लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५१३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५१२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५१३
[[लेखकः :|]]
अध्यायः ५१४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! चमत्कारे क्षत्त्रा च ब्राह्मणीति च ।
सखीद्वयं समास्ते वै तपोवृत्तिपरे ह्युभे ।। १ ।।
छान्दोग्य इति नाम्नाऽऽसीत् सामवेदी पुरा द्विजः ।
पश्चिमे वयसि तस्य कन्याऽपत्यं बभूव ह ।। २ ।।
यस्मिन्नहनि सञ्जाता तस्मिन्नेव दिने तदा ।
आनर्ताधिपतेश्चापि कन्याऽपत्यं बभूव ह ।। ३ ।।
राजा चक्रेऽभिधानं वै रत्नवतीति शोभनम् ।
रत्नवत्या ह्यभून्मैत्री विप्रपुत्र्या शुभाऽक्षया ।। ४ ।।
एकासनं तथा शय्या त्वेकान्नेन च भोजनम् ।
विप्रो दुहितुः समये योग्ये प्राप्तेऽप्यचिन्तयत् ।। ५ ।।
उद्वाहं किन्तु कन्या सा सख्या वियोगकातरा ।
गत्वा नृपतेः पुत्रीं सा जगाद बहुदुःखिता ।। ६ ।।
सखि तातो विवाहं मे प्रकरिष्यति साम्प्रतम् ।
तेन सख्यं विनश्येच्च वियोगः स्यात्तदाऽऽवयोः ।। ७ ।।
श्रुत्वा नृपस्य दुहिता कृत्वा कण्ठे रुरोद ताम् ।
राज्ञी मृगावती श्रुत्वा तत्राऽऽजगाम सत्वरम् ।। ८ ।।
ज्ञात्वा रोदनहेतुं च जगाद च शुभाक्षिणीम् ।
पुत्रि त्वां मम पुत्र्याश्च सखित्वे निश्चिनोम्यहम् ।। ९ ।।
मम पुत्र्यै प्रदास्ये त्वां सखीरूपां सदा प्रियाम् ।
राज्ञी ब्राह्मणमाहूय प्राह विप्र सुता तव ।। 1.513.१ ०।।
मम पुत्र्याश्चातिस्निग्धा प्रिया सखी हि वर्तते ।
तस्मात् कुरु वचो मह्यं कन्यां देहि च मे तव ।। १ १।।
यद्वा यस्य मम कन्या दीयते तन्नृपस्य वै ।
पुरोधास्तस्य यो विप्रस्तस्मै देया सुता तव ।। १२।।
एकस्थाने स्थितयोस्तु मैत्रीसौख्यं सदा भवेत् ।
छान्दोग्य स्वसुतायाश्चाऽभिप्रायं त्ववगम्य वै ।। १ ३।।
ददौ राज्ञ्यै कुमारीं तां ब्रहाचर्यपरायणाम् ।
विप्रकन्या रत्नवत्या समं वासं चकार ह ।। १४।।
नृपगृहे तु सा जाता युवत्यतीव शोभना ।
नृपः स्वां कन्यकां दातुं सुयोग्याय वराय तु ।। १५।।
विप्रैरन्वेषणं पृथ्व्यां कारयामास तस्य वै ।
दशार्णाधिपतिर्भूपः पत्यर्थं संवृतस्तया ।। १६ ।।
बृहद्बलः स नृपतिर्विवाहार्थं समागतः ।
विश्वावसोर्ब्राह्मणस्य राज्ञः पुरोहितस्य च ।। १७।।
परावसुरितिनाम्ना कुमारोऽभूत् तदा युवा ।
सोऽपि राज्ञा समं तत्र त्वाययौ स पुरोहितः ।। १८।।
राजा लग्ननमुहूर्ते वै मण्डपे वह्निसन्निधौ ।
आगतस्तत्र कन्या च विप्रकन्यासखीयुता ।। १ ९।।
पितृभ्यामन्यनारीभिर्युक्ता हेदीसमीपतः ।
समानीता प्रदानाय तत्राऽऽश्चर्यमभून्महद् ।।1.513.२०।।
कन्या जातिस्मरा ब्रह्मचर्यपरा शिवांशजा ।
पार्वतीकलया जाता योगिनी जन्मतोऽभवत् ।।२१ ।।
कामरूपधरा साध्वी विप्रकन्यापि तादृशी ।
सर्वसिद्धिमयी त्वासीद् ब्रह्मचर्यपरायणा ।। २२।।
ताभ्यां गौरीप्रतापेन कायव्यूहः प्रसाधितः ।
सिद्धयः साधिताः सर्वाः कामदेवो जितस्तथा ।।२३।।
पार्वत्या वैष्णवो मन्त्रस्ताभ्यां दत्तो रहस्यकृत् ।
'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ।।२४।।
पतिः कृष्णं विना नान्यः पातिव्रत्यं हरेः सदा ।
पालनीयं न चान्यस्येत्याह श्रीपार्वती च ते ।।२५।।
योगसिद्धीर्ददौ ताभ्यां सिद्धिभिर्दिव्यवैभवे ।
चमत्काराऽन्विते जाते मण्डपे ते च कन्यके ।।२६।।
राजकन्याऽभवत् तत्र सिंहिकारूपधारिणी ।
विकराला ललज्जिह्वा स्फारनेत्रा सगर्जना ।।२७।।
विप्रपुत्री तदा व्याघ्री क्रूरा समभवत् क्षणात् ।
त्रस्ताः सर्वजना दृष्ट्वा दुद्रुवुर्मण्डपाद् बहिः ।।२८।।
कन्यके द्वे विना सर्वे पलायिता हि मण्डपात् ।
कोलाहलो महान् जातो ग्रामे राष्ट्रे प्रजाजने ।।२९।।
बृहद्बलो विहायैते ययौ स्वनगरं तदा ।
पितृभ्यां वारिते पश्चात् पार्वतीरूपमेव ते ।।1.513.३ ०।।
धृतवत्यौ तदा शान्तिर्जाता प्रजाजनस्य वै ।
पूजितं दिव्यदेहं वै लोकेश्च पार्वतीद्वयम् ।।३ १ ।।
शतचन्द्रसमे ते' द्वे कन्यके शंकरान्विते ।
'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ।।३२।।
इति जपन्त्यौ वैष्णव्यौ जाते ते कन्यके ततः ।
पूर्वरूपान्विते दृष्ट्वा सन्तुष्टाश्च निरीक्षकाः ।।३३ ।।
वार्ता सर्वत्र लोकेषु पार्वतीद्वयमेव तत् ।
देवीद्वयं वर्तते वै प्रवृत्तैवं गृहे गृहे ।।३४।।
नित्यं लोकाः पूजयन्ति पश्यन्ति च नमन्ति च ।
आरार्त्रिकं च कुर्वन्ति चमत्कारपुरे सदा ।।३५।।
एवं काले व्यतीतेऽथ तीर्थं देवीद्वयात्मकम् ।
हाटकेश्वरजे क्षेत्रे सञ्जातं पावनं परम् ।।३६ ।।
रत्नवती प्रसस्मार कृष्णनारायणं मुहुः ।
मयाऽऽत्माऽस्त्यर्पितस्तेऽतः कृष्णत्वं नय मामितः ।।३७।।
विप्रकन्याऽपि तत् प्राह यत्र त्वं तत्र चाप्यहम् ।
सखीं त्यक्त्वा सखी नान्यस्थलं याति कदाचन ।।३८।।
तदा देवी स्मृता ताभ्यां दुर्गा चाप्यागता द्रुतम् ।
आज्ञयामास तपसे ते चोभे प्रस्थिते यदा ।।३९।।
तदा मृगावती राज्ञी मायामोहसमन्विता ।
अश्रुपूर्वेक्षणा दीना पुत्रीमेतद्दुवाच ह ।।1.513.४०।।
मा पुत्रि साहसं कार्यं तपोऽर्थं ते कथंचन ।
बाला त्वं सुकुमारांगी सदैव सुखभागिनी ।।४१ ।।
कथं तपःसमर्थाऽसि विधातुं त्वमनिन्दिते ।
कन्दमूलफलाहारा चीरवल्कलधारिणी ।।४२।।
तस्मान्मुख्यस्य भूपस्य कस्यचित्त्वां ददाम्यहम् ।
एषा ते ब्राह्मणी नामसखी परमसम्मता ।।४३।।
यास्यति वै त्वया साकं कौमारभावमाश्रिता ।
यस्य भूपस्य हर्म्ये त्वं प्रयास्यसि विवाहिता ।।४४।।
रत्नवती च तां प्राह मातर्नैवं त्वया पुनः ।
वाच्यं मदर्थे यदि मे प्राणान् रक्षितुमिच्छसि ।।४५।।
हठेन यदि विघ्नं मे करिष्यसि तदा तनुम् ।
त्यक्ष्यामि विषयोगेण चर्वयित्वा च जिह्विकाम् ।।४६।।
अनलं वा प्रवेक्ष्यामि प्राप्स्यामि श्रीहरिं पतिम् ।
नान्यं पतिं करिष्यामि निश्चयोऽयं मया कृतः ।।४७।।
साऽह तपश्चरिष्यामि कौमारव्रतधारिणी ।
पतिं श्रीमत्कृष्णनारायणं प्राप्स्यामि सत्पतिम् ।।४८।।
सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति च द्विजाः ।
सकृत् सत्यः प्रजल्पन्ति क्रीण्येतानि सकृत् सकृत् ।।४९।।
मनसा चिन्त्यते कार्यं वाचा संप्रोच्यते ततः ।
कर्मणा क्रियते पश्चाद् सती तद्वत् करोम्यहम् ।।1.513.५०।।
एवं सा प्रोच्य जननीं विरराम हरेः प्रिया ।
अथ राज्ञी सखीं तस्या ब्राह्मणीं प्राह वै ततः ।। ५१।।
मम पुत्री पतिं नैवोद्वाहं वाञ्छति पुत्रिके ।
त्वया कार्यो विवाहस्तु गच्छ हर्म्यं पितुस्तव ।।५२।।
यद्वाहं कारयिष्यामि विवाहं ते यथेप्सितम् ।
क्षमस्व यन्मयोक्तं तत् कदाचित् कटुकं वचः ।।५३।।
त्वयोक्तं वा कदाचित् तत् क्षान्तं सर्वं मया सुते ।
ब्राह्मणी प्राह तां राज्ञीं धर्मयुक्तं वचस्तदा ।।।५४।।
अष्टवर्षा भवेद् गौरी नववर्षा च रोहिणी ।
दशवर्षा भवेत् कन्या कन्यादानं प्रशस्यते ।।५५।।
ं ततश्चोर्ध्वं यावन्नैव तु दृश्यते ।
तावद् दानं हि कन्यायाः पूर्णपुण्यप्रदं श्रुतम् ।।५६।।
कन्यात्वं तु प्रणष्टं मे कौमार्ये चापि गच्छति ।
अतीते षोडशे वर्षे स्त्रीधर्मिणी भवामि वै ।।५७।।
रजस्वलां तु यः कन्यामुद्वाहयति तस्य वै ।
सन्तानं पापसंयुक्तं पातयत्यपरान् दश ।।५८।।
रजस्वलां तु यः कन्यां पिता यच्छति सोऽपि च ।
पातयेत् स्वकुलानां तु दशपूर्वान् दशाऽपरान् ।।५९।।
तस्मादहं करिष्यामि सख्या सार्धं तपः परम् ।
पित्रा मात्रा त्वया चापि न मे कार्यं कथंचन ।।1.513.६० ।।
सम्प्राप्तः श्रीकृष्णनारायणः पतिः परः प्रभुः ।
एवमुक्त्वा कन्यके द्वे योगज्ञानसमन्विते ।।६१ ।।
नत्वा त्वाज्ञां गृहीत्वा च पित्रोर्नत्का गणाधिपम् ।
ययतुर्व्योममार्गेण भर्तृयज्ञं मुनिं वने ।।६२।।
आश्रमं सात्त्विकं चावलोकयामासतुः शुभम् ।
ऋषेस्तपःप्रभावेण परस्परविरोधिनाम् ।।६३ ।।
मेलनं सर्वदा त्वास्ते वैरं यत्र न दृश्यते ।
भर्तृयज्ञं वैष्णवं संगत्वा नत्वा च तस्थतुः ।।६४।।
प्रोचतुर्विनयोपेते कृताञ्जलिपुटे ह्युभे ।
आवां तपोऽर्थे त्वायाते तद् ब्रूहि तपसो विधिम् ।।६५।।
भर्तृयज्ञो महायोगी जगाद तपसो विधिम् ।
येन सम्प्राप्यते मोक्षः किं पुनस्त्रिदशालयः ।।६६।।
चान्द्रायणानि कृच्छ्राणि तथा सान्तपनानि च ।
तपोद्वाराणि सर्वाणि कार्तिकेयव्रतानि च ।।६७।।
रागद्वेषविहीनत्वं सार्वभौममहिंसनम् ।
सत्यं च ब्रह्मचर्यं चाऽस्तेयं कृष्णपरिग्रहम् ।।६८।।
सन्तोषं चात्मशुद्धिं च प्राणनिग्रहणं तथा ।
कृष्णनारायणाध्यायं कृष्णनारायणेऽर्पणम् ।।६९।।
सुखितेषु तथा मैत्रीं दुःखितेषु दयां शुभाम् ।
पुण्यवत्सु मुदितां चाऽपुण्यवत्सु ह्युपेक्षणम् ।।1.513.७०।।
सतां सेवां सर्वरीत्या देवसेवनमित्यपि ।
प्रकुर्याच्छ्रीकृष्णनारायणाराधनमन्वहम् ।।७१ ।
व्यवस्थासु त्रिदेहैश्च त्रिगुणानां तदर्पणम् ।
यात्रामात्रं तनौ स्नेहः श्रीकृष्णे प्रेम शाश्वतम् ।।७२।।
कार्यं च कल्पनं ध्यानं स्वप्नं भानं तदर्पणम् ।
सत्त्वेन रजसा यद्वा तमसा च तदर्पणम् ।।७३।।
दैहिकं मानसं काम्यमकाम्यं वा तदर्पणम् ।
उपादिदेश जपनं स्मरणं कीर्तनं कृतिम् ।।७४।।
प्रेक्षणं भाषणं स्पृश्यं गम्यं ग्राह्यं विसर्जनम् ।
सर्वं कृष्णात्मकं कार्यं तपस्त्वेतत्परं मतम् ।।७१।।
येन वै श्रीकृष्णनारायणः प्राप्येत कर्मणा ।
प्रवृत्तं वा निवृत्तं वा कर्म तत् तप उत्तमम् ।।७६।।
अन्यत् सर्वं हि लभ्येत कृष्णः प्राप्येत नैव चेत् ।
कृष्णं विना निरयः स लब्धस्तन्न तपो मतम् ।।७७।।
कृष्ण कृष्णेति कृष्णेति ग्राह्ये धार्ये तथाऽऽत्मनि ।
यदा सञ्जायते त्वैक्यं तदा मोक्षमवाप्नुयात् ।।७८।।
कृष्णदास्यं कृष्णभक्तिः परमं तप उच्यते ।
अनेकजन्मतपसा संप्राप्य जन्म मानवम् ।।७९।।
कृष्णभक्तिर्यदि भवेत् सफलं जन्म मानवम् ।
सफलं जीवनं तस्य कुर्वतः कर्मणः फलम् ।।1.513.८० ।।
पितॄणां च सहस्राणि स्वस्य मातुश्च निश्चितम् ।
मातामहानां पुंसां च शतानां सोदरस्य च ।।८१ ।।
बान्धवस्यापि पत्न्याश्च गुरूणां शिष्यभृत्ययोः ।
तत्कर्म शोभनं पुत्र्यौ यच्च कृष्णे समर्पणम् ।।८२।।
तत्तपः शोभनं कर्म कृष्णसन्तोषणं यतः ।
तद्व्रतं तत्तपः सत्यं तद्भक्तिः पूजनं तथा ।।।८३।।
तदुद्देश्यमनशनं यद् भवेद् दास्यद्ं हरेः ।
समस्तपृथिवीदानं प्रादक्षिण्यं भुवस्तथा ।।८४।।
समस्ततीर्थस्नानं च समस्तं च व्रतं तपः ।
समस्तयज्ञकरणं सर्वदानफलं तथा ।।८५।।
समस्तवेदवेदांगपठनं पाठनं तथा ।
भीतस्य रक्षणं चैव ज्ञानप्रदानमुत्तमम् ।।८६।।
अतिथीनां पूजनं च शरणागतरक्षणम् ।
सर्वदेवार्चनं चापि वन्दनं जपनं मनोः ।।८७।।
भोजनं विप्रदेवानां पुरश्चरणपूर्वकम् ।
गुरुशुश्रूषणं चापि पित्रोर्भक्तिश्च पोषणम् ।।८८।।
सर्वं श्रीकृष्णदासस्य कलां नार्हन्ति षोडशीम् ।
तस्मात् पुत्र्यौ प्रयत्नेन भजते कृष्णमीश्वरम् ।।८९।।
शाश्वतं सत्पतिं दिव्यं परमात्मानमेव हि ।
नित्यं सत्यं परब्रह्म कृष्णनारायणं पतिम् ।।1.513.९०।।
परिपूर्णतमं शुद्धं निर्लिप्तं साक्षिणं हरिम् ।
भक्तिदं दास्यदं स्वस्य निजसम्पत्पदप्रदम् ।।९१ ।।
भजतं परमानन्दं स्वामिनं कान्तमान्तरम् ।
किंवा जलं स्थलं किम्वा नक्तं किम्वा दिनं तथा ।।९२।।
व्रतं किम्वा तपः किम्वा किं भोज्यं पेयमेव किम् ।
देहः किम्वा मनः किम्वा विस्मृत्य भजतं हरिम् ।।९३।।
श्रीकृष्णनारायण कृष्णकृष्ण श्रीकृष्णनारायण कान्तकृष्ण ।
श्रीकृष्णनारायणचान्तरात्मन्प्रदेहि दास्यं चरणे प्रियेश।।९४।।
प्रेम्णा नु भक्त्या स्तवनेन पूजया
समर्पणेनापि हृदि स्थितं सुते ।
श्रीकृष्णनारायणमान्तरं पतिं
सुरक्षकं संभजतं सुखप्रदम् ।।९५।।
रमापद्मार्चितं लक्ष्मीसेवितं प्रभयाऽर्चितम् ।
माणिकीचुम्बितं कृष्णं चरणं भजतं सुते ।।९६।।
सततं शंभुना गीतं पार्वत्या चिन्तितं हृदि ।
ध्यातं सनकसद्भिश्च भजतं तत्पदं हरेः ।।९७।।
श्रीश्रीकृष्णपादपद्मं स्वप्ने जपति यः सुते ।
शतजन्मकृता्त्पापान्मुच्यते नात्र संशयः ।।९८।।
तद्व्रतं तत्तपः सत्यं तत्पुण्यं तच्च पूजनम् ।
सफलं कृष्णसम्बन्धि स्वजन्मखण्डनं यतः ।।९९।।
श्रीकृष्णं तं परित्यज्य किं भवेत् तपसा सुते ।
तपसां फलमाप्नोति श्रीकृष्णस्मरणेन वै ।। 1.513.१० ०।।
यतो भक्तिर्न च भवेच्छ्रीकृष्णे परमात्मनि ।
स गुरुः परमो वैरी करोति जन्म निष्फलम् ।। १०१ ।।
ते तथेति परं ज्ञानं लब्धा भक्त्यात्मकं शुभम् ।
नत्वा गत्वा सरस्तीरं चान्द्रायणादि चक्रतुः ।। १ ०२।।
षष्ठकालादनं शरत्त्रयं जगाम वै तयोः ।
हेमन्ते जलवासिन्यो ग्रीष्मे पञ्चाग्निसाधिके ।। १०३ ।।
निराश्रये च वर्षायां बभूवतुर्हरेः प्रिये ।
ध्यायमाने दिवानक्तं जपन्त्यौ श्रीहरिं पतिम् ।। १ ०४।।
ततो वर्षशतं सार्धं निराहारे बभूवतुः ।
तावत्कालं शीर्णपर्णाशिन्यौ चापि बभूवतुः ।। १ ०५।।
ततश्चापि जलाहारे यावद्वर्षशतानि षट् ।
वायुभक्षे सहस्रं च वर्षाणां तं बभूवतुः ।। १ ०६।।
तत्र नित्यं च तपसि स्थिते सख्यावुभे ह्यपि ।
अथ तुष्टः स्वयं कृष्णनारायणो जगत्पतिः ।। १ ०७।।
युवा सुरूपः श्यामश्च गरुडेन समाययौ ।
तेजोव्याप्तप्रतिभः स तापस्यौ समुवाच वै ।। १ ०८।।
नेत्रे चोन्मील्य वीक्षेथां वरं दातुं समागतः ।
श्रुत्वेति ते बहिर्दृष्टिं कृत्वा लोकयतः प्रभुम् ।। १ ०९।।
सत्पतिं श्रीकृष्णनारायणं कान्तं मनोहरम् ।
रूपानुरूपावयवं योग्यं सेव्यपदाम्बुजम् ।। 1.513.११ ०।।
तपस्त्यक्त्वा पेततुस्तत्पादयोरूचतुः पते ।
गृहाण किंकरीद्वन्द्वं देहि दास्यं पतिर्भव ।। १११ ।।
कृष्णं कण्ठे ववल्गाते साश्रुनेत्रेऽतिकर्षिते ।
कृष्णश्चुचुम्ब पस्पर्श करेणाऽऽज्ञाय भावनाम् ।। ११ २।।
दिव्यरूपे रमातुल्ये पिधाय च नियाय च ।
गरुडे ते निजांके द्वे सक्थ्नोरुपरि स्थापिते ।। ११३ ।।
भुजाभ्यां पार्श्वयोर्नीत्वा भर्तृयज्ञस्थलं ययौ ।
तयोर्गुरुं वैष्णवं तं नीत्वा गरुडपृष्ठके ।। १ १४।।
चत्वारस्ते गरुडेन ययुर्गोलोकधाम वै ।
श्रीकृष्णस्याऽऽगमं ज्ञात्वा ऋषयस्तत्स्थलं ययुः ।। १ १५।।
व्योम्नि यान्तं नमश्चक्रुः पूजयामासुरीश्वरम् ।
नागनद्याह्रदः सोऽपि रत्नसरः सुनामतः ।। १ १६।।
तदानीं सुप्रसिद्धं वै जातं स्नानात्प्रमोक्षदम् ।
कृष्णदास्यौ तु ते जाते शाश्वतानन्दसेविके ।।१ १७।।
स्वर्गे देवीभिरागत्य प्रार्थिते स्थातुमेव यत् ।
देवीनां श्रेयसे स्वर्गे स्थातव्यं चेति वै तदा ।।१ १८।।
श्रीकृष्णेन कृते ते द्वे तारके स्थापितेऽपि च ।
छायारूपे मुक्तिदे वै पठनाच्छ्रवणादपि ।। ११ ९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चमत्कारपुरीयराजपुत्रीविप्रपुत्र्योर्विवाहकाले सिंहव्याघ्ररूपधर्त्रीत्वं, ततो भर्तृयज्ञाश्रमवासः, ततो दुर्वहं तपः, ततः भर्तृयज्ञेन सह तयोः श्रीकृष्णनारायणप्राप्तिर्गोलोकगमनं चेतिनिरूपणनामा त्रयोदशाधिकपञ्चशततमोऽध्यायः ।।५१३।।