लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५४१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५४० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५४१
[[लेखकः :|]]
अध्यायः ५४२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! नन्दतीर्थं शंकरेण यथोदितम् ।
पार्वत्यै ते कथयामि नन्दो भागवतो ह्यभूत् ।। १ ।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
इतिमन्त्रो वशिष्ठाद्वै गृहीतस्तेन भूभुजा ।। २ ।।
महाभागवतो ह्यासीन्नारायणपरायणः ।
न दुर्भिक्षं न चा व्याधिर्नाऽकाले मरणं नृणाम् ।। ३ ।।
न चौरा न च कापट्यं न चाऽवृष्ट्यादिकं भयम् ।
तस्मिन् शासति राजेन्द्रे प्रजाश्चासन् सुखाः सदा ।। ४ ।।
विमानं तस्य तुष्टेन दत्तं वै विष्णुना स्वयम् ।
व्यचरन् सर्वलोकान् स विमानवरमास्थितः ।। ५ ।।
एकदा व्यचरन् भूमौ मानसं तु सरो ययौ ।
देवादिसेवितं पद्मसुगन्धपरिवासितम् ।। ६ ।।
दिव्यवारिसमायुक्तं शीततृप्तिप्रदं शुभम् ।
तत्राऽपश्यच्छुभं पद्मं विकसितं च पाण्डुरम् ।। ७ ।।
तत्राऽप्यंगुष्ठमात्रं च स्थितं पुरुषसत्तमम् ।
अपश्यच्चाऽकथयत् स्वसारथिं गच्छ वै जलम् ।। ८ ।।
यदिदं दृश्यते पद्मं पुरुषेण विराजितम् ।
रत्नहारालिशोभेन पीतवस्त्रादिधारिणा ।। ९ ।।
द्विभुजेन सुदिव्येन मध्यभागे ह्यधिष्ठितम् ।
तदिदं कमलं शीघ्रं समानय ममान्तिकम् ।। 1.541.१ ०।।
धारयिष्यामि शिरसि भविष्यामि कृतार्थकः ।
एवमुक्तः सारथिस्तु विमानादवरुह्य च ।। ११ ।।
व्योम्ना वायुसमाधारश्चावाततार पद्मिनीम् ।
अधोमस्तकस्थित्यैव हस्तं प्रसार्य यावता ।। १२।।
व्योम्नैव गृहीतुं याति तत्पद्मं नालसंस्थितम् ।
यावता स्पृशति तावद् धूम्रस्तस्मादजायत ।। १३।।
अन्धकारमये तत्र व्योम्नि ममार सारथिः ।
नन्दो विमानमध्ये च कृष्णवर्णो बभूव ह ।। १४।।
बलवीर्यविहीनश्च मेधाशक्तिविवर्जितः ।
उन्मत्त इव सञ्जातो म्लानशुष्काननस्तथा ।। १५।
कज्जलपिण्डवद्देहं दृष्ट्वा शुशोच भूपतिः ।
किमिदं मे तु सञ्जातं मृतश्च सारथिर्मम ।। १६।।
कोपोऽयं कस्यचिज्जातो वसिष्ठो मां प्ररक्षतु ।
इत्युक्तमात्रस्तु गुरुर्वसिष्ठस्तत्र चाययौ ।। १७।।
योगबलेन च याने समागत्याऽऽह भूपतिम् ।
मा भयं याहि राजेन्द्र कुशलं शं तवाऽस्तु वै ।। १८।।
राजा वसिष्ठं दृष्ट्वा च विशोकः समपद्यत ।
नमस्कारं विधायैव दीनवन्निजगाद तम् ।। १ ९।।
एष मे भगवन् जातः कृष्णो देहविपर्ययः ।
सारथिर्मम नष्टश्च कमलस्य प्रभावतः ।।1.541.२०।।
किमिदं वद मे ब्रह्मन् निस्तारं कारयाऽस्य वै ।
वसिष्ठः प्राह राजेन्द्र मानसेऽत्र सरोवरे ।।२१ ।।
एतद् ब्रह्मोद्भवं नाम कमलं पद्मजातिकम् ।
नारायणस्य नाभेर्वै यदा ब्रह्मा व्यजायत ।।२२।
सनालकमले तद्वै पद्ममेतन्निगद्यते ।
तज्जातीयं तु कमलं मानसेऽत्र सरोवरे ।।२३ ।।
वंशरूपेण भगवान् रक्षत्येव परम्पराम् ।
एतदीयसुसन्ताने कमले सर्वदा ह्यजः ।।२४।।
अंगुष्ठमात्रप्रतिमो ब्रह्मा तत्र विराजते ।
यावन्ति कमलान्यत्र तस्य सन्तानजानि हि ।।२५।।
तावन्ति ब्रह्मणा चाधिवासितानि भवन्ति वै ।
नान्ये पश्यन्ति चैतानि पुण्यहीना हि देहिनः ।।२६।।
सुपुण्या मोक्षगन्तारः पश्यन्त्येतत्तु पद्मकम् ।
दृष्टमात्रेण चानेन दृष्टाः स्युः सर्वदेवताः ।।२७।।
एतद्वै दृश्यते धन्यैर्ब्रह्मभागवतैर्जनैः ।
महाभागवतैर्लोकैर्यत् त्वया दृष्टमेव हि ।।२८।।
एतस्मिन् दृष्टमात्रे तु जलस्पर्शे च वै कृते ।
सर्वशोकविनिर्मुक्तः पदं निर्वाणमाप्नुयात् ।।२९।।
सारथिस्तव राजेन्द्र ददर्श कमलं तथा ।
पस्पर्श च जलं नालं मुक्तिं जगाम तावता ।।1.541.३ ०।।
अहं नित्यं दर्शनार्थं त्वायामि व्योममार्गतः ।
न स्पृशामि जलं किन्तु नत्वा तं पितरं ह्यजम् ।।३ १ ।।
पुनर्गच्छामि मे स्थानं पुष्करं चार्बुदाचलम् ।
त्वं तु महावैष्णवोऽसि दृष्टवानसि तेन वै ।।।३२।।।
सवेधसं च कमलं तव पुण्यं हि शाश्वतम् ।
जलं न स्पृष्ट्वाँस्तेन राजन् जीवसि वर्धसे ।।३३।।
किन्तु पद्मं च हर्तुं ते वाञ्च्छा जाता नृपेश्वर ।
तेन कार्ष्ण्यं तव जातं दोषेण नीलवर्णता ।।३४।।
वाञ्छन्ति देवता नित्यं मुनयः ऋषयस्तथा ।
मानसे ब्रह्मपद्मं तु द्रक्ष्यामस्तत् कदा वयम् ।।३५।।।
प्राप्स्यामश्च परं ब्रह्म यद्गत्वा न निवर्तनम् ।
एवं तेजोविशिष्टं तत् हर्तुं कामेन पंकजम् ।।३६।।
अपहारप्रदोषश्च त्वया लब्धो ह्यजानता ।
ततो राजन् पद्मसंस्थं बेधोयुक्तं नरायणम् ।।३७।।
कृष्णनारायणक्षेत्रे गत्वाऽऽराधय सोमके ।
प्रभासे श्रीकृष्णनारायणं च वेधसा युतम् ।।३८।।
स्वर्णपद्मे कारयित्वा समाराधय तापसः ।
ततस्त्वं नीलतादोषान्मोक्ष्यसे नात्र संशयः ।।३९।।
वशिष्ठस्य वचः श्रुत्वा नन्दभूपो जगाम ह ।
कुंकुमवापिकाक्षेत्रमश्वपट्टसरोवरम् ।।1.541.४०।।
तत्र स्नात्वा कृष्णनारायणं नत्वा च लोमशम् ।
रैवताद्रौ वामनं च ययौ नत्वाप्रभासकम् ।।४१।।
तत्र वै कानकीं मूर्तिं पद्मस्थां ब्रह्मणायुताम् ।
अनादिश्रीकृष्णनारायणरूपां निधाय च ।।४२।।
पूजयामास विविधैरुपचारैर्दिवानिशम् ।
तपश्चकार भगवत्समाराधनपूर्वकम् ।।४३।।
विष्णुं शिवं गणपतिं पार्वतीं च दिवाकरम् ।
पूजयामास विधिना श्रीहरिं पञ्चदेवताः ।।४४।।
माहेश्वर्यास्तटे रम्ये तपःस्थानं चकार सः ।
तस्य तपस्तथा भक्तिं विलोक्य देवतास्तथा ।।४५।।
ब्रह्मा कृष्णस्तथा लक्ष्मीर्दर्शनं प्रददुस्तदा ।
प्रसन्नाः स्म इति प्राहुर्वरं वृणु यथेप्सितम् ।।४६।।
राजा प्राह हरेर्भक्तो नैव वाञ्छति चैहिकम् ।
मोक्षं देहि सतां संगं प्रदेहि शाश्वतं पदम् ।।४७।।
अनादिश्रीकृष्णनारायणः प्राह हसँस्तदा ।
राजन् तत्तु त्वदर्थं वै मया प्रागेव निश्चितम् ।।४८।।
न मे भक्तस्य वै भुक्तौ मुक्तौ वा रोधनं भवेत् ।
प्रसन्नोऽस्मि च राजँस्ते कृष्णता पद्मदोषजा ।।४९।।
या जाताऽसि लयं यातु भव चम्पकवर्णकः ।
दिव्यदेहस्तथा भूत्वा भज मां पुरुषोत्तमम् ।।1.541.५०।।
अत्राऽऽगत्य जनो यो मां कृष्णनारायणं प्रभुम् ।
वेधसं पञ्चदेवाँश्च सूर्यादीन् पूजयिष्यति ।।५१ ।।
स च लोके निरोगी स्याद् यास्यत्यन्ते परां गतिम् ।
एवं हरिर्वरं दत्वा कृत्वा सुवर्णवर्णकम् ।।५२।
तत्र तीर्थं परं कृत्वा ततश्चान्तरधीयत ।
नन्दीघट्टे नरः स्नात्वा भुक्तिं मुक्तिमवाप्नुयात् ।।।।५३।।
नन्दतीर्थं तथा कृत्वा न पुनर्मर्त्यतां व्रजेत् ।
नन्दतीर्थस्य पार्श्वे च त्रितकूपाख्यमुत्तमम् ।।५४।।
पावनं वर्तते तीर्थं कर्तव्यं पुण्यलब्धये ।
पुरा सौराष्ट्रविषये विप्र आत्रेयसंज्ञकः ।।५५।।
बभूव तस्य पुत्राश्चैकतो द्वितस्त्रितस्त्रयः ।
त्रितः सर्वगुणोपेतो मूर्खौ ज्येष्ठौ बभूवतुः ।।५६।।
गते स्वर्गे तु पितरि धुरं जग्राह वै त्रितः ।
तस्य बुद्धिः समुत्पन्ना कथं यज्ञं करोम्यहम् ।।८७।।
स निमन्त्र्य द्विजश्रेष्ठान् यज्ञकर्मण्यधिष्ठितान् ।
यज्ञार्थं द्रव्यलाभाय प्रवासं प्रजगाम ह ।।५८।।
गृहीत्वा भ्रातरौ ज्येष्ठौ गवार्थं प्रस्थितस्त्रितः ।
यस्य यस्य गृहे याति ग्रामेषु भ्रातृसंयुतः ।।५९।।
तत्र तत्र परां पूजां लेभे गाश्च सुपुष्कलाः ।
एवं द्रव्यं पुष्कलं च गोधनं विपुलं तथा ।।1.541.६ ०।।
गृहीत्वा गृहमायाति भ्रातृभ्यां सहितः स च ।
त्रितो गवां पुरो याति पृष्ठतो भ्रातरौ च तौ ।।६१ ।।
अथ तं गोधनं दृष्ट्वा भूरिदानार्थमाहृतम् ।
ज्येष्ठयोस्तु मतिर्जाता पापप्रायाऽतिलोभतः ।।६ २।।
परस्परमूचतुस्तौ भ्रातरौ पापचेतसौ ।
त्रितो यज्ञेषु कुशलो वेदेषु कुशलस्तथा ।।६३।।
मान्यः पूज्यश्च सर्वेषामावां मूर्खौ निरर्थकौ ।
एतच्च गोधनं सर्वं त्रितो दास्यति दानके ।।६४।।
अस्माकं न भवेत् किञ्चित् प्रत्युत यत्पितुर्धनम् ।
तस्मादपि प्रदातव्यं भविष्यति क्रतौ तदा ।।६५।।
यज्ञे लोकाश्च दास्यन्ति धनानि च बहून्यपि ।
त्रितस्य तानि सर्वाणि नावयोर्वै कपर्दिका ।।६६।।
तस्मादावां धनहीनौ त्रितो धनाढ्य एव च ।
भविष्यति ततो हेतोर्वधस्त्रितस्य युज्यते ।।६७।।
एवं विचार्य तौ ज्येष्ठौ यान्तं त्रितं पुरः पुरः ।
आह्वयामासतुः कूपं दृष्ट्वा जलार्थिनौ यथा ।।६८।।
जलपानं करिष्यामः समागच्छाऽत्र भो त्रित! ।
त्रितः श्रुत्वा समायातो द्वाभ्यां क्षिप्तो हि कूपके ।।६९।।
ततस्तौ गोधनं नीत्वा द्रव्यं नीत्वा च पुष्कलम् ।
प्रस्थितौ स्वगृहं हृष्टमानसौ लोभकारिणौ ।।1.541.७० ।।
कूपे च पतितो विप्रश्चिन्तयामास मानसे ।
विप्रा यज्ञार्थमाहूताः क्रतुर्मया कृतो नहि ।।७ १।।
तस्मात् यद्भावि तज्जातं कूपेऽत्र मानसं क्रतुम् ।
करोमि यावज्जीवामि जलेन मनसा तथा ।।७२।।
इति विचिन्त्य सूक्तानि प्रोक्त्वा प्रोक्त्वा जलेन वै ।
अञ्जलिना च हवनं चकार कर्दमेन सः ।।७३।।
श्रद्धया तस्य ददतो भूयस्तृप्तास्तु देवताः ।
आगत्य ब्राह्मणं प्रोचुर्विप्र सन्तर्पिता वयम् ।।७४।।
तुष्टाः स्म मानसैर्भावैर्वद दास्याम ईप्सितम् ।
त्रितः प्राह मया यज्ञो भावयज्ञोऽत्र वै कृतः ।।७५।।
द्रव्ययज्ञं गृहे गत्वा करोमि तत्तथा मम ।
स्वास्थ्यं कुरुत देवेशा कूपान्निःसरणं मम ।।७६ ।।
इत्युक्ताश्च सुरा विप्रं नीतवन्तो जलाद्बहिः ।
गृहे गत्वा क्रतुं कृत्वा भ्रातृभ्यां पूजितश्च सः ।।७७।।
दक्षिणा विविधा दत्वा पुनः कूपं ययौ त्रितः ।
तपश्चचार विपुलं कृष्णनारायणं स्मरन् ।।७८।।
जगाम श्रीहरेर्धाम दिव्ययानेन शाश्वतम् ।
स कूपस्त्रितकूपोऽस्ति देवतीर्थं तु पावनम् ।।७९।।
जलपानाद् भवेन्मुक्तिस्त्रितस्य स्मरणादपि ।
श्रवणात्पठनाच्चास्य वैकुण्ठं लभते जनः ।।1.541.८०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
नन्दराज्ञः सारथेः मानससरसि ब्रह्मकमलदर्शने ग्रहणार्थं
गतस्य मुक्तिः, नन्दस्य मनसा ग्रहणपापस्य फलं कृष्णवर्णता, नन्दीतीर्थस्नानाच्छुभ्रवर्णता, त्रितविप्रस्य भ्रातृद्वयकृतकूपनिक्षेपस्तत्र जलयज्ञे देवताभिः कृतोद्धारस्तपश्चर्या मुक्तिश्चेति त्रिततीर्थम्, इत्यादि निरूपणनामैकचत्वारिंशदधिकपञ्चशततमोऽध्यायः ।।५४१ ।।