सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५३५

विकिस्रोतः तः
← अध्यायः ५३४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५३५
[[लेखकः :|]]
अध्यायः ५३६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो देवी पार्वती शंकरं पतिम् ।
तुष्टाव प्रार्थयामास स्मृत्वा स्वाप्नं हरेर्वचः ।। १ ।।
प्राणेश! श्रीकृष्णनारायणः श्रीभगवान् स्वयम् ।
प्राह मातर्मम क्षेत्रं कथं नायासि वै क्वचित् ।। २ ।।
इत्येवं कथिता चाऽहं स्वप्ने भगवता प्रिय! ।
तत्क्षेत्रं द्रष्टुमिच्छामि गोपालेश्वरमण्डितम् ।। ३ ।।
यत्र श्रीभगवान् विष्णुः कृष्णनारायणः प्रभुः ।
वर्तते मुक्तकोट्याद्यैर्द्रष्टुमिच्छामि तत्स्थलम् ।। ४ ।।
यत्तन्त्रं लोकचक्रं वै यत्तन्त्रं लयचक्रकम् ।
स यत्र वर्तते देवो द्रष्टुमिच्छामि तत्स्थलम् ।। ५ ।।
यदधीनं हि लोकानां गोपायनं प्रवर्तते ।
स कृष्णो वर्तते यत्र द्रष्टुमिच्छामि तत्स्थलम् ।। ६ ।।
महाभूतानि सर्वाणि येन धृतानि वर्ष्मणि ।
स धृतो येन देशेन द्रष्टुमिच्छामि तत्स्थलम् ।। ७ ।।
यस्मान्मत्स्यस्तथा कूर्मो वाराहो नरसिंहकः ।
कपिलश्च हरिश्चापि वासुदेवः पृथुस्तथा ।। ८ ।।
दत्तात्रेयस्तथा हंसः ऋषभो वामनः प्रभुः ।
पर्शुरामस्तथा यज्ञनारायणः कुमारकाः ।। ९ ।।
सनकाद्यास्तथा रामो हयग्रीवश्च नारदः ।
व्यासो बुद्धस्तथा कल्किर्हंसश्च मोहिनी तथा ।। 1.535.१ ०।।
विष्णुश्चैते ह्यवतारा जायन्ते लोकरक्षकाः ।
स राजते यत्र देशे द्रष्टुमिच्छामि तत्स्थलम् ।। १ १।।
राधा रमा सती लक्ष्मीः पद्मा पद्मावती प्रभा ।
पार्वती ललिता कृष्णा जया माणिकी तूलसी ।। १२।।
वृन्दा श्रीः कमला सीता रुक्मिणी द्रौपदी शिवा ।
गंगा सरस्वती हंसा शारदा मंजुला रतिः ।। १३।।
मूर्तिश्च मानसा सन्ध्या गायत्री मूलप्रकृतिः ।
सावित्री देविका मुक्तिः शान्तिर्भक्तिश्च योषितः ।। १४।।
यस्माज्जाता मातरश्च लोकानां सुखदायिकाः ।
स राजते यत्र देशे द्रष्टुमिच्छामि तत्स्थलम् ।। १५।।
धर्मार्थकाममोक्षाणामाश्रयो भगवाँस्तु यः ।
प्रलयस्य पुनः सृष्टेर्द्रष्टुमिच्छामि तत्स्थलम् ।। १६।।
सहस्रक्रमणो देवः सहस्रज्ञानरश्मिवान् ।
सहस्रकंधरो यत्र द्रष्टुमिच्छामि तत्स्थलम् ।। १७।।
यन्नाभौ कल्पनामात्राज्जातं पैतामहं गृहम् ।
यल्ललाटाद्धर्मबिन्दोर्जातः शिवापतिः प्रभुः ।। १८।।
यस्य वै हृदयाल्लक्ष्मीपतिः सम्भूत एव च ।
सोऽपि यस्मात् समुत्पन्नस्तस्य प्रप्रपितामहः ।। १९।।
यत्र संराजते शंभो द्रष्टुमिच्छामि तत्स्थलम् ।
दुग्धाब्धौ शयनं चक्रे शेषपर्यंकमास्थितः ।।1.535.२०।।
यः स यस्मात्समुत्पन्नस्तस्यापि चावतारिणम् ।
अनादिश्रीकृष्णनारायणमिच्छामि वीक्षितुम् ।।२१ ।।
हव्यादैश्चापि क्रव्यादैर्भावादैरमृतादनैः ।
अनदनैस्तथा यो वै रमते ह्यनुरूपतः ।।२२।।
बालरूपं स्वप्नदृष्टं द्रष्टुमिच्छामि तं प्रभुम् ।
त्रयाणां च चतुर्णां च यो गतिः परमेश्वरः ।।२३।।
पञ्चानां षोडशानां च द्रष्टुमिच्छामि तं प्रभुम् ।
तेजांसि यं श्रयन्ते च तपांसि चार्पणानि च ।।२४।।
क्रतवस्त्यागसन्यासाः श्रयन्ते यं परेश्वरम् ।
कान्तकान्तं च तं शंभो! द्रष्टुमिच्छामि सत्वरम् ।।२५।।
इत्युक्तः शंकरो देवो भक्तिं विलोक्य योषितः ।
उवाच मधुरं देवीं स्मरन् कृष्णनरायणम् ।।२६ ।।
धन्ये मान्ये सदा पूज्ये कृष्णप्रिये पतिव्रते ।
हृष्यामि त्वद्वचः श्रुत्वाऽऽप्यायितं भक्तिवारिणा ।।२७।।
धन्योऽहं यद्गृहे पत्नी नारायणे दृढव्रता ।
भक्तिमती स्वेष्टदेवे जगदुद्धारकारिणी ।।२८।।
न मया सदृशो देवि! भाग्यवान् भुवनेष्वपि ।
यत्पत्नी श्रीकृष्णनारायणदास्याभिरञ्जिता ।।२९।।
ममापि वर्तते साध्वि! द्रष्टुमिच्छा हि तत्स्थलम् ।
वहुकालो गतो यस्मात्पुनर्यास्यामि वै त्वया ।।1.535.३०।।
सौभाग्यं वर्धतां कान्ते प्रसन्नयसि यन्मनः ।
व्योममार्गेण यास्यावो बहुपूजोपचारकैः ।।३ १ ।।
अनादिश्रीकृष्णनारायणस्य विधिनाऽर्चनम् ।
करिष्यावः कार्तिके वै स्थास्यावस्तत्र शोभने ।।३२।।
शिवरात्रिं करिष्यावस्तत्र वै रैवताचले ।
ततोऽक्षयतृतीयायां स्नास्यावः सोमनाथके ।।३३।।
श्रावणं च करिष्यावो गोमत्यां कृष्णपत्तने ।
नवरात्रं चमत्कारे कृत्वा कैलासमेव तु ।।३४।।
आयास्यावो महादेवि! वद नन्दीश्वरं तथा ।
गणेशं कार्तिकेयं च योगिनीमण्डलं वद ।। ३५।।
दुर्गानां मण्डलं चापि रुद्रानेकादशापि च ।
गंगां च वीरभद्रं च चण्डं प्रचण्डमित्यपि ।।३६।।
शृंगिं भृंगिं च रीटिं किरीटिं चेशानमित्यपि ।
अग्निं च मंगलं चन्द्रं कालं भैरवमित्यपि ।।३७।।
दुर्वाससं तथा लाभं तोषं सिद्धीश्च वै वद ।
ऋद्धिं च हनुमन्तं च तथाऽन्यान् मम सेवकान् ।।३८।।
तवापि सेविका देवीर्वद यात्रार्थमुत्सुकान् ।
सर्वान् वाहनसामग्रीरुपदाऽऽगृह्य यान्त्विति ।।३९।।
इत्येवं शंकराल्लब्ध्वा समाज्ञां पार्वती सती ।
सुप्रसन्ना समुत्थाय घोषयामास सर्वथा ।।1.535.४०।।
सन्नह्यन्तां सुयात्रार्थं द्रुतं सौराष्ट्रमण्डले ।
यत्रास्ते श्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।।४१।।
सोमनाथो वामनश्च भवेशो गोपिकापतिः ।
तत्र यात्राकृते सर्वैर्गन्तव्यं व्योमगामिभिः ।।४२।।
कुंकुमवापिकाक्षेत्रं चाश्वपट्टसरोवरम् ।
अनादिश्रीकृष्णनारायणं च लोमशं मुनिम् ।।४३ ।।
मातरं कंभरालक्ष्मीं पितृगोपालकृष्णकम् ।
दृष्ट्वाऽर्चयित्वा सेवित्वा यास्यामः कृतकृत्यताम् ।।४४।।
एवं कैलासवासास्ते बहुरत्नादिसंभृताः ।
ऊर्जकृष्णस्य सप्तम्यां यात्रां चक्रर्मुदान्विताः ।।४५।।
दुन्दुभयो ह्यवाद्यन्त प्राज्ञायन्त जयेरणाः ।
प्रावर्तन्ताऽम्बरे सर्वे त्वाययुर्घटिकान्तरे ।।४६।।
व्योम्नि कोटिगणदेवीवाहनैः समलंकृतः ।
महादेवस्तु तैः पृष्ठः समुवाच स्थले स्थले ।।४७।।
अयं केदारनाथोऽहं दक्षेश्वरस्तथा ह्यहम् ।
अर्बुदे पुष्करं चेदं सिद्धक्षेत्रमिदं तथा ।।४८।।
रणेश्वरं च मे क्षेत्रं सौराष्ट्रं चेदमागतम् ।
सालेशोऽयं महाविष्णुर्भद्रा चेयं महापगा ।।४९ ।।
शत्रुञ्जिता नदी चेयं गोरक्षस्य च धूनिका ।
अश्वपट्टसरश्चेदं पश्चिमोत्तरसेतुमत् ।।1.535.५ ०।।
मध्यद्वीपे मन्दिरं च यत्र कुंकुमवापिका ।
अनादिश्रीकृष्णनारायणालयोऽयमुत्तमः ।।२ १ ।।
दक्षिणे वृक्षविस्तारे लोमशस्याश्रमो ह्ययम् ।
व्याघ्रारण्यं तथा दूरं दीर्घं चेदं विलोक्यते ।।५२।।
पश्चिमे रैवतश्चायं पञ्चयोजनतः परः ।
इत्युक्त्वा शंकराद्यैश्च पार्वतीयुक्ततद्गणैः ।।१३।।
साक्षताः पुष्पांजलयश्चन्दनद्रवमिश्रिताः ।
व्योममार्गादर्पिताश्च साप्तभौमालयोपरि ।।५४।।
अनादिश्रीकृष्णनारायणो विजयतेतराम् ।
इतिशब्दैर्ध्वनिभिश्च दिशोऽपूर्यन्त सर्वतः ।।५५।।
लोमशः कंभरालक्ष्मीर्गोपालकृष्ण ऊर्ध्वगान् ।
ऋषयश्च विलोक्यैतानभिजग्मुस्तदाऽम्बरे ।।५६।।
जयशब्दा नमःशब्दा धन्यशब्दास्तदाऽभवन् ।
मिलित्वा चाऽवतेरुश्च पश्चिमे सेतुमण्डले ।।५७।।
तेरुनाम्नाप्रदेशः सोऽभवत्पश्चिमदिग्भवः ।
सेतुना च कृतं तैर्वै पूर्वे गत्वा प्रदक्षिणम् ।।५८।।
उज्ज्वलः स प्रदेशोऽभूत् ततः पूर्वं गताश्च ते ।
अमराणां गतेर्योगादमरा भूमिकाऽभवत् ।।५९।।
दुन्दुभिरवयोगेन दुन्दुरवाऽभवच्च भूः ।
व्याघ्रारण्यमुखे गत्वा सेतुना ते च देवताः ।।1.535.६ ०।।
दक्षिणपश्चिमसेतुं समागत्य ततश्च ते ।
वापीद्वीपं साप्तभौमं मन्दिरं, जग्मुरुत्सुकाः ।।६१ ।।
लोमशाद्याः ऋषयश्च स्वागतं शुभमाननम् ।
चक्रुर्देवाधिदेवस्य शंभोः सत्याः सुपूजनम् ।।६२।।
कौशासनानि प्रददुरर्घं जलं फलानि च ।
सौधान्तःस्थं कृष्णनारायणं द्रष्टुं ययुस्ततः ।।६३।।
अनादिश्रीकृष्णनारायणो यत्र विराजते ।
चिरंजीविशतैर्युक्तो ऽ मुक्तकोटिभिरर्चितः ।६४।।
अवतारैः शोभितश्च देवैः संसेवितः प्रॄभुः ।.
ऊर्जकृष्णस्य सप्तम्यां निशायां पूजितश्च तैः ।।६५।।
राधारमादिपत्नीभिरसंख्याभिरभिष्टुतः ।
शंकराद्यैर्वेदमन्त्रैर्वर्णितः षोडशादिभिः ।।६६।।
नीराजितस्ततः कृष्णः शृंगारितः पुनः पुनः ।
पार्वत्या कस्तूरिकया बिन्दुर्भाले सकुंकुमः ।।६७।।
कृतः साक्षतशोभश्च शंभुना तिलकं शुभम् ।
चन्दनेन कृतं रम्यं पार्वत्या तु ततः पुनः ।।६८।।।
कोटिकन्दर्पलावण्यभृतं हरिकपोलकम् ।
सचन्द्रकं कृतं त्वार्द्रकुंकुमेन पुनः पुनः ।।६९।।
रञ्जयामास देवेशी दृष्ट्वा कृष्णं मनोहरम् ।
उपदा विविधा रत्नसौवर्णादीनि चार्पयत् ।।1.535.७०।।
दण्डवत् कृतवन्तस्ते संभाषां विदधुर्मिथः ।
गोपालनन्दनो बालः कृष्णनारायणः प्रभुः ।।७१।।
पूजोत्तरं स्वयं स्वस्याऽऽसनादुत्थाय सत्वरम् ।
ननाम पादयोः शंभोः पार्वत्याश्च परेश्वरः ।।७२।।।
आतिथ्यविधिना पादौ प्रक्षाल्य सलिलं पपौ ।
संकल्पेन च सैन्यानां निवासार्थं तु लोमशः ।।७३।।
चकाराऽऽरैवतं यावन्नगरं वर्तुलं महत् ।
पञ्चविंशतिसंख्याकयोजनानां भुवोन्तरे ।।७४।।
वासयामास तान् सर्वान् भोज्यपानाऽऽश्रमादिभिः ।
सेवयामास सर्वांश्च कृष्णनारायणः स्वयम् ।।७५।।
श्रीमद्गोपालकृष्णश्च शंभुं प्राहाऽऽश्रुनेत्रकः ।
धन्योऽहं कृतकृत्योऽहं मद्धाम पावितं त्वया ।।७६।।।
सर्ववन्द्येषु मूर्धन्यं पदं दत्तं त्वया च मे ।
एते परेश्वराश्चान्ये यन्ममाश्रममागताः ।।७७।।
धन्येयं पृथिवी शुभ्रा यावदण्डं भविष्यति ।
तावच्च पावनी तीर्थरूपा ख्याता भविष्यति ।।७८।।
कंभराख्या महालक्ष्मी पार्वतीं प्राह शोभनम् ।
लोकमातुः किमु वाच्यं पाविताऽहं त्वया सति! ।।७९।।
त्वया दुःखविहन्त्र्या च वर्धितो मम बालकः ।
तपोभिर्या न दृश्याऽस्ति सा दृष्टाऽद्य मया सति । ।।1.535.८०।।
पूर्वेषां संभवानां प्रस्मारितं पुण्यमत्र वै ।
स्वागतं सर्वथा हैमि शांभवि शान्तिमावह ।।८१।।
अहं दासीसमेता च सेवां करोमि शं वह ।
उक्त्वैवं कम्भरालक्ष्मीः पादसंवाहनं तदा ।।८२।।
पार्वत्यास्त्वतिथिरीत्या चक्रेऽन्यसेवनादिकम् ।
पर्यंकेषु सुदिव्येषु कैलासादधिकेषु च ।।०।।।
विभान्तिं लब्धवन्तस्ते शंकराद्यास्तु देवताः ।
भोजनानि सुपानानि ताम्बूलकानि भावतः ।।।५।।
ददुः कृष्णजनाः सर्वे संजगृहुः सुखास्तु ते ।
सुषुपुः शंकराद्या वै कृष्णनारायणस्तदा ।।८५।।
पार्वतीं मातरं प्राह मद्वाक्यं पालितं सति ।
स्वागतं ते प्रकुर्वन्ति रमाद्या मम चांगनाः ।।।८६।।।
इयं मे पार्वतीनाम्नी प्रभेयं तत्सहायिनी ।
माणिकीयं मम कान्ता लक्ष्मीरियं पतिव्रता ।।।८७।
राधेयं ललिता चेयं जयेयं कमला त्वियम् । ।
पद्मिनी भार्गवी चेयं मुक्तेयं देविका त्वियम् ।।८८।।
चम्पेयं हेमभेयं च शान्तेयं वाजिनी त्वियम् ।
मौक्तिकेयं मंजुलेयं हंसेयं सगुणा त्वियम् ।।८९।।
एवमन्याः सहस्राणि विद्यन्ते ता इमेऽत्र वै ।
तव सेवां प्रकुर्वन्तु याम्यहं निजमन्दिरम् ।।1.535.९०।।
इत्युक्त्वा श्रीकृष्णनारायणो जगाम मन्दिरम् ।
सुष्वाप च सुखं प्रातस्तूर्याणि विविधानि च ।।९१ ।।
अवाद्यन्त हि दिव्यानि प्रबोधं लेभिरे जनाः ।
ऊर्जकृष्णाष्टमी चेयं जयन्ती श्रीहरेर्मम ।।९२।।
अनादिश्रीकृष्णनारायणस्याऽऽसीत्ततश्च तै ।
शंकराद्या नित्यकार्यं कृत्वा सज्जाः सुशोभनाः ।।९३।।
प्रातः पूजां चाभिषेकं कर्तुं मन्दिरमाययुः ।
देवताः शंकरेन्द्राद्या मुनयः ऋषयस्तथा ।।९४।।
पितरः कश्यपाश्चान्ये ब्राह्मणा मानवास्तथा ।
मुक्ता देव्यः सुरकन्या नागकन्याश्च भोगिनः ।।९५।।
गन्धर्वाः किन्नरा गुह्या सन्तः किंपुरुषादयः ।
साध्व्यः पतिव्रता ब्रह्मव्रतिन्यो योगयोषितः ।।९६।।
मातरो वनदेव्यश्च नद्यः पुर्यश्च धेनवः ।
गोप्यश्चैताः पयःकुल्या दधिकुल्या घृतानि च ।।९७।।
मधुकुल्याः शर्कराः संगृह्य तीर्थजलानि च ।
सौवर्णकलशान्नीत्वा फलाऽक्षतसमन्वितान् ।।९८।।
जलयात्रादिविधया कृत्वा मूर्धसु गीतिकाः ।
आययुः सर्वनाथाधिश्रितं दिव्यसुमन्दिरम् ।।९९।।
पुष्पमालाश्चन्दनानि कस्तूरीश्चाऽक्षतास्तथा ।
पुष्पसाररसाँश्चापि सुगन्धितेलकानि च ।। 1.535.१० ०।।
मृद्यद्रव्याणि रम्याणि रक्तपातानि यानि च ।
ता आदाय समाजग्मुः कृष्णनारायणं प्रति ।। १०१ ।।
अनादिश्रीकृष्णनारायणः स्वणाम्बरं शुभम् ।
परिधाय सरस्तीरे स्वर्णसिंहासने वरे ।। १ ०२।।
निषसादाथ दैवाद्यैर्बृहस्पत्यादिभिस्तदा ।
भूतशुद्धिं कारयित्वा प्रदायाऽऽचमनानि च ।। १०३ ।।
अर्घं दत्वा जलस्नानं कारयित्वा ततः परम् ।
दुग्धकुंभे दुग्धस्नानं कारितं शुभदर्शनम् ।। १ ०४।।
धनवो व्योममार्गेण पयांसि मुमुचुस्तदा ।
गोप्यो देव्यादिकाः कृष्णे ववृषुर्दधि पिच्छलम् ।। १ ०५।।
देवा घृतानि मुमुचुर्मधूनि .वनदेवताः ।
पृथ्व्याद्याः प्रददुस्तस्मिन् शर्करास्नानमुज्ज्वलम् ।। १०६ ।।
अब्धयः सरितस्तीर्थोत्तमान्यदुर्जलानि च ।
अभिषेकं शुभं चक्रुस्ततश्चन्दनतैलजम् ।। १ ०७।।
लेपं सम्मर्दनं कृत्वा स्नापयित्वाऽम्बराणि च ।
ददुर्दिव्यानि देवाश्च भूषाश्च धनदा ददुः ।। १ ०८।।
श्रांगारिकं तथाऽन्येऽन्याः सर्वं महोत्तमं ददुः ।
मुकुटं कुण्डले हारानूर्मिकाः शृंखलादिकाः ।।१ ०९।।।
छत्रं सुचामरे कृष्णं धारयित्वा तु देवताः ।
वैदिकैर्मुख्यसूक्ताद्यैर्नीराजनं व्यधुर्मुदा ।। 1.535.११ ०।।
क्षमां पुष्पांजलिं दत्वा भोजनं पुरतो न्यधुः ।
भगवान् बुभुजे पानं पपौ ददौ समागतान्।। १११ ।।
प्रसादं कानके पात्रेऽक्षय्यं कोटिगुणं यतः ।
अथ तान् भोजयामासुर्गालवाद्या महर्षयः ।। ११ २।।
सायं प्रणर्तनं चक्रुर्गायनं कीर्तनानि च ।
दानानि विविधान्येवाऽसंख्यकानि ददौ हरिः ।। ११ ३।।
रात्रौ नीराजनं चक्रुर्जुहुवुश्च हुताशने ।
उत्सवस्य परिहारं कृत्वा सुषुपुरीश्वराः ।। १ १४।।
सर्वे शान्ता योगनिद्रां गता युगलकोटयः ।
पठनाच्छ्रवणात्त्वस्य तद्यात्राफलभाग्भवेत् ।। १ १५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ध्यानस्थशंकरात् ज्ञात्वा कुंकुमवापीक्षेत्रं जिगमिषुसगणशंकरपार्वतीशक्तिसतीदेवदेवीतीर्थदिव्येश्वरादिसमस्तविभूतिदेहिभिः समागत्योर्जकृष्णाष्टमीजयन्त्या
श्रीकृष्णनारायणाऽर्चनं कृतमित्यादिनिरूपणनामा पञ्चत्रिंशदधिकपञ्चशततमोऽध्यायः ।।५३५।।