लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५३७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५३६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५३७
[[लेखकः :|]]
अध्यायः ५३८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! तथाऽन्यानि तीर्थानि कथितानि च ।
शंभुना हिमवत्पुत्र्यै तान्यपि कथयामि ते ।। १ ।।
वाडवाग्निक्षेपतीर्थं समुद्रे वर्तते सदा ।
तत्र स्नानं प्रकुर्वीत वह्निवत् पावनो भवेत् ।। २ ।।
पद्मकं च ततो गच्छेद् वपनं तत्र कारयेत् ।
हृदि स्मरन् सोमनाथं केशाँस्तत्र विनिःक्षिपेत् ।। ३ ।।
पापानि केशसंस्थानि विलीयन्ते तथाकृते ।
सभर्तृकाऽङ्गुलमात्रं पृष्ठकेशान् हि छेदयेत् ।। ४ ।।
आचमनं ततः कृत्वा स्नायात् सामुद्रके जले ।
'तेऽग्निर्योनिरिडा देहो रेतोधाऽमृतस्य नाभिः ।। ५ ।।
तस्मै ते रत्नगर्भाय नमोऽवग्रहे ते जले' ।
इति स्नात्वा तिलमिश्रजलैः पितॄँश्च तर्पयेत् ।। ६ ।।
पुरा देवैर्दीर्घसत्रं प्रारब्धं च प्रभासके ।
सर्वस्वं ब्राह्मणेन्द्राणां प्रभासवासिनां ददुः ।। ७ ।।
दानं देवास्तदा चायन् द्विजा दूरतरा अपि ।
दक्षिणादानवाञ्च्छाश्च तावद् देवाः सवासवाः ।। ८ ।।
सर्वस्वदानतो रिक्ताः प्रार्थनाभंगभीतितः ।
प्रणष्टा ब्राह्मणान् दृष्ट्वा ब्राह्मणाश्चानुवव्रजुः ।। ९ ।।
सुराः समुद्रमाविश्योदरे तत्र व्यवस्थिताः ।
समुद्रो मूर्तिमान् भूत्वा सत्कारार्थं तटस्थितः ।। 1.537.१ ०।।
कृत्रिमं भोजनं रम्यं विप्रेभ्यो मत्स्यमिश्रितम् ।
ददौ च ब्राह्मणाः सर्वे बुभुजुः स्वर्णभाजने ।। १ १।।
न व्यजानन् गुप्तमांसं भक्षितं चेति वै ततः ।
पूर्वमाकाशगन्तारो ह्यासँस्ते ब्राह्मणाः खलु ।। १२।।
भोजनोत्तरमेवैते पतिताः सहसा भुवि ।
सविस्मयाः समूचुस्ते किमत्र कारणं भवेत् ।। १३।।
तत्रैको योगवृत्त्या च ज्ञातवान् वारिधेः क्रियाम् ।
वञ्चिता इति वै ज्ञात्वा शेपुर्विप्रास्तु वारिधिम् ।। १४।।
त्वयोपगुप्तमस्माकं मांसमन्नेन संयुतम् ।
दत्तं वै भोजने तस्मादस्पृश्यो भव सर्वदा ।। १५।।
ततो वर्षसहस्रं तु अस्पृश्योऽभूत्तु वारिधिः ।
ततो दुःखेन चात्मानं शोषयामास वै जलम् ।। १६।।
स्थलाकारोऽभवद् यावद् देवा ययुः पितामहम् ।
सामुद्रजलयोगेन वृष्ट्या सस्यानि भूतले ।। १७।।
जायन्ते च प्रजाः सर्वाः पुष्यन्ति तेन सर्वथा ।
समुद्रस्य जलं रक्ष यथा शोषं न गच्छति ।। १८।।
इति ते प्रार्थयांचक्रुर्ब्रह्मा श्रुत्वा तटं ययौ ।
अस्पृश्यतावारणार्थं प्रार्थयामास भूसुरान् ।। १ ९।।
ब्राह्मणाः प्रतिगृह्णन्तु रत्नानि वारिधेस्तथा ।
वारिधिं शापमुक्तं च प्रकुर्वन्तु क्षमायुताः ।।1.537.२०।।
ब्राह्मणाः प्रार्थयामासुर्ब्रह्माणं त्वं तथा कुरु ।
ब्रह्मा प्राह तदाऽब्धिं च त्रिधा मेध्यो भविष्यसि ।।२१ ।।
पर्वकालेषु च नदीसंगमेषु तथा सदा ।
तटतीर्थेषु मेध्यस्त्वं स्पर्शस्नानप्रदो भव ।।२२।।
पूज्यश्च सर्वदा तत्राऽन्यत्रापि देवपूजने ।
अभिषेके तव वारि सदा मेध्यं भवेदिति ।।२३।।
एवमस्पृश्यतानाशं चक्रिरे ब्राह्मणादयः ।
रत्नानि जगृहुः सर्वे प्रययुर्निजकेतनम् ।।२४।।
ततः स्नास्यति यः सम्यक् सागरे लवणाम्भसि ।
अश्वमेधसहस्रस्य फलं प्राप्स्यति चात्र सः ।।२५।।
श्रीसोमेशसमुद्रस्याऽऽन्तरे ये तु मृता जनाः ।
पापिनोऽपि गमिष्यन्ति स्वर्गं निर्धूतकल्मषाः ।।२६।।
एवं वै सजलस्त्वब्धिः पवित्रत्वं पुरा गतः ।
सोमेशादाकृतस्मरं क्षेत्रं सागरसन्निधौ ।। २७।।
कोटितीर्थमयं सर्वं स्वर्गमोक्षप्रदं परम् ।
एवं स्नात्वा सोमनाथं गच्छेद् द्रष्टुं व्रती ततः ।।२८।।
स्नापयित्वा विधानेन जपेत्तु शतरुद्रिकाम् ।
स्नापयेत्पयसा दध्ना घृतेन मधुनाऽपि च ।।२९।।
इक्षुरसेन च ततः कुंकुमेन विलेपयेत् ।
कर्पूरोशीरमिश्रेण मृगनाभियुतेन च ।।1.537.३ ०।।
चन्दनेन सुगन्धेन धूपैर्दीपैस्तथाऽम्बरैः ।
नैवेद्यैस्तर्पयित्वा तं नीराजयेन्नमेत्तथा ।।३ १ ।।
स्तुतिमष्टांगनत्यादि गीतं वाद्यं च नर्तनम् ।
प्रदक्षिणं कथां कुर्याच्छृणुयात्पारमेश्वरीम् ।।३२।।
विप्रतपस्विदीनान्धकृपणेभ्यो ददेत् धनम् ।
भोजनं स्वम्बरं चापि दापयेत् भावयेत् व्रती ।।३३।।
एवं सोमेश्वरतीर्थॆ यः करोति विधानतः ।
धनाढ्यः सप्तजन्मानि ततः कैलासमाव्रजेत् ।।३४।।
सान्ध्यमारार्त्रिकं कुर्यात्तस्य मोक्षो भवेद् ध्रुवम् ।
अथ लक्ष्मि! पञ्चनद्यस्तीर्थं तत्र तु मोक्षदम् ।।३५।।
हरिणी ब्रह्मिणी न्यंकुः कपिला च सरस्वती ।
प्रभासे संवर्तते वै पञ्चस्रोता सरस्वती ।।३६।।
शृणु लक्ष्मि! पुरा साऽत्र यथाऽऽगता सरस्वती ।
पुरा चेन्द्रादयो जित्वा दैत्यान् पृथ्वीं समागताः ।।३७।।
दधीचेराश्रमं दृष्ट्वा ददृशुर्दधीचिमृषिम् ।
आयुधानि विमुच्याऽग्रे रक्षेमानीति वै ददुः ।।३८।।
देयानि स्युः पुनस्तानि शत्रुभिर्यदि नो रणः ।
मुक्त्वाऽस्त्राणि ययुः स्वर्गं शतवर्षोत्तरम् ऋषिः ।।३९।।
जलेन च सहाऽस्त्राणि पीत्वा ययौ हिमालयम् ।
पिप्पलद्रुममध्ये सः चचार परमं तपः ।।1.537.४०।।
ततो देवैः समागत्याऽस्त्राण्यर्थितानि सर्वशः ।
दधीचिः प्राह देहे मेऽस्थिरूपाणि वसन्ति वै ।।४१ ।।
गोलोकाद् गाः समानीय कर्कशजिह्विकादिभिः ।
नन्दां सुभद्रां सुरभिं सुशीलां सुमनां तथा ।।४२।।
आज्ञापयन्तु मेऽस्थ्नां संप्राप्त्यर्थं लेहने तु ताः ।
देवा एवंप्रकारेण प्रापुरस्थीनि वै ततः ।।४३।।
देवस्पृष्टास्तु ता गावः शुद्धाः पूज्या यथास्थिताः ।
मुखमेकं परं तासां न स्पृष्टं रक्तलेपितम् ।।४४।।
अस्थ्नामस्त्राणि कृत्वैव देवा निर्ययुरम्बरम् ।
दधीचेस्तु सुभद्रायां जातो बालः सुप्लक्षकः ।।४५।।
उवाच मातरं क्वास्ति पिता मे जननि! ततः ।
सा प्राह निधनं प्राप्तो देवानां कार्यसिद्धये ।।४६।।
बालश्चचार च तपो हिमाचले ततः खलु ।
तस्य ऊरोः समुत्पन्ना ऊरुर्या वडवाभिधा ।।४७।।
सापि तेजोमयी जाता तेजोऽपि निःसृतं बहिः ।
और्वोऽयं वाडवोऽग्निस्तद्वनं ददाह दारुणः ।।४८।।
देवाः सरस्वतीं प्राहुर्देवि! ह्येनं प्रशामय ।
सरस्वती तु तं नीत्वा बालरूपं प्रभासके ।।४९।।
समागत्य प्रचिक्षेप समुद्रे वडवानलम् ।
कुमारिकाकरबालो बुभुजे लवणोदकम् ।।1.537.५०।।
पुपोष तत्र वै तिष्ठन्नाद्याप्यब्धिं प्रमुञ्चति ।
यत्र तापोऽभवत्तस्याः क्षणं साऽदृश्यतां गता ।।।५१ ।।
पुनः शीता समागृह्य नयति समेति भूतले ।
नैकस्थलेषु गुप्ता सा नैकस्थानेषु गोचरा ।।५२।।
एवं कृत्वा ययौ चाब्धिं निक्षिप्योवास वै चिरम् ।
प्राची सरस्वती सा तु प्रभासे वर्तते सदा ।।५३ ।।
तत्र वै ऋषयश्चासँश्चत्वारो विष्णुसदृशाः ।
हिरण्यश्चाथ वज्रश्च न्यंकुः कपिल इत्यपि ।।५४।।
पृथक्पृथक्समाहूताः स्नानार्थं तैः सरस्वती ।
सागरोऽपि तदा तस्याः सम्मुखः सहसा स्थितः ।।५५।।
ऋषीणां सेवनार्थं सा पञ्चरूपा बभूव ह ।
हरिणी वज्रिणी न्यंक्वी कापिली सागरी तथा ।।।५६ ।।
पञ्चापि पापहन्त्र्यस्ताः पावन्यः पापिनां सदा ।
मांसमद्यस्तैन्यनारीभोगदोषादिनाशिनी ।।५७।।
कृतस्मरो रोधकर्ता दग्धोऽद्रिस्तेन वह्निना ।
श्वेतोपलास्तु ता जाता रासन्यः सौधकारिकाः ।।५८।।
चाक्षुषस्याऽन्तरे वह्निर्दाधीचो वाडवानलः ।
वैवस्वतान्तरे और्वो भार्गवो वडवानलः ।।५९।।
शंकरस्य ललाटाग्निर्यः स एवाऽयमुच्यते ।
तीर्थे चात्र सरस्वत्या गूहेश्वरं सुतीर्थकम् ।।1.537.६ ०।।
आमर्दकीनदीयोगे संगमेश्वरतीर्थकम् ।
गोवत्सकं तथा तीर्थं झिल्लीतीर्थं परं शुभम् ।।६१ ।।
कूष्माण्डस्य मुनेः स्थानं कूष्माण्डेश्वरसंज्ञितम् ।
कृष्णनारायणस्तत्र समागत्य सरस्वतीम् ।।६२।।
स्वागतं कारयामास कूष्माण्डमुनिना तदा ।
श्रमं च नाशयामास वाडवानलभारजम् ।।६ ३ ।।
तापं च शमयामास स्वकरस्पर्शमात्रतः ।
कुमारी साऽर्थयामासैकाकिन्या च मया प्रभो ।।६४।।
कन्यया चात्र वै कथं वस्तव्यं रक्षकं विना ।
पाता रक्षयिता नास्ति मम चात्र वने हरे! ।।६५ ।।
तस्मात् पाता मम त्वत्र भव त्वं पुरुषोत्तम ।
यद्वा कुंकुमवाप्यां वा चाश्वपट्टसरोवरे ।।६६ ।।
तव गृहे समागत्य तत्र तिष्ठामि पादयोः ।
इत्युक्त्वाऽश्राविलनेत्रा कृष्णनारायणं प्रति ।।६७।।
दीनेव चाऽप्यनाथेव क्षणं जाता कुमारिका ।
ततः श्रीमत्कृष्णनारायणस्तां गृह्य पाणिना ।।६८।।
शोकं वै दूरयामास साऽपि कृष्णनरायणम् ।
कण्ठलग्नाऽभवत् साध्वी वव्रे नारायणं पतिम् ।।६९।।
सुमनोमालिकां कृष्णकण्ठे ददौ सरस्वती ।
अनादिश्रीकृष्णनारायणो जग्राह भावतः ।।1.537.७०।।
सनाथां तां तथा कृत्वोवाचाऽत्र त्वं स्थिरा भव ।
नदीरूपेण देवेशि! लोकोद्धारस्य हेतवे ।।७१ ।।
सरस्वती तदा प्राह नाथाऽहं स्वामिनं विना ।
स्थातुं शक्या कथं तस्मात्त्वमत्र मोक्षदो वस ।।७२ ।।
इत्युक्तः श्रीकृष्णनारायणः श्रीभगवान् स्वयम् ।
सरस्वतीपतिः साक्षात् पिप्पलस्य द्रुमोऽभवत् ।। ७३ ।।
अक्षयः पिप्पलवृक्षो वर्तते यत्र सा प्रिया ।
मूले संगं समासाद्य नित्यं त्वास्ते सरस्वती ।।७४।।
यत्राऽहं कृष्णरूपेण लक्ष्मि लयं गतः सदा ।
वर्ताम्येव न जानन्ति जना मां नेत्रगोचरम् ।।।७५।।।
पितॄणां सर्वदा मोक्षं तत्र करोमि पिण्डतः ।
लक्ष्मीः सदा च मूले मे त्वास्तेऽपवादमन्तरा ।।।७६ ।।
अथ कालान्तरे चाह नैकसाहस्रयोषिताम् ।
परिणीतानां च पतिर्लयं यास्यामि तत्स्थले ।।७७।।
एवमुक्त्वा सतीं पत्नीं जलरूपां विधाय च ।
द्वितीयं युवतीरूपं सह नीत्वा मम प्रियम् ।।७८।।
नवोढासहितश्चाहं त्वश्वपट्टसरोवरम् ।
ममाऽऽलयं ह्यगमं च वसामि तु तया सह ।।७९।।
तत्र सरस्वती देवी सदाऽऽस्ते चरणे मम ।
लोकानां वचने चापि जयदा हि विराजते ।।1.537.८० ।।
एवमेषा ब्रह्मणस्तु पुत्री सत्यनिवासिनी ।
कुमारी हैमशैलस्था कुरुक्षेत्रे समागता ।।८ १ ।।
भद्रावर्ते पुष्करे च श्रीस्थले सिद्धभूतले ।
पाञ्चालेऽश्वपट्टसरोवरे स्वर्णपुरे तथा ।।८२।
रैवते च प्रभासे च तथा बहुस्थले पुनः ।
कालभेदेन भक्तानामुपासनबलेन च ।।८३ ।।
प्रयागादौ तथा तीर्थोत्तमादौ दैवकार्यतः ।
प्रसंगेन गता सेयं प्रभासे च मम प्रिया ।।८४।।
स्वर्गनिःश्रेणिसंभूता प्राची सरस्वती सती ।
वर्तते जीवकल्याणकरी मम वचःस्थिता ।।८५।।
देवास्ते न मनुष्यास्ते नदी तिस्रः पिबन्ति ये ।
चन्द्रभागां च गंगां च तथा देवीं सरस्वतीम् ।।८६ ।।
यमुनां च गण्डकीं च स्वर्णरेखां च वा नदीम् ।
यथा कामदुघा गावः सर्वकालफलप्रदाः ।।८७।।
चिन्तामणिसमास्तिस्रो नद्यस्ताः कामपूरिकाः ।
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।।८८ ।।
यत्र स्थितानि तीर्थे वै तस्मात् किमधिकं भवेत् ।
नारायणेन सहितो नरो लोके युगान्तरे ।।८९।।
कल्यवताररूपस्य तथा तत्सहयायिनाम् ।
संहर्ता दोषनाशार्थं स्नास्यत्यत्र पुनः पुनः ।। 1.537.९० ।।
प्राची सरस्वती दोषान् हत्याजान् क्षालयत्यपि ।
त्रिरात्रोपोषणं कृत्वा स्नातव्यं दोषशान्तये ।।९१ ।।
सरस्वत्युत्तरे तीरे तनुं त्यक्त्वा प्रयाति वै ।
ब्रह्मलोकं शाश्वतं स ह्यपुनर्भवमारकम् ।।९२।।
श्राद्धकर्तुश्चैकविंशतिकुलोद्धरणं भवेत् ।
यं यं काममभिध्याय प्राणप्रयाणमाप्यते ।।९३ ।।
स तद्भावसमायुक्तो याता भवति मानवः ।
पुरा नाम्नाऽभवद् राजा बृहद्रथ इति श्रुतः ।।९४।।
तस्य भार्याऽभवत्साध्वी नाम्ना त्विन्दुमती सती ।
एकदा तद्गृहं प्राप्तः ऋषिः कण्व इति श्रुतः ।।९५।।
राजा तत्स्वागतं चक्रे पप्रच्छ कुशलादिकम् ।
ततो धर्मकथां चक्रे स ऋषिर्नृपसन्निधौ ।।९६ ।।
इन्दुमती ऋषिं नत्वा पप्रच्छ प्राग्भवं स्वकम् ।
राज्यं सौख्यं च सौभाग्यं देवोपमः पतिर्मम ।।९७।।
सुखं मान्यं च सम्पत्तिः कस्य प्राप्तं फलं मया ।
कण्वः प्राह शृणुः राज्ञि! मा रोषं कुरु मां प्रति ।।९८।।
त्वमासीरन्यदेहे तु ह्याभीरी शीलवर्जिता ।
सौराष्ट्रविषये याता स्नातुं प्रभासके तदा ।।९९।।
त्वया हस्तात् कंकणं च हेम्नस्तत्रार्पितं शुभम् ।
तीर्थे महात्म्यमाज्ञाय ब्राह्मणानां मुखात्ततः ।। 1.537.१ ००।।
तेन पुण्येन दाशार्णनृपतेः कन्यका भुवि ।
बृहद्रथेन वोढाऽसि राज्ञी जाताऽसि चोत्तमा ।। १०१ ।।
इति प्रभासमाहात्म्यं श्रुत्वा सा पुनरेव च ।
तीर्थं कृत्वा समुद्रे च कंकणं प्राक्षिपत् पुनः ।। १ ०२।।
ततो देवी स्वर्गवासा कल्पायुष्काऽभवच्छुभा ।
इत्येवं लक्ष्मि! माहात्म्यं प्रभासाब्धिजलस्य वै ।। १ ०३।।
भुक्तिमुक्तिप्रदं कृष्णनारायणेन योजितम् ।
शंकरः पार्वती सर्वाः कथाः प्राह पुनः पुनः ।। १ ०४।।
पार्वती कंकणं तत्र ददौ चाब्धौ तु कानकम् ।
शंकरोऽभूत् प्रसन्नश्च देव्योऽपि तानि संददुः ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वह्नितीर्थं समुद्रपावित्र्यं, दधीचप्लक्षकवडवानलसरस्वतीवृत्तान्तम्, पञ्चस्रोतोमयीसरस्वती, पिप्पलद्रुमकूष्माण्डतीर्थं, समुद्रे कंकणदानेनाऽऽभीर्या राज्ञीत्वं, दानमहिमा, चेत्यादिनिरूपणनामा सप्तत्रिंशदधिकपञ्चशततमोऽध्यायः ।।।५३७।।।