लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५४०

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! शंभुर्देव्यै तथोत्तरम् ।
तीर्थे च यद् यदुवाच कथयामि क्रमात्तथा ।। १ ।
पुष्पदन्तेश्वरं तीर्थं तथा माण्डव्यतीर्थकम् ।
तपसो वै तयोः स्थानं माण्डव्यपुष्पदन्तयोः ।। २ ।
पञ्चप्रभासान् संपश्येन्मुख्यं प्रभासके तटे ।
दक्षिणे चाप्प्रभासं च पश्चिमं च प्रभासकम् ।। ३ ।
उत्तरं च प्रभासं च पूर्वं प्रभासमित्यपि ।
यमो वरुणो धनदो महेन्द्रश्चेति सर्वतः ।। ४ ।
भासयन्ति प्रभासं च ततश्चतुर्विधं हि तत् ।
जामदग्न्येश्वरं तीर्थं तथा तत्र हि वर्तते ।। ५ ।
कृतस्मरं महत्तीर्थं पर्वतात्मकमेव तत् ।
स्मरं दग्ध्वा पुनः कृत्वा पार्वत्या युयुजे हरः ।। ६ ।।
यत्र कामः शंकरेण कृतः सजीवनः पुरा ।
कृतस्मरः स विज्ञेयः पर्वतः शंकराश्रितः ।। ७ ।।
कामकुण्डश्च तत्रास्ति यत्र कामो हि विद्यते ।
स्नात्वा तत्र त्रयोदश्यां सुभगो रूपवान् भवेत् ।। ८ ।।
पुण्यं सारस्वतं तीर्थं येन जीवन्ति सोमके ।
अन्यानि सर्वतीर्थानि शुभे सामुद्रसंगमे ।। ९ ।।
पुण्यकृल्लभते तत्र वैशाखो सोमसंयुताम् ।
अमां सोमयुतां चापि किं तदा पर्वकोटिभिः ।। 1.540.१० ।।
बिल्वपत्रं शमीपत्रं कर्णिकां मालतीं तथा ।
धत्तूरकं चम्पकं चाऽशोकं श्रीफलमक्षतान् ।। ११ ।।
शर्करां चन्दनं मिष्टं कंकणं संगमेऽर्पयेत् ।
सरस्वत्यां मनुष्यैश्च ध्यातव्यो वै हरिर्हरः ।। १२ ।।
तस्मै देया सुपूजा च मुक्तिदा भुक्तिदा च सा ।
तत्राऽस्थिं मृतदेहस्य क्षेपणीयं विमुक्तये ।। १ ३।।
यावदस्थि मनुष्यस्य तिष्ठेत् सारस्वते जले ।
तावद्वर्षसहस्राणि स्वर्गे लोके स तिष्ठति ।। १४।।
स्वर्गनिःश्रेणिसंभूता प्रभासस्था सरस्वती ।
दर्शनेनाऽऽचमनेन राजसूयफलप्रदा ।। १५।।
तत्र श्राद्धेन पितरो मुक्तिं यान्ति सुतर्पिताः ।
अह्नो मुहूर्ता विख्याताः पञ्चदश च तत्र च ।। १६।।
प्रातःकाले मुहूर्तास्त्रीन् संगवं त्रिमुहूर्तकान् ।
मध्याह्नं च मुहूर्तास्त्रीनपराह्नं तथैव त्रीन् ।। १७।।
सायाह्नं च मुहूर्तांस्त्रीन् विद्यात्तत्र च श्राद्धकृत् ।
सायाह्नो राक्षसी वेला तत्र श्राद्धं न कारयेत् ।।१८।।
दिवाऽष्टमो मुहूर्तो यः सः कालः कुतुपः स्मृतः ।
स चाऽनन्तफलदाता मध्याह्नः कुतुपात्मकः ।।१ ९।।
पापं च कुत्सितं तस्मात् कुतो पालनं रक्षणम् ।
कुतुपः स समादिष्टः कुतुपा अष्टरूपिणः ।।1.540.२०।।
मध्याह्नो गेण्डुकपात्रं रजतं गोघृतं तथा ।
दर्भस्तिलानि धेनुश्च दौहित्रः कुतुपाश्च ते ।।२१।।
ऊर्ध्वे मुहूर्तात्कुतुपाद् यन्मुहूर्तं चतुष्टयम् ।
मुहूर्तपञ्चकं चैव स्वधाभवनमिष्यते ।।२२।।
विष्णोर्देहात्समुत्पन्नाः कुशाः कृष्णास्तिलास्तथा ।
तिलोदकाऽञ्जलिर्देया सदर्भा स्थलवर्तिभिः ।।२३।।
त्रीणि श्राद्धे पवित्राणि दौहित्रं कुतुपस्तिलाः ।
दौहित्रो गेण्डुकः पशुर्ललाटे शृंगवान् हि सः ।।२४।।
तस्य शृंगस्य यत्पात्रं तद् दौहित्रमिति स्मृतम्।
क्षीरिणी या सवत्सा गौस्तत्क्षीराद् यद्घृतं भवेत् ।। २५।।
तद् दौहित्रमिति प्रोक्तं दैवे पैत्र्ये च कर्मणि ।
दुहितुश्च सुतः श्रेष्ठो दौहित्रः श्राद्धभोजने ।। २६ ।।
दर्भाग्रं दैवमित्युक्तं सतिलाग्नं तु पैतृकम् ।
तत्राऽवलम्बिनो ये तु ते कुशाः कुतुपाः स्मृताः ।। २७।।
शुक्लन्यायार्जितद्र्व्यैस्तृप्यन्ति पितरः सुराः ।
अन्यायार्जितद्रव्यैश्च तृप्यन्ति पुष्कसादिजाः ।। २८।।
भूक्षिप्तान्नेन च तृप्ता भवन्ति च पिशाचजाः ।
स्नानवस्त्रजलेनापि तृप्यन्ति नीचयोनिजाः ।। २९।।
सुगन्धाम्बुकणैस्तृप्ता भवन्ति देवतांगताः ।
पिण्डोद्धृतैऽन्नकणकैस्तृप्यन्ति च विपद्भवाः ।। 1.540.३० ।।
भुक्त्वा चाऽऽचमनेनैव तृप्यन्ति पशुयोनिजाः ।
विप्राः श्राद्धे श्रोत्रियश्च योगी सामगवैदिकौ ।। ३१ ।।
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडंगवित् ।
दौहित्रकश्च जामाता स्वस्रीयश्चोत्तमस्तथा ।। ३२ ।।
पञ्चाग्निकर्मनिष्ठश्च तपोनिष्ठोऽथ मातुलः ।
मातुश्च पितरश्चैव शिष्यसम्बन्धिबान्धवाः ।। ३३ ।।
वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः ।
चिरायुश्चैव विज्ञेयाः सत्पुरुषाश्च पावनाः ।। ३४।।
भागिनेयं विशेषेण तथा बन्धुगणानपि ।
नातिक्रमेन्नरश्चैतान् मूर्खानपि च पद्मजे ।। ३५ ।।
जलं दद्यात् फलं दद्याद् दद्यात् पिण्डांश्च पायसम् ।
मिष्टं च शर्करां दद्याद् दद्यादिष्टतमं सदा ।। ३६ ।।
द्रव्यपात्रादिलाभो च दद्यात् तृतिकरं हि तत् ।
पुण्याहेषु प्रदद्याच्च नित्ये नैमित्तिके तथा ।। ३७।।
निर्णीतदिवसे दद्याद् वत्सरे वत्सरे ध्रुवम् ।
अमायां सर्वथा दद्यात् प्राप्नुवन्ति ध्रुवं मृताः ।।३०।।
महादानानि च दद्यान्नारायणालये तथा ।
जलात्तीरं यावदार्द्रं यद्वा हस्तचतुष्टयम् ।। ३९ ।।
तत्र नारायणः स्वामी नान्यालयः स उच्यते ।
गावः सुवर्णं रजतं रत्नानि च सरस्वती ।।1.540.४० ।।
तिलं कन्या गजोऽश्वश्च शय्या वस्त्रं तथा मही ।
धान्यं पयश्च छत्रं च गृहं दानानि षोडश ।।४१ ।।
सत्यं दमस्तथा शौचं सन्तोषो नैष्ठ्यमार्जवम् ।
ज्ञानं शमो दया दानमेतत्पात्रं प्रशस्यते ।।४२ ।।
अविथिप्रियशान्ताय सीदते चाहिताग्नये ।
श्रोत्रियाय तथैकाऽपि गौर्देया मोक्षदा हि सा ।।४३ ।।
बहुभ्यो न प्रदेयानि गौर्गृहं शरणं स्त्रियः ।
प्रासादा यत्र सौवर्णा रूप्यरत्नौज्ज्वलाः शुभाः ।।४४ ।।
वराश्चाप्सरसो यत्र तत्र गच्छन्ति गोप्रदाः ।
षष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः ।। ४५ ।।
एवं सारस्वतं तीर्थं कृत्वा मार्कण्डतीर्थकम् ।
यायाद् यत्र स्थितो दीर्घं युगानां तपसे मुनिः ।।४६ ।।
ततो यायाद् यत्र कृष्णकुलनाशस्थली मता ।
गोलोकधामदा दिव्या चाद्ययुगरणांगणा ।। ४७ ।।
यदा रणांगणो जातस्तदाऽपशकुनानि च ।
तेषां जातानि च लक्ष्मि! शृणु विनाशकानि च ।।४८ ।।
कालस्तेषां गृहाण्येव परिक्राम्यति दृश्यते ।
करालो विकटो मुण्डः पुरुषः कृष्णपिंगलः ।।४९ ।।
सम्मार्जनीमहाकेतुर्जपापुष्पावतंसकः ।
कृतकृकलासहारः काकैश्च कृतभूषणः ।।1.540.५० ।।
गृहाण्यवेक्ष्य कार्ष्णाना नादृश्यत पुनर्गतः ।
सुप्तानां ददृशुः केशान् नॄणां युवतयो निशि ।।५ १ ।।
भिन्नकटकप्राकोष्ठाः उत्कोचयन्ति सर्वशः ।
मेना चीचीतिकूचीति रौति गृहेषु नित्यदा ।।।५२।।
खराश्च वायवो रूक्षा ववुः कंकरवाहकाः ।
अजाः शिवानां च रुतमनुकुर्वन्ति वै तदा ।।५३ ।।
पाण्डुरा रक्तपादाश्च विहगाः कालनोदिताः ।
कपोताश्च तथा यूका गृहेषु विचरन्ति हि ।।।५४।।
व्यजायन्त खरा गोषु वृषाश्चाश्वतरीषु च ।
शुनीष्वपि बिडालाश्च मूषका नकुलीषु च ।।५५ । ।
भार्याः पतीन् वञ्चयन्ति पत्नीश्च पुरुषांस्तथा। ।
विभावसुः प्रज्वलितो वामं विपरिवर्तते । ।५६ ।।
नीललोहितमाञ्जिष्ठान् विसृजन् स्वार्चिषः पृथक् ।
उदयास्तमने नित्यं विपर्यस्तो दिवाकरः ।।५७।।
व्यदृश्यताऽसकृज्जनैः कबन्धैः परिवारितः ।
महासनेषु सिद्धान्ने संस्कृतेऽतीव भासुरे ।।५८।।
उच्चार्यमाणे कृमयो दृश्यन्ते भोजनालये ।
परस्परं च नक्षत्रं हन्यमानं व्यदृश्यत ।।५ ९ ।।
अनिवेदितदेवाग्रेऽश्रूयन्त रासभस्वराः ।
त्रयोदशी राहुणा च ग्रस्ता नाशकरी सदा ।।1.540.६ ० ।।
काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य नगरीं निशि ।
स्त्रियं स्वान्तेषु मुष्णाति नगरीं प्रति धावति ।।६ १ ।।
कुर्वन्ति भीषणं नादं कुक्कुटास्तु रणाजिरे ।
कुरूपा द्विशिरा रौद्राश्चतुर्बाहव एव च ।।६ २ ।।
स्त्रीणां गर्भेष्वजायन्त राक्षसा गुह्यकास्तथा ।
अलंकाराणि छत्राणि ध्वजाश्च कवचानि च ।।६३।।
ह्रियमाणानि दृश्यन्ते रक्षोभिश्च भयानकैः ।
एवं जातानि विज्ञाय विशकुनानि माधवः ।।६४।।
कुलान्यादाय सोमाढ्यं प्रभासं समुपाययौ ।
सान्तःपुरेण कृष्णेन ऐरकाहेतिभिस्तदा ।।६५।।
स्वकुलानि संहृतानि परस्परजिघांसया ।
कार्ष्णनिर्वाणभूमिः सा परं तीर्थं समुच्यते ।।६६।।
ऐरकापत्रजातानि तृणान्यपि विपर्यये ।
आसन् मुशलीभूतानि खड्गीभूतानि वै तदा ।।६७।।
सर्वं लीनं यत्र भूमौ चिता गव्यूतिभूमिगा ।
तत्र यात्रा प्रकर्तव्या महावैराग्यदा प्रिये ।।६८।।
ततो यायाद् हिरण्यां च नदीं स्नायात् सुपुण्यदम् ।
ततो यायाद् रुरुक्षेत्रं यत्र देवी कुमारिका ।।६९।।
रुरोदैत्यस्य नाशार्थं देवानां तेजसाऽभवत् ।
सा स्थिता वर्तते तत्र पार्वतीं वै कुमारिकाम् ।।1.540.७०।।
पूजयेद् वन्दनां कुर्याच्छाटिकां चार्पयेच्छुभाम् ।
ततो यायाद् ऋषितीर्थं पुरा यत्र महर्षयः ।।।७५।।।
चातुर्मास्ये निवासं वै सत्रार्थे चक्रुरीश्वराः ।
यत्र त्रिनेत्रमत्स्यानां वंशो वसति शाश्वतः ।।७२।।
अंगिरा गौतमोऽगस्त्यो विश्वामित्रो बृहस्पतिः ।
संवर्तश्च्यवनो रैभ्यो दुर्वासाः कश्यपो मनुः ।।७३।।
मार्कण्डेयो जमदग्निरुशना कण्वगालवौ ।
नारदः पर्वतश्चापि भरद्वाजोऽथ भागुरिः ।।७४।।
मेधातिथिर्यवक्रीतस्तथाऽन्ये वैष्णवाः शुभाः ।
विष्णुयागे प्रवृत्ते च वृषादर्भिनृपस्तदा ।।७५।।
आह प्रतिग्रहं मत्तो गृह्णीध्वं मुनिपुंगवाः ।
मुद्गान् माषाँश्च व्रीहींश्च तथा रत्नानि काञ्चनम् ।।७६।।
ऋषयस्तु तदा प्राहुर्न गृह्णीमः प्रतिग्रहम् ।
राज्यद्रव्यं महादोषयुक्तं गृह्णीम एव न ।।७७।।
दशसूनासमश्चक्री दशचक्रिसमो ध्वजी ।
दशध्वजिसमा वेश्या दशवेश्यासमो नृपः ।।७८।।
राज्ञो दानं महाघोरं पाचयितुं न शक्यते ।
अन्येभ्यो दीयतां राजन् कुशलं तेऽस्तु सर्वथा ।।७९।।
श्रुत्वा राजा ययौ नैजं गृहम पश्चाच्च गुप्तकम् ।
दानं दातुं हेमगर्भाण्युदुम्बराण्यकारयत् ।।1.540.८० ।।
व्यकिरन् मन्त्रिणस्तस्य यत्र ते ऋषयः स्थिताः ।
अंगिराः प्राह ऋषयो मा गृह्णन्तु फलानि वै ।।८१ ।।
गुप्तदानानि सन्त्येव वृषादर्भिनृपस्य वै ।
धनस्य सञ्चयस्तपःसंचयस्य विनाशकः ।।८२।।
नहि सञ्चयवान् कश्चिद् दृश्यते निरुपद्रवः ।
अप्रतिग्रहशीलानां तेजो नित्यं विवर्धते ।।८३।।
अकिञ्चनत्वं राज्यं च तुलया सह तोलने ।
अकिञ्चनत्वमधिकं राज्यादपि धनादपि ।।८४।।
अर्थो ह्यनर्थरूपोऽस्ति श्रेयसां भ्रंशकारकः ।
शोकमोहप्रदश्चापि तं सुखी दूरतस्त्यजेत् ।।८५।।
धर्मार्थमिति मत्वाऽपि द्रव्यसंगं न वै चरेत् ।
प्रक्षालनाद्धि पंकस्य पंकस्याऽस्पर्शनं वरम् ।।८६।।
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
चक्षुःश्रोत्रे च जीर्यंते तृष्णैका नहि जीर्यति ।।८७।।
अनन्तपारा सा तृष्णा धनाशा दुःखदा सदा ।
अधर्मबहुला चापि तस्मात्तां दूरयेत् सदा ।।८८।।
असन्तुष्टा विनश्यन्ति द्रव्यलोभेन संकटैः ।
सन्तुष्टमानसत्वैव सर्वत्र सुखशेवधिः ।।८९।।
उपानद्गूढपादस्य यथा चर्मावृतैव भूः ।
सन्तोषामृततृप्तानां शान्तिः सुखमनन्तकम् ।। 1.540.९०।।
लुब्धानां तृष्णया नाशः कुतः शान्तिः कुतः सुखम् ।
कामः कामयमानस्य पूर्यते नैव कर्हिचित् ।।९१।।
अथैनमपरः कामो भूयो विध्यति बाणवत् ।
उपभोगेन कामस्तु कदाचिन्नहि शाम्यति ।।९२।।
प्रत्युत वर्धते पुष्टो घृतयोगेन वह्निवत् ।
कामानभिलषन् जन्तुर्लुब्धः सुखं न विन्दति ।।९३।।
चतुःसमुद्रसहिता भुंक्तेऽपि पृथिवी नृपः ।
न तथापि कृतार्थश्च वितृष्णो जायते क्वचित् ।।९४।।
अप्रतिगृह्णतां लोकाः शाश्वतानन्ददायकाः ।
विनापि तपसा तेषां तपो भवति लक्षधा ।।९५।।
सन्तानतन्तुस्तृष्णाऽस्ति देहस्था रक्तशोषिणी ।
दुस्त्यजा राक्षसीरूपा जीर्यतोऽपि न जीर्यति ।।९६।।
तृष्णा प्राणान्तको रोगस्तं त्यजेत् स सुखी सदा ।
लोकतृष्णा वित्ततृष्णा पुत्रतृष्णा च कामना ।।९७।।
एतास्तृषाः प्राणभक्षा बिभ्यस्ताभ्यो महेश्वराः ।
तस्मादुदुम्बराण्येव भवन्तु नृपतेः सदा ।।९८।।
इत्युक्त्वा हेमगर्भाणि त्यक्त्वोदुम्बरकाणि च।
सत्रं चक्रुः स्वस्थरूपास्तापसाः पारमेश्वराः ।।९९ ।।
तेषां पुण्यस्थलं तीर्थं प्रभासे वर्तते प्रिये ।
लक्ष्मि! तीर्थं तारकं तत् कर्तव्यं मोक्षदायकम् ।। 1.540.१० ०।।

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने प्रभासचतुष्टयतीर्थानि, तीर्थशतेषु सारस्वततीर्थं, कुतुपसमयादयः, दौहित्रादीनामर्थाः, मार्कण्डतीर्थ कृष्णकुलनाशतीर्थम्, रणादावनिष्टसूचकानि, वृषादर्भिकृतानि गुप्तसुवर्णगर्भोदुम्बराणि, अंगिरसो दानाऽग्रहम्, अन्यान्यतीर्थानि चेत्यादिनिरूपणनामा चत्वारिंशदधिकपञ्चशततमोऽध्यायः ।।५४० ।।