लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५३९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५३८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५३९
[[लेखकः :|]]
अध्यायः ५४० →

श्रीनारायण उवाच--
शृणु लक्ष्मि । तथाऽन्यानि तीर्थानि कथयामि ते ।
यान्युक्तानि महादेव्यै महादेवेन वै तदा ।। १ ।।
वामदेवस्य सावर्णेरघोरस्य तथा परम् ।
कपिलस्य शुभं तीर्थं वर्तते तु प्रभासके ।। २ ।।
तथा श्रीमुखसंज्ञं च वनं लक्ष्म्या विराजते ।
यत्र वै वैष्णवा योगिसिद्धा वसन्ति सर्वदा ।। ३ ।।
सगरेण पुराऽऽदित्यः स्थापितो यत्र भासकः ।
सागरादित्यतीर्थं तद् विद्यते तु प्रभासके ।। ४ ।।
अन्त्यजस्य सुता चाऽक्षमालाऽभूद् युवती पुरा ।
पूर्वजन्मनि शूद्रा सा रजस्वला हि शंकरम् ।। ५ ।।
पस्पर्श तेन दोषेण कन्याऽन्त्यजस्य चाऽभवत् ।
वसिष्ठेन तपोयोगाद् गृहीता जनकार्पिता ।। ६ ।।
बहुवर्षे पुरा देवो न ववर्ष तदा तु ते ।
हिमभूमौ ददस्वाऽन्नं समयाचन्त चान्त्यजम् ।। ७ ।।
तेन पुत्र्या सहान्नं वै दत्तं तदा वसिष्ठकः।
आपद्धर्मं समालोच्योवाच तत्राऽन्त्यजं यथा ।। ८ ।।
जीवरक्षार्थमागृह्णन् नहि पापेन लिप्यते ।
अजीगर्तः सुतं हन्तुमुपासर्पद् बुभुक्षितः ।। ९ ।।
भारद्वाजः क्षुधार्तस्तु उपजग्राह गाः पुरा ।
क्षुधार्तो ह्यभ्यगाद् गां तु विश्वामित्रोऽपि वै पुरा ।। 1.539.१० ।।
इत्युक्त्वा तामक्षमालां जग्राह स वसिष्ठकः ।
अन्नं भुक्त्वा चाययुस्ते प्रभासे त्वब्धिसन्निधौ ।। ११ ।।
अक्षमाला तपश्चक्रेऽरुन्धती सा व्यजायत ।
तयाऽक्षमालिकेशश्च स्थापितः शंकरस्तदा ।। १२ ।।
अथ तत्र सिद्धलक्ष्मीतीर्थं वै वर्तते शुभम् ।
तथा तीर्थं महाकालीकृतं चापि विराजते ।। १३ ।।
पुष्करावर्तकानाम्नी नदी कमलदा शुभा ।
वर्तते शुभतीर्थे च प्रभासे सद्गतिप्रदम् ।। १४।।
अथ मित्राभिधः कश्चित् कायस्थोऽभूद् धरातले ।
तस्य पुत्रोऽभवच्चित्रश्चित्रा कन्याऽभवत्तथा ।। १५६।।
पित्रोर्मृत्यौ बालकौ तौ प्रभासं ययतुस्ततः ।
तुष्टुवतुस्तत्र सूर्यं तपसा बहुवासरान् ।। १ ६।।
चित्रस्य तु प्रसन्नोऽभूत् सूर्यः प्राह वरं वृणु ।
स वव्रे सर्वकार्येषु प्रौढत्वं रुचिमत्त्वकम् ।। १७।।
तथास्त्विति रविः प्राह धर्मराजश्च तं तथा ।
कुशलं तु परं ज्ञात्वा कृतवान् लेखकं निजम् ।। १८।।
सूर्योऽपि चाऽभवत्तत्र चित्रादित्य इति प्रथः ।
चित्राऽभवद्धर्मराजगृहिणी तपसः फलात् ।। १९ ।।
चित्रेश्वरीति सा तत्र देवी संराजते तथा ।
तीर्थं चापि शुभं जातं रोगदोषनिवारकम् ।।1.539.२ ० ।।
अथात्र शीतला देवी वर्तते दुःखनाशिनी ।
विस्फोटकप्रशान्त्यर्थं मयूराँस्तत्र कूर्दयेत् ।।२ १ ।।
विस्फोटं चर्चिका चापि बालानां प्रशमो भवेत् ।।
कर्पूरं कुंकुमं चापि चन्दनं कुसुमानि च ।।।२।।
नवम्यां शुक्लपक्षे तां नैवेद्यं घृतपायसम् ।
मालां बिल्वमयीं दद्याद् रोगा नश्यन्ति दूरतः ।।२३ ।।
शीतलातीर्थमेवैतदुक्तं बालसुखादिकृत् ।
चित्रा या यमपत्नी सा चित्रपथा सरिद्वरा ।। २४।।
द्वितीयेन स्वरूपेण जाता प्रभासके स्थले ।
तद्वै तीर्थं पापतापप्रशान्त्यर्थं समुच्यते ।। २५।।
धर्मराजकृतं तीर्थं प्रभासे वर्तते तथा ।
ब्रह्मणा निर्मितः कुण्डः कायाकल्पकरोऽस्ति वै ।।२६।।
नारदेन कृतं तीर्थं विद्यते स्वरभासितम् ।
यज्ञकुण्डो महत्तीर्थं ब्रह्मादिकसुरैः कृतम् ।। २ ७।।
हिरण्यायास्तटे स्वर्णदानादि पुण्यदं हि तत् ।
वैनतेयं तथा तीर्थं सर्पभीतिनिवारकम् ।। २८।।
रैवन्तकं महत्तीर्थं सूर्यपुत्रस्य वर्तते ।
अश्वस्य तं पूजयित्वा रवावापद् विनश्यति ।।२९।।
स्वर्गवैद्यकृतं तीर्थं सावित्रीतीर्थमित्यपि ।
तपसा जायमानं तद् विद्यते वै प्रभासके ।। 1.539.३० ।।
तलस्वामीतितीर्थं च उष्णजलान्वितं तथा ।
सिंहारण्ये वर्तते च पावनं स्वर्गदं शुभम् ।। ३१ ।।
शृणु लक्ष्मि! पुरा तत्र सिंहारण्ये तलोद्भवम् ।
आसीन्महेन्द्रनामा तु दानवस्तपसो बलात् ।।३२।।
जिग्ये देवान् शंकरात् सः प्रार्थयामास संगरम् ।
युयुधे शंकरेणाऽऽदौ ब्रह्माण्डक्षयकारकः ।। ३ ३।।
ततः कोपाच्छिवदेहाज्ज्वाला बह्व्योऽभवँस्तदा ।
तासां मध्ये तलो दग्धो दुद्राव च वनान्तरे ।। ३४।।
शिवः सोमेश्वरं गत्वा सुस्थितः स तलस्ततः ।
महेन्द्रं पीडयामास बधान ककुभां पतीन् ।।३५।।
तलो विस्मयमापन्नो हर्षनृत्यमथाऽकरोत् ।
चकम्पे तस्य नृत्येन सर्वं स्थावरजंगमम् ।। ३६ ।।
क्षुभिता गिरयः सर्वे विद्रुतो लवणार्णवः ।
त्रैलोक्यं व्याकुलीभूतं तदा वै लोमशो मुनिः ।।३७।।
प्रभासं तु समागत्य शंकरं प्राह रक्ष नः ।
तलं नाशय देवेश मा चिरं च द्रुतं कुरु ।।३८।।
रुद्र उवाचाऽवध्यो मे तलः पुत्रसमः स्थितः ।
किन्तु उष्णवने रम्ये तप्तोदकसमीपतः ।। ३ ९।।
दुर्वासा वर्तते तं च प्रार्थयध्वं सुरादयः ।
अनादिश्रीकृष्णनारायणो गुप्तप्रयागके ।।1.539.४०।।
शत्रुंजयाचले त्वश्वपट्टसंज्ञसरोवरे ।
सौराष्ट्रे महति क्षेत्रे वर्तते भगवान् स्वयम् ।।४१ ।।
दुर्वाससा स्तूयमानो लोमशादिभिरादरात् ।
देवैः सम्प्रार्थ्यमानश्च तलं विनाशयिष्यति ।।४२।।
कल्पे कल्पे पूर्वभूमौ व्याघ्रारण्ये स्थितः प्रभुः ।
सिंहारण्यगतं दैत्यं तलं हन्ति पुनः पुनः ।।४३।।
एवमुक्तो लोमशः सः उष्णोदकसमीपतः ।
गत्वा दुर्वाससं देवान्नीत्वा कृष्णनरायणम् ।।४४।।
स्वस्थानं पावनं गत्वा प्राह कृष्णनरायणम् ।
भगवन् राक्षसश्चोग्रो हराऽवध्यो हि वर्तते ।।४५।।
भवता नाशनीयः स सुरमानुषदुःखदः ।
अनादिश्रीकृष्णनारायणो गत्वा सचक्रकः ।।४६।।
व्याघ्रारण्ये तलं दृष्ट्वा मुमोच वै सुदर्शनम् ।
तलो दुद्राव च सिंहारण्यमुष्णोदगह्वरम् ।।४७ ।।
तत्र चक्रेण तु द्वेधाऽभवद् दैत्यो ममार च ।
दुर्वाससा पूजितश्च मार्कण्डेयेन चार्चितः ।।४८ ।।
कृष्णनारायणः संज्ञां तलस्वामीति चाप यत् ।
तलस्वामी महत् तीर्थं कृष्णनारायणाश्रयम् ।।४९।।
नित्यमुष्णोदककुण्डत्रयमक्षयमस्ति च ।
पापक्षालनकं स्वर्गप्रदं मोक्षप्रदं तथा ।।1.539.५० ।।
तत्र तीर्थं तु सावित्र्यास्तपःस्थानं प्रविद्यते ।
अथाऽन्यदस्ति तीर्थं च भूतमातृकसंज्ञकम् ।।५१ ।।
भूतप्रेतगणानां च स्थानानि सन्ति तत्र च ।
भूतानां मातरं तत्र पूजयेद् भयवारिणीम् ।।।५२।
चाक्षुषस्याऽऽन्तरे लक्ष्मि! पुरा कृतयुगे सती ।
शंकरं संविवाह्यैव रमते स्म च कानने ।।५३ ।।
पार्वत्यां कामभावेन तृप्तोऽभूच्छंकरस्ततः ।
पार्वती कानने तत्र कैलासे स्नानमाचरत् ।।५४।।
पार्वत्याः स्नानमात्रेण निर्गता जलकर्दमात् ।
मातरो भूतिका भीमा असंख्या रूपवर्जिताः ।।५५।।
कृष्णाः करालवदनाः पिंगाक्ष्यो मुक्तमूर्धजा: ।
कपालमालाभरणा बद्धमुण्डार्धपिण्डिकाः ।।५६।।
कपालखट्वांगधरा मुण्डमालाधरास्तथा ।
द्वीपिचर्माम्बरधरा रणत्किंकिणिमेखलाः ।।५७।।
डिमड्डमरुकारावाश्चित्कारापूरिताम्बराः ।
दशकोट्यः सुसञ्जाताश्चतस्रोऽत्र हि नायिकाः ।।।५८।।।
रक्तकर्णी महाजिह्वा क्षया च पापकारिणी ।
एतासामन्वये जाता बहवो ब्रह्मराक्षसाः ।।५९।।
श्लेष्मान्तकस्त वृक्षे ते प्रायशश्च वसन्ति ते ।
उत्तालाश्चपलाश्चैते नृत्यन्ति च हसन्ति च ।।1.539.६ ० ।।
वृक्षे कण्टकिते रौद्रे वसन्त्यपि वने वने ।
शंकरोऽपि तदा स्नानं चक्रे तज्जलकर्दमात् ।।६ १ ।।
भूता असंख्याः सञ्जाता विकराला भयंकराः ।
द्वौ मुख्यौ तादृशावेव तद्रूपाभरणौ नरौ ।।६२।।
कपालखट्वांगधरौ जातौ चर्मावगुण्ठितौ ।
अनुगम्यमानौ बहुभूतैर्महाभयानकैः ।।६३ ।।
सिंहशार्दूलादिमुखैर्भीषणस्वरकर्मभिः ।
तौ च क्षुधायुतौ शिवां शिवं तदाहतुर्मुहुः ।।६४।।
भोजनं भोजनं चेति शंभुः प्राह तदा च तौ ।
युवयोर्हस्तसंपर्कान्मांसासृगादि जायताम् ।।६५।।
नक्ताहारविहारौ च दिवास्वप्नावभागिनौ ।
पुत्रवद् रक्षतं लोकान् धर्मं पालयतं सदा ।।६६।।
इत्युक्तौ तौ गणौ भूतमातृनायकसेवितौ ।
एकीभूतौ क्षणेनैव सहोदरौ सहायकौ ।।६७।।
आवयोः खलु शौचेन जातौ वै मलिनौ सदा ।
आभ्यां वासश्च दातव्यो दूरं पश्चिमभूतले ।।६८।।
सिंहारण्ये वने वासो सोमनाथसमीपतः ।
सिहव्याघ्रपशुक्षेत्रे सौराष्ट्रे जायतामिति ।।६९।।
यत्र कण्टकिनो वृक्षा रूक्षा रणप्रदेशकाः ।
कुड्यादौ चित्रिता यत्र मञ्जर्यश्च भवन्ति वै ।।1.539.७०।।
भार्या यत्र पुनर्भूश्च वल्मीकश्च शमी तथा ।
यत्र गृहे नराः पञ्च यत्र वा स्त्रीत्रयं भवेत् ।।७१ ।।
यत्र वा गोत्रयं तत्र तद्गृहे वसतिश्च वः ।
अन्धकारे भूविवरे गह्वरे धनपूरिते ।।७२।।
एकच्छागं द्विगर्दभं गोत्रयं पञ्चमाहिषम् ।
षडश्वं वा सप्तगजं तद्गृहे वसतिर्हि वः ।।७३।।
यत्र गृहे च कुद्दालो दातृकं पेटिका तथा ।
स्थाल्यादिभाजनं यत्र तत्रैवास्ति विशीर्णकम् ।।७४।।
क्षिप्तं स्थले स्थले नास्ति व्यवस्था शुद्धिरित्यपि ।
मुसलोलूखलयोश्च देहल्यां स्त्रीः निषीदति ।।७५।।
शकृन्मूत्रं च यत्रास्ति मलं यत्र च कच्चरम् ।
लंघ्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि ।।७६।।
लंघ्यन्ते यत्र शास्त्राणि तद्गृहे वसतिर्हि वः ।
मनुष्यास्थि गृहे यस्य सेवतीवल्लिका तथा ।।७७।।
रोहितश्च जटी यत्राऽऽगस्त्यको बन्धुजीवकः ।
कर्णिका च भवेद् यत्र स्थलपद्मं च यत्र वै ।। ७८।।
मल्लिका च यत्र हर्म्ये तत्र वै वसतिर्हि वः ।
तालं तमालं भल्लावं चिञ्चावृक्षाश्च यत्र वै ।।७९।।
बकुलः कदलीषण्डं कदम्बः खदिरोऽपि वा ।
न्यग्रोधोऽश्वत्थ आम्र उदुम्बरः पनसस्तथा ।।1.539.८०।।
अशोक ओड्रवृक्षश्च तत्र भूतनिवेशनम् ।
देवार्चनं यत्र नास्ति यत्र नास्ति जपादिकम् ।।८ १ ।।
कृष्णभक्तिर्यत्र नास्ति भूतानां वसतिर्हि सा ।
मलिनास्याश्च ये मर्त्या मलिनाम्बरधारिणः ।।८२।।
मलदन्ता गृहस्थाश्च भूतानां वसतिः सदा ।
दीपो नास्ति यत्र गेहे जनो नास्ति समान्तरे ।।८३।।
मलयुक्ता नालिकाद्यास्तत्र भूतादिवेशनम् ।
स्नानहीना नरा नार्यो वसतिर्भवतु ध्रुवम् ।।८४।।
मद्यमांसाशना लोका वासार्हाः सन्तु वः सदा ।
चत्वरे गोचरे ग्रामगोपुराग्रे श्मशानके ।।८५।।
मृतशाविकभूभागे चैत्ये द्रुमे च प्रस्तरे ।
मलभूमौ नालिकादौ भूतानां वसतिः सदा ।।८६।।
मन्त्रमान्त्रिकदेहे च मन्त्रिते च कणे तथा ।
मन्त्रस्य विषये देहे भूतानां वसतिर्भवेत् ।।८७।।
आकस्मिकमृतेर्भूमौ तडागस्य तटेऽनिले ।
दुष्टेऽपवित्रभूमौ च भूतानां वसतिः सदा ।।८८।।
अमायां च चतुर्दश्यां वैशाखे कार्तिके तथा ।
बलिदानां पूजकानां गृहे मा निवसन्तु वै ।।८९।।
नारायण हरे कृष्ण शिव राधे रमापते ।
विष्णो श्रीमत्कृष्णनारायण श्रीकमलापते ।।1.539.९०।।
प्रभानाथ महालक्ष्मीपते श्रीमाणिकीपते ।
पार्वतीश्वर पद्येश मुक्तधामाधिसत्पते ।।९१ ।।
अक्षरेशेत्यादिरूपं भजनं स्वामिनो हरेः ।
पूजनं यत्र देवानां तत्र मा निवसन्तु वै ।।९२।।
यत्र शुद्धिस्तथा धर्मः कलहो यत्र नास्ति च ।
मालिन्यं यत्र वै नास्ति तत्र मा निवसन्तु वै ।।९३।।
यत्र स्यादान्तरे शुद्धिस्तत्र भूतो न तिष्ठतु ।
उपासनाबलं यत्र भूतमाता न तत्र वै ।। ९४.।।
वैशाखे शुक्लपक्षे च पञ्चदशदिनेष्वपि ।
भूतमातुः प्रपूजा च कर्तव्या प्रोक्षणीयकैः ।। ९५।।।
प्रोक्षणैर्जलसेचैश्च ग्रीवां सिन्दूरकैस्तथा ।
पुष्पैर्धूपैरर्चयेच्च बलिं ददेद् यथोचितम् ।।९६।।
माषादिकृष्णभोज्यं वै तेन तुष्टः प्रजापते ।
न शाकिन्यो गृहे तस्य न पिशाचा न राक्षसाः ।। ९७।।
न भूताद्याः पीडयन्ति वंशः सुखं विवर्धते ।
भोजयेत् क्षीरसंयाव कृसरैः पूयपायसैः ।। ९८।।
तेन पुत्रपशुस्मृद्धिं शरीरारोग्यमाप्नुयात् ।
एकादश्यां नवम्यां च प्रक्षाल्य कुड्यकं ततः ।।०१९।।
मुखबिम्बानि चित्राणि कारयेद् रक्तकज्जलैः ।
मातॄणां चण्डिकानां च राक्षसीनां तथैव च ।। 1.539.१० ०।।
भूतप्रेतपिशाचानां शाकिनीनां तथैव च ।
मुखानि कारयेत् तत्र हावभावयुतानि च ।। १०१ ।।
अमायां पूजयेत्तानि रात्रौ दीपेन संयुतः ।
मस्तके च निजे धृत्वा सुहृन्मित्रसमन्वितः ।। १ ०२।।
ग्रामान्ते च श्मशानान्ते वीरभ्रमणमाचरेत् ।
स दीपः सर्वभूतानां साधको बलवान् भवेत् ।। १ ०३।।
नित्यं च भ्रामयेद् दीपं रात्रौ ग्रामे श्मशानके ।
पञ्चदश्यां प्रकुर्वीत भूतमातुर्महोत्सवम् ।। १ ०४।।
पूजयेद्भोजयेन्नमेत् क्षमयित्वा गृहं व्रजेत् ।
एवं पूजाप्रकर्तुश्च भूतविघ्नो न जायते ।। १ ०५।।
अथ तस्या भूतमातुः शरीरात् पञ्चकोटयः ।
पिशाचाः स्वेदबिन्दुभ्यो जाताः सर्वे भयानकाः ।। १ ०६।।
धमनीसन्तताः शुष्काः श्मश्रूलाश्चर्मवाससाः ।
उलूखलाभरणाश्च शूर्पच्छत्राः खरस्वराः ।। १ ०७।।
पाणिपात्राः शिरोहारा बुभुक्षिताः कुरूपिणः ।
नखज्वालितकेशेभ्यश्चांगारानुद्गिरन्ति ते ।।१ ०८।।
आकर्णदारितास्याश्च लम्बभ्रूस्थूलनासिकाः ।
पृष्ठतः पाणिपादाश्च पृष्ठगाश्च विपादगाः ।।१ ०९।।
आक्रोशन्तश्च दीनास्याः सूतिकागृहवासनाः ।
तैः खाद्यं चार्थितं शंभोः शंभुर्वरं ददौ तदा ।। 1.539.११ ०।।
अन्तर्धानं प्रजास्वेव कामरूपत्वमित्यपि ।
उभयोः सन्ध्ययोश्चारो भग्नगृहेषु चासनम् ।। १११ ।।
अनाचारगृहाण्येव भग्नान्यायतनानि च ।
राजमार्गोपरथ्याश्च चत्वराणि च वेदिकाः ।। ११ २।।
उपलाश्च तथा कोणान् रथ्यानां निर्गमांस्तथा ।
चैत्यवृक्षादिकांश्चापि शृंगाणि चोच्छ्रयांस्तथा ।। ११ ३।।
स्थानानि च पिशाचानां निवासाय ददौ हरः ।
अधर्मिकान् जनाँश्चापि मद्यमांसाशिनस्तथा ।। १ १४।।
मलमूत्रभरांश्चापि निवासाय ददौ हरः ।
तेषां विघ्नविनाशाय बलिं कुर्याद् विचक्षणः ।। ११५।।
पूपैर्हरिद्रकृशरैर्मधुना तिलचूर्णकैः ।
ओदनं साऽऽसवं दद्यात् तिलभक्तं गुडौदनम् ।। १ १६।।
कृष्णानि चैव वासांसि धूमाः सुमनसस्तथा ।
एवं कृत्वा च सन्तुष्टा विघ्नान् हरन्ति सर्वदा ।। १ १७।।
एवं हरेण भूतानां पिशाचानां च मातरः ।
सर्वपुत्रगणोपेताः प्रेषिताश्च प्रभासकम् ।। १ १८।।
सिंहारण्यं निवासार्थं दत्तं वै शतयोजनम् ।
यत्र खाद्यं मिलेत्तेषां पश्चिमे सागरे सदा ।। ११ ९।।
ते कैलासं परित्यज्य सिंहारण्यं समागताः ।
उपद्रवानकुर्वंश्च प्रजास्वागत्य वै पुनः ।। 1.539.१२०।।
अनादिश्रीकृष्णनारायणो हन्तुं च ताँस्तदा ।
सुदर्शनं मुमोचाऽत्राऽरण्ये दुद्रुवुरम्बरे ।। १२१ ।।
भूताः पिशाचकाद्याश्च मातरश्चेति पश्चिमम् ।
पारेसमुद्रं जग्मुस्ते कृष्णवर्णाः पिशाचकाः ।। १ २२।।
कद्रूपा अब्रिक्तदेशे वसतिं तत्र चक्रिरे ।
कोटिशस्ते ततो जाताः कामरूपा हि मानवाः ।। १२३ ।।
ये तु चक्रेण निहतास्ते देवा मलिनास्तदा ।
सिंहारण्ये निवसन्तो देहान्तराणि जगृहुः ।। १२४।।
सोमनाथस्य शंभोस्ते शिष्याः प्रजाः सुपुत्रकाः ।
पुत्र्यः सुताश्च शिष्याश्च सिंहारण्ये वसन्ति वै ।। १२५ ।।
उष्णोदकस्य कुण्डस्याऽभितोऽद्रिषु वनेषु च ।
तामसानां कृते लक्ष्मि तामसा देवताः सदा ।। १२६ ।।
तीर्थरूपा भवन्त्येव स्वभावगुणभावनैः ।
तेषां तीर्थं महत्तद्वै सिंहाऽरण्येऽस्ति तामसम् ।। १ २७।।
भूतमातुः पिशाचानां भूतानां च निवासनम् ।
चक्रेण सीदमानाः संसीदमाना हि जातयः ।। १ २८।।
पश्चिमायां क्षितौ जाताः पिशाचसदृशास्तु ते ।
इत्येवं कथितं देव्यै शंभुना च प्रभासके ।। १ २९।।
कैलासजन्यं वृत्तान्तं तीर्थमिषेण सोमके ।
मया ते कथितं लक्ष्मि! तलत्वामी त्वहं पुरा ।। 1.539.१३ ०।।
तलनाशार्थमभवं तथाऽन्यच्छ्रुणु पावनम् ।
पठनाच्छ्रवणाच्चास्य पापहानिः प्रजायते ।। १३१ ।।

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने प्रभासक्षेत्रे तीर्थव्रातवर्णनेऽरुन्धतीपूर्वजन्मवृत्तान्तः, चित्रायाः पूर्वजन्माख्यानं, शीतलायास्तीर्थं, तलस्वामितीर्थाख्यानं, भूतमातृतीर्थाख्यानं, भूतानां वासस्थानानि, अब्रिक्तदेशादौ सीदमानानां वासः, इत्यादिनिरूपणनामैकोनचत्वारिंशदधिकपञ्चशततमोऽध्यायः ।।५३९।।