लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५३६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५३५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५३६
[[लेखकः :|]]
अध्यायः ५३७ →

श्रीनारायण उवाच-
अथ प्रातर्नवम्यां प्राजायन्त तूर्यनिःस्वनाः ।
जजागरुश्च देवाद्याः स्नात्वा वेषांश्च दध्रिरे ।। १ ।।
अनादिश्रीकृष्णनारायणदर्शनहेतवे ।
आजग्मुस्ते पुपूजुश्च गोपालकृष्णनन्दनम् ।। २ ।।
श्रीमद्गोपालकृष्णश्च तथा श्रीलोमशो मुनिः ।
पत्नीव्रताद्याश्चक्रुः संपूजां तेषां सुवैदिकीम् ।। ३ ।।
अवतारार्चनं चक्रुर्मुनयस्तत्र वासिनः ।
तानि तीर्थानि जातानि कोटिशोऽत्र सरोवरे ।। ४ ।।
विष्णोः शंभोर्ब्रह्मणश्चार्चनं चकार लोमशः ।
श्रीमद्गोपालकृष्णस्तु शंभोः पूजनमाचरत् ।। ५ ।।
शंभुः प्राह सदा चाऽहं वसामि कृष्णसन्निधौ ।
गोपालेश्वरनामाऽहं ख्यातिं यास्यामि चात्र वै ।। ६ ।।
सती प्राह सदा चाहं कम्भराकमलार्चिता ।
वत्स्यामि शकरपार्श्वे कम्भराकमलेश्वरी ।। ७ ।।
ख्याता दिव्यस्वरूपेण भविष्यामि रमेच्छया ।
गणेशः कार्तिकेयश्च मम पुत्रौ मया सह ।। ८ ।।
शुकशुण्ढो भगवाँश्च क्रमान्नाम्ना भविष्यतः ।
सन्तुष्टा च सती चाहं ब्रह्मचर्यपरायणा ।। ९ ।।
सन्तोषदुर्गानाम्नी च भविष्यामि प्रभोः पुरः ।
एवं नन्दिवीरभद्रप्रभतयो गणाः सदा ।। 1.536.१ ०।।
तत्तन्नाम्ना निवत्स्यन्ति श्रीकृष्णमन्दिराग्रतः ।
अथ विष्णोर्ब्रह्मणश्च पत्नीयुक्तस्य पूजनम् ।। ११ ।।
चकार विधिना श्रीमद्गोपालकृष्ण आदरात् ।
ताभ्यां तत्र निवासोऽपि कृतो दिव्येन वर्ष्मणा ।। १२।।
तानि तीर्थानि जातानि सुराणां कोटिकानि हि ।
देवा गणास्तथाऽन्येऽपि वृक्षा नद्यश्च वल्लिकाः ।। १ ३।।
गन्धर्वाः किन्नरा अन्ये काश्यपा दिव्यदृष्टयः ।
दिव्यदेहा निवासान् वै चक्रिरे कृष्णसन्निधौ ।। १४।।
सौराष्ट्रे सर्वथा क्षेत्रे कृष्णनारायणाज्ञया ।
येषां यत्राऽभवत् हार्दे तत्र ते न्यवसँस्तदा ।। १५।।
अथ भोजनपानानि कृतवन्तश्च ते सुराः ।
देवा देव्यो ययुर्नत्वा निवासनगरे मुदा ।। १६।।
एवं वै देवतास्तत्र न्युषुर्मासचतुष्टयम् ।
किं भाग्यं वर्णये भूमेर्न भूतं न भविष्यति ।। १७।।
लक्ष्मीनारायणसंहितायाः कथाः क्रमात्तदा ।
दत्तात्रेयो महाराजो वाचयामास नित्यदा ।। १८।।
शुश्रुवुः परया भक्त्या नित्यं देव्यश्च देवताः ।
जडदाश्च चेतनाश्चापि चतुर्दशभुवां प्रजाः ।। १९।।
सेन्द्रिया माघपर्यन्तं दिव्यनगरसंस्थिताः ।
शिवरात्र्यां ययुः सर्वे रैवताचलपर्वतम् ।।1.536.२० ।।
दत्तात्रेयो भगवांस्तु शृंगे वासं व्यधाद् दृढम् ।
अम्बा भवस्तथा विष्णुः स्वस्वस्थानानि भेजिरे ।।२१ ।।
गणा देवास्तथा देव्यो यथेष्टं वासमादधुः ।
शिवरात्रिव्रतं तत्र रैवताद्रौ विधाय च ।।२२।।
सोमनाथं परं क्षेत्रं प्रभासं ते ययुस्ततः ।
तैः प्रभासे कृताऽक्षय्यतृतीया तत्र वै शुभा ।। २३।।
पार्वती प्राह भगवन् प्रभासं क्षेत्रमित्यपि ।
नाम्ना समुच्यते कस्माद् वद मेऽर्थं यथार्थकम् ।।२४।।
शंभुः प्राह शृणु कान्ते! भासते मम योगतः।
प्रकृष्टं तत्प्रभासं वै वेत्रं नाम्ना प्रकीर्त्यते ।।२५।।
चन्द्रमसः प्रभा आसन् ममैव वरदानतः ।
क्षयस्याऽपगमे कान्ते प्रभासं तेन कीर्त्यते ।। २६।।
सूर्यपुत्री प्रभा भूमौ कृष्णनारायणप्रिया ।
यत्र त्वास पुरा मर्त्यरूपा रम्या कुमारिका ।।२७।।
अनादिश्रीकृष्णनारायणं प्राप्ता तपस्यया ।
प्रभाया आसनं यत्र प्रभासं तेन कीर्त्यते ।।२८।।
देवैर्यत्र प्रभालब्धा तपोभिरुग्रकैर्यतः ।
प्रथमं भासमानं तत् सर्वतीर्थेषु वर्तते ।।२९।।
यत्र श्रीर्भारती वह्निं वाडवं सागरेऽक्षिपत् ।
तदा वै भासमानं तत् प्रभासं समजायत ।।1.536.३०।।
सौराष्ट्रस्य नवमो यो भागो विभासते क्षितौ ।
कीर्त्या प्रभासः प्रोक्तः सः प्रभा ज्ञानं च तत्प्रदः ।।३१ ।।
प्रकृष्टा भा भारती च आस विप्रमुखेषु या ।
वेदात्मिकां प्रभासं तत्क्षेत्रं वै ब्राह्मणप्रियम् ।।।३२।।
प्रत्यक्षं भास्करश्चार्कद्रुमजन्मस्वरूपतः ।
यत्र वै वर्तते तस्मात्प्रभासं सुरभाषितम् ।।३३।।
सूर्यस्यासीत्पुरा तेजो दुःसहं विश्वकर्मकः ।
शाणोल्लीढं रविं कृत्वा सह्यतेजस्कमाचरत् ।। ३४।।
शाणोच्छिन्नानि तेजांसि व्यभजच्छस्त्रहेतवे ।
आयुधानि तेजसां च कृतानि विश्वकर्मणा ।। ३५।।
तथापि शिष्यते तेजस्तदत्र सागरान्तिके ।
स्थापितं यच्छनैः शान्तमभवत् तत्प्रभासकम् ।।३६।।
तेजसः षोडशो भागः सूर्यस्य मण्डलेऽभवत् ।
यत्तस्य ऋङ्मयं तेजस्तत्प्रभासे स्थिरीकृतम् ।।३७।।
द्यौः संपुष्टिं प्रापिता च यजुर्मयेन तेजसा ।
स्वर्गं प्रपोषितं साम्ना तेजसा विश्वकर्मणा ।।३८।।
अन्येन निर्मितं चक्रं विष्णोर्हरस्य शूलकम् ।
धनदस्य च शिबिका दण्डः प्रेतपतेस्तथा ।।३९।।
कार्तिकस्य तथा शक्तिर्गदा हनुमतस्तथा ।
करवालं तथा देव्या महाकालस्य .पाशकः ।।1.536.४०।।
पाशुपतं तथा नारायणास्त्रं त्वंशतः कृतम् ।
अन्यान्यपि तथास्त्राणि यथायोग्यं कृतानि हि ।।४१ ।।
एवं सूर्यस्य वै तेजः सागरान्तिकमास्थितम् ।
प्रभासं तन्महत्क्षेत्र मम देवि! निवासभूः ।।४२।।
माहेश्वर्या दक्षिणं च न्यंकुमत्याः कृतस्मरम् ।
अद्रिं व्याप्य योजनानां द्वादशाऽभिप्रभासकम् ।।४३।।
तत्राऽर्कवृक्षतां यातः सूर्यो वंशानुवंशतः ।
अर्कवृक्षं पूजयेत् यः कुष्ठस्तस्य विनश्यति ।।४४।।
सोमेश्वराद् वह्निकोणे सिद्धेश्वरोऽहमास्थितः ।
जैगीषव्येन सिद्धेन तपो वर्षसहस्रकम् ।।।४५।।
कृत्वाऽहं स्थापितः सिद्धेश्वरो भवामि शैलजे ।
वालखिल्यास्तत्र सिद्धिं जग्मुर्वै तपसा पराम् ।।४६।।
कृतस्मरात् समारभ्य यावदर्कस्थलं सति! ।
सिद्धयोऽष्टौ निवसन्ति मम सेवापरायणाः ।।४७।।
ब्राह्मी चैव हिरण्या च नद्यौ वै ब्रह्मणः सुते ।
मंकीशर्षिस्तथा सन्ति सुनन्दाद्याश्च मातरः ।।४८।।
कृतस्मरं महाद्रिं च दृष्ट्वा तु ऋषयो द्विजाः ।
अस्माभिश्च सह यात्राकरा वासानि चक्रिरे ।।४९।।
अत्रिर्वसिष्ठः पुलहः क्रतुर्भृगुः पुलस्त्यकः ।
मरीचिः कश्यपो भारद्वाजो यमोङ्गिरा मनुः ।।1.536.५० ।।
आपस्तम्बोऽथ सांवर्तः काव्यः कात्यायनस्तथा ।
गौतमः शंखलिखितौ वाचस्पतिस्तथाऽरुणिः ।।५१ ।।
जामदग्न्यो याज्ञवल्क्यः ऋष्यशृंगो विभाण्डकः ।
गार्ग्यः शौनकदाल्भ्यौ च व्यास उद्दालकः शुभः ।।५२।।
नारदः पर्वतश्चैव दुर्वासा उग्रतापसः ।
शाकल्यो गालवश्चापि जाबालिर्मुद्गलः ऋभुः ।।५३।।
विश्वामिश्रः कौशिकश्च जह्नुर्विश्वावसुस्तथा ।
धौम्यश्चैव शतानन्दः शाकटायन एकतः ।।५४।।
द्वितस्त्रितस्तथा चान्ये ये चासँश्च समागताः ।
ते यथेष्टं निजशालाश्चक्रुश्चात्र प्रभासके ।।५५।।
ज्वलन्तस्तपसा सर्वे संस्थिताः कृतपर्वते ।
सोमनाथं सोमवारे पूजयामासुरीश्वराः ।।५६।।
स्नात्वा सन्ध्यादिकं कृत्वा पूजयित्वा नरायणम् ।
योग्ये वै मण्डपे रम्ये न्यस्य कुंभं सुशोभनम् ।।५७।।
चूतपल्लवशोभाढ्यं चन्दनाक्षतपूजितम् ।
कुंकुमचन्दनैः कृत्वा घटार्धं प्रतिमान्वितम् ।।५८।।
उमादेहार्धसंयुक्तं शंकरार्धसमन्वितम् ।
यथाभूषाशोभितं च यथावस्त्रादिमण्डितम् ।।५९।।
उमया सहितं शंभुं पुपूजुस्तत्र ते द्विजाः ।
द्विविधैर्भक्ष्यभोज्यैश्च फलैः पानैर्विलेपनैः ।।1.536.६०।।
धूपदीपोत्तमैर्नीराजनैः स्तुतिभिरीश्वराः ।
आनर्चुर्याचयामासुः क्षमां पुष्पांजलिं ददुः ।।६१।।
गायनं कीर्तनं चक्रुर्नर्तनं जागरान्वितम् ।
यः कश्चित् .सोमवाराणां नवकं भावतश्चरेत् ।।।६२।।
शिवतुल्यो भवेत् सोऽपि जरामरणवर्जितः।
सम्प्राप्ते नवमे वारे कुर्यादुद्यापनं महत् ।।६३।।
मण्डलं मण्डपं कुण्डं कारयेत् सुपरिष्कृतम् ।
वेदिकां कारयेद्रम्यां चतुरस्रां सुचित्रिताम् ।।६४।।
पद्मं च कारयेन्मध्ये धान्यस्य मण्डलस्य च ।
कलशानष्टदिग्भागे सहिरण्यान् पृथक्पृथक् ।।६५।।
नवदुर्गाः पूजयेच्च मध्ये सोमेश्वरं हरम् ।
रुक्मशय्यासमारूढं हेमजं पूजयेद् व्रती ।।६६।।
गन्धस्रग्धूपनैवेद्यैर्वस्त्रालंकारदर्पणैः ।
छत्रचामरताम्बूलैर्दीपघण्टावितानकैः ।।६७।।
तोषयित्वा हरं पश्चाद् दानं श्रीगुरवे ददेत् ।
होमं च कारयेद् दद्यात्पायसान्नं बलिं शुभम् ।।६८।।
रात्रौ च जागृयात् पञ्चगव्यं पीत्वा हरं स्मरेत् ।
प्रभाते तु ततः स्नात्वा ध्यायेत् सोमं क्षणं पुनः ।।६९।।
ततः प्रपूज्य सोमेशं क्षीरखण्डादिनिर्मितैः ।
भक्ष्यभोज्यैरनेकैश्च नैवेद्यं शंभवे ददेत् ।।1.536.७०।।
ब्राह्मणान् भोजयेद् देवान् ऋषीन् पितॄँश्च तर्पयेत्। ।
अतिथीन् पूजयेच्चापि कन्याः संभोजयेत्तथा ।।७१।।
वस्त्रदानं कारयेच्च गोदानं च प्रकारयेत् ।
आशीर्वादाँश्च गृह्णीयात् परिहारं समाचरेत् ।।७२।।
एवं चीर्णव्रतं सम्यक् लभते पुण्यमक्षयम् ।
धान्यधनादिसमृद्धिं पुत्रदारादिकाँस्तथा ।।७३।।
न वन्ध्यात्वं भवेत्तस्या दारिद्र्यं नाशमाप्नुयात् ।
ऋषिभिश्च सुरैः सोमवारव्रतं कृतं तथा ।।७४।।
दानानिं प्रददुस्तद्वदुद्यापनं दधुस्तथा ।
शंकरः प्राह देवेशि! दोषाँस्त्यक्त्वा स्वभावजान् ।।७५।।
तीर्थं कुर्याज्जनस्तेन लभते शाश्वतं फलम् ।
तीर्थानुगमनं पद्भ्यां तपः परं फलप्रदम् ।।७६।।
छत्रोपानद्विहीनस्तु तैर्थिकोऽघानि नाशयेत् ।
पारक्यान्नं न भोक्तव्यं भैक्ष्यं पारक्यमेव न ।।७७।।
देवतानां गुरूणां च मातापित्रोः सतां तथा ।
कुटुम्बस्य स्मरणं च तीर्थे कार्यं मुमुक्षुणा ।।७८।।
तीर्थे दोषान्न गृह्णीयाद् वज्रलेपा भवन्ति यत् ।
लुठिल्ला लुण्ठयेत्तत्र नृत्यन् गायन् हसँस्तथा ।।७९।।
धूलीधूसरसर्वांगो भवेत्तीर्थे हरिं स्मरेत् ।.
ओं नमः सोमनाथाय पार्वतीपतये नमः' ।।1.536.८०।।
जपेन्मन्त्रं सोमनाथे सर्वपापप्रणाशनम् ।
ध्यायेत् सोमेश्वरं मां च त्वया सार्धं महेश्वरि ।।८१ ।।
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
इत्येवं श्रावयेल्लोकान् कारयेद्भजनं हरेः ।।८२।।
वैष्णवान् प्रणमेन्मार्गे श्रीपतिं हृदि धारयेत् ।
नास्ति सौराष्ट्रसदृशो देशो वै जगतीतले ।।८३।।
सोमनाथसमं तीर्थं मे नास्ति भुवि पार्वति! ।
पापिनां पापशमनं व्रतिनामीप्सितप्रदम् ।।८४।।
अभाग्यानां भाग्यकरं ब्रह्मलोकप्रदायकम् ।
तुलापुरुषदानं च तथा ब्रह्माण्डदानकम् ।।८५।।
पृथिवीक्षेत्रदानं च कल्पपादपदानकम् ।
हिरण्यस्य कामधेनोर्गजाश्वानां च दानकम् ।।८६।।
रथानां च गृहाणां च रत्नानां दानकानि च ।
कलशानां च कन्यानां विद्यानां दानकानि च ।।८७।।
कल्पलतानां दानानि जीवदानं जलार्पणम् ।
वृत्तिदानं तथोद्यानदानं चारण्यदानकम् ।।८८।।
समुद्रतीरदानं च पर्वतानां प्रदानकम् ।
गोमहिषीप्रदानं च वनवाटीप्रदानकम् ।।८९।।
ज्ञानदानं मुक्तिदानं स्वर्गदानं फलार्पणम् ।
सर्वस्वार्पणदानं च पुनः प्राप्त्यै समाचरेत् ।।1.536.९०।।
कूपवापीसरोदानं पाषाणकाष्ठदानकम् ।
यानयन्त्रशिबिकादिदानं मधुरसार्पणम् ।।९१ ।।
कर्तव्यं च यथाशक्ति सौराष्ट्रे मम तीर्थके ।
प्रासादं धवलं सौधं कारयेज्जीर्णमुद्धरेत् ।।९२।।
तीर्थमभ्युद्धरेज्जीर्णं परोपकृतिमाचरेत् ।
परोपकारकर्तॄणां श्रेयः परं भवेत् सति! ।।९३।।
केचिद्दानप्रभावेण केचित् स्नानेन मानवाः ।
केचिद् ध्यानप्रभावेण केचिद्योगेन वा जनाः ।।९४।।
केचिज्ज्ञानेन वा केचिज्जपेन सेवयाऽपरे ।
कथायाः श्रवणेनापि केचित् कीर्तननर्तनैः ।।९५।।
पूजनैश्चापरे तीथैर्वन्दनैः स्तवनैः परे ।
अन्ये सन्न्यसनैर्भक्त्या दास्येनाऽन्ये जपेन च ।।९६।।
सर्वथाऽर्पणभावेन तीर्थस्था यान्ति सद्गतिम् ।
इन्द्रियैर्हीन एवापि तीर्थपूतो भवेत् प्रिये ।।९७।।
प्रभासे निधनं प्राप्तो भवेन्मम परिग्रहः ।
एवं प्रभासं ध्यात्वैव समाश्रयेन्ममाऽनुगः ।।९८।।
इत्येवं कथितं लक्ष्मि! शंभुना सोमतीर्थके ।
पार्वत्यै साररूपं च चक्रुर्वासानि देवताः ।।९९।।
पठनाच्छ्रवणाच्चास्य देशान्तरनिवासिनः ।
तीर्थयात्राफलं स्याच्च भुक्तिमुक्तिस्तथा भवेत् ।। 1.536.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शंकरादीनां रैवताचल( गिरनार) तीर्थे सोमनाथतीर्थे च यात्राकरणं, प्रभासनामनिरुक्तिः, अर्कवृक्षात्मकताऽर्कस्य, सोमनाथपूजा, दानादि, महिमा, चेत्यादिनिरूपणनामा षट्त्रिंशदधिकपञ्चशततमोऽध्यायः ।।५३६।।