लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५१४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५१३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५१४
[[लेखकः :|]]
अध्यायः ५१५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! मर्त्यलोके सर्वपातकनाशनम् ।
क्षेत्रत्रयं तथाऽरण्यत्रयं पुरीत्रयं तथा ।। १ ।।
वनत्रयं तथा ग्रामत्रयं तीर्थत्रयं परम् ।
शैलत्रयं तथा नदीत्रयं सर्वफलप्रदम् ।। २ ।।
कुरुक्षेत्रं हाटकेशक्षेत्रं प्रभासक्षेत्रकम् ।
यथोक्तविधिना कृत्वा जनः पापात् प्रमुच्यते ।। ३ ।।
प्रथमं पुष्करारण्यं नैमिषारण्यमित्यपि ।
धर्मारण्यं तृतीयं च सर्वेष्टफलदायकम् ।। ४ ।।
वाराणसीपुरी त्वेका द्वितीया द्वारकापुरी ।
तृतीयाऽवन्तिकापूश्च यथेष्टफलदायिनी ।। ५ ।।
वृन्दावनं द्वैतवनं तथा च खाण्डवं वनम् ।
स्नानाद्वासात् स्वर्गमोक्षप्रदं पापविनाशकम् ।। ६ ।।
कालग्रामः शालग्रामो नन्दिग्रामस्तृतीयकः ।
इन्द्रियग्रामतृष्णानां ध्वंसको मोक्षदस्तथा ।। ७ ।।
अग्नीतीर्थं शुक्लतीर्थं पितृतीर्थं तृतीयकम् ।
तत्र स्नानाद् भुक्तिमुक्ती लभते मानवो ध्रुवम् ।। ८ ।।
श्रीपर्वतश्चाऽर्बुदाद्रिः रैवताचल इत्यपि ।
यात्राकर्ता स्वर्गभोक्ता पश्चान्मुक्तिप्रगो भवेत् ।। ९ ।।
गंगानदी नर्मदाख्यानदी सरस्वतीनदी ।
स्नानाद् भुक्तिस्तथा मुक्तिस्तथेष्टं सर्वदा ददेत् ।। 1.514.१ ०।।
ज्ञानवापी च कुंकुमवापी रोहणवापिका ।
जलपानाद् भवेन्मुक्तिर्वापीत्रयं हि पावनम् ।।१ १ ।।
नारायणसर इन्द्रसरो मानसकं सरः ।
सरस्त्रयं भुक्तिमुक्तिप्रदं स्नानाद्भवत्यपि ।। १ २।।
पार्वती च प्रभा लक्ष्मीर्माणिकी च जया रमा ।
राधा पद्माऽष्टनामानि तारयेद् भवसागरात् ।। १ ३।।
वस्त्रापथश्चोत्तरपथो दक्षिणापथ इत्यमी ।
मुक्तिदास्त्रय एवाऽत्र यात्रया नात्र संशयः ।। १४।।
ब्रह्महत्यादिकं पापं जात्यन्तरादिभोजनम् ।
चाण्डालगृहवासित्वं सुरामांसाशनाद्किम् ।। १६।।
नागनद्यां कृतस्नानात् सर्वं शुद्ध्यति सर्वथा ।
नागलीलानामतो वै श्रीकृष्णस्य तु दासिका ।। १६।।
राधिकाकबरीग्रन्थिं नर्मणा कृष्णसन्निधौ ।
निर्बन्धनां विकीर्णां च चकार स्वकरेण वै ।। १७।।
पुनः केशान् वलयित्वा धम्मिलं राधिकाऽकरोत् ।
नागलीला पुनर्ग्रन्थिं विकीर्णां चाऽकरोद् धिया ।। १८।।
गोलोके च मुहुर्ग्रन्थिर्मुहुर्वियोजनं तयोः ।
नर्मणाऽन्योन्यसाहचर्याज्जातं तेन तु राधिका ।। १ ९।।
क्रुद्धा प्रोवाच गच्छ त्वं नागलीले भुवस्तलम् ।
आभीरस्य गृहे याहि त्वाभीरेण धृता भव ।।1.514.२० ।।
इत्युक्त्वा सा सखी राधां तुष्टाव शापमोचने ।
राधा प्राह यदा त्वाभीरेण धृता भविष्यसि ।।२१ ।।
तदा जलस्वरूपेण पावनी विचरिष्यसि ।
अग्राह्या त्वं विना कृष्णं भविष्यसि न संशयः ।।२२।।
कृष्णनारायणः स्वामी यदा तत्राऽऽगमिष्यति ।
तदा त्वं कन्यका भूत्वा गोलोकं त्वागमिष्यसि ।।२३ ।।
तावन्मुक्तिप्रदा पापक्षालिनी शुद्धिदा सदा ।
श्वपचादिजातिभ्रष्टमानवानां च पावनी ।। २४।।
स्नानमात्रेण तु शुद्धिप्रदा त्वं वै भविष्यसि ।
इत्युक्ता राधया नत्वा ययौ सा भूतलं तदा ।।२५।।
आनर्तीयाऽऽभीरवर्यगृहे जाता हि कन्यका ।
श्यामसुरः पिता तस्या नागलीलेतिनामतः ।।२६।।
जातिस्मरा त्वाजुहाव माता च राणिका तथा ।
मुमोद कन्यकां लब्ध्वोज्ज्वला दिव्यस्वरूपिणीम् ।।२७।।
सरस्तीरे गवां शकृद्गृह्णाना तु दिवा सदा ।
गोमण्डले भ्रमत्येव तां दृष्ट्वाऽऽभीरबालकः ।।२८।।।
युवा तां धर्षयामास युवतीं रूपशालिनीम् ।
सा स्मृत्वा राधिकाशापं जलरूपा बभूव ह ।।२९।।
नागनदी तु सा जाता कृष्णस्यैव प्रिया सखी ।
यस्यां स्नानेन चाण्डालगृहिणी ब्राह्मणी भवेत् ।। 1.514.३ ०।।
शृणु लक्ष्मि वर्धमानपुरे त्वन्त्यजजातिजः ।
चण्डालः कुंभको नाम तस्याऽभूत्त्वात्मजः सुतः ।।३ १ ।।
घूककर्ण इतिख्यातः सुरूपस्तीर्थयात्रया ।
चमत्कारपुरं प्राप्तो द्विजरूपं समाश्रितः ।।३२।।
स स्नाति सर्वतीर्थेषु भिक्षान्नकृतभोजनः ।
द्विजवद्वर्तते नित्यं सहवासाद्द्विजक्रियः ।।३३ ।।
चमत्कारपुरे तत्र सुभद्रब्राह्मणस्य वै ।
सन्ताने कन्यका त्वेका द्विगुणैश्च रदैर्युता ।।३४।।
आसीत् त्रिस्तनयुक्ता च महोदरी भयंकरा ।
यस्याः पतिर्भवेच्चेद् यः षण्मासे निधनं व्रजेत्। ।।३५।।
नाऽतो जग्राह तां कश्चिदष्टादशाऽधिवत्सराम् ।
तावत् तस्या गृहे भिक्षां कर्तुं सोऽन्त्यजजातिकः ।।।३६ ।।
घूककर्णः समायातस्तं दृष्ट्वा सा मुमोह च ।
तस्याः पिता सुरूपं च द्विजवेषं विलोक्य च ।।३७।।
पप्रच्छ गोत्रजात्यादि कुलं नामादिकं ततः ।
घूककर्णो द्विजं प्राह स्थानं मे गोडदेशके ।। ३८।।
ग्रामे भोजकटे मेऽस्ति पिता माधवभूसुरः ।
वसिष्ठगोत्री तस्याऽहं चन्द्रप्रभाऽभिधः सुतः ।।३९।।।
अष्टमे वत्सरे मे तु पिता वै निधनं गतः ।
वाराणस्यामधीत्यैव किञ्चिन्मात्रं शुभक्रियम् ।।1.514.४०।।
तीर्थानि भ्रममाणोऽत्राऽऽयातो यास्यामि गोमतीम् ।
प्रभासं च ततः शुक्लं तीर्थ ततः पुनर्गृहम् ।।४१ ।।
इति श्रुत्वा तथा पुत्र्या वृत्तिं ज्ञात्वा सुतापिता ।
प्राह चेन्मे सुतां त्वत्र गृह्णासि ते ददाम्यहम् ।।४१।।
तथेत्युक्त्वा स जग्राह चाण्डालो विधिना ततः ।
विवाहोत्तरकाले स विलासानकरोद् बहून् ।।।०ऽ३।।
खाद्यैः पानैः सुवस्त्रैश्च द्विजयोग्यैः समुत्सवैः ।
परं स व्रजति प्रायो येन मार्गेण केनचित् ।।४४।।
सारमेया भषन्त्येनं पृष्ठतोऽनुव्रजन्ति च ।
विप्रयोगे वेदवाक्यं यदि चोच्चरति क्वचित् ।।४५।।
रक्तं पतति वक्त्राच्च तत्क्षणात् तस्य दुर्मतेः ।
स्वप्ने च जल्पनां चक्रे मलनिष्कासनक्रियाम् ।।४६ ।।
एवं चिह्नैरयं किश्चिच्चाण्डालेति विशंकितः ।
जनैः शंकाविनाशाय दैवी शुद्धिरपेक्षिता ।।४७।।
तप्तायसं करे धृत्वा शुद्धिशंका निवर्तते ।
तथा कार्यं त्वया प्रातर्न चेद् दग्धोऽसि वै द्विजः ।।४८।।
दग्धश्चेदन्यजातीय इति वै निश्चयो भवेत् ।
अथ रात्रौ निजां भार्यां प्रोवाचाऽहं न वै द्विजः ।।४९।।
अस्मि त्वन्त्यजजातीयो ज्ञातश्च शंकितो जनैः ।
देशान्तरं गमिष्यामि त्वमागच्छ मया सह ।।1.514.५०।।
पत्नी प्राह मम भाग्ये दुष्टं वह्न्यर्थमेव ह ।
पापसन्दूषितं सर्वं कुटुम्बं मम वर्ष्म च ।।५१ ।।
गच्छ रात्रौ बहिर्नो चेत् संप्राप्स्यसि महापदम् ।
इत्युक्तः स ययौ देशान्तरं रात्रौ भयात् खलु ।।५२।।
प्रभाते दुहिता बाष्पनेत्रा प्रोवाच मातरम् ।
मातः पूर्वं मम पापं दत्ताऽहमन्त्यजस्य यत् ।।५३।।
स प्रयातो मध्यरात्रौ समावेद्य निजं कुलम् ।
ममाऽग्निस्नानमेवाऽस्ति शुद्धिर्नान्या भुवस्तले ।।५४।।
पिता ज्ञात्वा शुशोचाति त्वन्येऽपि शोकमाव्रजन् ।
विप्राः सर्वे मिलित्वा च प्रायश्चित्तं प्रशोधकम् ।।५५ ।।
कन्यायाश्च तदा प्राहुर्वह्निप्रवेशनं ततः ।
अन्येषां तस्य संसर्गे गतानां तु व्रतानि वै ।।५६ ।।
अथ काष्ठानि चादाय वह्निं दत्वा तु कन्यका ।
नत्वा पितॄन् सुरान् स्मृत्वा समारोहति यावता ।।५७।।
'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ।
जपमेवं प्रकुर्वाणा ददौ पादं हुताशने ।।५८।।
तावद्वह्निः शीतलश्च नाऽदह्यत् तां दयावशः ।
नाऽस्या दोषोऽस्ति तस्मात् सा राजस्वल्येन शुद्ध्यति ।।५९।।
अथ तावत् समायातः कृष्णनारायणः प्रभुः ।
साधुवेषो वैष्णवश्च धर्मशास्त्रादिपण्डितः ।।1.514.६ ०।।
त्रिकालज्ञः स्वयं लक्ष्मीपतिः श्रीपुरुषोत्तमः ।
प्राह किं जायते चेयं कथं दह्यति चानले ।।६१ ।।
लोका निवेदयामासुर्वृत्तान्तं संगजं ततः ।
प्राह तान् श्रीकृष्णनारायणः स्वामी दयापरः ।।६२।।
मया पूर्वं श्रुतं स्वर्गे चमत्कारपुरे नदी ।
नागलीलाऽभिधा कृष्णपत्नी गोलोकधामतः ।।६ ३ ।।
पावनार्थं श्वपचादिसंगमाद्यघकारिणाम् ।
वर्तते तज्जले स्नात्वा शुद्ध्यन्ति श्वपचादयः ।।६४।।
तस्माद् गच्छत तत्रैव स्नानं कुरुत सर्वथा ।
वह्निः श्रुत्वा तथेत्याह ततः सर्वे ययुर्नदीम् ।।६५ ।।
कन्यैका श्रीकृष्णनारायणं दृष्ट्वाऽभिसंययौ ।
नत्वा त्वं स्वामिनं प्राह गृहीत्वा तत्करं मुदा ।।६६।।
तीर्थं त्वन्त्यजपापघ्नं नातिदूरेऽस्ति वै ह्रदः ।
समायात च कुरुत स्नानं तत्र द्विजेश्वराः ।।६७।।
तयोक्तास्ते तया साकं गत्वा सस्नुश्च साम्बराः ।
विप्रकन्या यदा स्नाता तदा तस्याः शरीरतः ।।६८।।
श्वपची कृष्णवर्णा तु निर्गता स्नानमात्रतः ।
अन्येषामपि देहेभ्यः काका घूकाः पीपिलिकाः ।।६९।।
कृष्णवर्णा निर्गताश्च ययुर्देशं तु पश्चिमम् ।
सहस्रयोजनात्पारं अब्रिक्ते भूतले तदा ।।1.514.७०।।
एते विप्रा पावनाश्च ब्राह्मणी शुद्धतां गता ।
एवं सर्वे समायाता नगरं स्वस्वकाश्रमम् ।।७१ ।।
कन्यका ब्राह्मणी पश्चाद् ब्रह्मचर्यपरायणा ।
ह्यवर्तत सती साध्वी कृष्णस्वामिपतिव्रता ।।७२।।
नागवतीं सदा याति स्नानार्थं तु तदा नदी ।
नित्यं वै कन्यका भूत्वा ब्राह्मण्या सह मन्दिरे ।।७३।।
कृष्णनारायणस्वामिदर्शनार्थं प्रयाति च ।
प्राप्ते तु ब्राह्मणपुत्र्या आयुषस्तु क्षये हरिः ।।७४।।
नदीं च तां ब्राह्मणीं च दिव्यरूपां विधाय च ।
गोलोकं श्रीकृष्णनारायणो निनाय ते ह्युभे ।।७५।।
दिव्यरत्नसुनद्धेन कोटिसूर्यप्रभावता ।
विमानेन पतिं कृष्णं प्राप्य ते ययतुर्मुदा ।।७६।।
गोलोकं धाम नित्यं यद् राधारमादिशोभितम् ।
अथ ब्रह्मापि कुलटाशापादत्र सुतीर्थके ।।७७।।
पुरा वै कुलटाशापात् प्रमुक्तः संबभूव ह ।
इत्येवं कथितं लक्ष्मि! पावनं तीर्थमुत्तमम् ।।७८।।
यत्र स्नानेन वै शुद्धिः सर्वा निर्वाहमेति हि ।
पठनाच्छ्रवणाच्चास्य सदा शुद्ध्यति मानवः ।।७९।।
मन्त्रं प्राप्य गुरुं नत्वा नागवत्यां समाहितः ।
स्नायाद् यः स भवेच्छुद्धः कृष्णवन्नात्र संशयः ।।1.514.८०।।
इति श्रीलक्ष्मीनाराणीयसंहितायां प्रथमे कृतयुगसन्ताने गोलोके राधिकायाः शापाद् नागलीलासख्या नागवतीनदीत्वं, यस्यां स्नानेन घूककर्णचाण्डालेन विवाहिताया ब्राह्मणकन्यया ब्राह्मणानां च शुद्धिर्जाता, ततो ब्राह्मणकन्या नागवतीनदी च दिव्यकन्यके भूत्वा श्रीकृष्णनारायणेन सह गोलोकं
ययतुरित्यादिनिरूपणनामा चतुर्दशाधिकपञ्चशततमोऽध्यायः ।।५१४।।।