लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५४३

विकिस्रोतः तः
← अध्यायः ५४२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५४३
[[लेखकः :|]]
अध्यायः ५४४ →

श्रीनारायण उवाच--
शृणु लक्ष्मि! प्रभासे वै पार्वती शंकरं वरम् ।
संपप्रच्छ तिथिस्वामिनश्च वदामि ते यथा ।। १ ।।
यथा सृष्टेः समारंभे ब्रह्मा यस्मै ददौ तिथिम् ।
तत्ते लक्ष्मि! प्रवक्ष्यामि तिथीनां देवतादिकम् ।। २ ।।
ब्रह्मा सृष्टिं विधातुं च मनो दधे तु पुष्करे ।
यदा किञ्चिन्नाध्यगच्छत् तदा रोषोऽस्य चाऽभवत् ।। ३ ।।
ललाटाद् रोषरूपो वै घर्मबिन्दुस्तदाऽक्षरत् ।
वह्निजातिः स पतितः क्षुधितो भोज्यमार्थयत् ।। ४ ।।
ब्रह्मणा च क्रतौ हव्यं जाठरे भुक्तमित्यपि ।
पृथ्व्यादौ खनिजं खाद्यं त्रेधा भोज्यं पुराऽर्पितम् ।। ५ ।।
हवनीयो जाठरश्चाकरजश्चेति वै त्रिधा ।
आद्यं प्रतिपद्दिवसे व्यभजद् विश्वरूट् च तम् ।। ६ ।।
सा तिथिः प्रथमा तस्मै चार्पिता पूजनादिकम् ।
वह्नेः प्रतिपदि ब्राह्मे मुहूर्ते कार्यमेव तत् ।। ७ ।।
अथ सूर्यस्य वै पत्नी संज्ञा तेजोऽसहा सती ।
अश्विनीरूपमास्थाय ययौ हैमोत्तरं पुरा ।। ८ ।।
सूर्यस्त्वश्वस्वरूपेण लेभे संगं तया सह ।
अश्विनीबालकौ जातौ प्राणापानौ भिषग्वरौ ।। ९ ।।
द्वितीयायां च तज्जातौ सा ताभ्यां ब्रह्मणा पुरा ।
पूजनादौ तिथिर्दत्ता रोगव्याधिविनाशिनी ।। 1.543.१० ।।
अथ वाणीं समुत्पाद्य ब्रह्मा गौरीस्वरूपिणीम् ।
तृतीयायां शंकराय ददौ विवाहकर्मणा ।। ११ ।।
सा गौर्यै वै तिथिर्दत्ता सौभाग्यादिविवर्धिनी ।
अथ गौर्या गणेशस्तन्मात्रात्मकः सुतोऽभवत् ।। १ २।।
श्रीकृष्णस्तु स्वयं प्रातश्चतुर्थ्यां गणनायकः ।
जातस्तस्य पूजनार्थं तस्मै चतुर्थिकाऽर्पिता ।। १ ३।।
अथ कद्र्वाः सुतानां तु नागानां गरुडेन वै ।
भक्षणार्थं वरे प्राप्ते ब्रह्मातो निजरक्षणम् ।। १४।।
नागाश्च प्रार्थयामासुर्ब्रह्मा तद्रक्षणं तथा ।
पूजनं पञ्चमीदैने ददौ सा नागपञ्चमी ।। १५।।
तत्र दुग्धतिलैस्तृप्ता दंशन्ति नैव मानवान् ।
अथ वै कार्तिकस्वामी षष्ठ्यां जातः सतीगृहे ।। १६।।
अहंकारात्मकस्तस्मै षष्ठी तिथिः समर्पिता ।
अथ नेत्रं समुत्पाद्याऽदित्याख्यं प्रथमे युगे ।। १७।।
तेजोऽर्पणं विधायैव लोकतेजःप्रलब्धये ।
व्योम्नि तं स्थापयामास सप्तम्यां श्रीनरायणः १८।।
सप्तमी सा तिथिस्तस्मै प्रदत्ता परमेष्ठिना ।
अथाऽन्धकाख्यदैत्यस्य नाशनार्थं सुरैः पुरा ।।१ ९।।
देव्यस्त्वष्टौ निर्मिता वै मातरो याः प्रकीर्तिताः ।
शब्दः स्पर्शस्तथा रूपं रसो गन्धोऽथ कामना ।।1.543.२० ।।
अहंकृतिस्तथा भ्रान्तिरमूर्ता मूर्तयोऽभवत् ।
कामः क्रोधस्तथा लोभो मोहो मदश्च मत्सरः ।।२१।।
पैशुन्यं चाऽनसूया च मूर्तयस्त्वभवन् पुरा ।
कामं योगेश्वरीं विद्धि क्रोधं माहेश्वरीं तथा ।।२२।।
लोभं तु वैष्णवीं विद्धि ब्रह्माणीं मदमेव च ।
मोहं स्वायंभवीं विद्धि कौमारीं मत्सरोद्भवाम् ।।२३ ।।
पैशुन्यं यमदण्डीं चाऽप्यसूयां विद्धि मातृकाः ।
एता रक्तप्रशोषिण्यो भवन्ति देहगेहजाः ।।२४।।
अन्धकस्य शोषितं च रुधिरं सर्वमेव यत् ।
तेन रक्तोद्भवाश्चान्ये कोटिशोऽप्यन्धकास्तदा ।।२५।।
नष्टा एव हि ताभ्यश्च दत्ताऽष्टमी तु वेधसा ।
तत्र पूज्याश्च ता रक्षां कुर्वन्त्यनुदिनं शुभाः ।।२६।।
अथ त्वाष्ट्रस्य वेत्रस्य विनाशार्थं तु वेधसा ।
शरीरमाया दुर्गा च स्वाच्छरीरात् प्रकाशिता ।।२७।।
सायुधा मानसी कन्या सा च दुर्गाऽष्टसद्भजा ।
सिंहास्थिता जघाने यं वेत्रासुरं ततश्च सा ।।२८।।
हिमालये स्थिता तस्याः प्राकट्यं नवमीतिथौ ।
ब्रह्मा तस्यै नवमीं च ददौ पूजादिहेतवे ।।२९।।
अथ सर्वाणि तत्त्वानि पुरा वै वेधसं प्रति ।
प्रार्थयामासुरत्यर्थमाश्रयं निजमद्भुतम् ।। 1.543.३ ०।।
तदा तु ब्रह्मणा कर्णदेशाद् दश च कन्यकाः ।
उत्पादिता दिशस्तास्तु पूर्वा च दक्षिणा तथा ।।३ १ ।।
पश्चिमा चोत्तरा चोर्ध्वा ह्यधोगा मुख्यतश्च षट् ।
ईशा ह्यग्निर्नैर्ऋतिश्च वायवी चेति ता दश ।।३२।।
ताभ्यः कार्यस्वरूपाभ्योऽवकाशं कर्म संददौ ।
अवकाशस्वरूपाभ्यः पतयश्च समर्पिताः ।।३३।।
पूर्वामिन्द्राय दक्षां च यमाय कुबेराय तु ।
उत्तरां पश्चिमां वरुणायोर्ध्वां ब्रह्मणे स्वयम् ।।३४।।
अधोगां फणिने चैशां चेशायाग्निं तु वह्नये ।
निर्ऋति निर्ऋतये च वायवीं वायवे तथा ।।३५।।
ददौ ब्रह्मा च दशमीं तिथिं ताभ्योऽर्चनाय च ।
अथैकादशिकायां च कुबेरमसृजत् प्रभुः ।।३६।।
धनं जयाख्याद्वायोस्तु तस्मै तां च तिथिं ददौ ।
नारायणस्य तेजोभिः कन्या त्वेका ह्यजायत ।।३७।।
एकादशेन्द्रियाणां सा व्रतं त्वेकादशी मतम् ।
द्वादश्यां च समुत्पन्नः परान्नारायणात् खलु ।।३८।।
पद्मनाभो मनोरूपो मूर्तो विष्णुः प्रपोषकः ।
तस्मै ददौ हरिकृष्णो द्वादशीं मोक्षदायिनीम् ।।३९।।
अथ वै ब्रह्मणो वक्षःस्थलाद् धर्मो ह्यजायत ।
युगारंभे चतुष्पात् स श्वेतवर्णोऽभवत् खलु ।।1.543.४० ।।
द्रव्यगुणक्रियाजातिचतुष्पद्युक् प्रकीर्तितः ।
त्रिशृंगश्च स्मृतो वेदे ससंहितपदक्रमः ।।४१ ।।
तथा आद्यन्त ओंकारद्विशिराः सप्तहस्तवान् ।
दानं दया दमो धर्मोऽर्थः कामो मोक्ष इत्यमी ।।४२।।
हस्ता अथ उदात्तादित्रिभिर्बद्धो व्यवस्थितः ।
कृतो वै ब्राह्मणस्तत्र चतुष्पात् षट्क्रियात्मकः ।।४३।।
त्रेता च क्षत्रियस्तत्र त्रिपादो गौण एव सः ।
द्वापरो वैश्य एवात्र द्विपादश्च प्रगौणकः ।।४४।।
कलिः शूद्रस्तत्र चैकांशेन धर्मो व्यवस्थितः ।
स धर्मः पीडितः सृष्टेरादौ क्षत्त्रेण पादतः ।।४५।।
चन्द्रेणाऽपहृता तारा गुरोः पत्नी पतिव्रता ।
धर्मस्तेन महाघोरारण्यं संप्रविवेश ह ।।४६ ।।
चतुर्दशसु लोकेषु धर्मो वै लीनतां गतः ।
असुराश्च सुराश्चापि ह्यधर्मेणाऽऽवृतास्तदा ।।४७।।
जिघृक्षन्तः परौकांसि परस्त्रीधनसम्पदः ।
बभ्रमुः परसौधेषु निर्मर्यादास्तदाऽभवन् ।।४८।।
युयुधुरपजह्रुश्च परकीयं परस्परम् ।
ब्रह्मा विनाशमालक्ष्य धर्मं प्राह सनातनम् ।।४९।।
त्वां विना तु जगत्सर्वं विनाशं प्रसमेष्यति ।
चन्द्रस्त्यजतु वै तारां धर्मस्तिष्ठतु सर्वथा ।।1.543.५० ।।
त्वयैव पाल्यते पृथ्वी त्रैलोक्यं च त्वयैव हि ।
जनस्तपस्तथा सत्यं त्वया सर्वं तु पाल्यते ।।५१ ।।
न त्वया रहितं किञ्चिज्जगत्स्थावरजंगमम् ।
विद्यते त्वद्विहीनं चेत् सद्यो नश्येत् ततो जगत् ।।५२।।
त्वमात्मा सर्वभूतानां सतां सत्त्वस्वरूपवान् ।
राजसीनां रजस्त्वं च तामसीनां तमोमयः ।।५३।।
त्वया हीना इमे देवाः सर्वे तून्मार्गवर्तिनः ।
उन्मार्गं यच्छ मूढानां त्वं पुत्र परमा गतिः ।।५४।।
एवं स्तुतो वृषः शान्तचक्षुर्भ्यां देवतादिकान् ।
अपश्यद् दृष्टमात्रास्ते बभूवुर्धर्ममानसाः ।।५५।।
क्षणेन गतसम्मोहा असुरा अपि धार्मिकाः ।
समभवन् धर्मयुक्ताः सर्वे च ऋतवस्तथा ।।५६ ।।
वृक्षा वल्ल्यो नरा नार्यश्चेतनानि जडानि च ।
सर्वे स्वधर्मयुक्ताश्च शीतोष्णाद्यास्तथाऽभवन् ।।५७।।
एवं धर्माय च दत्ता तिथिस्तस्य त्रयोदशी ।
धर्मो यत्राऽभवद्गुप्तो धर्मारण्यं हि तत्स्मृतम् ।।५८।।
ब्रह्माधर्मं समादिश्य सृष्टेरग्र्यं पदं ततः ।
ययौ वै सत्यलोकं च जगत् स्वस्थमभूत्तथा ।।५९।।
ततो मूर्तस्वरूपेण यमराजोऽभवद्धि सः ।
अथ रुद्रो ब्रह्मणस्तु ललाटात्समजायत ।।1.543.६०।।
चतुर्दश्यां तिथौ तस्मै यज्ञभागोऽपि चार्पितः ।
दक्षयज्ञे हरद्वारे ऋषिभिर्मुनिभिस्तथा ।।६१।।
सा तिथिः शिवरात्र्याख्या रुद्राय सर्वथाऽर्पिता ।
धर्मस्य श्वशुरो दक्षो, दक्षकन्याशतं त्वभूत् ।।६२।।
ताश्च सृष्टेः सुवृद्ध्यर्थं सुरेभ्यः प्रददौ पृथक् ।
सतीं ददौ शंकराय दश धर्माय वै ददौ ।।६३।।
श्रद्धा मेधा धृतिर्मूर्तिः क्षमा लज्जा शुचिः स्मृतिः ।
शक्तिः श्रुतिस्तदेतासु मूर्तेर्नारायणोऽभवत् ।।६४।।
हरिः कृष्णो नरश्चेति चत्वारो मूर्तिभक्तिजाः ।
द्वे भार्ये कामदेवाय रतिः प्रीतिस्तथैव च ।।६५।।
एकां स्वाहां ददौ वह्नेः पितॄणां च स्वधां ततः ।
सप्तविंशतिकन्यास्तु नक्षत्राणि निशापतेः ।।६६।।
अश्विनी भरणी चापि कृत्तिका मृगशिर्षिका ।
आर्द्रा पुनर्वसुः पुष्या चाश्लेषा च मघा तथा ।।६७।।
पूर्वाफाल्गुनिका चोर्ध्वफाल्गुनी हस्तिनी तथा ।
चित्रा स्वातिर्विशाखाऽनुराधा ज्येष्ठा च मूलिका ।।६८।।
पूर्वाषाढोत्तराषाढा श्रवणा च धनिष्ठिका ।
शतभीषा पूर्वभाद्रपदोर्ध्वभाद्रिकस्तथा ।।६९।।।
रेवती चेति चन्द्रस्य पत्न्योऽभवँश्च रोहिणी ।
कश्यपाय ददौ दक्षः शुभाः कन्यास्त्रयोदश ।।1.543.७०।।
अदितिश्च दितिश्चापि दनुः काष्ठा इरावती ।
विनता चापि कद्रूश्च सिंहिका सुप्रभा तथा ।।७१ ।।
ईर्ष्या माया तथा हिंसा निर्ऋतिश्चेति ताः खलु ।
वरुणायाऽर्पिताः पञ्च गौडी वस्त्रा च वार्तिका ।।७२।।
साध्वी सुमालिका चेति वरुणान्यस्तु ताः स्मृताः ।
कुबेराय ददौ पञ्च भद्रा च मदिरा ततः ।।७३।।
विद्या धन्या धना चेति कुबेराण्यश्च ता इति ।
रुद्राय दश कन्यास्ता जया च विजया तथा ।।७४।।
इरावती मधुच्छन्दा सुप्रिया जनका तथा ।
कान्ता सुभद्रा धर्माली शुभा च रुद्रयोषितः ।।७५।।
आदित्येभ्यो ददौ दक्षो द्वादश कन्यकाश्च ताः ।
प्रभावती सुभद्रा च विमला निर्मला वृता ।।७६।।
तीव्रा दक्षा ह्मरुणा च विद्या च द्वारपालिनी ।
वर्वसा च प्रभा चेति सूर्यस्य योषितश्च ताः ।।७७।।
विश्वदेवेभ्यश्च दक्षो ददावष्टौ हि कन्यकाः ।
योगनिद्रा विभूतिश्च शिंशपा शरमा गुहा ।।७८।।
माला वंशा तथा ज्योत्स्ना ता विश्वदेवयोषितः ।
अश्विन्याश्च सुताभ्यां द्वे सुवेषा भूषणा तथा ।।७९।।
एका श्वासा वायवे च सावित्रीं ब्रह्मणे तथा ।
लक्ष्मीं च विष्णवे दक्षो ददौ ताः शतकन्यकाः ।।1.543.८०।।
सृष्टेरादौ युगे चैवं कन्यादानं बभूव ह ।
तेन कन्याप्रदानस्य रीतिः सर्वेषु चागता ।।८१ ।।
ताभ्यः प्रपूरितं सर्वं जगत् स्थावरजंगमम् ।
अथ वै पितरः सर्वे ब्रह्मणश्चाननात् पुरा ।।८२।।
धूम्ररूपाः समुत्पन्ना ऊर्ध्वाननास्तथोर्ध्वगाः ।
अमावास्या च पितृभ्योऽर्पिता वै प्रथमे युगे ।।८३।।
चन्द्रमसे पूर्णिमा च कलानां निधयेऽर्पिता ।
ब्रह्मणो मनसे जाय शीतदेवाय वेधसा ।।८४।।
इत्येवं कथितं लक्ष्मि! तिथीनामर्पणं तव ।
दीपोत्सवी तथा तेऽत्र धनत्रयोदशी शुभा ।।८५।।
लक्ष्मि! समर्पिता तुभ्यं शारदायैव सर्वथा ।
मूलनक्षत्रयोगश्च श्रवणस्य तथा पुनः ।।८६।।
सरस्वत्यै पूजनार्थं चार्पितो हरिणा मया ।
एवं विविधवाराश्च तत्तदुत्पत्तिनामतः ।।८७।।
सप्तदेवेभ्य एवादौ युगे समर्पिता मया ।
तत्र तेषां पूजनेन तदीयं सर्वथा बलम् ।।८८।।
धनं सौख्यं समैश्वर्यं ददत्येव हि देवताः ।
विघ्नानां शमनं तद्वद् दारिद्र्यस्य विनाशनम् ।।८९।।
आधिव्याधिविनाशादि जायते देवपूजनात् ।
एवं लक्ष्मि! सदा देवे प्रतिमायां तिथौ तिथौ ।।1.543.९०।।
निवसामि स्वयं कृष्णनारायणः परेश्वरः ।
भावेन सुप्रसन्नोऽस्मि भक्त्या दास्येन सर्वथा ।। ९१ ।।
करोमि श्रेय एतेषां शरणागतवत्सलः ।
श्रवणात्पठनाच्चास्य फलं भवति शाश्वतम् ।।९२।।
तत्तत्तिथिसुराणां त्वर्चनजं च फलं भवेत् ।
एवं प्राह स्वयं शंभुः शिवरात्र्यां प्रभासके ।।९३।।
पार्वत्यै तन्मया लक्ष्मि! तुभ्यं सर्वं निवेदितम् ।
विशेषेणेष्ट देवं तु ध्यायेद्वै देवतास्वपि ।।९४।।
इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पञ्चदशतिथीनां तत्तद्देवानां च सहेतुकवर्णननामा त्रिचत्वारिंशदधिकपञ्चशततमोऽध्यायः ।।५४३ ।।