लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५४७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५४६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५४७
[[लेखकः :|]]
अध्यायः ५४८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततोऽगस्त्यो भद्राश्वं नृपतिं शुभम् ।
आत्मज्ञानं यथा प्राह वच्मि ते लोकमोक्षदमम् ।। १ ।।
शंकरेण प्रभासे वै प्रोक्तं सत्यै पुरा हि तत् ।
भद्राश्वः समपप्रच्छाऽगस्त्यं मोक्षप्रदं वरम् ।। २ ।।
ज्ञानं वद महाप्राज्ञ! येन मोक्षं प्रयामि वै ।
अगस्त्यः प्राह राजानं गुरुं विना गतिर्न वै ।। ३ ।।
गुरुर्ब्रह्मा स्वयं विष्णुः शंभुर्नारायणो गुरुः ।
गुरुरेव परब्रह्म प्रत्यक्षो भगवान् हरिः ।। ४ ।।
तं प्रसाद्य भवेन्मोक्षयोग्यता देहिनः पुरा ।
आत्मप्रसादस्तस्यैवाशीभिर्जायत एव हि ।। २ ।।
व्रतं कुर्यादर्चनं च प्रसादनं पुनः पुनः ।
ज्ञानमन्त्रप्रदाता च तारयेद् भवसागरात्। ।। ६ ।।
गुरवे भोजनं दद्याद् वैष्णवो यज्ञ उच्यते ।
कुर्यात्तु वैष्णवं यज्ञं यजेद् योगीश्वरं हरिम् ।। ७ ।।
यो हरेः सरहस्यं तु सुमन्त्रं चोपपादयेत् ।
तस्मै दद्यात्तु सर्वस्वं प्रियं चात्मार्पणादिकम् ।। ८ ।।
फलं तस्मै प्रदत्तस्य कोटिकोटिगुणोत्तरम् ।
सुखं राज्यं महानन्दः स्वर्गं मोक्षश्च शाश्वतः ।। ९ ।।
गुरौ सति तु यश्चान्यमाश्रयेत् पूजयेत् कुधीः ।
स न फलमवाप्नोति दत्तमस्य तु निष्फलम् ।। 1.547.१० ।।
प्रयत्नेन गुरौ पूर्वं पश्चादन्यस्य दापयेत् ।
अविद्यो वा सविद्यो वा गुरुरेव जनार्दनः ।। ११ ।।
मार्गस्थो वाऽप्यमार्गस्थो गुरुरेव परा गतिः ।
प्रतिपद्य गुरुं यस्तु पश्चाद् विप्रतिपद्यते ।। १ २।।
गुर्वपराधपात्रं स दुःखी स्यात् पुरुषाधमः ।
गुरौ नारायणश्चास्ते तं प्रसाद्य सुखी भवेत् ।। १ ३।।
मूर्तिर्नारायणस्यैव चेतना गुरुरेव ह ।
जागर्ति स्नाति वस्त्राणि धारयत्येव चन्दनम् ।। १४।।
कुंकुमादि सुगन्धादि गृह्णाति स जनार्पितम् ।
पुष्पं पत्रं फलं तोयं भोज्यं ताम्बूलकं तथा ।। १५।।
जलं भूषां कज्जलादि गृह्णाति स जनार्पितम् ।
आसनं वाहनं यानं पर्यंकं पादुकादिकम् ।। १६ ।।
जलं सौभाग्यद्रव्यादि गृह्णाति स जनार्पितम् ।
मनो भावं प्रेम भक्तिं सेवां वस्तु तथार्पितम् ।। १७।।
पादसंवाहनं पेयं मैत्रीं हास्यं प्रसन्नताम् ।
नमस्कारं देहसेवां गृह्णाति स जनार्पितम् ।। १८ ।।
शिष्यदुःखं दयालुर्वै गृह्णाति वारयत्यपि ।
साहाय्यं कुरुते शश्वज्ज्ञानं ददाति शान्तिदम् ।। १ ९।।
पापं प्रज्वालयत्येव पुण्यं ददाति पुष्कलम् ।
नैजं सर्वं ददात्येव गुरुरेव जनार्दनः ।। 1.547.२० ।।
गुरुरेव पतिः पुत्रः सती साध्वी पतिव्रता ।
पिता माता तथा भार्या सर्वस्वं गुरुरेव ह ।। २१ ।।
रक्षकः पोषकश्चापि तारकश्चावबोधकः ।
हरेर्धाम्नः प्रापकश्च गुरुरेव हरिः स्वयम् ।। २२।।
भ्राता चैकगुणो मान्यः पिता दशगुणस्ततः ।
माता शतगुणा मान्या सहस्रगुणको गुरुः ।। २३ ।।
अपारगुणकः कृष्णनारायणः पुमुत्तमः ।
अक्षराऽधिपतिः श्रीमान् भगवान् पुरुषोत्तमः ।। २४।।
एवं प्रत्यक्षमूर्तिं वै गुरुं सम्पूजयेत् सदा ।
दिव्यमूर्तिर्गुरुः साक्षाद्धरेर्दिव्यस्य योगतः ।। २५।।
शिष्यस्य दिव्यतासम्पादको दिव्यहरिः स वै ।
एवं मत्वा सदा राजन् गुरुं ध्यायीत चार्चयेत् ।। २६ ।।
परं कल्याणदं पात्रं शिष्यः समर्जयेद् गुरुम् ।
भद्राश्वः स्वगुरोर्वाक्यं श्रुत्वा मुमोद चात्मनि ।। २७ ।।
सर्वं प्राप्तं गुरुः प्राप्तः पूर्णतां मन्यतेऽपि च ।
लोकानां बोधलाभाय नत्वा प्रपच्छ वै पुनः ।। २८ ।।
गुरो! प्राप्तं मया सर्वं प्राप्तव्यं नावशिष्यते ।
तथापि वद मे मोक्षधर्मान् लोकहितावहान् ।। २९।।।
भगवन् कर्मणा केन छिद्यते भवसंसृतिः ।
किंवा कृत्वा न शोचन्ति मूर्ताऽमूर्तोपपत्तिषु ।। 1.547.३० ।।
किं कृत्वा च परब्रह्ममयो भवति मानवः ।
इति राज्ञो वचः श्रुत्वाऽगस्त्यः प्राह प्रमोदवान् ।। ३१ ।।
शृणु राजन् कथां दिव्यां दूरासन्नव्यवस्थिताम् ।
दृश्यादृश्यविभागोत्थां समाहितमना भव ।। ३२ ।।
आसीद् राज्यं पुरा चापि वर्तमाने भविष्यति ।
अपारं च तथाऽसीमं यत्र सूर्यो न चन्द्रमाः ।। ३३ ।।
न रात्रिर्न च दिवसो दिशो नैव न भूस्तथा ।
न द्यौर्देवा न वा चासन् दिव्यं राज्यं तथा हि तत्। ।। ३४।।
तत्र सम्राट् मुक्तपालो राजा शाश्वतजीवनः ।
पालयामास दिव्यान् वै मुक्तान् संख्याविवर्जितान् ।।३९।।
प्रजास्तं मानयामास सर्वात्मभावनार्पणाः ।
प्रजानां भोजनं मिष्टं राजा सर्वं ददाति वै ।।३६।।
न च शैत्यं नातपश्च सिद्धियुक्ताश्च ताः प्रजाः ।
विनिन्द्राः शाश्वतानन्दा नित्यतृप्ता निराशयाः ।।३७।।
सर्वे संकल्पसत्याश्च राजाऽऽनन्दपरिप्लुताः ।
वर्तन्ते च प्रजाः सर्वास्तस्यैव चक्रवर्तिनः ।।३८।।
यत्र नान्यत् खण्डराज्यं साम्यवादश्चतुर्विधः ।
सालोक्यं सर्वमुक्तानां सार्ष्टिता सर्वदेहिनाम् ।।३९।।
सारूप्यं सर्वतत्त्वानां सायुज्यं सर्वयोगिनाम् ।
भोजने रमणे याने वाहने कल्पने रतौ ।।1.547.४०।।
ज्ञाने भक्तौ वेदने चोपकार्येऽपि समानता ।
एवं राज्यं महद् यत्र सत्यमेव न चानृतम् ।।४१ ।।
यत्र न्यायालयो नास्ति नास्ति दोषाधिकारिता ।
यत्र चौर्यं वैमनस्यं शात्रवं वर्तनं न वै ।।४२।।
यत्राऽशुद्धिस्तथा नास्ति क्षयो यत्र न विद्यते ।
यत्र चातिशयो नास्ति कुतो द्वेषश्च रागकः ।।४३।।
तादृशं राज्यसर्वस्वं प्रत्यक्षं करपात्रवत् ।
दूरदृश्यं दूरश्रावो दूरचिन्तनमित्यपि ।।४४।।
सर्वं साक्षाच्चात्मतन्त्रं साधनं चात्मजं हि तत् ।
तद्राज्यं पावनानां तु प्रजानामधिवासनम् ।।४५।।
अपावनानां यात्रापि तत्र नैव हि जायते ।
सीमा या चाऽपावनानां तदूर्ध्वं तदग्राह्यकम् ।।४६।।
अपावनान्यरण्यानि वर्तन्ते परितस्ततः ।
स चात्मपालको राजाऽऽरण्यं विहर्तुमाययौ ।।४७।।
अरण्यानि समुद्रांश्च पर्वतान् क्षेत्रभूमिकाः ।
यानि दिव्यमहाराज्यादधस्तटे भवन्ति च ।।४८।।
दास्यै दत्तं च तद्राज्यं भृत्याय पूर्वमेव ह ।
दिदृक्षुः कृपया राजा पश्चिमं तटमाययौ ।।४९।।
ऊर्ध्वं तीरं समुद्रस्याऽनन्तपारस्य शाश्वतम् ।
भवाब्धौ यत्र वै द्वीपे द्वीपे वसन्ति धीवराः ।।1.547.५० ।।
कामः क्रोधश्च लोभश्च मोहो मदश्च पञ्च ते ।
अष्टौ द्रुमास्तथा यत्र वर्तन्ते कामवर्षिणः ।।५१ ।।
धर्मोऽधर्मस्तथा ज्ञानमज्ञानं च चतुर्थकम् ।
ऐश्वर्यं चाप्यनैश्वर्यं रागो वैराग्यमित्यमी ।।५२।।
नदी तीर्यग् यत्र याति मनोवहाभिधाऽनिशम् ।
अधश्चोर्ध्वं बभ्रमुश्च पञ्च मुख्याश्च नायकाः ।।५३।।
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च नामतः ।
एको मुख्यप्रधानश्च प्राणाख्यो वर्तते सदा ।।५४।।
एका स्त्री वर्तते दासी यथा राज्ञी बलाधिका ।
त्रिगुणा सा बुद्धिनाम्नी राजेन्द्र सेवते सदा ।।।५५।।
सा स्त्री स्वे वक्षसि नित्यं महेन्द्रं रक्षति ध्रुवम् ।
सहस्रसूर्यप्रतिमं लक्षचन्द्रसमा च सा ।।५६।।
तस्याऽधरस्त्रिविकारो हास्यमाश्चर्यमुग्रता ।
तस्या वर्णस्त्रिरूपश्च श्वेतो रक्तस्तमोमयः ।।५७।।
युवती सर्वदा रम्या नूतनेव व्रजस्थिता ।
विना च पुरुषं म्लाना तूष्णीभूता मृता यथा ।।५८।।
दिव्यं तं पुरुषं दृष्ट्वा समायान्तं तटाऽन्तिगम् ।
साशा सजीवना यद्वज्जाता जडाऽपि चेतना ।।५९।।
नृपोऽपि तां कृपयैव विलोक्य च मुहुर्मुहुः ।
समुद्रं च वनं तस्याः क्षेत्राणि संविवेश ह ।।1.547.६ ०।।
तस्मिन् प्रविष्टे नृपतौ स्त्रीराज्यस्थाः प्रजास्तदा ।
प्रधानाद्याश्च सम्भूय तत्स्वागतार्थमाययुः ।।६१ ।।
केचिन्नम्रा जलं पात्रमानिन्युरासनादिकम् ।
भयादैक्यं गतवन्तः क्षणेन चोपदान्विताः ।।६२।।।
तैस्तदाधीवरैर्न्यायवर्जितैर्वेष्टितो नृपः ।
कामादिभिस्तथाप्येषस्तेभ्यो न हृदयं ददौ ।।६३।।
अथाऽयं नृपतिस्ताँश्चोद्धतान् ज्ञात्वा वशेच्छया ।
एकं वै मानसं पुत्रं चिन्तयामास नायकम् ।।६४।।
यदधीना इमे सर्वे भवेयुर्न च स्युर्यथा ।
तावत् सा स्त्री निरपत्या सापत्येच्छावती ह्यभूत् ।।६५।।
प्रार्थयामास राजानं कुरु सापत्यकां च माम् ।
तथाऽस्त्विति नृपः प्राह सुषुवे स्त्री स्वकं सुतम् ।।६६।।
त्रिवर्णं पुरुषं श्वेतं रक्तं कृष्णं च सदृशम् ।
जातमात्रः सोऽप्युवाच मम नाम प्रदेहि वै ।।६७।।
महानिति ततश्चक्रे मुख्यं नाम सुतस्य सः ।
राजा तेन प्रसन्नोऽभूत् पुत्रोऽपि तं नृपं तदा ।।६८।।
धर्षयामास वेगेन किन्तु नृपो महाबलः ।
धर्षणं तस्य नापेदे ततोऽसौ पुत्रकाम्यया ।।६९।।
तुष्टाव तं नृपं तेन दत्तस्तत्सदृशः सुतः ।
सोऽपि त्रेधाऽभवत्तस्य महान् प्राहाऽहमेव ह ।।1.547.७०।।
अस्मीतिनामतः ख्यातोऽहंकारः पितृसदृशः ।
एवं पुत्रं प्रपुत्रं च लब्ध्वा स्त्री चातिहर्षिता ।।७१ ।।
तद्बलेन ततः सा स्त्री तं राजानं रुरोध ह ।
तथापि न निरुद्धः स यदा वै बलवत्तमः ।।७२।
तदा नैजं बलं मत्वा न्यूनं सैन्यं च सा पुनः ।
वव्रे पुत्रान् पञ्च चान्यान् अहंकारस्य बालकान् ।।७३।।
राजा ददौ च तान् पञ्च तन्मात्रात्मकबालकान् ।
तेऽपि चागत्य च सर्वे संभूय रुरुधुर्नृपम् ।।७४।।
तथापि भूपतिः सिद्धो रुद्धो नैव च नैव च ।
तदा वव्रे तु सा नारी दश पञ्च च बालकान् ।।७५।।
तथास्त्विति नृपः प्राह ददौ दशेन्द्रियाणि च ।
पञ्चप्राणान् ददौ ते च सम्भूय रुरुधुर्नृपम् ।।७६।।
तथाप्ययं न रुद्धोऽभूत् ततस्तेऽन्याश्रयं ययुः ।
स्वराज्यस्थं महेन्द्रं ते संवेष्ट्य संस्थितास्तदा ।।७७।।
इन्द्रश्चात्मा महेन्द्रः स रुद्धो दस्युभिरेव ह ।
इन्द्रेण सह ते सर्वे ह्येकीभूय हि दस्यवः ।।७८।।
राजानं च ततो हन्तुं बद्धुं वा मन्थितुं च वा ।
उद्यताः सहसा तत्र तथापि बद्ध एव न ।।७९।।
अथ सर्वान् विहायैव राजा गन्तुं समीहते ।
तावत् सेन्द्रास्तदा सर्वे बभूवुश्च मृता यथा ।।1.547.८०।।
पुनः सर्वैः प्रार्थितश्च जीवानार्थं च तैः पुनः ।
मेलयितुं मण्डले स्वे वर्तयितुं सदा सह ।।८ १ ।।
तदा दयालुर्भगवान् दिव्यराज्यकरः प्रभुः ।
स्वस्थाने कार्यकर्तारं बद्धमिवाऽनुगामिनम् ।।८२।।
पुरुषं जनयामास यथा कर्मानुरूपिणम् ।
हिरण्यवर्णं निर्लिप्तं नृपाज्ञालेपमास्थितम् ।।८३।।
स्त्रिया महताऽहंकृत्या कामाद्यैरभिवाञ्च्छितम् ।
शब्दाद्यैः श्रवणाद्यैश्च प्राणाद्यैरभिसत्कृतम् ।।८४।।
जनयित्वा ददौ तेभ्यो रुद्धः संवेष्टितश्च सः ।
जडचेतनग्रन्थिश्च हिरण्मयो नरश्च सः ।।८५।।।
सदृशान् जनयामास रोमसंख्याकबालकान् ।
सुशोभमानान् वैराजाँस्तेऽपि तृष्णाकुलास्ततः ।।८६।।
असंख्यबालकान् स्वल्पान् ससृजुर्नाभिदेशतः ।
तेभ्यो दत्ता महातृष्णा प्रत्येकं च प्रवर्तिका ।।८७।।
कार्यकाण्डप्रयोक्त्री च वासना चाऽपराऽर्पिता ।
उभाभ्यां रमते ब्रह्मा जनयत्यपराः प्रजाः ।।८८।।
एतत् सर्वं परं कार्यकरं कुटुम्बमेव सः ।
स्त्रियै दत्त्वा ययौ नैजं देशं दिव्यं नृपश्च सः ।।८९।।
तावल्लीनानि सर्वाणि कुटुम्बानि शुभानि वै ।
तैर्लीनैर्नृपतेश्चेन्द्रो निराश्रयो बभूव ह ।।1.547.९०।।
रुरोद पापरुद्धः स वासनाक्रमवासितः ।
पुनः कृपालुर्भूपालस्तदर्थं सुखमाश्रयम् ।।९१ ।।
ददौ व्योम ततो वायुं तेजो जलं भुवं तथा ।
लीनेभ्यो व्यक्तरूपाणि दत्तवान् भूपतिः स वै ।।९२।।
सावकाशानि पञ्चैक्यभावापन्नानि कार्यतः ।
संयुक्तानि महेन्द्रस्याऽऽश्रयाण्यालम्बनानि च ।।९३।।
तावत्तानि च लीनानि समुद्भूतानि वै पुनः ।
जीवितानि स्वकार्येषु समागत्य स्थितानि च ।।९४।।
महेन्द्रो दस्युभिर्व्याप्तो नवद्वारे पुरे शुभे ।
राज्यं च कारयामास प्रचकार स्वयं तथा ।।९५।।
महेन्द्राद्या बभ्रमुश्च दिग्भ्रमे चाति पीडिताः ।
तदा तं नृपतिं प्राहुर्देहि मार्गप्रदर्शकम् ।।९६।।
प्रार्थनां परमां श्रुत्वा राजा कन्यां सुबोधिनीम् ।
ददौ महेन्द्रसंज्ञाय यथा दिव्यनृपालयः ।।९७।।
प्रदृश्यते तया साकं महेन्द्रः सुखवानभूत् ।
अमूर्ता इव ते सर्वे न्यूषुरायतने शुभे ।।९८।।
नवद्वारे पुरे त्वेकस्तम्भे सर्वककुब्पथे ।
नदीसहस्रसंकीर्णे सर्वकार्यसमाश्रिते ।।९९।।
महेन्द्रं त्वेकलं दृष्ट्वा सखायं नृपतिश्च सः ।
आवर्तमानं मुग्धं च नष्टमिव स्थितं च तम् ।। 1.547.१०० ।।
संसूच्य वाचकान् शब्दान् वेदानशिक्षयच्छुभान् ।
नियमांश्च यमाँश्चापि शिक्षयमास वै तदा ।। १०१ ।।
तेन मोहो विनष्टो वै सस्मार भूपतिं पुनः ।
किन्तु बन्धैर्वेष्टितः स न निर्गन्तुं शशाक ह ।। १ ०२।।
शस्त्रं त्वैच्छत्तदा देवान्नृपतेः शीघ्रमेव तु ।
भूपः शस्त्रमसंगं च ददावस्मै सुवज्रकम् ।। १ ०३।।
छित्वा तदा महेन्द्रश्च बन्धनानि नृपालयम् ।
ययौ नित्यसुखानन्दान्वितोऽभूत् क्षणमात्रतः ।। १ ०४।।
महेन्द्राः सर्व एवैते पूर्वकर्मानुसारतः ।
कायानगरराजानो भवन्ति भवसागरे ।। १ ०५।।
चतुर्विंशतिचौरैश्च बद्ध्यन्ते मध्यसंस्थिताः ।
उपासनया बुद्ध्या च भक्त्या दास्येन योगतः ।। १ ०६।।
अन्यतमेन शस्त्रेण भित्त्वा बन्धनमेव च ।
याति दिव्यनृपराज्यं पुनर्यत्र न बन्धनम् ।। १ ०७।।
आगतेयं कथा राजन् सर्वस्य विषये स्थिता ।
त्वद्देहे मम देहे च सर्वजन्तुषु सदृशी ।। १ ०८।।
मायाराज्यं विहायैव दिव्यभूपाश्रयं चरेत् ।
तेनमुक्तस्थितिं प्राप्य शाश्वतं सुखमश्नुते ।। १ ०९।।
प्रवृत्तं मण्डलं हित्वा निवृत्तं पदमाप्नुयात् ।
पार्वत्यै शंकरश्चैव प्राह लक्ष्मि! मयोदितम् ।। 1.547.११ ०।।
अगस्त्यश्च समुवाच भद्राश्वाय नृपाय च ।
सोऽयं राजा च सौराष्ट्रे प्राप्य ज्ञानमनुत्तमम् ।। ११ १।।
ययौ राज्यं स्वकं तत्र समाराध्य नरायणम् ।
माहेन्द्रमण्डलं हित्वा भक्त्या नारायणस्य सः ।। ११ २।।
ययौ मोक्षपदं दिव्यनृपतेर्वासरूपकम् ।
पठेद् यः शृणुयाच्चापि लभेतात्मविसर्जनम् ।। १ १३।।
भवपारं परं पारं मायाब्धेर्वासनाक्षयम् ।
पुरातनं महामित्रं प्राप्नुयान्नात्र संशयः ।। १ १४।।
सकामस्य धनं पुत्रोऽपत्यानि सम्पदस्तथा ।
भवेयुश्च सदारोग्यं तत्त्वज्ञानश्रवात् प्रिये ।। १ १५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भद्राश्वराज्ञेऽगस्त्यप्रदत्तात्मज्ञानगुरुमहिमादिनिरूपणनामा सप्तचत्वारिंशदधिकपञ्चशततमोऽध्यायः ।।५४७।।