लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५४५

विकिस्रोतः तः
← अध्यायः ५४४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५४५
[[लेखकः :|]]
अध्यायः ५४६ →

श्रीनारायण उवाच
शृणु लक्ष्मि ! शंकरश्च पार्वतीं प्राह पावनम् ।
अगस्त्यादिकतीर्थानां वर्णनं प्रवदामि ते ॥ १ ॥
न्यंकुमत्यास्तटे दिव्यमगस्त्याश्रममुत्तमम् ।
आासीत् पूर्वे कृते वर्षमात्रं तपश्चकार सः ।। २ ।।
अगस्त्यर्षिः कदाचिद्वै ययौ तीर्थसमीहया ।
दक्षिणस्यां दिशि तत्र वातापेिरुपशामितः ।। ३ ।।
इल्वलो नाम तद्भ्राताऽग्रजः कापट्यसंभ्रतः ।
नगर्यां मणिमत्यां स चास वातापिरेव तु ॥ ४ ॥
अगस्त्यं स चमत्कारं श्रुत्वा तं प्रति चाययौ ।
प्राह मे भगवन् पुत्रं देहि महेन्द्रसदृशम् ।। ९ ।।
अगस्त्यस्तं चाऽसुरं तु दातुं नैच्छत् सुतं ततः ।
चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य तपोभृतः ।। ६ ।।
तीर्थयात्रां कुर्वतश्चागस्त्यस्य मार्गमध्यतः ।
वातापिः फलरूपोऽभूत् कालिंगरं सुपक्वकम् ॥ ७ ॥
कामरूपस्तृतीयश्चातापिः पर्णग्रहं शुभम् ।
बभूव शोभनमृष्याश्रमरूपं सवेदिकम् ॥ ८ ॥
इल्वलस्त्वागतानां वै वाटगानां समर्हणम् ।
फलभोजनदानाद्यैश्चकार नित्यमेव च || ९ |}
फलभोजी मार्गगश्चातिथिर्भुक्त्वा फलं ततः ।
जलं पिबति यावद्वै तावदिल्वल आसुरः ॥१.५४५.१०॥
आह्वयत्युदरस्थं तं वातापिं सत्फलात्मकम् ।
हे वातापे बहिर्याहित्येवं श्रुत्वोदरंगतः ॥११॥
सजीवस्तूदरं भित्त्वा निर्यात्येव हि तत्क्षणम् ।
त्रयस्ते भ्रातरो हृष्टा मिलित्वा तं मृतं जनम् ॥१२॥
खादन्ति नित्यशस्त्वेवं कुर्वन्ति ऋषिहिंसनम् ।
तेन पथा ह्यगस्त्यश्च निर्गतो यावदेव ह ॥१३॥
आातापिः पर्णशालाऽभूद् वातापिस्तु फलं ह्यभूत् ।
इल्वलस्तं तदाऽगस्त्यमतिथिं प्राह हर्षतः ॥ १४॥
ऋषे भाग्यं मम धन्यं ग्रहाण फलभोजनम् ।
अभ्यागतस्य सेवा वै करोति मोक्षणं परम् ॥१५॥
अगस्त्यस्तं तथेत्याह निषसाद गृहान्तरे ।
इल्वलस्तत्फलं द्वेधा चतुर्धा प्रविभज्य व ॥१६॥
अगस्त्यं भोजयामासाऽऽह्वयामासाऽनुजं पुनः ।
प्रत्युत्तरं न चाऽवाप पाचयामास तम् ऋषि: l| १७||
भ्रामयित्वोदरे हस्तं प्रत्युद्गारं चकार च ।
तदा भयँ समापन्न इल्वलस्तत्स्थलात्तदा ।। १८॥
चक्रे पलायनं शीघ्रं दुद्रावाऽऽतापिरित्यपि ।
तौ मुनिः क्रोधदृष्ट्यैव भस्मीचकार तत्क्षणात् ॥१९॥
ततोऽगस्तिर्देहशुद्धिं कर्तुं तीर्थेषु वै चरन् ।
समागतोऽत्र वै न्यंकुमत्यास्तटे स्थिरोऽभवत् ।।१.५४५.२०।।
वर्षमात्रं तपश्चक्रेऽगस्त्यतीर्थमिदं हि तत् ।
देहशुद्धयर्थमादिष्टं पावनं स्वर्गदं परम् ॥२१॥
अथ राजा पुरा चासीन्नृगो नाम जनाधिपः ।
स कदाचिद् ययौ तीर्थयात्रार्थं वै प्रभासके ॥२२॥
स्वल्पभृत्ययुतो मार्गे सिंहारण्ये दुमालये ।
विशश्राम निशायां च लेभे निद्रां शुभां सुखाम् ॥२३ll
ज्ञात्वा पर्वतजाश्चौराः शतशो हेतिसंयुताः ।
स्वर्णादि धनमाहर्तुं परितः पर्यवेष्टयन् ॥२४॥
राज्ञस्तु रक्षकाः स्वल्पाश्चौरास्तत शताधिकाः ।
किं कार्यं प्राणनाशः स्याद्धनहेतोर्न तद्वरम् ॥२५॥
मत्वैवं तु नृगः प्राहृ गृह्णन्त्वेतत्तु पुष्कलम् ।
आत्मानं रक्षयेत् प्राज्ञो धनैर्दारैस्तथार्जवैः ll२६ll
यद्यप्यस्मि नृपश्चाहं मया दण्ड्या इमे खला: ।
तथापि नास्ति सैन्यं मे वने पर्याप्तमेव यत् ||२७||
प्राणग्लहे प्राणहानौ नास्ति चिन्ता यतो नृपः ।
किन्तु मोक्षकरी यात्रा न मे स्यादिति हानितः li२८॥
द्रव्यं दत्वा च गन्तव्यं यात्रां कृत्वा ततः पुनः ।
मार्गयित्वा च तान् सर्वान् नाशयिष्ये रणांगणे ॥२९ll
विचार्यैवं नृगो यावद् भृत्यान् आाज्ञां करोति च ।
धनं दातुं हि चौरेभ्यस्तावद्राज्ञः शरीरतः ll१.५४५.३०॥
एका नारी सशस्त्रा वै समुत्पन्नाऽतिरोषिणी ।
हेतिभिस्तान् सर्वचौरान् जघान लीलया रणे ॥३१॥
राज्ञा स्वास्थ्यं गतस्तीव्रं ववन्दे तां प्ररक्षणीम् ।
सा तु शीघ्रं पुना राज्ञो देहे प्रवेशमास्थिता ॥३२॥
ततो राजा ययौ प्रातर्मार्गं प्रभासकस्य सः ।
वामदेवमृषिं दृष्ट्वा तपन्तं देविकातटे ॥३३॥
विशश्राम क्षणं मध्याह्ने च गुरुत्तमम् ।
वामदेवं च पप्रच्छ का कन्याऽऽसीच्छरीरजा ॥३४॥
वामदेवः समाधिं च कृत्वा ज्ञात्वा स्व पूर्वजम् ।
पुण्यं नृपं समुवाच पूर्वं तं शूद्रकोऽभवः ॥३५॥
श्रावणस्य कृता शुक्ला त्वेकादशी तथा त्वया ।
उपोषिता द्वादशी च तत्पुण्यं त्वयि संस्थितम् ॥३६॥
पुण्यरूपा तु सा कन्या तिथिद्वयस्वरूपिणी ।
कन्या चैकादशी सा च हेतयो द्वादशी तिथिः ॥३७॥
ताभ्यां चौराः शत्रवस्ते हतास्तीर्थव्रतस्य ते ।
एवं वात्र परत्राऽऽद्यं कृतं पुण्यं प्रयाति हि ॥३८॥
सखा पुण्यं चात्मनि स्थं सह्रायं सर्वदाऽस्ति तत् । ।
तस्मात्तीर्थं व्रतं दानं कर्तव्यं मानवे भवे ॥३९॥
इत्युक्तो ज्ञातवान् सर्वं नृगस्तुष्टो बभूव ह ।
वामदेवमृषिं नत्वा संपूज्य चोपदा ददौ ॥१.५४५.४०॥
तत्तीर्थं वामदेवस्य मृगस्यापि प्रकीर्तितम् ।
सौराष्ट्रे सोमके क्षेत्रे रक्षकं मोक्षदं तथा ॥४१॥
सोमनाथं प्रसम्पूज्य ययौ हर्म्यं निजं ततः ।
अथाऽऽसीद् देवशर्माख्यो द्विजः प्रभासतीर्थजः ।४२।।
न्यंकुमत्यास्तीरे वासं चकार स च निर्धनः ।
धनार्थे ग्राममुत्सृज्य चौर्यं कार्यं चकार सः ॥४३॥
तस्य पुत्रोऽभवन्नाम्ना दुःसहश्चौर एव सः ।
व्यसनोपरतोऽरण्ये जीर्णदेवालये वसन् ||४४||
चौर्यं चकार देवस्य दीपं प्रज्वाल्य वै तदा ।
जनैर्भृशं ताडितश्च मृतोऽभूच्च शिवालये ||४५||
गान्धारविषये राजा ख्यातो नाम्ना तु दुर्मुखः ।
प्रजोपद्रवकृन्मूर्खो धर्मकार्यबहिष्कृतः ॥४६॥
शिवालयस्य संस्काराच्छिवभक्तोऽभवद्धि सः ।
पुष्पस्रग्धूपनैवेद्यगन्धादिभिः शिवं सदा ||४७]]
अन्यांश्चाप्यर्चयत्येव सुरान् दीपप्रदानकैः ।
यत्र यत्राश्रमे दैवे प्रयात्येव स पाथैिवः ॥४८॥
दीपदानं करोत्येव देवालयेषु सर्वदा ।
एकदा स च तीर्थेषु विचरन् रैवताचले ॥४९॥
सोमनाथं समायातः सिंहारण्ये तु मार्गगः ।
न्यंकुमत्यास्तटे प्राप निधनं कालयोगतः ॥१.५४५.५०॥
दीपदानस्य च पूजायाश्च फलेन दुर्मुखः ।
विश्रवसः सुतः सोऽभूत् कुबेरो यक्षराडिति ॥५१॥
कुबेरस्तु ततो जातिस्मरः प्रभासमाययौ ।
यत्र पूर्वं मृतस्त्वासीन्यंकुमत्यास्तटे हि सः ॥५२॥
तत्र शंभुं प्रतिष्ठाप्य मन्दिरं निर्ममे हि सः ।
तत्तीर्थे तु निजाख्यादियुतं कुबेरशंकरम् ॥५३॥
कृतवाँश्च शिवं तत्र तुष्टाव शुभ्रमानसः ।
शंकरश्च कुबेराय वरदानत्रयं ददौ ॥५४॥
सख्यं धनाधिपत्यं च दिक्पालत्वं दिवौकसाम् ।
कुबेरेशं तत्र गत्वा भक्त्या यः पूजयिष्यति ॥५५॥
तद्गृहे सप्तपुरुषावधि लक्ष्मी निवत्स्यति । ।
अथ कैवर्तको मत्स्यघाती स्वारोचिषेऽन्तरे ॥५६॥
समुद्रस्य तटे जालं जलक्लिन्नं शिवालये ।
नीत्वा ध्वजस्य दण्डे तज्जाळं दोरकनिर्मितम् ॥५७॥
स्थापयामास च यथा ध्वजो दृश्येत जालकृत्।
शोषणाय जलस्यैवं जालध्वजोऽभवद्दिनम् ॥५८॥
तत्पुण्येन स कैवर्तो जन्मान्तरे तु भूपतिः ।
सौराष्ट्रे कुंकुमवापीक्षेत्रे क्रतुध्वजाभिधः ll५९l।
राजाऽभवत् प्रतापी च लोमशस्याऽऽश्रमे सदा ।
ओं नमः श्रीकृष्णनारायणायेति जपन् सदा ॥१.५४५.६०॥
परमो वैष्णवो जात: शंकरस्य प्रसादतः ।
जातिस्मरः प्रददौ च प्रभासे सोमनाथके ॥६१॥
ध्वजां शुभ्रां महादीर्घां प्रतिवर्षे ततो ददौ ।
दशवर्षसहस्राणि राज्यं चकार भूपतिः ॥६२॥
अश्वपट्टसरोमध्ये कृष्णनारायणालयम् ।
जीर्णे तन्नूतनं राजा कारयामास श्रृंगवत् ॥६३॥
ततो दिव्यविमानेन ययौ वैकुण्ठमेव सः ।
पठनाच्छ्रवणाच्चास्य भवेन्मोक्षपदं ध्रुवम् ॥६४॥
देवकुलं शुभं क्षेत्रं प्रभासे वर्तते तथा ।
ऋषितोया नदी रम्या मिमिळुर्यत्र देवताः ।।६५।।
ऋषिभिः प्रार्थिताश्चानावृष्टिकाले तु सत्रके ।
तर्षिता बहुयज्ञैश्च वृष्टिर्जाताऽतिशोभना ॥६६॥
देवतानामृषीणां च कुळानां समवायतः ।
ऋषिकुलाख्यसुसरिद्वरा तीर्थं हि पावनम् ॥६७॥
व्याघ्रारण्ये ऋषयस्तु न्यवसन् ये पुरा युगे ।
ब्रह्माणं त्वेकदा द्रष्टुं सत्यलोकं ययुर्हि ते ॥६८॥
तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्माणं कमलोद्धवम् ।
ब्रह्मा तुष्टोऽवदत् सर्वान् वृणुध्वं मानसेप्सितम् ॥६९॥
ऋषयस्ते तदा प्राहुः स्नानसन्ध्यादि कर्म यत् ।
सामुद्रेण सलिलेन त्वनन्तपुण्यदायकम् ||१.५४५.७०||
जलपाने चातिथीनां सत्कारादौ च भूजलम् ।
कूपादीनां भवत्येव वसामो यत्र नित्यदा ॥७१॥
तस्मान्नद्यस्त्वया ब्रह्मन् प्रेषयितव्या क्ष्मां प्रति ।
मिष्टानि हि जलान्यासां क्रियार्हाँणि प्रभासके ॥७२॥
प्राप्स्यामो येन च यथा तथा कुरु पितामह !
अभिषेकाय नो देहि नदीं पुण्यां पितामह ॥७३॥
वीक्षां चक्रे तदा ब्रह्मा कर्तव्यार्थं विचिन्त्य च ।
निम्नगा आाह्वयामास गंगां यमीं सरस्वतीम् ॥७४॥
चन्द्रभागां तथा रेवां सरयूं गण्डकीं तथा ।
तापीं गोदावरीं शिप्रां कावेरीं देविकां तथा ॥७५॥
चर्मण्वतीं च माहेन्द्रीं भद्रां शत्रुजितां तथा ।
मूर्तिमत्यश्च ताः सर्वाः स्थिता वै ब्रह्मणः पुरः ॥७६।।
ब्रह्मणा च कृता दृष्टिः कमण्डलुं प्रति तदा ।
ताश्च भावं परिज्ञाय विविशुस्तत्कमण्डलुम् ॥७७॥
तास्तु तेभ्यो मुनिभ्यश्च दत्ता नेतुं भुवं प्रति ।
तोयरूपाः कमण्डलुजलस्था हि सरिद्वराः ॥७८l।
तदानीं सा ऋषितोया सर्वसरिन्मयी शुभा ।
ऋषितोयानामनदी सौराष्ट्रे समजायत ।ll७९||
देवदारुवने यत्र जलं कमण्डलोः पुरा ।
सन्यस्तमृषिभिस्तत्र नदी सा संबभूव ह ll१.५४५.८०ll
समुद्रं प्रापिता सा हि सौभाग्याद्यैर्विवर्धिता ।
मूलचण्डीशतीर्थे सा प्रपूर्वाभिमुखी ततः ॥८१॥
भुक्तिमुक्तिप्रदा रम्या कथिता शंकरेण वै ।
पार्वत्यै सा मया लक्ष्मि ! कथिता ते समासतः ॥l८२||
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽगस्त्याश्रमस्य आतापीवातापील्वलविनाशस्य वामदेवनृगकुबेरतीर्थानां क्रतुध्वजमोक्षस्य देवकुलऋषितोयादितीथीनां सोपाख्यानवर्णननामा पञ्चचत्वारिंशदधिकपञ्चशततमोऽध्यायः ॥ ५४५ ॥