लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५४२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५४१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५४२
[[लेखकः :|]]
अध्यायः ५४३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! महापुण्यं वृत्तान्तं प्राग्भवं शुभम् ।
श्रवणात्पापहं यच्च धारणान्मोक्षदं परम् ।। १ ।।
अहं तुष्यामि भावेन श्रद्धया सेवया तथा ।
दास्येन प्रेमवृत्त्या च भक्तेष्टकृद् भवामि हि ।। २ ।।
भावसाध्योऽस्म्यहं देवि! न वित्तैर्न जपैरहम् ।
भक्तानां तु मदर्थं वै कायक्लेशो भवेत् क्वचित ।। ३ ।।
कर्मणा मनसा वाचा मच्चित्तो यो जनो भवेत् ।
अहिंसां सत्यमस्तेयं ब्रह्मचर्यं समाचरेत् ।। ४ ।।
एकभक्तं तथा नक्तमुपवासादिक चरेत् ।
मम संकीर्तनं साधुस्मरणं चाऽप्यनिन्दनम् ।। ५ ।।
भजनं च प्रकुर्याद्वै मम प्रतुष्टये रमे ।

पुराऽऽसीद् ब्रह्मणः पुत्र आरुणिर्नाम नामतः ।। ६ ।।
सोऽरण्यमगमत् किञ्चित्तपोऽर्थं द्विजसत्तमः ।
तपस्तेपे दारुणं चाप्युपवासपरायणः ।। ७ ।।
नागनद्यास्तटे रम्ये त्वावसथं चकार सः ।
स्नानार्थमेकदा नद्यां ययौ स्नात्वा तटे स्थितः ।। ८ ।।
ददर्श तत्र चायान्तं व्याधं धनुश्शरान्वितम् ।
तं द्विजं हन्तुमायात् स व्याधो वल्कलकांक्षया ।। ९ ।।
ऋषिस्तु ज्ञातवान् दिव्यचक्षुषा व्याधमानसम् ।
शुशोच स हृदि यद्वै व्याधोऽयं बहुपापकृत् ।। 1.542.१ ०।।
मम हत्याकृतं पापमहो तस्याऽधिकं भवेत् ।
एवं वै पापकर्तुश्च कदोद्धारो भविष्यति ।। ११ ।।
तस्माद् विना द्विजहत्यां गृह्णातु वल्कलानि सः ।
इति कृत्वाऽर्पितान्येव यावन्ति वल्कलानि हि ।। १२।।
ध्यायन्नारायणं देवं तस्थौ मौनं तु भूसुरः ।
तं दृष्ट्वा सुव्रतं विप्रं चान्तर्गतहरिमृषिम् ।।१३।।
दयालुं शान्तहृदयं परपापनिवारकम् ।
व्याधस्य मानसं तत्र क्रूरतां तु विहाय वै ।। १४।।
सात्त्विकं धर्मयुक्तं च व्यावर्तत क्षणान्तरे ।
व्याधो विहाय चापं च शरांश्च वाक्यमब्रवीत् ।। १५।।
हन्तुमिच्छन्नहं विप्र! भवन्तमिह चागतः ।
इदानीं दर्शनात्तेऽत्र हिंसाबुद्धिर्गता मम ।।१६।।
ब्राह्मणा बहवो नार्यो मया हता हि पापिना ।
कां गतिं प्रतिपत्स्यामि ब्रह्मघ्नोऽहं द्विजोत्तम ।। १७।।
इदानीं तप्तुमिच्छामि तपोऽहं त्वत्समीपतः ।
उपदेशादिदानेन प्रसादं कर्तुमर्हसि ।। १८।।
एवमुक्तोऽप्यसौ विप्रो नोत्तरं प्रत्यपद्यत ।
पापिना तु सहाऽऽलापे पापं संक्रमते यतः ।।१९।।
अनुक्तोऽपि स धर्मेच्छ्रुर्व्याधस्तत्रैव तस्थिवान् ।
यथा विप्रस्तथा व्याधस्तपस्तेपे तरोरधः ।।1.542.२०।।
अथैकदा नदीतीरे सिंहः कश्चित् समागतः ।
बुभुक्षितश्च तं विप्रं दृष्ट्वा खादितुमीश्वरम् ।।२१ ।।
विप्रं यावत् तटे सिंहो जिघृक्षति च तावता ।
व्याधेन शरघातैश्च शीघ्रं सिंहो विनाशितः ।।२२।।
ऋषिः ओं श्रीकृष्णनारायणाय स्वामिने नमः ।
इत्युक्त्वा जलमग्नोऽभूज्जलाधो निषसाद च ।।२३।।
कृष्णनारायणं नाम श्रुत्वा सिंहो ममार च ।
भूत्वा निष्पापकस्तस्माद् दिव्यपुमान् समुत्थितः ।।२४।।
श्रुतमात्रे जहौ प्राणान् दिव्यदेहोऽभवत्ततः ।
उवाच यामि तद्देशं यत्र कृष्णनरायणः ।।२५।।
त्वत्प्रसादाद् द्विजश्रेष्ठ! विपाप्मा मोक्षभागहम् ।
श्रुत्वेदं च जलाऽन्तःस्थो ब्राह्मणो बहिराययौ ।।२६।।
पप्रच्छ तं तदा सिंहपुरुषं कोऽसि वै वद ।
सिंहपुमान् द्विजं प्राह प्रागासं वैदिकोऽप्यहम् ।।२७।।
दीर्घबाहुरितिख्यातो क्रियाकाण्डपरायणः ।
सर्वं वेद्मि क्रतुकार्यं नान्याऽपेक्षा च मे ततः ।।२८।।
अहं जानामि वेदाँश्च वेद्म्यहं च शुभाशुभम् ।
ब्राह्मणैर्नैव मे कार्यं किं वस्तु ब्राह्मणा इति ।।२९।।
ममैवंवादिनो विप्राः सर्वे क्रोधसमन्विताः ।
ऊचुः शापं दुराधर्षं क्रूरः सिंहो भविष्यसि ।।1.542.३ ०।।
ज्ञानं ते च विनष्टं स्यान्मात्यर्थं स्मरणं तव ।
मृत्युकाले कृष्णनारायणं नाम हि श्रोष्यसि ।।३१ ।।
तदा मुक्तिर्भविता ते ह्यारुणेः सन्निधौ पशो! ।
त्वया यदृच्छया भक्ष्यं षष्ठकाले समागतम् ।।३२।।
पशुनृपक्षिजातीयं यत्ते स्थास्यति सन्निधौ ।
यदेषुघातं लब्ध्वा तु प्राणैः कण्ठगतैर्भवान् ।।३३।।
श्रोष्यति श्रीकृष्णनारायणं ब्राह्मणवक्त्रतः ।
तदा मोक्षगतिस्ते वै भविता नात्र संशयः ।।३४।।
परवक्त्रगतं चापि विष्णोर्नाम श्रुतं मया ।
कृतदोषोऽपि विप्रो मे मोक्षदाता बभूव ह ।।३५।।
यस्य दर्शनमात्रेण प्रत्यक्षोऽभवदच्युतः ।
यः पुनः स्वमुखेनैव गृह्णाति श्रीनरायणम् ।।३६।।
प्राणप्रयाणसमये मुक्तो भवति वै ध्रुवम् ।
सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते ।।३७।।
जंगमा ब्राह्मणा देवास्तत्रस्थः पुरुषोत्तमः ।
ब्राह्मणस्याऽऽरुणेर्योगाद् गच्छामि शाश्वतं पदम् ।।३८।।
इत्युक्त्वाऽऽरुणिमापूज्य ययौ ब्रह्माक्षरं पदम् ।
आरुणिश्च ततो व्याधं समुवाच प्रसन्नहृत् ।।३९।।
जिघृक्षोर्मृगराजस्य यत् त्वया रक्षितोऽस्म्यहम् ।
तत् पुत्र! तुष्टस्ते दद्मि वरं वरय सुव्रत ।।1.542.४०।।
व्याधः प्राह वरश्चायं यस्त्वं मां भाषसे स हि ।
पुत्रता तव सन्तोषः किमस्मादपरो वरः ।।४१ ।।
अतः परं वरेणाऽहं किं करोमि प्रशाधि माम् ।
ऋषिः प्राह त्वया व्याध! प्रार्थितोऽहं तपोऽर्थिना ।।।४२।।
मया किञ्चित्तदा नोक्तं यतश्चासीदघी भवान् ।
इदानीं तव पापानि तपसा मम रक्षया ।।४३।।
तथा मे दर्शनेनापि कृष्णनामश्रुतेन च ।
नष्टानि शुद्धदेहोऽसि साम्प्रतं नात्र संशयः ।।४४।।
तपः कुरुष्व साधो त्वं मोक्षमेवमवाप्स्यसि ।
व्याधः प्राह भवतोक्तः कृष्णनारायणः प्रभुः ।।४५।।
स कथं प्राप्यते पापरतेर्वै मादृशैर्गुरो ।
ऋषिः प्राह तमुद्दिश्य सर्वं कुर्यात् समर्पणम् ।।४६ ।।
सः परं तमवाप्नोति भक्त्या व्रतेन कर्मणा ।
एवं ज्ञात्वा च तद्भक्त्या सर्वं व्रतं समाचर ।।४७।।
न भक्षयेदनैवेद्यं न वदेदनृतं क्वचित् ।
जपं कुर्यात् सदा तस्य ध्यानं कुर्याद्धरेस्तथा ।।४८।।
एतत्ते व्रतमादिष्टं मया व्याध तथा कुरु ।
अत्रैव तपसा युक्तस्तिष्ठ त्वं यावदिच्छसि ।।४९।।
एवमुक्त्वा मुनिः पुनः सलिलाऽन्तर्विवेश ह ।
व्याधो गुरुं स्मरंस्तेपे तपस्त्वाहारवर्जितः ।।1.542.५०।।
क्षुधाकाले शीर्णपर्णान्यभक्षयत् क्वचित् क्वचित् ।
शनैः शनैस्त्यक्तवाँश्च पर्णानां भक्षणं तदा ।।५१ ।।
निराहारस्तपस्तेपे स्मरन् गुरुमतन्द्रितः ।
एवं तपस्यतस्तस्य दुर्वासा अभ्यगान्मुनिः ।।५२।।
ददर्श शुष्कदेहं च सप्राणं व्याधमेव सः ।
तपस्तेजोऽन्वितं कृष्णनारायणे स्थितं हृदा ।।५३।।
ज्ञात्वा ऋषिं स च व्याधो नत्वा च शिरसा मुनिम् ।
उवाच तं कृतार्थोऽस्मि भगवन् दर्शनात् तव ।।५४।।
इदानीं त्वमतिथिर्मे प्राप्तोऽसि दैवतं मम ।
शीर्णपर्णादिभिः कृत्वा प्रीणयामि द्विजोत्तमम् ।।५५।।
दुर्वासा अपि तं शुद्धभावपूतं जितेन्द्रियम् ।
जिज्ञासुस्तत्तपःश्रैष्ठ्यमिदमुच्चैरुवाच ह ।।।५६।।
यवगोधूमशालीनामन्नं मिष्टं सुसंस्कृतम् ।
दीयतां मे क्षुधार्ताय त्वामुद्दिश्याऽऽगताय मे ।।५७।।
भक्तव्याधोऽयमित्युक्तश्चिन्तां परमिकां गतः ।
कस्मादानेयमेतादृक् कथं तत् संभवेन् मम ।।५८।।
एवं चिन्तयतस्तस्य स्मरतश्च नरायणम् ।
गुरोश्च कृपया व्योम्नः पात्रं संपतितं शुभम् ।।५९।।
सौवर्णं सिद्धिसंयुक्तं तज्जग्राह करेण सः ।
तद् गृहीत्वा मुनिं प्राह प्रतीक्षस्व क्षणम् ऋषे ।।1.542.६० ।।
अत्रैव स्थीयतां यावद्भिक्षाटनं करोमि च ।
तावन्मयि प्रसादं त्वं गुरो विधातुमर्हसि ।।६१ ।।
एवमुक्त्वा सपात्रः स भिक्षां याचितुमेव च ।
नातिदूरेण नगरं वृक्षवल्ल्यादिशोभितम् ।।६२।।
लक्ष्यीकृत्य प्रयाति स्म मार्गवृक्षादिवल्लयः ।
तस्य तत्र प्रयातस्य चाग्रतः सर्वशोभनाः ।।६३।।
वृक्षेभ्यो निर्ययुः कन्या हेमपात्राग्रपाणयः ।
वनदेव्यश्च सुन्दर्यः पक्वान्नानि शुभानि च ।।६४।।
व्यञ्जनानि च पेयानि चोष्याणि भोज्यकानि च ।
भक्ष्याणि शुभलेह्यानि मधूनि सुरसाणि च ।।६५।।
दुग्धानि घृतमिश्राणि शर्करापायसानि च ।
व्यञ्जनानि विविधानि तिक्तमिष्टाम्ब्लकानि च ।।६६।।
षट्पञ्चाशद्विधान्येव ददुस्ता वनदेवताः ।
स च कृतार्थमात्मानं मत्वा पुनरथाश्रमम् ।।६७।।
आजगाम ऋषिं प्राह भिक्षा प्राप्ता यथेप्सिता ।
ब्रह्मन् क्षालय पादौ त्वमुपविश्याऽऽसने शुभे ।।६८।।
इमां गृहाण भिक्षां च कुरु मां पुण्यभाजनम् ।
एवमुक्तः स जिज्ञासुस्तपो बलं पुनर्मुनिः ।।६९।।
प्राह भक्तं च तं व्याधं नास्ति पात्रं जलस्य मे ।
नदीं गन्तुं न शक्नोमि पात्रं तेऽपि न विद्यते ।।1.542.७०।।
कथं प्रक्षालनं व्याध! पादयोर्मे भवेदिति ।
इत्युक्तो व्याधभक्तः सः पुनश्चिन्तापरोऽभवत् ।।७१ ।।
अनादिश्रीकृष्णनारायणं स्मृत्वा गुरुं तथा ।
स्मृत्वा जगाम शरणं तां तु नागनदीं तदा ।।७२।।
उवाच प्रणतो भूत्वा सरित्! त्वं शरणं मम ।
व्याधोऽस्मि पापकर्माऽस्मि ब्रह्महाऽस्मि सरिद्वरे! ।।७३।।
तथापि मां भक्तमत्र पाहि ते शरणागतम् ।
देवतां नैव जानामि न मन्त्रं न तथाऽर्चनम् ।।७४।।
आरुणेर्मे गुरोः पादौ ध्यात्वा पश्यामि वै शुभम् ।
एवं भक्तस्य मे देवि! कृपां कुरु सरिद्वरे! ।।७५।।
ऋषेरासन्नतां याहि पादशौचार्थमापगे! ।
एवमुक्त्वा नागनदी जलप्रवाहरूपतः ।।७६।।
आजगाम यतस्तस्थौ दुर्वासा वृक्षमाश्रितः ।
तद् दृष्ट्वा महदाश्चर्यं दुर्वासा विस्मयं ययौ ।।७७।।
प्रक्षाल्य हस्तपादौ च भिक्षान्नं श्रद्धया ऋषिः ।
वुभुजे परमप्रीतस्तथाऽऽचम्य हसन्मुहुः ।।७८।।
तं व्याधं शुष्कदेहं च क्षुधा दुर्बलतां गतम् ।
वरं ददौ ते वेदा वै सांगा सार्थपदक्रमाः ।।७९।।
ब्रह्मविद्यास्तथा सर्वाः प्रत्यक्षा वै भवन्तु हि ।
त्वं च नाम्ना सत्यतपा ऋषिरग्र्यो भविष्यसि ।।1.542.८०।।
व्याधः प्राह कथं शूद्रो वेदाध्ययनवानहम् ।
ऋषिः प्राह शरीरं ते गतं पापमयं ध्रुवम् ।।८१।।
तपोमयं शरीरं ते द्वितीयं वर्ततेऽधुना ।
प्रागज्ञानं गतं नाशमिदानीं ज्ञानमागतम् ।।८२।।
एवं त्वं शुद्धकायोऽसि सत्यमेतद् ब्रवीमि ते ।
दीक्षया तपसा भक्त्या देहो वै परिवर्तते ।।८३।।
तेन वेदाध्ययनादि प्रतिभास्यति तेऽधुना ।
प्रागवस्थमधर्माख्यं परिज्ञानविवर्जितम् ।।८४।।
गतं ते व्याधशरीरं, परं धर्मव्रतादिमत् ।
इदानीं वै समापन्नं भक्तिपूतं द्वितीयकम् ।।८५।।
यस्तु भावः पुरा ह्यासीत् प्राणिनो निघ्नतस्तव ।
तत्पापाख्यं शरीरं ते पापसंज्ञं गतं खलु ।।८६।।
इदानीं शुभसद्वृत्ति तपआर्जवभक्तिमत् ।
द्वितीयां धर्मरूपं तु शरीरं ते व्यवस्थितम् ।।८७।।
व्याधः प्राह ऋषिं नारायणो वै साधनं विना ।
कथमाराधनीयश्चाऽपरिग्रहेण योगिना ।।८८।।
दुर्वासाः प्राह मनसा पूजनं सर्वथाऽऽचरेत् ।
न धनं वा कुलं तत्र सम्पद्वा समपेक्ष्यते ।।८९।।
भावेन भगवान् नित्यं तुष्यत्येव जनार्दनः ।
स्नात्वा ध्यात्वा हरिं नित्यं मानसैरुपचारकैः ।।1.542.९०।।
पूजयेद् भावयेन्नीराजयेत् क्षमापयेत्तथा ।
पुष्पांजलिं जलमर्घं दद्याद् दद्याच्च मानसम् ।।९१ ।।
आत्मार्पणं प्रकुर्याच्च तेन तुष्येज्जनार्दनः ।
सधनैनिर्धनैश्चापि प्राप्यते परमेश्वरः ।।९२।।
अपि कोटिश्रेष्ठदानैर्भक्तिहीनैर्न तुष्यति ।
सभक्तेस्तु पत्रमात्रदानेनाऽपि प्रतुष्यति ।।९३।।
जलेन चन्दनेनापि पुष्पमात्रेण तुष्यति ।
त्रितस्य खलु भावेन कर्दमेनापि चार्चिताः ।।९४।।
जलेन वै सुराः सर्वे सन्तुष्टा हि निदर्शनम् ।
प्रह्लादस्य जपेनैव तुष्टः श्रीभगवान् हरिः ।।९५।।
गोपीनां श्रीकृष्णनारायणस्तुष्टो हृदर्पणात् ।
लक्ष्म्या दास्येन सन्तुष्टः कृष्णनारायणः प्रभुः ।।९६।।
पार्वत्याश्च त्वपर्णायाः सन्तुष्टः शंकरः स्वयम् ।
अम्बरीषस्य भगवांस्तुष्टो भावेन पूजया ।।९७।।
एवं श्रीमत्कृष्णनारायणोऽक्षराधिपः प्रभुः ।
भावभक्त्या प्रसन्नः स्यान्न विना भावमच्युतः ।।९८।।
देवता गुरवः सन्तः पितरो धर्म ईश्वरः ।
मोक्षः फलं सदित्येतच्छ्रद्धागम्यं हि भावितम् ।।९९।।
भक्तिः सेवा व्यवहारश्चोपार्जनं च मेलनम् ।
अर्थः सिद्धिः सुखं चैतत् क्रियासाध्यं तदष्टकम् ।। 1.542.१ ००।।
मन्त्रो विद्या च कलहो गायनं जप आह्वनम् ।
उपदेशोऽर्थवादश्च वाणीसाध्यं तदष्टकम् ।। १०१ ।।
गृहाणि च स्त्रियो रम्याः पुत्राश्चाज्ञाकराः क्षितिः ।
यशो मानं पतिः पार्श्वाः पुण्यसाध्यं तदष्टकम् ।। १ ०२।।
शान्तिस्तृप्तिर्विरागश्च श्रेयः पुण्यं च मोक्षणम् ।
निवृत्तिश्चोपकारश्च ज्ञानसाध्यं तदष्टकम् ।। १ ०३।।
पृथ्वी प्राह पुरा देवो वाराहो जलमग्निकान् ।
जलप्लुतां महीं दद्यान्नारायणाय भावतः ।। १ ०४।।
तथाप्यहं प्रसन्नः स्यां पृथ्व्यां रसोऽस्मि वै यतः ।
त्वया देवि स्मृतश्चाहं जलेन पूजितस्तथा ।। १ ०५।।
त्वद्रक्षार्थं समायातो वाराहं रूपमास्थितः ।
एवं मे भावयुक्तेन मनसा शरणं व्रजेत् ।। १ ०६।।
तस्याऽहं सर्वथा तुष्टो मोक्षं ददामि तद्वशः ।
द्वादश्यां च प्रगे पूजां यः करोति तु भावतः ।। १ ०७।।
तस्याऽहं ब्रह्मलोकं च ददामि शाश्वतं क्षिते! ।
इत्युक्त्वा पृथिवीं क्रोड उद्दधार जलोपरि ।। १ ०८।।
इत्येवं पार्वतीं लक्ष्मि! शंभुः प्राह प्रभासके ।
पठनाच्छ्रवणाच्चास्य ब्रह्मलोकफलं भवेत् ।। १ ०९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आरुणेः सन्निधौ सिंहस्य मुक्तिः, व्याधकृता विप्ररक्षा तपश्चर्या च, वैदिकस्य दीर्घबाहोर्विप्राणामवमानात् सिंहो भवेति शापः, तपस्यतो व्याधस्य प्रार्थनयाऽऽरुणेः पादप्रक्षालितवती नागमती नदी, व्याधस्य पावित्र्यं
सत्यतपानामऋषित्वं, दुर्वाससा कृतज्ञानोपदेशश्चेत्यादिनिरूपणनामा द्वाचत्वारिंशदधिकपञ्चशततमोऽध्यायः ।। ५४२ ।।