर्दीपदानतः ।
ध्वजदानात्पापहानिर्यात्रया ब्रह्मलोकभाक् ।। ९ ।।
गोष्पदं तन्महत्तीर्थं तत्र वृत्तं पुरा शृणु ।
अंगराज्ञोऽभवत्पुत्रो वेनो नाम प्रजापतिः ।। 1.549.१ ०।।
स मातामहदोषेण कालकन्यासुतः खलु ।
सुधर्मान् पृष्ठतः कृत्वा पापबुद्धिरजायत ।। ११ ।।
स्थितिमुत्थापयामास वेदशास्त्रोदितां हि सः ।
आसीदियं मतिस्तस्य विनाशे प्रत्युपस्थिते ।। १२।।
अहमीड्यश्च पूज्यश्च सर्वयज्ञैश्च सर्वदा ।
मयि यज्ञा विधातव्या मयि होतव्यमित्यपि ।। १ ३।।
ऋषयस्ते तदा प्राहुर्मा ह्यधर्मं कुरु नृप ।
वेनः प्राह मया सृष्टो धर्मश्चाधर्म इत्यपि ।। १४।।
भवन्तो मां मानयन्तु श्रोतव्यं कस्य वै मया ।
वीर्यश्रुततपःसत्यैर्मया कोऽन्यः समो भुवि ।।१५ ।।
इतिब्रुवाणं मुनयोऽनुनेतुं प्रभवो न वै ।
जातास्ततश्चातिरुष्टा जघ्नुस्तं तु महाबलम् ।। १६ ।।
आथर्वणेन मन्त्रेण हत्वाऽस्य वामबाहुतः ।
निर्मथ्योत्पादयामासुर्निषादान् कृष्णवर्णकान् ।। १७।।
तुम्बराँश्च खसान् वैन्ध्यान् धीवरान् वेनपापजान् ।
पुनर्महर्षयस्तेऽथ पाणिं वेनस्य दक्षिणम् ।। १८।।
ममन्थुश्च तदुत्पन्नः पृथुर्वै सूर्यसन्निभः ।
धनुर्ध्वजं तथा शूलं मत्स्यं चक्रं करे दधन् ।। १९।।
चिह्नरेखात्मकं चापि बाह्यं खड्गं च वर्त्म च ।
तस्मिन् जाते नदा नद्यः समुद्रा भूधरादयः ।।1.549.२०।।
सरत्नाश्चाभिषेकाय पृथुं तं चोपतस्थिरे ।
ब्रह्मा विष्णुश्चामराश्च ऋषयो मानवा द्रुमाः ।।२१ ।।
स्थावरा जंगमाः सर्वे सिषिचुस्तं नराधिपम् ।
पृथुना ताः प्रजाः सर्वा धर्ममार्गैः सुनन्दिताः ।।२२।।
अकृष्टपच्या पृथिवी सिद्धन्त्यन्नानि चिन्तया ।
सर्वाः कामदुघा गावः पुटके पुटके मधु ।।२३ ।।
एवं प्रतापिनः पृथोर्यशोगानं तु मागधैः ।
सूतैश्च बन्दिभिस्तत्र कृतं भावि विचार्य च ।।२४।।
भविष्यत्सर्ववृत्तान्तं विज्ञाय तु पृथुः स्वयम् ।
तद्रीत्या धनुरागृह्य वसुधामर्दयद् यदा ।।२५ ।।
गौर्भूत्वा च मही तस्य शरणं त्वन्वपद्यत ।
राज्ञा जगद्धितार्थं सा दुग्धा नैकपयः प्रति ।।२६।।
पृथोर्दुहितृतां प्राप्ता पृथिवी साऽभवत् प्रथा ।
वेनस्य सद्गतिं कर्तुं पृथुर्यज्ञं चकार ह ।।२७।।
नारदश्च तदा प्राह वेनो म्लेच्छोऽद्य वर्तते ।
पूर्वपापेन वै जन्म मरौ देशेऽस्ति तस्य वै ।।२८।।
तमुद्धर्तुं तीर्थयात्रां कुरु मोक्षो भविष्यति ।
पृथुर्गतो मरुन्देशान् निनाय पितरं गृहम् ।।२९।।
ततो ययौ कुरुक्षेत्रं म्लेच्छं तत्र च तीर्थके ।
स्नापयामास विधिना पापं तथापि तिष्ठति ।।1.549.३ ०।।
तीर्थं प्राह च वेनोऽयं पूर्वपापातिकोटिभिः ।
व्याप्तोऽस्य पापपुञ्जानि क्षालयितुं न शक्यते ।। ३१ ।।
एष घोरैर्महापापैरतीव परिवेष्टितः ।
प्रभासं तीर्थमासाद्य तत्र शुद्धो भविष्यति ।।३२।।
तत्र सरस्वती पुण्या पञ्चस्रोता प्रवर्तते ।
तस्या यत् पञ्चमं स्रोतो न्यंकुमती निगद्यते ।।३३ ।।
तस्यास्तटे स्थितं तीर्थं गोष्पदं नाम नामतः ।
तत्र प्रेतशिला चास्ते प्रेतानां मुक्तिदायिनी ।।३४।।
यत्र प्रेताः पुरा मुक्ता अष्टाविंशतिकोटयः ।
नन्दिनी कामधेनुर्या पदं धृत्वा पुराऽत्र वै ।।३५।।
प्रेतानां मुक्तये तत्र स्थिता गोष्पदमेव तत् ।
सा प्राह मे पदं प्रेताः पापहं मोक्षदं सदा ।। ३६ ।।
अत्राऽऽगत्य जनो यश्च स्नानं श्राद्धं करिष्यति ।
गयासप्तगुणं तस्य फलं पूर्णं भविष्यति ।।३७।।
इत्युक्त्वा प्रेतमोक्षं च कृत्वाऽन्तर्धानमाशु सा ।
याता प्रेता अपि मुक्तिं गतास्तत्र तु गोष्पदे ।।३८।।
ततः पृथुर्ययौ तत्र गोष्पदे म्लेच्छसंयुतः ।
अग्रे कृत्वा ब्राह्मणान् स ययौ न्यंकुमतीतटम् ।।३९।।
विलोक्य गोष्पदे क्षेत्रे पदं प्रेतशिलास्थितम् ।
चकार कुण्डान् वेदीश्च मण्डपान् यज्ञसिद्धये ।।1.549.४०।।
तत्र यज्ञः समारब्धो विधिवद् भूरिदक्षिणः ।
प्रत्यक्षं पितरस्तस्य बभूवुर्ज्वलनप्रभाः ।।४१ ।।
तृप्ताश्चाहुर्वयं तृप्ताः सन्तुष्टाः स्वर्गभागिनः ।
राजन् धन्योऽसि पुण्योऽसि वयं धन्यतरास्त्रयः ।।४२।।
पितृषु चैवमुक्तेषु म्लेच्छो वेनस्तदा द्रुतम् ।
म्लेच्छदेहं परित्यज्य दिव्यदेहो बभूव ह ।।४३।।
उवाच पापनिर्मुक्तो गच्छामि त्रिदशालयम् ।
गच्छ राज्यं सुखं भुंक्ष्व पुत्रवाच्यं कृतं त्वया ।।४४।।
एवं श्रुत्वा पृथुश्चातिमुमुदे च ननाम तान् ।
ब्राह्मणान् हर्षयामास स्वर्णभूधनदानकैः ।।४५।।
अथ गुप्तप्रयागं च कृत्वा सोमेश्वरं तथा ।
रैवताद्रिं परिक्रम्य ययौ भद्रेश्वरं ततः ।।४६।।
कुंकुमवापिकातीर्थमश्वपट्टसरोवरम् ।
लोमशस्याऽऽश्रमं दृष्ट्वाऽर्चयित्वा कम्भरारमाम् ।।४७।।
दृष्ट्वा गोपालकृष्णं च पूजयित्वा पुमुत्तमम् ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।।४८।।
सिद्धक्षेत्रं यमीं स्नात्वा निजाऽऽवासं ययौ पृथुः ।
ईश्वरो भगवान् कृष्णनारायणांश एव यः ।।४९।।
पृथुः स वेनवन्मुक्तिं ययौ चान्ते हि शाश्वतीम् ।
श्राद्धकाले कथा चेयं श्रोतव्या संहितात्मिका ।।।1.549.५०।।
ततो गच्छेच्छुभं तीर्थं नारायणगृहं परम् ।
गोष्पदाद् दक्षिणे चाब्धितटे तिष्ठति केशवः ।।५ १।।
क्वचिज्जनार्दनस्तत्र क्वचिच्च मधुसूदनः ।
क्वचित् स पुण्डरीकाक्षः क्वचिन्नारायणः स्वयम् ।।५२।।
महासुरान् विनिहत्य विश्रान्तिं याति तत्र वै ।
कुबेरतीर्थं बालार्कं बालार्केश्वरमित्यपि ।।५३।।
अम्बिकास्थानमित्येतत् सर्वपापानि नाशयेत् ।
ततो गच्छेद् देविकायास्तटे जालेश्वरं शुभम् ।।५४।।
शृणु तत्र भवं दिव्यमितिहासं पुरातनम् ।
नाभागस्य च संवादमापस्तम्बतपोनिधेः ।।५५।।
आपस्तम्बः ऋषिः पूर्वं विवस्त्रः सलिले वसन् ।
प्रभासतीर्थे चोग्रं वै तपश्चकार मीनवत् ।।५६।।
शैवालेनाऽभवद्व्याप्तो देहः कांचनसदृशः ।
धीवरा मत्स्यसंग्राहा जालेन जलमध्यतः ।।५७।।
मत्स्यैः सह ऋषिं तं च जगृहुर्दैवयोगतः ।
विलोक्य तं महर्षिं च मानवं ब्रह्मनन्दनम् ।।५८।।
अपराद्धमिति मत्वा नेमुः शिरोभिरेव तम् ।
ऊचुरज्ञानजं दोषं दयालो क्षन्तुमर्हसि ।।५९।।
सेवां दर्शय दाशानां प्रसन्नो भव सुव्रत ।
ऋषिः स क्षमया युक्तो दाशान् प्रोवाच दुःखितः ।।1.549.६०।।
एतेषां जलमत्स्यानां कदनं च कृतं महत् ।
कैवर्तैश्च मिलित्वैव कार्यं मत्स्यप्ररक्षणम् ।।६१।।
यतो जले निवासान्मे मत्स्या वै बान्धवा यथा ।
स्वार्थं सर्वे प्रकुर्वन्ति परार्थः खलु दुर्लभः ।।६२।।
ज्ञानिनामपि चेच्चेतः स्वार्थमात्रे रतं यदि ।
अज्ञानिनां तदा किं स्याद् वैलक्षण्यं तु दक्षकैः ।।६३।।
ज्ञानिनो ध्यानयोगस्थास्त्यजन्त्यज्ञानिनो यदि ।
अज्ञास्तु जन्तवो लोके क्व प्राप्स्यन्ति सुखं ततः ।।६४।।
समे दुःखे समायातोऽबलाँस्त्यजति चेद् बली ।
किं बलं स्वार्थपोषं तद्व्यर्थं पापं तदुच्यते ।।६५।।
शक्तश्चान्यस्य दुःखानि वारयेद् वै यथाबलम् ।
परदुःखविहन्ता वै नारायणांश उच्यते ।।६६।।
पापात्पापतरं तं हि प्रवदन्ति पुरातनाः ।
सामर्थ्ये सति नान्येषां दुःखनाशं करोति यः ।।६७।।
ममाऽग्रे स्यादुपायस्तु विना मत्स्यविमोचनम् ।
नाऽहं भोक्तुं समिच्छामि यथा मत्स्यास्तथान्वहम् ।।६८।।
खादन्तु मां सुखं दाशाः सह मत्स्यैर्यथेष्टकम् ।
त्यजन्तु वा च तान् मत्स्यान् मया सह समावृतान् ।।६ ९।।
जीवो येषां च मत्स्यानां निर्गतस्तेषु योगतः ।
प्रविश्याऽन्तर्जीवयिष्ये तपोभिर्जीवदानतः ।।1.549.७०।।
यन्ममाऽस्ति शुभं किञ्चित्तद्दीनानुपगच्छतु ।
यत् कृतं दुष्कृतं तैस्तु तदशेषमुपैतु माम् ।।७१।।
धीवराणां च यद्दुःखं मे स्यात्तदपि साम्प्रतम् ।
अन्तः प्रविष्टः सत्त्वानां भवेयं सर्वदुःखभाक् ।।७२।।
दृष्ट्वाऽन्धान् कृपणान् व्यंगाननाथान् रोगिणस्तथा ।
दया न जायते यस्य स रक्ष इति मे मतिः ।।७३।।
प्राणसंशयमापन्नान् प्राणिनो भयविह्वलान् ।
यो न रक्षति शक्तोऽपि स पापं समुपाश्नुते ।।७४।।
परोपकारेणाऽऽर्तानां सुखं यदुपजायते ।
तस्य स्वर्गोऽपवर्गोऽपि षोडशार्होऽपि नैव तु ।।७५।।
तस्मादेतानहं हीनाँस्त्यक्त्वा भीतान् सुदुःखितान् ।
वर्जयित्वा न यास्यामि पदमात्रमितोऽपि च ।।७६।।
दाशेभ्यश्चैवमेवैतदृषिणा विनिवेदितम् ।
मत्स्यानां रक्षणं हित्वा न मे रक्षा भविष्यति ।।७७।।
अहं रक्ष्यो यदि दाशा मत्स्यान् मुञ्चन्तु वै द्रुतम् ।
यद्वा मे त्यजने दुःखं मत्स्यत्यागात्मकं यदि ।।७८।।
भवतां जायते तर्हि मूल्यं ददातु भूपतिः ।
भवन्तो द्रव्ययुक्ताः स्युः प्रयत्नफलभागिनः ।।७९।।
अहं मत्स्यैश्च सहितो बन्धशून्यो भवामि च ।
श्रुत्वा तु धीवरैः सर्वं नाभागाय निवेदितम् ।।1.549.८०।।
नाभागश्चाययौ तत्र यत्राऽऽपस्तम्बकमत्स्यकाः ।
स सम्यक् पूजयित्वा तं देवकल्पं मुनिं नृपः ।।८१।।
प्रोवाच भगवन् ब्रूहि किं करोमि तवाऽऽज्ञया ।
आपस्तम्बो दयायुक्तो राजानं प्राह सत्वरम् ।।८२।।
श्रमेण महताऽऽविष्टान् कैवर्तान् दुःखजीविनः ।
श्रममौल्यं प्रयच्छ त्वं मद्योग्यं यद्धि मन्यसे ।।८३।।
नाभाग आह दाशेभ्यः शतसाहस्रमुद्रिकाः ।
सुवर्णानां ददाम्यत्र मूल्यं तुल्यं च ते यदि ।।८४।।
ऋषिः प्राह त्वया नाऽहं शतसाहस्रकैर्नृप ।
नियम्यः सदृशं मेऽत्र मूल्यं प्रदीयतां परम् ।।८५।।
राजाऽऽह कोटिमूल्यं वै निषादेभ्यः प्रदीयताम् ।
ऋषिः प्राह त्वया नाहं नियम्यः कोटिभिर्नृप ।।८६।।
सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय ।
राजाऽऽह राज्यमर्धं वै निषादेभ्यः प्रदीयताम् ।।८७।।
ऋषिः प्राह समस्तं वै राज्यं मे सदृशं न वै ।
सदृशं दीयतां मूल्यमृषिभिः सह चिन्तय ।।८८।।
महर्षैस्तद्वचः श्रुत्वा नाभागोऽभूद् विषादवान् ।
एतस्मिन्नन्तरे तत्र लोमशस्तु महातपाः ।।८९।।
कुंकुमवापिकाक्षेत्राद् आपस्तम्बं समाययौ ।
ज्ञात्वा वृत्तान्तमाश्चर्यकरं नाभागमब्रवीत् ।।1.549.९०।।
मा विषादं गच्छ राजन् मूल्यम् ऋषेर्न कानकम् ।
किन्तु विप्रास्तथा गावो दिव्याः सृष्टाः स्वयंभुवा ।।९१ ।।
एकस्मादेव तत्त्वाद् वै दिव्याद् दिव्याश्च ते च ताः ।
दिव्यं दिव्यस्य मूल्यं गौर्मूल्यमस्यै प्रदीयताम् ।।९२।।
श्रुत्वा राजा सहर्षोऽभूत् प्रोवाच जालगं मुनिम् ।
उत्तिष्ठोत्तिष्ठ भगवन् गवा क्रीतो मया मुने ।।९३।।
ऋषिः प्राह त्वया सम्यक् क्रीतोऽस्मि वै गवा नृप ।
गोद्वयं मम मूल्यं वै पवित्रं परमं शुचि ।।९४।।
गावः प्रदक्षिणीकार्याः पूजनीयाश्च नित्यशः ।
मंगलायतना दिव्याः सृष्टा ह्येताः स्वयंभुवा ।।९५।।
स्थानागाराणि विप्राणां देवतायतनानि च ।
यद्गोमयेन शुद्ध्यन्ति किमस्मादधिकं पुनः ।।९६।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च ।
गवां पञ्च पवित्राणि पुनन्ति सकलं जगत् ।।९७।।
गावो ममाग्रतो नित्यं गावः सन्तु च पृष्ठतः ।
गावो मे हृदयेऽग्रे च गोमध्ये च वसाम्यहम् ।।९८।।
तेनाऽग्नयो हुताः सम्यक् पितरश्चापि तर्पिताः ।
देवाश्च पूजितास्तेन यो ददाति गवाह्निकम् ।।९९।।
सौरभेयी जगत्पूज्या देवी विष्णुपदे स्थिता ।
सर्वमेतन्मया दत्तं मया दत्तं प्रतीच्छतु ।। 1.549.१० ०।।
रक्षणाद् धेनुपुत्राणां गवां कण्डूयनैस्तथा ।
क्षीणार्त्तरक्षणाच्चापि जनः स्वर्गे महीयते ।। १०१ ।।
आदौ गावो बहिश्चापि मध्ये चान्ते प्रकीर्तिताः ।
रक्षन्ति तास्तु देवानां क्षीराज्यममृतं सदा ।। । १० २।।
तस्माद् गावः प्रदातव्याः पूजनीयाश्च नित्यशः ।
स्वर्गस्य संगमायैताः सोपानमिव निर्मिताः ।। १ ०३।।
एतच्छ्रुत्वा ऋषेर्वाक्यं निषादा अपि सत्वरम् ।
गोमाहात्म्यं विदन्तश्च नत्वाऽऽपस्तम्बमब्रुवम् ।। १ ०४।।
संभाषा दर्शनं स्पर्शः कीर्तनं स्मरणं तथा ।
पावनानि किलैतानि साधूनां योगिनां सदा ।। १ ०५।।
वयं हि पावितास्तस्मान्नाभागाद् गोद्वयं शुभम् ।
भवन्मू.ं गृहीतं यत् पूजयिष्याम एव गाम् ।। १ ०६।।
भवान्मुक्तस्तथा मत्स्या मुक्ता मुक्तं च गोद्वयम् ।
वयं मुक्ताश्च नाभागो मुक्तः साधुसमागमात् ।। १०७।।
भवान् पूज्यस्तथा मत्स्याः पूज्याः पूज्यं च गोद्वयम् ।
वयं पूज्याश्च नाभागः पूज्यः साधु समागमात् ।। १०८।।
ऋषिः प्राह मया मूल्यं ममैव गोद्वयं कृतम् ।
लोमशस्योपदेशेन प्रसन्नोऽस्मि ततः पुनः ।। १० ९।।
करोमि शुभसकल्प मत्स्या भवन्तु जीविताः ।
गोद्वयस्य प्रदानेन मत्स्या यास्यन्ति जीवनम् ।। 1.549.११ ०।।
तस्माद् गोयुगलं देवं ब्राह्मणाय महात्मने ।
तेन मत्स्याः प्रजीवेयुर्यूयं स्युर्दोषवर्जिताः ।। १११ ।।
तदा श्रुत्वा धीवरैस्तद् गोद्वयं मुनये तदा ।
आपस्तम्बाय तत्रैवाऽर्पितं निदोषताऽर्जिता ।। १ १२।।
ऋषिः प्रसन्नस्तान्प्राह पश्यन्तु मीनमण्डलम् ।
गोद्वयस्य प्रदानेन जीवितं पुनरेव हि ।। १ १३।।
तथोक्ते जीविता मत्स्या ययुः सामुद्रवारिषु ।
व्यंगीकृताश्च ये मत्स्यास्तथा वै शातिताश्च ये ।। १ १४।।
तेषां मुक्त्यर्थमापस्तम्बर्षिः प्राह पुनर्वचः ।
एष वः प्रतिगृह्णामि गामिमां तप्प्रपुण्यतः ।। १ १५।।
निषादा गच्छत स्वर्ग सह मत्स्यैरनगकैः ।
प्राणिनां प्रीतिमुत्पाद्य निन्दितेनापि कर्मणा ।। १ १६।।
नरकं यदि प्राप्स्यामि पश्यामि स्वर्गमेव तत् ।
यन्मया सुकृतं किञ्चिन्मनोवाक्कायकर्मभिः ।। १ १७।।
कृतं तेनैव दुःखार्ताः सर्वे यान्तु शुभां गतिम् ।
ततस्तस्य प्रसादेन निषादाः सहमत्स्यकैः ।। १ १८।।
दिवं गताश्च तान् वीक्ष्य नाभागः समुवाच ह ।
सेव्याः श्रेयोऽर्थिभिः सन्तः पुण्यतीर्थजलोपमाः ।। ११९।
क्षणोपासनमप्यत्र न येषां निष्फल भवेत् ।
सद्भिः सहाऽऽसनं कार्य सद्भिः कुर्वीत सत्कथाम् ।। 1.549.१२०।
सतां वृत्तेन वर्तेत नासद्भिः किञ्चिदाचरेत् ।
सतां समागमादेव समत्स्या मत्स्यजीविनः ।। १२१ ।।
त्रिविष्टपमनुप्राप्ता यथाऽश्वमेधयाजिनः ।
आपस्तम्बो मुनिस्तत्र लोमशश्च महामुनिः ।। १२२।।
वरैस्तं विविधैरिष्टैश्छन्दयामास भूपतिम् ।
ऋषिस्तं कारयामास यज्ञसंकल्पमादरात् ।। १ २३।।
तथेति चोक्ते वै प्रीत्याऽऽपस्तम्बः प्रशशंस तम् ।
अहो धन्योऽसि राजेन्द्र धर्मे ते वर्तते मतिः ।। १२४।।
आज्ञां गृह्णासि विप्रस्य धन्यं कुटुम्बमित्यपि ।
राजानस्तु मदाविष्टाः प्रायो गृह्णन्ति नैव च ।। १२५।।
ब्राह्मणानां वचो नित्यव्यसनाऽऽहतबुद्धयः ।
ध्रुवं जन्म ध्रुवो मोहो ध्रुवो नरको भूभृताम् ।। १ २६।।
राज्यं ते बहुमन्तारो वियन्त्यासुरजं कुलम् ।
मनीषिणस्तु पश्यन्ति राज्यादि नरकोपमम् ।। १ २७।।
परलोकं साधयन्ति शाश्वतीं गतिमात्मनः ।
एवमुक्त्वा महात्मानौ जग्मतुः स्वं स्वमाश्रमम् ।। १ २८।।
नाभागोऽपि वरं प्राप्य ययौ स्वं नगरं प्रति ।
क्रतुं चकार विधिवत् शत्रुंजितातटे शुभम् ।। १२९।।
अनादिश्रीकृष्णनारायणं श्रीकमलापतिम् ।
समिज्य च ययावन्ते ब्रह्माऽक्षरपदं परम् ।। 1.549.१३०।।
जालस्थले तु ऋषिणा स्थापितौ विष्णुशंकरौ ।
जालेश्वरं च तत्क्षेत्रं प्रख्यातं समभूत् पुरा ।। १३१ ।।
देविकायास्तटे तत्र नाभागो मत्स्यजीविनः ।
आपस्तम्बो लोमशश्च मत्स्या नारायणस्तथा ।। १३२।।।
स्मृतमात्रा मुक्तिदास्ते भवन्ति मुक्तिगा यतः ।
चैत्रशुक्लत्रयोदश्यां जातं वृत्तान्तमेव यत् ।। १ ३३।।
श्राद्धं यात्रां धेनुदानं कुर्यात्तत्र जनो यदि ।
भुक्तिं मुक्तिं लभेतात्र परत्रापि यथेप्सितम् ।। १ ३४।।
शंभुः सतीं यथा प्राह लक्ष्मि! ते कथितं मया ।
पठनाच्छ्रवणाच्चापि स्वर्गमोक्षप्रदं भवेत् ।। १ ३५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दुर्गादित्यगोष्पदवेननृपशुद्धिमुक्तिनारायणगृहजालेश्वरतीर्थ नाभागाऽऽपस्तम्बर्षिचरित्रादिवर्णनंनामैकोनपञ्चाशदधिकपञ्चशततमोऽध्यायः ।।५४९।।