लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५४४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५४३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५४४
[[लेखकः :|]]
अध्यायः ५४५ →

श्रीनारायण उवाच-
शृणु तीर्थानि चान्यानि शंकरोक्तानि पद्मजे ।
न्यंकुमती देविका च नदीद्वयं तु मोक्षदम् ।। १ ।।
पुरा संवर्त्तर्षिपुत्राः पञ्चाशन्मृगवेषिणः ।
मृगचर्मपरीधानाः सिंहारण्ये न्युषुः सदा ।। २ ।।
तापसा रागहीनाश्च तपोऽर्थं पितृनोदिताः ।
पुण्ये प्रभासके क्षेत्रे तृणपत्रादिभोजिनः ।। ३ ।।
ब्रह्मचर्यपरा नित्यं त्रिःस्नानादिविधायिनः ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।। ४ ।।
जपन्त इति गोविन्दं वृक्षोऽधोवासिनोऽभवन् ।
अथैकदा वीरधन्वा राजा प्रभासमाययौ ।। ५ ।।
वने दृष्ट्वा मृगान् ताँश्च विव्याध सायकैर्यदा ।
ब्राह्मणास्ते मृता हत्या राज्ञो जाता हि दुःखदाः ।। ६ ।।
राजा चिन्तातुरो यातो देवराताश्रमं तदा ।
विज्ञाप्य ब्रह्महत्याश्च रुरोदाऽतीव दुःखितः ।। ७ ।।
स ऋषिर्देवरातस्तु दयालुः प्राह भूभृतम् ।
मा रोदिहि गच्छ पार्श्वे वर्तते देविकानदी ।। ८ ।।
तपः कुरु तटे तस्या आरभस्व मखं ततः ।
प्रायश्चित्तानि कृत्यैव शुद्धो राजन् भविष्यसि ।। ९ ।।
इत्याश्रुत्य च तं नत्वा ययौ तां देविकां नदीम् ।
देवरातं सह नीत्वा विष्णुयागं चकार सः ।। 1.544.१ ०।।
सहस्रशो ब्राह्मणांश्च भोजयामास सादरम् ।
पूजयामास देवांश्च तर्पयामास पितॄकान् ।। ११ ।।
तोषयामास मिष्टान्नैर्दानैश्च भिक्षुकाँस्ततः ।
यज्ञस्य परिहारेऽत्र कृष्णनारायणः प्रभुः ।। १ २।।
लोमशश्च मुनिस्तत्र मृगौ भूत्वा प्रजग्मतुः ।
मण्डपवेदिकां गत्वा निर्भयौ धृतधूम्रकान् ।। १ ३।।
घ्राणेन च मुहुस्तत्राऽऽकर्षयामासतुर्ह्युभौ ।
राजा देवौ तु तौ मत्वा ननामोत्थाय पादयोः ।। १४।।
तावत् क्षुवद्भ्यां ताभ्यां च नासिकामलतो नृपः ।
श्लेष्मावृतः कृतस्तत्र नैर्मल्यमाप्तवान्नृपः ।। १५।।
राज्ञो देहात्तदा कन्याः कृष्णवर्णा हि सर्वशः ।
विनिर्जग्मुस्तदा कुण्डे निपेतुस्ताः प्रजज्वलुः ।। १६।।
किमिदं किमिदं त्वेतज्जातः कोलाहलास्तदा ।
मृगौ तौ नररूपौ च मानुषौ संबभूवतुः ।। १७।।
दिव्यदेहो लोमशश्च कृष्णनारायणोऽपि च ।
ऊचतुस्तं नृपं राजन्! यज्ञेन तोषितौ त्वया ।। १८।।
दृष्टावत्र कृपया नौ ब्रह्महत्याः प्रदाहिताः ।
शुद्धोऽसि देविकाक्षेत्रे मम भक्त्या गुरूक्तितः ।। १९।।
याहि राज्यं कुरु मैवं पुनर्हिंसामनर्थिकाम् ।
अनादिश्रीकृष्णनारायणप्राकट्यकालिकम् ।।1.544.२०।।
ऊर्जकृष्णाष्टमीरूपं व्रतं कुरु भजस्व माम् ।
एवं कृत्वा मोक्षमार्गं यास्यस्येव न संशयः ।।२१ ।।
कृतं तेन यथोक्तेन जयन्तीकालिकं व्रतम् ।
नारायणः प्रसन्नः सन्नायातश्च पुनः पुनः ।।२२।।
कुंकुमवापिकाक्षेत्राद्विमानेन विहायसा ।
मृत्युकालेऽगमत् स्वर्गमिन्द्रलोकं स पार्थिवः ।।२३।।
तस्येन्द्रस्त्वर्घमादाय प्रत्युत्थानेन चाययौ ।
विमानस्थाः कृष्णनारायणस्यैव तु पार्षदाः ।।२४।।
उत्थानं च प्रकुर्वन्तं राजानं प्राहुरीश्वराः ।
प्रत्युत्थानं त्वया राजन् नैव कर्तव्यमत्र यत् ।।२५।।
देवास्त्वत्तो हीनपुण्या भवान् पुण्येन वर्धते ।
बहुपुण्ययुतः स्वल्पपुण्यवन्तं प्रति प्रभुः ।।२६।।
प्रत्युत्थानं प्रकरोति स्वल्पपुण्यवतस्तदा ।
स्वल्पं पुण्यं विनश्येत्तु तस्मान्मोत्थानमाचर ।।२७।।
एवं ये ये दिशां पालाः सत्कारार्थं समागताः ।
ते ते स्वल्पवृषाश्चैनं राजानं परिपूज्य च ।।२८।।।
ययुः स्वं स्वं निकेतं च राजा नोत्थित एव हि ।
एवं स सत्यलोकान्तं गतो राजा विमोक्षणम् ।।२९।।
अपुनर्मारके लोके दाहप्रलयवर्जिते ।
अद्यापि तिष्ठते देवैः स्तूयमानो जलोपरि ।।1.544.३०।।
द्वितीयरूपे वैकुण्ठे शाश्वतं सुखमाप्तवान् ।
प्रसन्ने यज्ञपुरुषे दुर्लभं किन्नु चोत्तमम् ।।।३ १।।
इह जन्मनि सौभाग्यमायुरारोग्यसम्पदः ।
ददात्येव रमानाथः परां मुक्तिं च दुर्लभाम् ।।३२।।।
एवं मुक्तिं गतो राजा देविकायास्तटे शुभे ।
देवरातकृतं तीर्थं यज्ञनारायणात्मकम् ।। ३३।।
मृगतीर्थं तथा तत्र देविकायां हि वर्तते ।
स्नात्वा ध्यात्वा हरिं स्मृत्वाऽवश्यं मोक्षमवाप्नुयात् ।।३४।।
शिवस्तु पार्वतीं प्राह न्यंकुमत्यास्तटे पुरा ।
च्यवनश्च ऋषिः पत्नीसहितस्तीर्थवाञ्च्छया ।।३४।।
पद्भ्यां समागतो न्यंकुमत्या स्थितो हि वत्सरम् ।
वत्सरं सोमनाथे च वत्सरं लोमशाश्रमे ।।३६।।
वत्सरं रैवताद्रौ चं वत्सरं त्वर्बुदाचले ।
एवं कृत्वा सुतीर्थानि ययौ बदरिकाश्रमम् ।।३७।।
श्रीपार्वती तदाऽपृच्छत् का तद्भार्याऽभवत् सती ।
शंभुः प्राह शृणु साध्वि! च्यवनस्याऽपि सत्कथाम् ।।३८।।
पूर्वतटे हिरण्यायाः कदाचित्तपसि स्थितः ।
सूर्यस्तोत्रं चकाराऽसावष्टोत्तरशतात्मकम् ।।३९।।
सूर्यस्तदा प्रसन्नः सन् समायातस्तु सन्निधौ ।
उवाच तमृषिं ब्रूहि वरं किं करवाणि ते ।।1.544.४०।।
च्यवनः प्राह लोकानां चक्षुस्त्वं परमेश्वर ।
अष्टोत्तरशतरूपैरष्टोत्तरशतस्थले ।।४१।।
मूर्तिमान् वस सौराष्ट्रे मन्दिरेषु महत्सु च ।
हिरण्यसिंहो राजा ते करिष्यत्यालयान् शुभान् ।।४२।।
लोकरक्षार्थमेवात्र सौराष्ट्रे सर्वतो वस ।
तथास्त्विति रविः प्राह कृत्वाऽष्टोत्तरशातकम् ।।४३।।
रूपाणां च रविस्तस्थौ सौराष्ट्रे वै यथारुचि ।
तानि नामानि ते देवि! कथयामि यथायथम् ।।४४।।
'ओं सूर्योऽर्यमा भगस्त्वष्टा पूषाऽर्कः सविता रविः ।
गभस्तिमानजाऽऽदित्यो धाताऽऽदित्यः प्रभाकरः ।।४५।।
क्षित्यादित्यो वनादित्यः प्रभादित्यः खखेश्वरः ।
प्राणादित्यश्च सोमार्को गुर्वादित्यो दिवाकरः ।।।४६।।
शुक्रार्कोऽङ्गारकादित्य इन्द्रार्को बोधभास्करः ।
दीपांशुश्च विवस्वाँश्च शुच्यर्कश्चरभास्करः ।।४७।।
ब्रह्मादित्यश्च रौद्रार्को विष्णुः स्कन्दार्क इत्यपि ।
श्रवणार्को यमार्कश्च वैद्युतार्को दिवस्पतिः ।।४८।।
वैश्वानरार्कश्चाग्न्यर्कश्चेन्धनादित्य ईश्वरः ।
धर्मादित्यश्च वेदार्को वाचार्कः कृतभापतिः ।।४९।।
त्रेतादित्यो द्वापरार्कस्तुर्यादित्यः कलीश्वरः ।
कलादित्यश्च काष्ठार्को मुहूर्तादित्य इत्यपि ।।1.544.५०।।
चक्रादित्यो वत्सरार्कस्तिग्मरश्मिर्विभावसुः ।
पुरुषार्को हिरण्यार्को योगादित्यः सदीश्वरः ।।५१ ।।
लोकादित्यः प्रजादित्यो विश्वादित्यस्तमोनुदः ।
वारुणार्कः सागरार्को जीमूतार्कः प्रतापनः ।।५२।।
भूतार्को निर्मलार्कश्च लोलार्कस्तिग्मदीधितिः ।
कुष्ठहादित्य ईशार्को भानुः कामार्क इत्यपि ।।।५३।।
जयादित्यश्च भद्रार्को रैवतादित्यकान्तिमान् ।
संज्ञेशश्च सुवर्णार्कः शत्रुंजिदर्क आदिदृक् ।।५४।।
कपिलांशुश्चांशुमालिन् कंकादित्यश्च भास्पतिः ।
वनादित्यश्च सप्ताश्वश्चारुणार्कस्त्रिविष्टपः ।।५५।।
नारायणो हरिताश्वः सन्ध्येशो भगवान् प्रभः ।
ग्रहादित्यश्चाऽमरेशः कंथडेशः कराधिपः ।।५६।।
वेदादित्यः सुराष्ट्रर्को नृपादित्यः सतीश्वरः ।
द्युमणिः सविता धाता विधातार्केति ते नमः' ।।५७।।
इत्येवं खलु सौराष्ट्रे पृथक् पृथग्वसन्ति हि ।
सूर्या लोकप्ररक्षार्थं तत्तीर्थं लोकपावनम् ।।५८।।
हिरण्यायास्तटे रम्यं विद्यते क्षत्रपूजितम् ।
सूर्योदये पठेद् यस्तु स पुत्ररत्नसंचयान् ।।५९।।
जातिस्मृतिं च मेधां चारोग्यं स्वर्गं च विन्दति ।
हिरण्यं च गजान् राज्यं रामाश्च दिव्यसम्पदः ।।1.544.६०।।
एवं च्यवनसामर्थ्यात् सूर्यनारायणः स्वयम् ।
अष्टोत्तरशतधा सन् समुवास सुराष्ट्रके ।।६१ ।।
च्यवनाश्रम एवापि हिरण्यायास्तटे शुभे ।
तीर्थं वै विद्यते तत्र लोककल्याणकारकम् ।।६२।।
च्यवनस्य सती भार्या शर्यातेर्दुहिताऽभवत् ।
कदाचित्तु गते काले तपस्तेपे ऋषिर्वने ।।६३।।
भगोः पुत्रश्च्यवनः स पृथ्व्यां दीर्घं स्थिरोऽभवत् ।
कालेन महता देवि! समाकीर्णः पिपीलकैः ।।६४।।
सर्वतो मृत्तिकापिण्डैरभिव्याप्तो लतादिभिः ।
वल्मीकेन समाछन्नस्तपस्येव व्यवस्थितः ।।६५।।
अथ कस्यापि कालस्य शर्यातिर्नाम भूपतिः ।
वने समाजगामाऽसौ यत्र ऋषेः शुभाश्रमः ।।६६।।
राज्ञः कन्या सुकन्याख्या सखीभिः परिवारिता ।
चंक्रम्यमाणा वल्मीकं च्यवनस्य समासदत् ।।६७।।
सुपुष्पाणि विचिन्वन्ती वल्मीके ऋषिचक्षुषी ।
दृष्ट्वा किं न्विति साश्चर्या कण्डकेन बिभेद सा ।।६८।।
रक्तं नेत्रविवराभ्यां निर्यातं सा भयं गता ।
ऋषेः कोपेन शर्यातेः सैन्यस्य नृपतेस्तथा ।।६९।।
समारुद्धे शकृन्मूत्रे पर्यतप्यत पार्थिवः ।
कन्योवाच पितश्चात्राऽपराद्धो वै ऋषिर्मया ।।1.544.७०।।
राजा ऋषिं समवदत् कन्यां क्षन्तुं त्वमर्हसि ।
च्यवनः प्राह मे कन्यां देहि दोषं क्षमामि वै ।।७१ ।।
राजा ददौ तदा कन्यां ऋषिश्च प्रससाद ह ।
सैन्यं स्वस्थं समभवत् सिषेवे कन्यका ऋषिम् ।।७२।।
ऋषिं वृद्धं देववैद्यौ समाजग्मतुरीश्वरौ ।
सुकन्यां तावूचतुश्च वृद्धयोग्या न सुन्दरी ।।७३।।
सा त्वं च्यवनमुत्सृज्य वरयस्वैकमावयोः ।
कन्या प्राह पतिर्देवो वृद्धो वा यदि वा कृशः ।।७४।।
देववैद्यौ कुरुतं मे पतिं युवानमीश्वरम् ।
वैद्यौ तौ कृतवन्तौ तं स्वसदृशं महामुनिम् ।।७५ ।।
रूपत्रयं समानं वै जातं यथा पृथङ् न वै ।
कन्या विचारयामास कोऽत्र मेऽस्ति पतिः खलु ।।७६ ।।
पातिव्रत्येन वै चान्तःसमधिना स्वकं पतिम् ।
विज्ञाय तं करे गृह्य पादयोः पतिता सती ।।७७।।
वैद्यावश्चर्यमापन्नौ सत्येयं वै पतिव्रता ।
तौ वैद्यौ च्यवनं तत्राहतुर्यज्ञेषु सर्वथा ।।७८।।
भागौ स्यातामावयोश्च तथा त्वं कुरु भार्गव ।
ऋषिर्यज्ञे भागवन्तौ कृतवाँस्तौ भिषग्वरौ ।।७९।।
अथैकदा तु शर्यातिः कन्यायाः सुखमुत्तमम् ।
द्रष्टुं समागतस्तत्राश्रमे कन्यां ददर्श सः ।।1.544.८०।।
युवानं सेवमानां तां पप्रच्छ कन्यकां नृपः ।
कोऽयं कन्ये! सेवितोऽस्ति परः कश्चिच्च मे भ्रमः ।।८१।।
कन्या प्राह पितर्मेऽस्ति पतिः श्रीच्यवनो मुनिः ।
अश्विनीसुतयोगेन यौवनं स्वामिनाऽर्जितम् ।।८२।।
राजा श्रुत्वा प्रसन्नोऽभूत् ऋषिं प्राह करोमि ते ।
सेवां वद ऋषे चात्र ऋषिः प्राह मखं कुरु ।।८३।।
ततः परमसंहृष्टः शर्यातिस्तु क्रतोः कृते ।
कारयामास संभारान् याजयामास भार्गवः ।।८४।।
सुरवैद्यौ भागवन्तौ च्यवनेन कृतौ तदा ।
इन्द्रस्तं वारयामास नैतौ भागार्हणौ यतः ।।८५।।
भिषजौ कर्मणा चैतौ जन्मना चापि गर्हितौ ।
ऋषिरिन्द्रमनादृत्य ददौ भागौ भिषग्द्वये ।।८६।।
इन्द्रो वज्रम् ऋषिं हन्तुं जग्राहोर्ध्वकरोऽभवत् ।
ऋषिस्तं स्तंभयामास महेन्द्रः शरणेऽपतत् ।।८७।।
भागं तयोर्ददौ पश्चात् स्तंभनं प्रशशाम ह ।
एवं प्रतापवान् विप्रो हिरण्यायास्तटे शुभे ।।८८।।
कुटीं कृत्वा वर्षमात्रं भार्यया तु सुकन्यया ।
सह तेपे तपश्चोग्रं सौराष्ट्रे वै प्रभासके ।।८९।।
तदाश्रमे वैखानसाः ऋषयोऽपि वसन्ति वै ।
तत्तीर्थं भावतः कुर्यात् सामर्थ्यैश्वर्यसम्पदाम् ।।1.544.९०।।
धनपुत्रसुतारोग्यस्मृद्धीनां सम्प्रदं परम् ।
पठनाच्छ्रवणाच्चास्य सर्वपापैः प्रमुच्यते ।।९१ ।।
इत्येवं शंकरो लक्ष्मि! पार्वतीं प्रजगाद ह ।
शर्यातेश्च्यवनस्यापि कथां परमपावनीम् ।।९२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने न्यंकुमत्यां देविकायां च नद्यां देवराततीर्थेऽष्टोत्तरशतनामसहितसूर्यतीर्थच्यवनतीर्थानां तदाख्यानसहितानां कथननामा चतुश्चत्वारिंशदधिकपञ्चशततमोऽध्यायः ।।५४४।।।