लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५४६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५४५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५४६
[[लेखकः :|]]
अध्यायः ५४७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि विशालनृपतेः पुरा ।
जातं दिव्यं चरित्रं यत् पार्वत्यै प्राह शंकरः ।। १ ।।
पूर्वं राजा विशालोऽभूत् काशीपूर्यां महाबलः ।
गोत्रजैर्हृतराज्योऽसौ गन्धमादनमाययौ ।। २ ।।
तस्य द्रोण्यां बदरीं च शुभां प्राप्य नृपोत्तमः ।
तपश्चक्रे भजमानः कृष्णनारायणं हरिम् ।। ३ ।।
कदाचिदागतौ तत्र पुराणावृषिसत्तमौ ।
नरनारायणौ देवौ धर्मपुत्रौ हिमाश्रितौ ।। ४ ।।
तौ दृष्ट्वा सुतपस्यन्तं बदरीस्थं नृपं शुभम् ।
ध्यायन्तं परमं ब्रह्मविष्णुरूपं जनार्दनम् ।। ५ ।।
नरनारायणं प्रीतौ दृष्ट्वा तं क्षीणकल्मषम् ।
ऊचतुर्वरदौ राजन् वृणीष्व वरमीप्सितम् ।। ६ ।।
राजा प्राह भवन्तौ कौ न जानामि कथं वरम् ।
अज्ञाताभ्यां प्रगृह्णामि दातुं शक्तौ च कं वरम् ।। ७ ।।
आराधयामि यं कृष्णनारायणं जगद्गुरुम् ।
तस्माद् वरं ग्रहीष्यामि नान्यस्मादिति भूसुरौ ।। ८ ।।
एवमुक्तावाहतुस्तौ कमाराधयसे प्रभुम् ।
कं वा वरं वृणोषि त्वं कथयस्व कुतूहलात् ।। ९ ।।
एवमुक्तो नृपः प्राह कृष्णनारायणं प्रभुम् ।
आराधयामि सततं ततस्तावूचतुः पुनः ।।1.546.१ ०।।
राजँस्तस्यैव देवस्य प्रसादादावयोर्वरम् ।
गृहाण त्वं वरं ब्रूहि कस्ते मनसि वर्तते ।। ११ ।।
यथा यज्ञेश्वरं देवं यज्ञैर्विविधदक्षिणैः ।
यष्टुं समर्थता मे स्यात्तथा मे ददतं वरम् ।। १ २।।
तदा नारायणं श्रेष्ठं भ्रातरं सम्प्रदर्श्य वै ।
नरः प्राह च राजानं शृणु राजन् सनातनम् ।। १ ३।।
अयं मे पूर्वजो भ्राता लोकानां मार्गदर्शकः ।
मया सह तपः कुर्वन्नास्ते बदरिकाश्रमे ।। १४।।
अयं मत्स्योऽभवत् पूर्वं ततः कूर्मोऽभवत्पुनः ।
वराहश्चाऽभवत् सोऽयं नरसिंहस्ततोऽभवत् ।।१५ ।।
वामनश्च ततो जातस्ततः परशुरामकः ।
ततो रामश्च बुद्धश्च कृष्णः कल्किस्ततो ह्ययम् ।। १६ ।।
अनादिश्रीकृष्णनारायणः सोऽयं परात्परः ।
राजते कुंकुमवापीतीर्थे सौराष्ट्रभूतले ।। १७।।
सोऽयं नारायणः साक्षाल्लक्ष्मीपतिः रमापतिः ।
श्रीपतिः कमलाकान्तः पार्वतीपतिरीश्वरः ।। १८।।
कृष्णो राधापतिः प्रभापतिश्च माणिकीपतिः ।
भक्तपतिर्मुक्तपतिः सतीपतिः पुमुत्तमः ।। १ ९।।
मत्स्यं राजन्नुपासीत वेदज्ञानस्य लब्धये ।
कूर्मं राजन्नुपासीत शारीरबलपुष्टये ।।1.546.२०।।
क्रोडं राजन्नुपासीत पृथ्वीराज्यादिलब्धये ।
नरसिंहमुपासीत पापिशत्रुनिवृत्तये ।।२१ ।।
वामनं समुपासीत सार्वभौमत्वसिद्धये ।
पर्शुराममुपासीत क्रूरशत्रुनिवृत्तये ।।२२।।
रामादित्यमुपासीत सदा धर्मस्य वृद्धये ।
बुद्धं साधुमुपासीत त्वात्मज्ञानस्य लब्धये ।।२३।।
कृष्णं कान्तमुपासीत गोलोकादिकलब्धये ।
कल्किं राजन्नुपासीत रागद्वेषादिहानये ।।२४।।
अनादिश्रीकृष्णनारायणं त्वक्षरमुक्तये ।
युगलं समुपासीत भुक्तिमुक्तिसमृद्धये ।।२५।।
एवमुक्त्वा नरस्तस्य हरेर्वासरजं व्रतम् ।
कुरु राजन् सदा त्वेकादश्यामुपोषणं तथा ।।२६ ।।
द्वादश्यामुपवासं च समर्थो यजने भव ।
इत्युक्त्वा तौ ययतुश्च बदरीं नृपतिस्ततः ।।२७।।
व्रतं चकार विधिवत् सामर्थ्यं चाप वै पुनः ।
चक्रं सुदर्शनं तस्मै प्रसन्नेन तु विष्णुना ।।२८।।
अर्पितं तत् समादाय ययौ राज्यं निजं पुनः ।
शत्रून् विजित्य च राजा चक्रवर्तीं बभूव सः ।।२९।।
तेन च तपसः स्थानं हिमालये कृतं पुरा ।
तत्र वै नगरी पर्णशालाढ्या ऋषियोजिता ।।1.546.३ ०।।
तापसानां कृते तेन राज्ञा नाम्ना स्वकेन वै ।
विशालाख्या निर्मिता सा बदरी चाश्रमात्मिका ।। ३१ ।।
विशालनृपतेर्नाम्ना विशालाख्याऽभवच्छुभा ।
नरनारायणावासा ऋषीणां सुखवासदा ।३२।।
तत्र तीर्थं परं कृत्वा परं धामाऽभिगच्छति ।
तत्र जन्मनि राजाऽसौ राज्ये स्थित्वा पुनः पुनः ।। ३३।।
यज्ञैश्च विविधैरिष्ट्वा प्रसन्नमकरोद्धरिम् ।
अथैकदा सतीर्थार्थं ययावर्बुदपुष्करम् ।।।३४।।
ततो वै लोमशक्षेत्रं ततश्च रैवताचलम् ।
प्रभासक्षेत्रमासाद्य सोमनाथं विलोक्य च ।।३५।।
गुप्तप्रयागं गत्वा च चकार वैष्णवं क्रतुम् ।
ततः श्रीकुंकुमवापीक्षेत्रे नत्वा तु लोमशम् ।।३९ ।।
ययौ राज्यं ततो हित्वा संसारं बदरीं ययौ ।
भक्त्या नारायणं प्राप्य ययौ धाम परं हरेः ।।३७।।
अनेन राज्ञा यज्ञस्तु यत्र गुप्तप्रयागके ।
कृतः श्रेष्ठं परं तीर्थं तारकं तद्धि विद्यते ।।३८।।
शृणु चान्यं च नृपतिं यन्नाम्ना तीर्थमुत्तमम् ।
भद्रेश्वरं जयन्त्याख्ये संभूतं भद्रिकातटे ।।३९।।
आसीत् कृतयुगे राजा भद्राश्वो नाम भक्तराट् ।
यस्य नाम्नाऽभवद् वर्षं भद्राश्वं नाम नामतः ।।1.546.४० ।।
तस्याऽगस्त्यः कदाचित्तु गृहमागत्य सत्तमः ।
उवाच सप्तरात्रं तु वसामि भवतो गृहे ।।४१ ।।
तं राजा शिरसा नत्वा स्थीयतामित्यभाषत ।
तस्य कान्तिमतीनाम्नी भार्याऽऽसीच्च पतिव्रता ।।४२।।
तस्यास्तेजः समभवच्चन्द्रकान्तिसमं भुवि ।
शतानि पञ्च नृपतेश्चान्याः पत्न्योऽभवन्नपि ।।४३ ।।
ता दास्य इव कर्माणि कुर्वन्त्यस्यास्तपोबलात् ।
महाभागा कान्तिमती भार्या सर्वोत्तमाऽस्ति च ।।४४।।
सपत्न्यश्च भयात्तस्या दास्यं कुर्वन्ति नित्यदा ।
तामगस्त्यस्तदा दृष्ट्वा रूपतेजोन्वितां शुभाम् ।।४५ ।।
राजानं तत्र लुब्धं च हरेर्भक्त्या विवर्जितम् ।
कान्तिमतीं भक्तिहीनां दृष्ट्वा च मुनिरब्रवीत्। ।।४६ ।।
प्रथमे दिवसे दृष्ट्वा लोकयन्तं प्रियामुखम् ।
साधु साधु जगन्नाथेत्याहाऽगस्त्यः प्रहर्षितः ।।४७।।
द्वितीये दिवसेऽप्येवं राज्ञीं नृपं विलोक्य च ।
अहो मुष्टमहो मुष्टं जगदेतच्चराचरम् ।।४८।।
इत्यगस्त्योऽवदद् धुन्वन् शिरो नृपस्य शृण्वतः ।
तृतीयेऽहनि भूपं च राज्ञीं दृष्ट्वा शुचाऽवदत् ।।४९।।
अहो मूढा न जानन्ति दातारं परमेश्वरम् ।
य एकेन दिनेनैव राज्ञस्तुष्टः प्रदत्तवान् ।।1.546.५०।।
चतुर्थे दिवसे हस्तावुत्क्षिप्य पुनरब्रवीत् ।
साधु साधु जगन्नाथ स्त्री शूद्राः साधु साध्विति ।।५१ ।।
द्विजाः साधु नृपाः साधुवैश्याः साधु पुनः पुनः ।
साधु भद्राश्च साधु त्वं साधु भोऽगस्त्य साधु ते ।।५२।।
साधु प्रह्लाद साधु त्वं ध्रुवः साधु महाव्रतः ।
एवमुक्त्वा ननर्तोच्चैरगस्त्यो राजसन्निधौ ।।५३।।
एवम्भूतं तु तं दृष्ट्वा पत्नीयुक्तो नृपोत्तमः ।
किं हर्षकारणं ब्रह्मन्! येनेत्थं नृत्यते त्विह ।।५४।।
किं च संभाषसे विद्वन् परानन्देन चेतसा ।
अगस्त्यस्तं च भद्राश्वं तथा राज्ञीमुवाच ह ।।५५।।
अहो मूर्खः कुराजा त्वं मूर्खी चेयं प्रिया तव ।
मूर्खाश्च मन्त्रिणः सर्वे अहो मूर्खाः पुरोहिताः ।।५६।।
सर्वं मौर्ख्यान्वितं राजन् दृश्यते तव मण्डलम् ।
सरलं विदितार्थं च ये न जानन्ति मे मतम् ।।५७।।
एवमुक्ते पुना राजा कृतांजलिरभाषत ।
न जानीमो वयं ब्रह्मन् तवोक्तं भावपूरितम् ।।५८।।
विवेचय महाविद्वन् यद्यनुग्रहकृद् भवान् ।
अगस्त्यश्च तदा प्राह वृत्तान्तं प्राग्भवं यथा ।।५९।।
आसीद् वैश्यो हरदत्तनामा नगरपत्तने ।
तस्य भृत्यो भवानासीच्छूद्रवर्णोऽतिभक्तिमान् ।।1.546.६०।।
इयं राज्ञी तव पत्नी वैश्यभृत्या तदाऽभवत् ।
स वैश्योऽश्वयुजि मासि द्वादश्यां नियतः स्थितः ।।६ १ ।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
गृणन् विष्ण्वालयं गत्वा पुष्पधूपादिभिर्हरिम् ।।६२।।
अभ्यर्चयति नित्यं वै चिरं ध्यानं करोति च ।
देवालये भवन्तौ च कृत्वा स रक्षपालकौ ।।६३ ।।
संस्थाप्य द्वौ प्रदीपानां ज्वालनार्थं ततः स वै ।
प्रयाति स्वगृहं वैश्यो भवन्तौ तु हरेर्गृहे ।।६४।।
सम्मार्जनं जलदानं पुष्पतुलसीयोजनम् ।
आगतानां च सत्कारं कृत्वा नित्यं हरेः पुरः ।।६५।।
दिवानिशं भवन्तौ च दीपानामप्यखण्डताम् ।
आस्तां संरक्षयन्तौ वै पुनः प्रज्वाल्य संस्थितौ ।।६६।।
तेन पुण्येन भवतोः पापानि त्वायुषा सह ।
विलीनानि प्रभातायां रजन्यां च युवां तदा ।।६७।।
श्रीहरेः कृपया शूद्रदेहौ त्यक्त्वा मृतिं गतौ ।
ततो राजँस्तव जन्म प्रियव्रतगृहेऽभवत् ।।६८।।
इयं कान्तिमती सैव तव पत्नी सहाऽऽगता ।
पारक्यस्याऽपि दीपस्य ज्वालितस्य हरेर्गृहे ।।६९।।
सेवाभक्तिदास्यभावैः प्रसादितस्य शार्ङ्गिणः ।
राज्यं श्रेष्ठं भवद्भ्यां च प्रसादेनेदमर्जितम् ।।1.546.७० ।।
यः पुनः स्वेन वित्तेन विष्णोरग्रे प्रदीपकान् ।
ज्वालयेत् तस्य यत्पुण्यं तत् संख्यातुं न शक्यते ।।७१ ।।
मार्जनं लेपनं प्रक्षालनं पात्रप्रशोधनम् ।
पादसंवाहनं वस्त्रक्षालनं स्तवनं तथा ।।७२।।
जीर्णोद्धरणमिज्यां च पुष्पतुलसीयोजनम् ।
नैवेद्यं सलिलं पत्रं फलमारार्त्रिकादिकम् ।।७३।।
चन्दनाऽक्षतकुंकुमाऽबीरसुगन्धचर्चनम् ।
नित्यं कुर्यात्तस्य पुण्यपारं वक्तुं न शक्यते ।।७४।।
तेन राजँस्तव पुण्यं स्मृत्वा प्राक्कृतमेव च ।
साधु साधु जगन्नाथेत्युक्तं हर्षेण वै मया ।।७५।।
कृते वर्षेण यत्पुण्यं त्रेतायां तत् षण्मासिकैः ।
द्वापरे च त्रिभिर्मासैः कलावेकदिनेन तत् ।।७६।।
ओं नमः श्रीकृष्णनारायणायेति वदन् जनः ।
भक्त्या संपूजयन् कृष्णं सर्वं तल्लभते फलम् ।।७७।।
एवं स्थितेऽपिलोकेऽस्मिन् प्राप्ते कलौ जनाः खलु ।
भजिष्यन्ते न वै कृष्णं द्वापरे त्रियुगेऽपि वा ।।७८।।
मुष्टास्ते कर्मभिः स्वैश्च वञ्चिताः स्युश्च सर्वथा ।
त्वं च राजन् रतश्चात्र कान्तायामेव सर्वदा ।।७९।।
न त्वं नेयं स्मरस्यत्र कृष्णनारायणं प्रभुम् ।
एतत्सर्वं विलोक्यैव मयोक्तं चापरे दिने ।।1.546.८०।।
अहो मुष्टमहो मुष्टं जगदेतच्चराचरम् ।
श्रीहरेर्भार्यया मुष्टं वञ्चितं वै चराचरम् ।।८१।।
भजन्ते न हरिं सम्पद्दातारं पुरुषोत्तमम् ।
अथ पारक्यदीपस्योत्कर्षादपि फलं महत् ।।८२।।
राज्यं लब्धं तथापि श्रीहरेर्नाम गृणन्ति न ।
न राजा न च वा राज्ञी स्मरत्यपि नरायणम् ।।८३।।
ममागमेऽपि नैवैतौ भजेते पुरुषोत्तमम् ।
सत्संगेन हि सर्वत्राऽभक्ता अपि क्षणं खलु ।।८४।।
भक्तिं कुर्वन्ति कृष्णस्य न तु मूर्खाः कदाचन ।
सुयोगेऽपि भक्तिहीना मूढा एव न संशयः ।।८५।।
राजा मूढस्तस्य राज्ञी मूढतमेति भाति मे ।
अतस्तृतीयदिवसे युवां दृष्ट्वा मयेरितम् ।।८६।।
अहो मूढा न जानन्ति गोविन्दं परमेश्वरम् ।
एतत्सर्वं सुखं चापि हरेर्दीपक्रियाफलम् ।।८७।।
एकस्यैव दिवसस्य फलं राज्योत्तमोत्तमम् ।
चतुर्थे दिवसे राजन् हस्तावुत्क्षिप्य वै मया ।।८८।।
विचार्यैव श्रावितं वां भक्ताः सर्वे हि साधवः ।
भगवता द्विजा ये च राजानो ये च वैष्णवाः ।।८९।।
यजन्ते विविधैर्यज्ञैस्तेन ते साधवः स्मृताः ।
ये न भजन्ति देवेशं सत्यपि स्मृद्धिसाधने ।।1.546.९०।।
निर्धनोऽपि ततः श्रेष्ठो यो वै भजति केशवम् ।
अहं यद्यप्यरण्यस्थो निर्धनो निःकुटुम्बकः ।।९१ ।।
तथापि साधुरेवाऽस्मि सस्मृद्धीनामपेक्षया ।
यमहं न विस्मरामि कदापि पुरुषोत्तमम् ।।९२।।
तेन साधो अगस्त्येति मयोक्तं मां प्रति ध्रुवम् ।
सा स्त्री धन्या स शूद्रश्च तथा धन्यतरो मतः ।।९३।।
शुश्रूषां स्वामिनो नारायणत्मकस्य सर्वथा ।
कान्ते च स्वामिनि नित्यं परोक्षो हरिरस्ति वै ।।९४।।
मत्वा करोति येन स्यात् कृष्णार्पणं सुकर्म तत् ।
सा स्त्री धन्या तथा शूद्रो द्विजशुश्रूषणे रतः ।।९५।।
द्विजाज्ञया हरेर्भक्तिं साधू तौ यत् करोति हि ।
द्विजास्ते साधवः प्रोक्ता हरेर्भक्तियुताश्च ये ।।९६।।
नृपास्ते साधवः प्रोक्ता हरिं भजन्ति नित्यदा ।
आसुरं भावमाश्रित्य प्रह्लादः पुरुषोत्तमम् ।।९७।।
मुक्त्वा चान्यं न जानाति तेनाऽसौ साधुरुच्यते ।
उत्तानपादपुत्रश्च ध्रुव एव तु बालकः ।।९८।।
वने विष्णुं समाराध्य प्राप स्थानं महत्तमम् ।
तेन साधुर्ध्रुवश्चापि मयोक्तं राजसत्तम ।।९९।।
सर्वं साधु भवेद् राजन् श्रीकृष्णः स्मर्यते हृदि ।
असाधु यावदेवैतच्छ्रीकृष्णो विस्मृतो यदि ।। 1.546.१० ०।।
त्वया राजन् परं प्राप्तं राज्यं विष्णुस्तु विस्मृतः ।
तस्माद्भजाऽत्र गोविन्दं श्रीकृष्णं पुरुषोत्तमम् ।। १०१ ।।
इत्युक्तौ दम्पती नत्वा स्मृत्वा प्राग्भवजं फलम् ।
भेजाते श्रीहरिं कृष्णनारायणं फलप्रदम् ।। १ ०२।।
य इदं शृणुयाल्लक्ष्मि! मोक्षस्तस्याऽपि संभवेत् ।
पार्वतीं शंकरः प्राह यत्तन्मयेरितं तव ।। १०३ ।।
भद्राश्वः स ययौ तीर्थयात्रार्थं च प्रभासके ।
सौराष्ट्रे तेन भद्रायास्तटे वै पश्चिमे शुभे ।। १ ०४।।
जयन्ताख्ये पत्तने च शांकरं तीर्थमास्थितम् ।
भद्रेश्वरं च तन्नाम श्रवणात्पापनाशनम् ।।१ ०५।।
पुना राजा ददौ तत्राऽगस्त्याश्रमं तपोमयम् ।
अश्वपट्टसरसश्च तटे ब्रह्मर्षिसेवितम् ।। १०६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विशालनृपकृतविशालातीर्थभद्राश्वनृपकृत भद्रे तीर्थाऽगस्त्यकृतोपदेशश्चेत्यादिनिरूपणनामा षट्चत्वारिंशदधिकपञ्चशततमोऽध्यायः ।। ५४६ ।।