लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५४८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५४७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५४८
[[लेखकः :|]]
अध्यायः ५४९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रभासस्य पूर्वस्यां शंकरोदितम् ।
पार्वत्यै सुमहत्तीर्थं प्राण्युद्धारकरं शुभम् ।। १ ।।
गुप्तप्रयागस्तत्राऽस्ति देवोऽस्ति माधवस्तथा ।
जाह्नवी यमुना देवी सरस्वती च तत्र वै ।। २ ।।
अन्यान्यपि च तीर्थानि वसन्ति तत्प्रयागके ।
शृगालेश्वरतीर्थं च सन्निधौ वर्तते तथा ।। ३ ।।
त्रिःसंगमो नदीनां च तीर्थं तत्परमं शुभम् ।
ब्रह्मकुण्डो विष्णुकुण्डो रुद्रकुण्डस्तथा शुभः ।। ४ ।।
कुण्डमध्याद् विनिर्गत्य गंगा यमीं सुगच्छति ।
अनयोरन्तरे सूक्ष्मे गुप्ता चास्ते सरस्वती ।। ५ ।।
अत्र माघे स्नानकर्ता प्रयागस्नानजं फलम् ।
तीर्थराजफलतुल्यं लभति नात्र संशयः ।। ६ ।।
तस्मिंस्तीर्थे मातरश्च रक्षिकाः संवसन्ति हि ।
भूतादिभयनाशाय ता मातृः संप्रपूजये ।। ७ ।।
वृषभस्तत्र दातव्यो यात्राफलोपलब्धये ।
विष्णुकुण्डे जनः स्नात्वा यस्तु माधवमर्चयेत् ।। ८ ।।
स तु यास्यति वैकुण्ठं यत्र देवो हरिः स्वयम् ।
शृगालेश्वरनामेशक्षेत्रं क्रोशार्धमित्यपि ।। ९ ।।
गवाहता द्विजहता ये दंष्ट्रिपशुभिर्हताः ।
आत्मघातकरा ये च सर्पदष्टाश्च ये मृताः ।। 1.548.१० ।।
शय्यामृताः शौचहीनास्तेषां श्राद्धं तदत्र वै ।
कारयेत् तेन मुक्ता स्युर्दुःखशोकविवर्जिताः ।। ११ ।।
तत्र सिद्धेश्वरं तीर्थं देवैः संस्थापितं पुरा ।
अणिमादिकमैश्वर्यं स्मृद्धिं विन्देत् प्रपूजनात् ।। १ २।।
ततो वै नारदादित्यं तीर्थं गच्छेद् रवेर्गृहम् ।
एकदा तु पृथिव्यां वै तीर्थयात्राप्रसंगतः ।। १ ३।।
नारदस्त्वागतस्तस्य सूर्यक्रियाप्रसंक्रमात् ।
शैथिल्यं समभूद् देहे यथा जराकृतं भवेत् ।। १४।।
स्वर्गं सत्यं ततो गन्तुं नोत्साहं कुरुते मुनिः ।
यतो विरूपतां प्राप्तो यौवनादिविवर्जितः ।। १५।।
विजातीयादिभावेन सत्ये लोके वसेत् कथम् ।
एवं चिन्तयतस्तस्य सूर्यः साक्षात् बभूव ह ।। १६।।
वद नारद का चिन्ता जायते तव मानसे ।
मर्त्यलोके च येऽप्यन्ये बहु भ्रमन्ति ते खलु ।। १७।।
ईश्वरा वा च देवा वा ऋषयो योगिनोऽपि वै ।
मम क्रियाभिर्व्याप्ताश्च यान्ति वै जीर्णतां ध्रुवम् ।। १८।।
यथा मर्त्यास्तथा तेऽपि मम कालप्रभावतः ।
ग्रस्यन्ते मानवैस्तुल्या वृद्धा भवन्ति सर्वशः ।। १ ९।।
वद त्वं षोडशाब्दश्च दृश्यसे सत्यलोकगः ।
किन्तु चाऽद्य क्षितौ जातो जरया ग्रस्त एव यत् ।।1.548.२०।।
मा त्वं चिन्तां कुरु ब्रह्मन् युवा सन् विचरिष्यसि ।
न प्रभावः किरणानां तवोपरि भविष्यति ।।२ १ ।।
इत्युक्तो नारदस्तत्र सुदृढः षोडशाब्दिकः ।
यथापूर्वं हि संजातः सूर्यश्चादृश्यतां गतः ।।२२।।
नारदेन तदा तत्र नारदादित्यनामकः ।
सूर्यदेवः स्थापितश्च तीर्थं कृतं च पावनम् ।।२३।।
सप्तम्यां रविवारेण यस्तं पश्यति मानवः ।
तस्य रोगभयं न स्यात् प्रसादाद् द्युमणेः रवेः ।।२४।।
अन्यत् तीर्थं तत्र चास्तेऽपरनारायणाश्रयम् ।
फाल्गुनाऽमलपक्षे तु ह्येकादश्यां विधानतः ।।२५।।
पूजयेत् पुण्डरीकाक्षं विष्णुं नारायणात्मकम् ।
अथ गंगा शुभं तीर्थं तत्रेशान्यां हि वर्तते ।।२६ ।।
यत्र त्रिनेत्रका मत्स्या वसन्ति रुद्रचिह्निनः ।
शृणु गंगागमं तत्र मत्स्यानां च त्रिनेत्रताम् ।।२७।।
यदा रुद्रो विवस्त्रः सन् कदाचिदृषिमण्डले ।
आश्रमेषु तु भिक्षार्थं विचचार तदा च तैः ।।२८।।
क्रुद्धैस्तैः ऋषिभिः शप्तो ह्यजानद्भिर्महेश्वरः ।
गजवद् भ्रमसे लोके लज्जाहीनः पशुर्यथा ।।२९।।
तस्माद् भव गजस्त्वं चाऽरण्यवासीति शंकरः ।
द्रागेव च गजो भूत्वाऽरण्यं विवेश शंकरः ।।1.548.३०।।
तत्र भृगुर्योगदृष्ट्या विदित्वा शंकरं च तम् ।
निरानन्दं जगत् सर्वं दृष्ट्वा चाह ऋषीन् परान् ।।३ १।।
अयं तु शंकरश्चासीद् गजरूपोऽपि सोऽभवत् ।
अपराधो महान् जात इति मत्वा च शंकरम् ।।३२।।
ध्यायन्तः प्रार्थयामासुरत्यर्थं च प्रभासके ।
क्षेत्रे शृगालनाम्न्येव यत्र गुप्तप्रयागकः ।। ३३।।
तत्र प्राप्ताश्च ते सर्वे तपोनिष्ठास्तपोघनाः ।
भृगुरत्रिस्तथा मंकिः कश्यपः कण्व इत्यपि ।।३४।।
गौतमः कौशिकश्चापि कुशिकश्च महातपाः ।
जातूकर्ण्यो वसिष्ठश्च सत्यतपाः पराशरः ।।३५।।
शाण्डिल्यश्च पुलस्त्यश्च वत्सः सावस्तिरित्यपि ।
शूकरोऽपि भरद्वाजो भार्गवो दीर्घतापसः ।।३६।।
एते चान्येऽपि बहवोऽगस्त्याद्याः ऋषयो हि ते ।
तपः कृत्वा हरं ध्यात्वा तल्लीनास्ते तदाऽभवन् ।।३७।।
शंभुस्तदा तु साक्षाद्वै समाजगाम तान्प्रति ।
उवाच वरदानार्थं ते च स्वेष्टं प्रवव्रिरे ।।३८।।
यदि प्रसन्नो देवेश गंगामानय प्रागिह ।
अभिषेकं तत्र कृत्वाऽर्चयित्वा त्वां ततः परम् ।।३९।।
अज्ञानात्ते प्रद्रोग्धारो यास्यामः पूततां ततः ।
द्वाभ्यां वयं च नेत्राभ्यां न ज्ञातः शंकरो भवान् ।।1.548.४०।।
तेन जातस्तेऽपराधः पुनः स्यान्न तथा च नः ।
देहि शंभो तृतीयं च नेत्रं दिव्यं यथा तव ।।४१।।
हरेर्हरस्य चान्येषां प्रत्यक्षः स्यात् प्रमाणधृक् ।
परिचयस्तथा चक्षुरान्तरं देहि शंकर ।।४२।।
शंभुः प्राह तथाऽस्त्वेव यूयं पावनपावनाः ।
त्रिनेत्राश्च सदा सन्तु गंगा चेयं समागता ।।४३।।
इत्युक्त्वा शंकरस्तूर्णं तत्स्थानाद् विगतोऽभवत् ।
ऋषयः पापमुक्ताश्च शंकरस्य प्रसादतः ।।४४।।
यज्ञं चक्रुवैष्णवं च तत्र क्षेत्रे दिनाष्टकम् ।
ब्राह्मणा देवताश्चान्ये तीर्थान्यरण्यदेवताः ।।४५।।
समाजग्मुस्तस्य यज्ञे नारायणप्रसादजम् ।
अन्नं भुक्त्वा परां तृप्तिं गता वै प्राणिनोऽपरे ।।४६।।
जलजाः स्थलजाः सर्वे तृप्तास्तत्र शुभे क्रतौ ।
मत्स्याः प्राहुर्मुनीन् सर्वान् यथा वै धीवरा हि नः ।।४७।।
जिघांसवो न हन्युर्वै तथाऽऽशीर्दीयतां हि नः ।
ऋषयश्च तदा प्राहुस्त्रिनेत्राश्च भवन्तु वै ।।४८।।
तृतीयं दिव्यनेत्रं च दूरदर्शनकारकम् ।
शांकरं रूपमेवैतद् भवतां जायतां सदा ।।४९।।
धीवरेभ्यश्च ऋषिभिः शांकरास्ते प्रदर्शिताः ।
त्रिनेत्रा वै शुभा मत्स्या न हन्तव्याः कदाचन ।।1.548.५० ।।
त्रिनेत्रत्वे कारणं च प्रोक्तं गंगाऽऽगमे तथा ।
तत्र कुण्डे समागत्य स्नात्वा मत्स्यान् विलोकयेत् ।।५१ ।।
तेभ्यो दद्याच्चणकादीन् हेमं विप्राय चार्पयेत् ।
गाश्च वस्त्रं तिलान् दद्यात् त्रिनेत्रः स भवेद् ध्रुवम् ।।५२।।
ऋषितोयाजले स्नात्वा कुण्डे तप्तोदके तथा ।
शंकरं पूजयेत्तत्र स भवेद् भुवनाधिपः ।।५३।।
तत्र चतुर्मुखश्चास्ते विनायको महाबलः ।
सोमवारे पूजयित्वा स्वेष्टकामान् लभेज्जनः ।।५४।।
ततो गच्छेत् परं तीर्थं गोपालस्वामिनं हरिम् ।
सर्वपापौघशमनं दारिद्र्यौघविनाशनम् ।।५५।।
बकुलस्वामिनं कृष्णनारायणं प्रपूजयेत् ।
उत्तरार्कं ततो गच्छेत् सर्वरोगप्रणाशनम् ।।५६।।
समुद्रस्य तटे तत्र ऋषितीर्थं हि विद्यते ।
पाषाणाकृतयस्तत्र दृश्यन्ते ऋषयः सदा ।।५७।।
मरुद्देवीं ततो यायान्मरुद्भिः पूर्वपूजिताम् ।
क्षेमादित्यं ततो गच्छेच्छबरस्थानमध्यगम् ।।५८।।
ततो गच्छेन्महादेवीं शुभ्रां कण्टकशोधिनीम् ।
ऋषितोयातटे यज्ञं चक्रुः पुरा महर्षयः ।।५९।।
धूमैः समावृतं व्योम यज्ञहोमाग्निहोत्रजैः ।
घ्रात्वा दैत्याः समुद्रस्य मध्यात्तत्र समाययुः ।।1.548.६ ०।।
मायाविनो महाकायाः श्यामवर्णा महोदराः ।
लम्बभ्रूश्मश्रुनासाग्रा रक्ताक्षरक्तमूर्धजाः ।।६ १।।
उपद्रवं च ते चक्रुर्यज्ञविध्वंसहेतवे ।
एतान् दृष्ट्वा ऋषयश्च दुद्रुवुर्भयकातराः ।।६२।।
पत्नीशालां समाविष्टाः केचिद्धर्ययुता द्रुतम् ।
अग्निहोत्रहविष्यं च हविर्विन्यस्य मन्त्रतः ।।६३।।
सुसमिद्धे जुहुवुश्च रक्षसां नाशहेतवे ।
हुतमात्रे समुत्पन्ना शक्तिंर्लोकभयंकरा ।।६४।।
खड्गशक्तित्रिशूलासिचर्महस्ता महोज्ज्वला ।
तया ते निहता दैत्याः समस्ता अथ ता तदा ।।६५।।
तुष्टुवुः ऋषयः सर्वे प्रसन्ना साऽप्युवाच तान् ।
वरं वृणुध्वं मुनयो ददाम्यत्र यथेप्सितम् ।।६६।।
मुनयो वव्रिरे देवकण्टकानां विशोधिनी ।
कण्टकशोधिनीनाम्नी स्थानेऽत्र वस रक्ष नः ।।६७।।
एवमस्तु समुवाच तत्रैव च स्थिता ततः ।
अष्टम्यां वा नवम्यां च पूजयेत्तां हितावहाम् ।।६८।।
राक्षसेभ्यः पिशाचेभ्यो भयं तस्य न जायते ।
प्राप्नुयाद् यज्ञसिद्धिं च फलं क्रतूद्भवं तथा ।।६९।।
ततो गच्छेदुन्नताख्यं तीर्थं चोत्तरभूस्थितम् ।
ब्रह्मेश्वरं पूजयेच्च तथा कृष्णनरायणम् ।।1.548.७० ।।
ऋषितोयातटे पूर्वं तेपुर्वै ब्राह्मणास्तपः ।
अत्युग्रं तेन भिक्षुश्च भूत्वा नारायणो ययौ ।।७१ ।।
ततः शंभुर्वृषो भूत्वा चचार ऋषिसन्निधौ ।
त्रिकालदर्शिभिस्तत्र दृष्टो नारायणो हरः ।।७२।।
दृष्टमात्रो विरराम शंकरो वृषरूपवान् ।
तत्र शंभुर्लिंगरूपः संजातश्चण्डिकेश्वरः ।।७३।।
अहं नारायणो लक्ष्मि! तदा तैः प्रार्थितो बहुः ।
रक्षणार्थमासुरेभ्यस्तदा मया निवेदितम् ।।७४।।
अत्र कुरुत नगरं निवासाय महाप्रभम् ।
हूयन्तामग्निहोत्राणि देवताः सर्वदा द्विजाः ।।७५।।
इज्यन्तां विविधैर्यज्ञैः क्रियतां चापि पूजनम् ।
आतिथ्यं जायतां नित्यं भक्तिर्मम च निश्चला ।।७६।।
मम प्रसादतश्चान्ते मुक्तिर्वः संभविष्यति ।
ऋषयस्ते तदा प्राहुर्नगराऽवनदुर्बलाः ।।७७।।
नगरेणेह किं कुर्मस्तव भक्तिमभीप्सवः ।
मोक्षं देहि महाराज! रक्षणं नः सदा कुरु ।।७८।।
हरिः प्राह सदा रक्षां करिष्ये भवतामहम् ।
सस्मार विश्वकर्माणं विश्वकर्मा समाययौ ।।७९।।
यत्र चण्डीश्वरः शंभुस्तां भूमिं चतुरस्रिकाम् ।
अष्टयोजनविस्तीर्णां जग्राह नगरार्थिकाम् ।।1.548.८०।।
पूर्वे तु शंकरः श्रीमान् पश्चिमे न्यंकुमत्यपि ।
उत्तरे स्वर्णनन्दा च दक्षिणे सागरावधिम् ।।८१ ।।
मध्ये नाग्नहरक्षेत्रं नगरं चोन्नतं परम् ।
कारयित्वा हरिस्तेभ्यो विप्रेभ्यो वासकारणात् ।।८२।।
ददौ न्यूषुस्तत्र विप्रा होमयज्ञक्रियापराः ।
उन्नतो विघ्नराजश्च तत्र रक्षणहेतवे ।।८३ ।।
स्थापितः श्रीकृष्णनारायणेन शंमुसन्निधौ ।
पूजितो धनदः पुत्रसम्पदां च प्रदः सदा ।।८४।।
कामाँश्च मुक्तिं च प्रदास्यति न संशयः ।
वास्तुकार्ये गणेशं च शंकरं श्रीनरायणम् ।।८५।।
पुपूजुर्विश्वकर्माणं मातृगणाँश्च भूसुरान् ।
कलशं संपुपूजुश्च तदा शंभुः समाययौ ।।८६।।
प्रत्यक्षः कलशाग्रे वै कलशेशस्ततोऽभवत् ।
यत्र स्थले पुपूजुश्च तत्र स्थलेश्वरोऽभवत् ।।८७।।
माघमासेऽभवत् सर्वं नगरं पूजनं तथा ।
ततो जातं चोन्नताख्यं नगरं विप्रतीर्थकम् ।।८८।।
विश्वकर्मेश्वरं चापि लिंगं तत्रैव पूजितम् ।
ब्रह्मा बालस्वरूपश्चोन्नताख्ये न्यवसत्ततः ।।८९।।
रैवते वामनो बालः प्रभासे बालको हरः ।
उन्नतेऽजो बालरूपो वर्तते तत् त्रयं समम् ।।1.548.९०।।
बालरूपे न मायाऽस्ति कापट्यं न च वासना ।
मोक्षदं बालरूपं वै पूज्यं रम्यं निरामयम् ।।९१।।
कामः क्रोधस्तथा लोभो मोहाद्या बालरूपिणि ।
निर्मूला एव नोत्पन्ना विद्यन्ते नैव जन्मतः ।।९२।।
संगदोषाच्च जायन्ते संस्काराद्वा ततः परम् ।
सत्यं व्रतं सदा तत्र बालके चाऽप्यहिंसनम् ।।९३ ।।
अस्तेयं वर्तते तत्र ब्रह्मवद्वर्तनं तथा ।
अपरिग्रह एवापि विश्वासो मातृनोदिते ।।९४।।
रागेण हीनता चापि सन्तोषं उदरंभरः ।
शुद्धिश्चात्मनि निर्द्वेष्टा तपः पोषकधीनता ।।९५।।
विद्याध्यायश्चेशभावः सर्वे सन्ति हि बालके ।
संसारस्य च यद्रूपं विषयाभिगतिप्रदम् ।।९६।।
तत्तत्र बालके नास्ति तस्माद् विष्णुर्हि बालकः ।
सर्पोऽपि बालकं मत्वा प्रसृप्य बालकोपरि ।।९७।।
निर्भयश्च प्रयात्येवाऽजातशत्रुकबालता ।
यस्य कस्यापि वाऽपत्यं सदयं लोक्यते सदा ।।९८।।
सर्वयोनिगतैर्जीवैः प्रेम्णा संलोक्यते तथा ।
नारायणस्वरूपत्वं तदेव बालके मतम् ।।९९।।
ध्रुवं बालं च प्रह्लादं सनकादींस्तथा शुकम् ।
बालं कृष्णस्वरूपं चाराध्य मोक्षं गताः पुरा ।। 1.548.१० ०।।
यौवने वार्धके वापि नरे नार्यां नपुंसके ।
स्याद् यदि बालभावश्चेद् दोषाऽसंक्रमणं तथा ।। १०१ ।।
पूज्यते देववत् सोऽपि निर्दोषो बालको यतः ।
दोषहीनं च वार्धक्यं दोषहीना च बालता ।। १ ०२।।
द्वयोः साम्यं च नैर्मल्ये पावित्र्यस्य स्थले ह्युभे ।
बालं नमन्ति वै चन्द्रं बालं पश्यन्ति मातरः ।। १०३।।
बालां कन्यामुद्वहन्ति बालं गृह्णन्त्यवंशिनः ।
बलं नारायणीयं च स्वच्छं यत्रास्ति सर्गजम् ।। १ ०४।।
तद्वान् बालः सम्प्रदिष्टस्तस्माद्बालो नरायणः ।
विद्यादानं बालकेभ्यो भोज्यदानं सहायताम् ।। १ ०५।
समर्पयन्ति जनतास्तस्माद् बालः प्रशस्यते ।
ब्रह्मचर्यं सदा बाले ब्रह्मणो रूपमेव यत् ।। १ ०६।
तस्माद् बालो ब्रह्मचारी ब्रह्मलोकाऽधिकारवान् ।
ब्रह्ममोक्षप्रदश्चापि यथा कृष्णो नरायणः ।। १ ०७।।
गौरीं च बालिकां सौम्यां संपूज्य लभते फलम् ।
पार्वतीपूजनस्यापि लक्ष्म्यर्चनस्य चापि वै ।। १०८ ।।
अरजस्काः सदा देव्यो दिवि वसन्ति बालिकाः ।
सावित्री चापि गायत्री श्रीश्च लक्ष्मीश्च बालिकाः ।। १०९।।
तस्य स्वामी सदा बालो ब्रह्मा कृष्णो हरस्तथा ।
लोकाः स्वानुगतैर्भावैः कल्पयन्ति सुयौवनम् ।। 1.548.११० ।।
स्ववद् विकृतकाकारान् दिव्यानप्यत्यदिव्यकान् ।
दोषहीनान् सदा शुद्धान् दैत्या गृह्णन्ति दोषितान् ।। १११ ।।
सदोषे वै कथं मोक्षो निर्दोषे वासना कथम् ।
तस्मान्निर्दोषका देवा बाला मोक्षप्रदाः सदा ।। ११२।।
बाला नित्याः सदा मुक्ता राजन्ते ब्रह्मधामनि ।
सदा किशोरा दिव्याश्च प्रशस्ता बालकास्ततः ।। ११ ३।।
इत्येवमुक्तवान् शंभुः पार्वत्यै चोन्नतादिकम् ।
तीर्थं मया च ते लक्ष्मि! कथितं मोक्षदं श्रवात् ।। १ १४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गुप्तप्रयागतीर्थशृगालेश्वरक्षेत्राऽपरनारायणतीर्थत्रिनेत्रतीर्थोन्नतनगरस्थानेश्वरादिनैकतीर्थनिरूपणं बालतात्पर्यार्थनिरूपणं चेत्यादिनामाऽष्टचत्वारिंशदधिकपञ्चशततमोऽध्यायः ।। ५४८ ।।