लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५१५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५१४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५१५
[[लेखकः :|]]
अध्यायः ५१६ →

श्रीलक्ष्मीरुवाच-
कदा ब्रह्मा कुलटया शप्तः किमर्थमेव च ।
नागनद्यां ततः स्नात्वा येन शुद्धो हि विश्वसृट् ।। १ ।।
नारायणहरे कृष्ण मे वदात्र कथां तु ताम् ।
कृष्णनारायणः श्रुत्वा लक्ष्म्यै संप्राह तां कथाम् ।। २ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! पुरा ब्रह्मा जनयामास कन्यकाम् ।
मोहिनीं मानसीं तां चाप्सरसं कृतवान् स्वयम् ।। ३ ।।
सर्वसाधारणी सा तु देवपत्नी ततोऽभवत् ।
अथ सा त्वेकदा दृष्ट्वा ब्रह्माणं समुमोह वै ।। ४ ।।
विस्मृत्य पितरं चेति कामसंकल्पमाचरत् ।
मन्वन्तरे रैवतस्य सुचन्द्रो वैष्णवो नृपः ।। ५ ।।
तपसे मलयद्रोणीं ययौ वर्षसहस्रकम् ।
वल्मीकाच्छादितं देहं दृष्ट्वा धाता समाययौ ।। ६ ।।
वरं वृणु प्रतुष्टोऽस्मीत्युवाच तं जगत्पिता ।
वव्रे स श्रीकृष्णनारायणभक्तिं च दासताम् ।। ७ ।।
ब्रह्मा कमण्डलोर्वारि चिक्षेप च सिषेच वै ।
राजा सम्यच्छरीरः सन् ननाम तु पुनः पुनः ।। ८ ।।
तथास्त्विति वरं ब्रह्मा ददौ तदा रथोत्तमम् ।
गोलोकादागतं दिव्यं समारुरोह भूपतिः ।। ९ ।।
पार्षदः स दिव्यरूपो भूत्वा कृष्णपदं ययौ ।
ब्रह्मा यान्तं सत्यलोकं ददर्श मोहिनीं पथि ।। 1.515.१ ०।।
तदा मुमोह सद्यः सा निर्जने रन्तुमेव च ।
विलोक्य वक्रनयना जुगोप सस्मितं मुखम् ।। ११ ।।
पुलकाञ्चितसर्वांगी कामवेगेन पीडिता ।
निषसाद शनैर्भूमौ पुरतो ब्रह्मणः पदे ।। १ २।।
ब्रह्मा निरीक्ष्य तां पुत्रीं विकारं नहि चाप सः ।
ब्रह्मलोकं ययौ तां च समाश्वास्य पिता यथा ।। १३ ।।
सकामा सा तदा जाता निराशा हतचेतना ।
दिवानिशं सचिन्ता सा स्वप्ने ज्ञाने चतुर्मुखम् ।। १४।।
आसीना संस्थिता यद्वा शयनं कुर्वती क्षणम् ।
तप्तपात्रे यथा सस्यं भ्रमत्येव तथा पथि ।। १५।।
कामं सहायमासाद्य तेन सार्धं हि मोहिनी ।
ब्रह्मलोकं ययौ चाजं निर्जने सा ददर्श तम् ।। १६।।
तमेव मोहितं कर्तुं समारेभे पुरः स्थिता ।
क्षणं ननर्त सुचिरं सुगानेन क्षणं जगौ ।। १७।।
विधाता सुस्वरं श्रुत्वा मुमोह साश्रुलोचनः ।
दृष्ट्वा मुग्धं कलाः सर्वा दर्शयामास नर्तने ।। १८।।
दत्वा तथापि वै पारितोषिकं विरतो ययौ ।
हतोद्यमा तु सा प्राह कामं देव नमोऽस्तु ते ।। १ ९।।
निक्षिप त्वं स्वकान् बाणान् कामदेव विधौ ततः ।
अन्तरीक्षे स्थितः कामो महास्त्रं प्रेरयन्मुदा ।।1.515.२०।।
बभूव चञ्चलो ब्रह्मा चक्रे निरीक्षणं मुहुः ।
मोहिन्याश्च समागत्य प्राह विचार्य मोहिनीम् ।।२१ ।।
चञ्चलाऽसि मोहिनि त्वं नाऽहं योग्योऽस्य कर्मणः ।
गच्छ पुत्रि ममाऽग्राह्या त्वन्यत्र विहरस्व यत् ।।२२।।
विश्वसेत् कुलटां यश्च विपत् तस्य पदे पदे ।
अये वत्से गच्छ दूरं विहाय पितरं हि माम् ।।२३।।
तव योग्यं परं देवं युवानं पश्य मोहिनी ।
मोहिनी प्राह धातारं मे मनो न स्थिरं यतः ।।२४।।
भूतं त्वयि विशेषेण चञ्चलं वीक्षिते मया ।
अहो गन्तुमशक्ताऽहं त्वया यद्यपि भर्त्सिता ।।२५।।
कृपां कुरु कृपासिन्धो न मां हन्तुं त्वमर्हसि ।
सन्तो गर्वं न कुर्वन्ति परोपकृतिशालिनः ।।२६।।
काचित् सती पतिं प्राप्य पातिव्रत्यपरायणा ।
काचित्तु कर्मणा भुंक्ते नरं कृत्वाऽङ्गविक्रयम् ।।२७।।
मम धर्मस्तथा ब्रह्मन्मनोऽभिलषितं नरम् ।
भुक्त्वा तृप्तिर्भवेत् तद्वत् कर्तव्यं नरसेवनम् ।।२८।।
तेन तृप्तिः कर्मणां च खण्डनं धर्म एव नः ।
तत् त्वां कर्माऽन्यथाकर्तुं समर्थं चाहमागता ।।२९।।
महतां सेवया शश्वद् यशसा भान्ति योषितः ।
गृही तपस्वी कामी वा त्यजेत् स्त्रियमुपस्थिताम् ।। 1.515.३०।।
निःश्वासहतपुण्यः सः शापपात्रं भवेदिह ।
नष्टश्रीर्भ्रष्टरूपश्च भ्रष्टबुद्धिर्भवेत्तथा ।।३ १ ।।
सद्यः स क्लीबतां याति ब्रह्मन् शापेन योषितः ।
विधुरश्च सदा शापबलेन जायतेऽसुखः ।।३२।।
उत्तिष्ठ तज्जगन्नाथ पारं कुरु स्मरार्णवे ।
सततं त्वन्मनस्कां मां दासीं क्रीणीहि सादरम् ।।३३।।
इत्युक्त्वा वेधसो वस्त्रं विचकर्ष हि मोहिनी ।
ब्रह्मा धैर्यं समालम्ब्य सारमाह सुतां प्रति ।।३४।।
त्यज मामम्बिके वृद्धं निष्कामं पश्य चापरम् ।
त्वया सह निबन्धो मे कामलेखो न विद्यते ।।३५।।
पूर्वकर्मकृता रेखा पतिं ददाति योषिते ।
मुञ्च वस्त्रं मम पुत्रि धैर्यमालम्बय क्षणम् ।।३६।।
एतस्मिन्नन्तरे विघ्नरूपा आजग्मुरीश्वराः ।
अत्रिः पुलस्त्यः पुलहो वसिष्ठः क्रतुरंगिराः ।।३७।।
भृगुर्मरीचिः कपिलो वोढुः पञ्चशिखो रुचिः ।
आसुरिश्च प्रचेताश्च पत्नीव्रतो बृहस्पतिः ।।३८।।
शुक्र ' उतथ्यः करकः कण्वो गौतमकश्यपौ ।
सनकश्च सनन्दश्च कर्दमश्च सनातनः ।। ३९।।
सनत्कुमारः पिप्पलः शंकु शुक्रः पराशरः ।
शातातपो लोमशश्च मार्कण्डेयो विभाण्डकः ।। 1.515.४०।।
मृकण्डुश्चवनो जरत्कारुरास्तिककौशिकौ ।
भारद्वाजः ऋष्यशृंगो भरद्वाजश्च नारदः ।।४१ ।।
वामदेवश्च दुर्वासाः स्वयंप्रकाश इत्यमी ।
तत्याज मोहिनी दृष्ट्वा व्रीडया वेधसं तदा ।।४२।।
ब्रह्मा चासनमारूढो मोहिनी पार्श्वतः स्थिता ।
प्रणेमुर्मुनयस्तं च ब्रह्मा ददौ शुभाशिषम् ।।४३।।
पप्रच्छुर्मुनयो देवं कथमेषा तवाऽन्तिके ।
ब्रह्मा प्राह चिरं नृत्यं गीतं चापूर्वमित्यपि ।।४४।।
दर्शयितुं त्वागतेयं कृत्वा श्रान्ता स्थिता यतः ।
मुनयो जहसुस्तत्र कुलटां प्रति सर्वथा ।।४५।।
सद्यश्चुकोप तूत्थाय साऽऽह विश्वसृजं तदा ।
एते त्वनिग्रहाः सर्वे वृद्धा हसन्ति मां विधे ।।४६ ।।
तेऽपि हास्यं प्रयास्यन्ति लोकानां स्वस्वकर्मभिः ।
त्वं च मां भजमानां वै यतो गृह्णासि नैव च ।।४७।।
नैतान् वारयसि ब्रह्मन् हास्यपात्रं ततो भव ।
अपूज्यो भव सर्वत्र नारीणां मानवर्जितः ।।४८।।
तव पत्नी तव कार्ये भर्त्सना वै करिष्यति ।
कृत्वाऽजं पूजनहीनं ययौ स्वर्गं तु मोहिनी ।।४९।।
क्षणं ब्रह्मा च मुनयः शुशुचुः शापमोक्षणम् ।
ब्रह्मा विचार्य च ततश्चमत्कारपुरान्तिके ।।1.515.५०।।
नागवत्यां समायातः शुद्ध्यर्थं शापहानये ।
'ओ नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।।५१ ।।
जपन् मन्त्रं कृष्णदत्तं सस्नौ तीर्थेऽघनाशने ।
जहौ देहं तु तं ब्रह्मा शप्तं नागनदीतटे ।।५२।।
तस्मात् सहस्रशस्तत्र चोत्पन्ना वृन्दलास्ततः ।
नगरं तत्र संश्रित्य स्थिता ब्रह्मा दिवं ययौ ।।५३।।
दिव्यरूपधरश्चैव शापः पूर्वतनुस्थितः ।
वृन्दलास्ते सदा लोके ह्यपूज्यास्त्वभवँस्ततः ।।५४।।
नारीभिर्भर्त्सिताः शश्वन्नारीरूपविडम्बकाः ।
मोहका मोहिनीतुल्या रतिहीना अवीर्यकाः ।।५५।।
न नरा न च नार्यस्ते योनिलिंगविवर्जिताः ।
स्वल्पमूत्रछिद्रमात्रयुतास्ते तु ततः परम् ।।५६।।
ब्रह्माणं च समुद्दिश्य चक्रुर्वै तर्पणं जले ।
ब्रह्मा तत्र समायातश्चक्रुस्ते प्रार्थनां विधेः ।।५७।।
नपुंसकत्वनाशाय ब्रह्मा प्राह च ताँस्तदा ।
तपः कुरुत सततं समुद्दिश्य तु मोहिनीम् ।।।५८।।
सा निस्तार हि भवतां करिष्यति हितावहा ।
ततस्ते वै तटे नद्यास्तपश्चक्रुर्निरन्तरम् ।।५९।।
मोहिनीं ते नमो मातर्वृन्दलत्वनिवारिणीम् ।
स्वाहा कामप्रिये तुभ्यमुद्धारं कुरु नस्त्विह ।।1.515.६ ०।।
इति सम्प्रार्थयन्तस्ते वृन्दलानां गणास्तदा ।
ददृशुर्नागनद्यास्तु तटे सौभाग्यसुन्दरीम् ।।६ १ ।।
बहुचरास्वरूपां तां रक्तकञ्चुकिकान्विताम् ।
रक्तशाटिकया युक्तां वह्निवर्णां सभूषणाम् ।।६२।।
पुष्टां पुष्टस्तनीं पुष्टजघनां तनुमध्यमाम् ।
सुरूपां पद्मपत्राक्षीं केशधम्मिलशोभिताम् ।।६३।।
कबरीसृतिसम्पन्नां भालपत्रान्वितां सतीम् ।
वलयेन करयोश्च कंकणैरूर्मिकादिभिः ।।६४।।
शोभितां रशनायुक्तां मञ्जीरवरशोभिताम् ।
कर्णनासाभुजाकण्ठभालभूषणभूषिताम् ।।६५।।
अंकुरितस्तनां पृथुश्रोणीं वृत्तकपोलकाम् ।
कुन्दोत्तमकलीदन्तां रक्तबिम्बाधरां शुभाम् ।।६६।।
शरच्चन्द्राननां मिष्टस्वरां स्मेराननान्विताम् ।
पुष्टां प्रेमभरां कन्यां भक्तानुग्रहकातराम् ।।६७।।
कामधर्मविहीनां च राजस्वल्यविवर्जिताम् ।
कामरूपधरां व्योम्नि दृष्ट्वा सर्वे नपुंसकाः ।।६८।।
तस्यास्तु तेजसा छन्ननेत्राः क्षणं तदाऽभवन् ।
सा त्वाजगाम पृथिवीतलं नागवतीतटे ।।६९।।
सर्वैः संवन्दिता चापि पूजिता तोषिताऽर्थिता ।
मर्दिता च तथा सर्वांगेषु संवाहिता सती ।।1.515.७०।।
उवाच तान् प्रसन्नाऽस्मि वरैर्युष्मान् मदाश्रितान् ।
योजयामि वृणुध्वं वै यथेष्टं मा चिरं तदा ।।७१ ।।
वृन्दला हि तदा प्राहुरुद्धाराय कृपां कुरु ।
षण्ढत्वस्य विनाशाय तुष्टुवुस्ते मुहुर्मुहुः ।।७२।।
तदा देवी तु तान्प्राह मोहिन्यहं पुराभवा ।
प्रकृतेश्च तिरस्काराद् यूयं ब्रह्मतनूद्भवाः ।।७३।।
षण्ढा सर्वे हि सञ्जाता नारीभर्त्सनपापतः ।
नारीणां कामशान्त्यर्थं नराः कृष्णेन निर्मिताः ।।७४।।
नारीणां मासिके धर्मे कामनलो विवर्धते ।
तच्छान्तिं त्विच्छति भार्या पतिना सार्धमेव तु ।।७५।।
यस्या नास्ति पतिः सा तु स्वेष्टं गच्छन्ति शान्तये ।
शान्तिकर्म तु नारीणां धर्मः शान्तिप्रदो नृणाम् ।।७६।।
भजमानां भजन्ते ये ते त्वाशीर्वादभूमयः ।
आगतां कामसन्तप्तां तिरस्कुर्वन्ति ये नराः ।।७७।।
आत्महनश्च ते बोध्याः सेविकाघातकाश्च ते ।
तेन पापेन षण्ढत्वं प्रयान्ति प्रतिजन्मनि ।।७८।।
कामक्रियास्थयोर्विघ्नकर्तारोऽपि नपुंसकाः ।
कामानन्दहनः सर्वे षण्ढा भवन्ति शापतः ।।७९।।
प्रसह्य भोगकर्तारश्चापि दण्डा भवन्ति वै ।
पतिशून्या तु या नारी कामतप्ता भवेद् यदि ।।1.515.८०।।
अगृह्णन्नपराधी स्यात् फलं षण्ढत्वमेव यत् ।
तस्मान्नरैः सदा नार्यः पूज्याः सेव्यास्तदिच्छया ।।८१ ।।
भवन्तः षण्ढतानिवृत्त्यर्थं भवन्तु दीक्षिताः ।
श्मश्रूहीना नारीवस्त्रधरा नारीविभूषणाः ।।८२।।
मम भक्ता मम पूजाकर्तारो मम जापकाः ।
मम वंशधरा मुक्ताः षण्ढतातो भविष्यथ ।।८३।।
बहुचरेत्यभिधाय ददौ मन्त्रं निजं तु सा ।
'ओं नमो बहुचरायै मोहिन्यै कामयोषिते ।।८४।।
षंढत्वं हर मातस्त्वं श्रेयः कुरु परं मम' ।
इतिमन्त्रं नागनद्यां स्नापयित्वा ददौ शुभम् ।।८५।।
 'ओं श्रीं ह्रीं क्लीं कामदात्र्यै स्वाहा' दशाऽक्षरम् ।
मन्त्रं ददौ द्वितीयं च कामनासिद्धिहेतवे ।।८६।।
यस्यासीच्चणकामात्रं योनिच्छिद्रं तु तत्स्थले ।
देवी सा चित्रयामास योनिं पूर्णां तु दीक्षणे ।।८७।।
यस्मासीच्च लवंगाभं लिंगचिह्नं तु तत्स्थले ।
पूर्णं लिंगं साण्डयुग्मं चित्रयामास रेखया ।।८८।।
हिंगुलारसदानेन पूर्णकामत्वलब्धये ।
जन्मान्तरे भवेन्नारी नरो वा तद्विरेखितः ।।८९।।
शाटिकां कञ्चुकीं श्रेष्ठां घर्घरीं दोरकं तथा ।
दन्तिकां सिन्दूरचूर्णं हिंगुलं मन्त्रमित्यपि ।।1.515.९०।।
जलं च मन्त्रितं स्निग्धं चुम्बनं च ददौ तदा ।
सर्वान्नपुंसकान् देवी पस्पर्श स्तनयोस्तदा ।।९ १।।
ग्ण्डयोर्भालयोः कपोलयोः केशेषु नेत्रयोः ।
पृष्ठे नितम्बयोश्चाग्रे जघनयोस्तथोदरे ।।९२।।
नाभ्यां सक्थ्नोः पादयोश्च सिषेच मस्तके च तान् ।
षण्ढत्वपापनाशोवाभवत्विति जगाद तान् ।।९३ ।।
एवं दीक्षां गृहीत्वा ते पुपूजुर्देविकां तदा ।
सा च पूजां समगृह्य ययौ वै चोत्तरां दिशम् ।।९४।।
एवं षण्ढत्वनिवृत्तिं कर्तुं दीक्षां ददौ सती ।
बहुचरा हिंगुलाजा भुवि तिष्ठति शाश्वती ।।९५ ।।
ब्रह्मा तां भजमानां च यतो जग्राह नैव तु ।
कारणं तत्र ते वच्मि शृणु लक्ष्मि पुराभवम् ।।९६ ।।
ब्रह्मा स्वकमले तप्त्वा श्रुत्वा व्योमगिरां पुरा ।
सृष्टिं सर्वां समारेभे सस्मार श्रीहरिं पुनः ।।९७।।
नारायणं ददर्शाग्रे ययाचे वरदानकम् ।
तव माया यथा मे न बाधेत स्त्रीस्वरूपिणी ।।९८।।
तथा चाशीर्वचो देहि ततः सृष्टिं करोमि वै ।
नारायणस्तथाऽस्त्वित्येवाऽऽह तत्र हि वेधसम् ।।९९।।
सृष्टिं चतुर्युगानां च योग्यां नारीनरात्मिकाम् ।
काले यथा यथा योग्यां रचय त्वं तथा तथा ।। 1.515.१० ०।।
कामं क्रोधं तथा लोभं मोहं च कपटं क्वचित् ।
गृह्णन्तं त्वां च निर्लेपं रक्षयिष्ये सृजिं कुरु ।। १० १।।
धर्मभानं सदा तेऽस्तु सदा ते रागहीनता ।
मम स्मृतिः सदा चाऽस्तु सदा जीवन्प्रमुक्तता ।। १ ०२।।
धर्माधर्मौ तवेच्छैव तव देहोद्भवौ सदा ।
कर्मणां फलदाता च भव त्वं मम वाञ्छया ।। १ ०३।।
अकर्ता क्रियमाणेऽपि ह्यभोक्ता भोगसागरे ।
निर्लेपो लेपवाँश्चापि सदा भवसि पद्मज ।। १ ०४।।
इतिहेतोर्हरेरनुग्रहाद् ब्रह्मा प्रजापतिः ।
इच्छया नैव जग्राह मोहिनीं मोहवर्जितः ।। १ ०५।।
भक्ता भगवतो नैव गृह्णन्ति विषयान् क्वचित् ।
हरेर्भक्तिं विहायैव पावनीं बन्धनाशिनीम् ।। १ ०६।।
इति ते कथितं लक्ष्मि! मोहिनीकृतमुल्बणम् ।
शापस्य कारणं मुक्तिः षण्ढत्वं दीक्षणं तथा ।। १ ०७।।
य इदं शृणुयाद् भक्त्या पठेद्वा तस्य दूषणम् ।
कामभावकृतं सर्वं नश्यत्येव न संशयः ।। १ ०८।।
नागवत्यां प्रतापोऽयं नागलीलासखीकृतः ।
पापानां नाशकः सर्वजीवानां तारकस्तथा ।। १ ०९।।
यस्याः ससेवनात् पानात् स्नानात्तथाभिषेचनात् ।
भुक्तिर्मुक्तिर्भवेत् पूर्णं पुरुषार्थचतुष्टयम् ।। 1.515.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्ताने मोहिन्यप्सरो ब्रह्माणं वीक्ष्य मोहिता, ब्रह्मणा तु न गृहीता, ततः तं शशाप, ब्रह्मा नागवतीनद्यां शुद्धः, त्यक्तदेहान्नपुंसकानामुत्पत्तिः, बहुचराहिंगुलाजादीक्षया नपुंसकानां मोक्षश्चेत्यादिनिरूपणनामा पञ्चदशाधिकपञ्चशततमोऽध्यायः ।। ५१५ ।।