लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५४९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५५०
[[लेखकः :|]]
अध्यायः ५५१ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततः शंभुः पार्वत्यै समुवाच यत् ।
तीर्थवर्यं कथयामि तेऽपि स्वर्गादिदायकम् ।। १ ।।
देविकायास्तटे त्वासीत् तुण्डीनामा ऋषिः पुरा ।
कूपस्तत्राऽभवत्त्वेकः ऋषेर्योगात्स मुक्तिकृत् ।। २ ।।
हरिणाः पतितास्तत्र जलपानार्थमुग्रगाः ।
मृतास्ते मुनिना सर्वे जीवितास्तपसो बलात् ।। ३ ।।
जलं हूंकारमात्रेण पूरितं कूपगं तदा ।
तटोपरितो वहति चमत्कारकरं यतः ।। ४ ।।
तत्र तुण्डीश्वरो देवः स्थापितस्तेन तीर्थकम् ।
तत्र तीर्थं शुभं कृत्वा ह्याशापुरं गणेश्वरम् ।। ५ ।।
गच्छेन्नैवेद्यमाधाय दानं दद्यात्तु कानकम् ।
ततो गच्छेत् कापिलं तु तीर्थं पापहरं शुभम् ।। ६ ।।
कपिलौ रैवतं गच्छन् यत्रोवास हि वत्सरम् ।
कपिला सा नदी तत्र तीर्थरूपा व्यजायत ।। ७ ।।
प्रौष्ठपद्यसिते पक्षे षष्ठ्यां भौमो भवेद् यदि ।
व्यतीपातश्च रोहिण्यां सा षष्ठी कपिला मता ।। ८ ।।
कपिलासंगमे षष्ठ्यां कपिलायां समाहितः ।
स्नात्वा श्रीकपिलं विष्णुं पूजयेदर्कभूस्थितम् ।। ९ ।।
कपिला कपिलो विष्णुः रक्षतां चेति चार्थयेत् ।
कपिलां गां प्रदद्याच्च वाजिमेधफलं भवेत् ।। 1.550.१ ०।।
हाटकेशं ततस्तीर्थं प्रकुर्यात् पावनं परम् ।
ततो गच्छेदगस्त्यस्याश्रमं वत्सरसेवितम् ।।१ १ ।।
कालकेयाः पुरा दैत्याः समुद्रान्तर्निवासिनः ।
रात्रौ पृथ्व्यां समागम्य सुप्तान् विप्रादिकान् मुहुः ।। १ २।।
भक्षयन्ति स्म तान् ज्ञात्वा कालकेयान् विहिंसकान् ।
अगस्त्यः संययौ तत्र समुद्रस्य तटं प्रति ।। १३ ।।
तपश्चकार विधिवद् वर्षमात्रं तटे स्थितः ।
चतुर्थ्यां फाल्गुने मासि नक्ताहारं विधाय सः ।। १४।।
पञ्चम्यां तिलपिष्टं च भुक्त्वा होमं चकार सः ।
एवं चतुर्षु मासेषु कृत्वैकभोजनं ततः ।। १५।।
निराहारः समभवन्निर्विघ्नव्रतमुत्तमम् ।
वर्षोत्तरं स मुनिराट् लोकरक्षां व्यचिन्तयत् ।। १६।।
पश्यध्वं कौतुकं देवाः समीनमकरादिकम् ।
अञ्जलिना पिबाम्येनं शोषयामि महार्णवम् ।। १७।।
एवमुक्त्वा हरिं स्मृत्वा कृत्वा ब्रह्माणमान्तरम् ।
गण्डूषमकरोत् सर्वं समुद्रं सरितां पतिम् ।।१८।।
कालकेया विनष्टाश्च पाचितं जलमित्यपि ।
ततश्च मेघवर्षैर्वै समुद्राः सजलाः पुनः ।। १ ९।।
इत्यागस्त्याश्रमं रम्यं तीर्थं पापप्रणाशनम् ।
लोपामुद्रासहितं मां यश्चाऽत्राऽऽगत्य पूजयेत् ।।1.550.२०।।
हाटकेशो मया नीतस्तं विधिना प्रपूजयेत् ।
अयने चोत्तरे मर्त्यो गोलक्षफलमाप्नुयात् ।।२१।।
भद्राश्वो नृपतिस्तत्राऽगस्त्यदर्शनकांक्षया ।
समाजगाम चानर्च पप्रच्छ कुशलं प्रति ।।२२।।
आश्चर्यं यदि ते किञ्चिद् विदितं दृष्टमेव वा ।
तन्मे कथय धर्मज्ञ ततो यामि प्रभासकम् ।।२३।।
अगस्त्यस्तं नृपं प्राह श्वेतद्वीपोद्भवां कथाम् ।
आश्चर्यरूपो भगवान् कृष्णनारायणः प्रभुः ।।।२४।।
कुंकुमवापिकातीर्थे राजते पुरुषोत्तमः ।
तस्याश्चर्याणि दृष्टानि बहूनि विविधानि च ।।।२५।।।
सोऽयं नारायणः शेते श्वेतद्वीपेऽपि सर्वदा ।
नारदः श्रीकृष्णनारायणं दृष्ट्वा सुराष्ट्रके ।।२६।।
माथुरे श्रीराधिकेशं कृष्णं दृष्ट्वा ततः परम् ।
हिमाद्रौ श्रीनरनारायणं दृष्ट्वा ययौ मुनिः ।।२७।।
श्वेतद्वीपं तत्र सोऽयं ददर्श समरूपिणः ।
शंखचक्रगदापद्मान्पुरुषाँस्तिग्मतेजसः ।।२८।।
सदृशान् सदृशाकारान् सदृशगुणवैभवान् ।
किशोरान् रूपसम्पन्नान् सुघटांश्च मनोहरान् ।।२९।।
अयं विष्णुरयं विष्णुरेष विष्णुः सनातनः ।
चिन्ताऽभूत्तस्य तान् दृष्ट्वा कोऽस्मिन् विष्णुरिति प्रभुः ।।1.550.३०।।
कस्मै नत्वा ततोऽन्याँश्च पश्यामि खलु भावतः ।
न्यूनस्य प्रथमे पूज्ये पूज्यपूजाव्यतिक्रमे ।।३ १ ।।
आयुर्यशोज्ञानहानिः प्रत्यवायोऽधिको भवेत् ।
एवं चिन्तयतस्तस्य चित्तं कृष्णनरायणम् ।।३२।।
चिन्ता युक्तं मुधा जातं कथमाराधयामि तम् ।
येन वेद्मि परं कृष्णनारायणं करोमि किम् ।।३३।।
एवं संचिन्त्य दध्यौ स तं देवं परमेश्वरम् ।
ध्यातस्तस्य कांभरेयः परितोषं जगाम ह ।।३४।।
उवाच स प्रसन्नः सन् साक्षाद् भूत्वा नरायणः ।
वरं वरय भद्रं ते दृष्टं रूपं मम त्वया ।।३५।।
येऽत्र लोके समायान्ति सारूप्यादिचतुष्टयम् ।
तेषां भवति त्वत्रैव ब्रूहि किं ते ददाम्यहम् ।। ३६।।
नारदः प्राह ते प्राप्तिर्यथा स्यात् तच्च मे वद ।
नारायणस्तदा प्राह पौरुषं सूक्तमेव मे ।।३७।।
सहस्रशीर्षा पुरुषो यत्राऽहं वर्णितो मुने ।
तदास्थाय जना ये मां प्रयक्ष्यन्ति नरायणम् ।।३८।।
ते मां प्राप्स्यन्ति सततं संहिताऽध्ययनेन च ।
लक्ष्मीनारायणसंहितोक्तमार्गेण ये जनाः ।।३९।।
पूजयिष्यन्ति मां भक्तास्ते प्राप्स्यन्ति वै ध्रुवम् ।
मम क्षेत्रं गमिष्यन्ति मे करिष्यन्ति दर्शनम् ।।1.550.४०।।
सेवां सतां करिष्यन्ति ते मां प्राप्स्यन्ति निश्चितम् ।
मन्नाम विहितं भिन्नं सर्वेषां रटनाय वै ।।४१।।
विना पूजां नामभक्त्याऽवश्यं प्राप्स्यन्ति मां जनाः ।
सर्वं ज्ञानं तव मुने प्रकाशं यास्यति ध्रुवम् ।।४२।।
मम दर्शनयोग्यं च मुक्तदर्शनयोग्यकम् ।
सर्वं विवेकजं ज्ञानं भविष्यति च ते मुने ।।४३।।
इत्युक्त्वा भगवाँस्तेषु सदृशेषु च विष्णुषु ।
ययौ पुनर्नारदश्च ज्ञातवान्नैव तं प्रभुम् ।।४४।।
मत्वा चाऽदर्शनं विष्णोः समानेषु च विष्णुषु ।
तां दिशं प्रणिपत्यैव नारदस्तु दिवं प्रति ।।४५।।
यास्यन् यत्र सुराष्ट्रे चाऽगस्त्योऽहं निवसामि वै ।
तत्राऽऽगत्य क्षणं स्थित्वा ययौ वैहायसं पुरम् ।।४६।।
तद्वै नारदतीर्थं च स्थलं ज्ञानप्रदं शुभम् ।
भद्राश्वोऽपि मुनिं नत्वा ययौ प्रभासकं प्रति ।।४७।।
इत्येवं श्वेतभूमिस्थं ज्ञात्वा नारायणं ततः ।
विशालास्थं यामुनस्थं कुंकुमवापिकास्थितम् ।।४८।।
अक्षरात् पररूपं च ज्ञात्वा मोक्षं हि विन्दति ।
स्मरन् विष्णुं पठन्वेदान् ददन् दानं यजन् हरिम् ।।४९।।
साधून् सन्तोषयन् भक्तो मोक्षभाङ् नाऽत्र संशयः ।
तीर्थं साधुमयं साध्वीमयं श्रेष्ठं प्रमोक्षदम् ।।1.550.५०।।
ततो गच्छेद् भीमनाथतीर्थे भीतिनिवारकम् ।
सुपर्णेशीं ततः पश्येत् सुपर्णं च नरायणम् ।।५१।।
कौबेरेशीं ततो गच्छेत्ततो भल्लं सुतीर्थकम् ।
भल्लतीर्थे सदा विष्णुर्वर्तते गंगया सह ।।५२।।
गंगा च वैष्णवं क्षेत्रं पावनं मूर्तिमद् यतः ।
वल्लकेन निषादेन विष्णुः कृष्णः सनातनः ।।५३।।
भल्लं धनुषि सन्धाय हृतो गोलोकगोऽभवत् ।
वल्लकोऽपि मृगभ्रान्त्या प्लक्षद्रुस्तम्बसंस्थितम् ।।५४।।
विष्णुं जघान भल्लेन गत्वा पश्यति माधवम् ।
तुष्टाव च ततः खिन्नः प्राप्तवाँस्तदनुग्रहम् ।।५५।।
ययौ तत्रैव गोलोकं विष्णुना सह धीवरः ।
भल्लक्षेत्रं हि तत्प्रोक्तं विद्धः पादतले हरिः ।।५६।।
मोक्षदं स्वर्गदं श्रेष्ठं जन्ममरणवेधकृत् ।
ततो गच्छेद्धिरण्याया उत्तरे रैवतं प्रति ।।५७।।
कौशिकं परमं तीर्थं ततो वस्त्रापथात्मकम् ।
दामोदरं रैवतकं भवमिन्द्रेश्वरं तथा ।५८।।
चक्रोद्यानं रेवतीतीर्थकं वासिष्ठकाश्रमम् ।
शृणु चास्या भूमेर्लक्ष्मि कथां पापप्रणाशिनीम् ।।५९।।
गजो नामाऽभवद्राजा भार्यया सह पार्थिवः ।
गंगाजलाभिषेकार्थ ययावुवास तत्र च ।।1.550.६०।।
भद्रो नाम मुनिस्तस्याऽऽजगाम पुरतः क्वचित् ।
तं गजः प्राह मोक्षार्थं ज्ञानं देहि मुने मम ।।६१ ।।
भद्रः प्राह स्वयं चात्मा तीर्थं सर्वेषु पावनम् ।
तत्राऽऽस्ते श्रीकृष्णनारायणस्तीर्थोत्तमोत्तमम् ।।६२।।
तस्य ज्ञानं स्मृतिरूपं परं ज्ञानमिहोच्यते ।
अन्यत् सर्वं ज्ञानमात्रं मेधाभारकरं नृप ।।६३।।
तीर्थानि तोयपूर्णानि देवाः पाषाणमृन्मयाः ।
आत्मस्थं येन पश्यन्ति ते न पश्यन्ति तं परम् ।।६४।।
सन्ति तीर्थान्यनेकानि पुण्यान्यायतनानि च ।
पुण्यतोयाः पवित्राश्च सागराः सरितस्तथा ।।६५।।
ज्ञानं तेषां च तीर्थानां ज्ञानोत्तमोत्तमं मतम् ।
अनादिश्रीकृष्णनारायणं विष्णुं नरायणम् ।।६६।।
मत्स्यं वराहं नृव्याघ्रं वामनं कच्छपं हरिम् ।
रामं रामं च रामं च कृष्णं श्रीपुरुषोत्तमम् ।।६७।।
हरिं श्रीकपिलं दत्तात्रेयं बुद्धं च रैणुकम् ।
वासुदेवं पृथुं हंसमृषभं च कुमारकान् ।।६८।।
नारदं च क्रतुं चाश्वग्रीवं व्यासं जनार्दनम् ।
मोहकं राजराजं च कल्कघ्नं च पुमुत्तमम् ।।६ ९।।
नरं नारायणं देवं श्वेतद्वीपपतिं प्रभुम् ।
शेषस्थं पद्मनाभं च जगन्नाथं रणस्थितम् ।।1.550.७०।।
नामानि तस्य वासानि स्मृत्वा मोक्षमवाप्नुयात् ।
गंगा च यमुना चैव नदी गोदावरी शुभा ।।७१ ।।
शतद्रुश्च तथा विन्ध्या पयोधा वरदा तथा ।
चर्मण्वती च सरयू गण्डकी चण्डपापहा ।।७२।।
चन्द्रभागा विपाशा च शोणा ब्रह्मसुता तथा ।
एताश्चान्याश्च या बह्व्यो हिमाश्रयादयोऽद्रयः ।।७३।।
नामोच्चारेण येषां हि पापं याति विनाशनम् ।
अश्वपट्टसरसश्च मानससरसस्तथा ।।७४।।
नारायणसरसश्च पुष्करसरसस्तथा ।
इन्द्रद्युम्नसरसश्च स्मरणादेव मोक्ष्यते ।।७५।।
कान्यकुब्जे मार्गशीर्षे ह्युषित्वा स्वर्गमाप्नुयात् ।
अर्बुदे पौषपूर्णायां माघ्यां गयासुतीर्थके ।।७६।।
फाल्गुन्यां हिमवत्पृष्ठे चैत्र्यां वसेत् प्रभासके ।
अश्विन्यां कुंकुमवाप्यां वैशाख्यां चाप्यवन्तिके ।।७७।।
ज्येष्ठ्यां त्रिकूपके चैव श्रावण्यां पूर्वसागरे ।
भाद्र्यां सारस्वते चैव कार्तिक्यां रैवताचले ।।७८।।
कापिले च तथा द्वीपे शालग्रामेऽपि भूतले ।
दीपोत्सव्यां चान्द्रभागे श्राद्धं स्नानं जपं चरेत् ।।७९।।
गोलोकेऽक्षरधाम्नि वैकुण्ठे कैलासकेऽथवा ।
यथाभक्तिं भवेद् वासो व्रतिनां तीर्थशालिनाम् ।।1.550.८०।।
मासानां कार्तिकः श्रेष्ठः कार्तिके भीष्मपञ्चकम् ।
तत्रापि द्वादशी श्रेष्ठा राजन् दामोदरे जले ।।८१ ।।
सोमनाथस्य सान्निध्ये उदयान्तो गिरिर्महान् ।
तस्य पश्चिमभागे तु रैवताद्रिः स्मृतो महान् ।।८२।।
नदी तत्र च वहति सुवर्णरेखिका शुभा ।
धातवस्तत्र तु रक्ताः श्वेता नीला विचित्रकाः ।।८३।।
पाषाणा कुंजराकाराः स्वर्णगैरिकसन्निभाः ।
वृक्षा वल्ल्यश्च गुल्माश्च काञ्चनानां समुद्भवाः ।।८४।।
तत्र नद्यां स्वर्णलेखानाम्न्यां नारायणो ह्रदः ।
दामोदरह्रदश्चापि राधादेरीति चापि वै ।।८५।।
तत्र स्नात्वा जलं पीत्वा यान्ति मुक्तिं हि देहिनः ।
हरिश्चन्द्रेण बलिना शिबिना नहुषेण च ।।८६।।
नलेन च महादानान्यर्पितानि हि रैवते ।
गतास्ते विष्णुभवनं शाश्वतं च निरामयम् ।।८७।।
इत्येवं भद्रवचनं श्रुत्वा गजो जनाधिपः ।
समाययौ रैवतस्य प्रभासस्य च तीर्थके ।।८८।।
दत्वा दानान्यनेकानि हविर्हुत्वा हुताशने ।
ऊर्ध्वपादः स्थितो भूत्वाऽपिबद्धूममधोमुखः ।।८९।।
अन्ये तेन सहाऽऽयातास्तपः कुर्वन्ति वै तथा ।
सर्वैर्व्रतं कृतं तत्र ध्येयो दामोदरो गिरौ ।।1.550.९ ०।।
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षोपगमनं प्रति ।।९ १।।
स राजा ऋषिभिः सार्धं यावत् तिष्ठति तत्र वै ।
विमानानां सहस्राणि तावत्तत्राऽगतानि वै ।।९ २।।
येषु देव्यो रमादास्यो नारायणस्य पार्षदाः ।
मुक्ताश्चान्ये समभवन् शतशोऽथ सहस्रशः ।।९३।।
सर्वैश्चानुचरैः सार्धं स राजा भार्यया सह ।
गतो विमानमारूढो यदक्षरपदं वरम् ।।९४।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
इति मन्त्रस्य चोद्धोषो विमानेष्वखिलेष्वपि ।।९५।।
सतालिकोऽभवद् व्योम्नि येन स्वर्गादिवासिनः ।
दर्शनार्थं विमानानां मुक्तानां मार्गमध्यगाः ।।९६।।
अवस्थाय च राजानं नारायणं परेश्वरम् ।
समभिलोकयामासुः पूजयामासुरीश्वरान् ।।९७।।
एवं पितृमुनीनां च लोकान् भित्त्वाऽण्डकाद् बहिः ।
ययुर्मोक्षपदं सर्वे कृत्वा तीर्थं तु रैवतम् ।।९८।।
शंकरः पार्वतीं प्राह क्षेत्रस्यैवंविधां कथाम् ।
मया लक्ष्मि! चाभिहिता तुभ्यं मोक्षकरी शुभा ।।९९।।
पठनाच्छ्रवणात्त्वस्याः कथायाः पापनाशनम् ।
स्वर्गं सत्यं च वैकुण्ठं परं धामाऽक्षरं लभेत् ।। 1.550.१० ०।।
इदं श्रुत्वा तथा भक्त्या मोदयित्वा प्रशंसयेत् ।
सर्वपापरहितः सन् परंब्रह्माधिसंव्रजेत् ।। १०१ ।।
का मया प्रोच्यते लक्ष्मि! सौराष्ट्रस्य पवित्रता ।
स्वयं श्रीमत्कृष्णनारायणस्य मणिरूपिणः ।। १ ०२।।
देशः सौराष्ट्रइत्याख्यो मोक्षदोऽस्ति पदे पदे ।
अनादिश्रीकृष्णनारायणः पूर्वेऽस्ति सर्वदा ।। १ ०३।।
पश्चिमे वामनो देवो दक्षिणे सोमनाथकः ।
उत्तरे च चमत्कारनगरं द्वारिका शुभा ।। १ ०४।।
शत्रुंजिता स्वर्णरेखा भद्रा चोष्णा हिरण्यका ।
देवनदी न्यंकुमती सरितो मोक्षदाः शुभाः ।। १ ०५।।
यत्र सन्ति रैवतश्च शत्रुंजयो वराटकः ।
शालमालो नवनीतश्चान्ये पर्वतपुंगवाः ।। १ ०६।।
महर्षयश्च भगवत्स्वरूपा यत्र सन्ति हि ।
सत्यो लक्ष्मीसमा यत्राऽक्षता देव्यो वसन्ति च ।। १ ०७।।
चन्द्रो यन्मुखमालोक्य क्षणं स्तब्धो भवत्यपि ।
तादृश्यो दिव्यदेव्यश्च सूर्यतुल्याश्च बालकाः ।।१ ०८।।
यत्र वसन्ति शीलस्थाः साक्षान्नारायणोऽपि च ।
अनादिश्रीकृष्णनारायणस्य गोपिकास्तथा ।। १ ०९।।
लक्षशो यत्र सौराष्ट्रे भक्ता वसन्ति सेविकाः ।
सर्वो ब्रह्ममयो देशो लक्ष्मि! वैकुण्ठवन्मम ।। 1.550.११ ०।।
इत्येवं कथितं सर्वं शंकरोदितमेव .ते ।
पाठकाः श्रावकाः श्रोतुजना मुक्ता भवन्ति च ।। १११ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तुण्डीश्वरकपिलातीर्थाऽगस्त्यनारदचमत्कारभीमनाथतीर्थ- भल्लक्षेत्ररैवततीर्थगजनृपमोक्षादीनां सोपाख्यानवर्णनंनामा पञ्चाशदधिकपञ्चशततमोऽध्यायः ।। ५५० ।।