लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५१२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५११ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५१२
[[लेखकः :|]]
अध्यायः ५१३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि त्वष्टषष्टिदेव्यो यास्तत्र संस्थिताः ।
यज्ञक्षेत्रे तु तास्तत्र पत्तनस्थैः प्रपूजिताः ।। १ ।।
कुलदेव्योऽभवन् निवासिता नगरवासिभिः ।
यज्ञे भूमौ च ताः श्रुत्वा सावित्री ताः शशाप ह ।। २ ।।
ममाऽऽगमनपूर्वं वै यज्ञे स्थानं कृतं यतः ।
सपत्न्या सह मिलिता अस्माँस्त्यक्त्वा ततः सदा ।। ३ ।।
नगरस्थकृता पूजा युष्माकं न फलिष्यति ।
अप्रासादाः शीतवर्षाऽऽतपक्लिष्टा भविष्यथ ।। ४ ।।
आकाशगतिशून्याश्च दीना यूयं भविष्यथ ।
इति शप्ताश्च ताः सर्वा उदुम्बरी समाययुः ।। ५ ।।
शापं तं श्रावयामासुः पूजानैष्फल्यमेव यत्। ।
ततश्च प्रार्थयामासुः शापस्यापि निवारणम् ।। ६ ।।
उदुम्बरी च ताः प्राह सावित्रीवचनं न वै ।
मृषा कर्तुं समर्थाऽहं किन्तु वरं ददामि यत् ।। ७ ।।
अष्टषष्टिषु गोत्रेषु नगरस्थैर्नियोजिताः ।
पितामहस्य कृपया तत्र पूजा फलिष्यति ।। ८ ।।
भोज्यं पानं पूजनं च गोत्रस्थैर्दास्यते ततः ।
तत्र तृप्तिर्भवतीनां भविष्यति सुखासनम् ।। ९ ।।
अदृश्यहास्यकर्त्रीणां दात्रीणां च बलेस्तथा ।
पुरद्वारे पूजिकानां तृप्तिं दानेन यास्यथ ।। 1.512.१ ०।।
एवं ता नागनद्या वै परितः स्थापिताः शुभाः ।
अथोदुम्बरीजनको देवशर्मा ह्युपस्थितः ।। ११ ।।
पत्नीयुक्तः सती दिव्यां पुत्रीं दृष्ट्वा तुतोष सः ।
स एवाऽऽसीत्पुरानाम्ना गन्धर्वः पर्वतो दिवि ।। १ २।।
उदुम्बर्या प्रार्थितः सः पित्रर्थं भूतले मुहुः ।
नारदेन यदा शप्ता मात्रर्थं च तदैव ह ।। १ ३।।
मातः पितर्युवां पृथ्व्यामागच्छत मया सह ।
भवतं मम पितरौ मानुषौ मानुषी त्वहम् ।। १४।।
युवयोस्तु सुता तत्र भविष्यामि ततश्च तौ ।
देवशर्मा च तत्पत्नी जातौ वै मानुषौ तयोः ।। १५।।
सुता ह्युदुम्बरी जाता या विमानेऽत्र तिष्ठति ।
तां दृष्ट्वा देवशर्माऽपि तनुं त्यक्त्वा प्रियायुतः ।। १६।।
बभूव दिव्यदेहो वै यानं समारुरोह सः ।
पत्नीयुक्तः सुतायुक्तो निशां निनाय चाम्बरे ।। १७।।
एवं यातं दिनं रात्रिः पञ्चमी च क्रतोर्गता ।
प्रत्यूषे च ततो जातेऽवभृथस्नानमित्यपि ।। १८।।
विधिबोध्यं सर्वतीर्थमयं कार्यं भवेदिति ।
ततः स्वर्गं देवताभिः समं यास्याम एव ह ।। १ ९।।
इति विचार्य च त्रयस्ते च विमानसंस्थिताः ।
दक्षिणां च क्रतोः परिहारं चावभृथं तथा ।। 1.512.२० ।।
प्रतीक्षन्तेऽथ वै ब्रह्मा सदःस्थान् ब्राह्मणान् मुनीन् ।
दक्षिणां प्रददौ तत्र पुष्करं च सरोवरम् ।।।२१ ।।
तीर्थरूपं पावनं च स्थापयामास पश्चिमे ।
कार्तिके धवले पक्षे त्वेकादशीत एव वै ।।२२।।
पूर्णिमान्तं च पञ्चाहं तीर्थान्यन्यानि चापि वै ।
स्थास्यन्त्यत्र सरस्येव सर्वयुगेषु भूसुराः ।।२३।।
पञ्चरात्रस्य मध्येऽत्र यश्च स्नानं करिष्यति ।
दानादिकं जपं चापि तदक्षयं भविष्यति ।। २४।।
अथ ते ब्राह्मणाः सर्वे पुण्यदानप्रपूरिकाम् ।
अनुज्ञां प्रददुस्तुष्टा यज्ञस्य फलसिद्धये ।।२५।।
पूर्णं च हवनं जातं दक्षिणा बहुलाऽर्पिता ।
तुष्टाश्च ब्राह्मणाः सन्तस्तथाऽन्ये प्राप्य वै धनम् ।।२६ ।।
पुलस्त्यः प्राह च तत्र यज्ञः सम्पूर्णदक्षिणः ।
प्रायश्चित्तैर्विरहितः सम्पन्नो जायतात् सदा ।।२७।।
अतः परं कर्मशेषं वरुणेष्टिं जपं तथा ।
करोमि च ततः सर्वैः प्रकर्तव्यं फलप्रदम् ।।२८।।
अवभृथाख्यं स्नानं च त्वया मयाऽप्सु वै शुभम् ।
एवमुक्त्वा सह सर्वैर्ययौ पुष्करतीर्थकम् ।।२९।।
नागनद्यां तु ऋत्विग्भिः साऽऽचार्याऽग्नीध्रहोतृभिः ।
ब्रह्मणा सह विप्रैश्च सदस्यैर्बहुभिस्तदा ।। 1.512.३० ।।
यथा वह्नौ तथा तोये सर्वैस्तत्र हविः शुभम् ।
हूयते संविधानेन यज्ञपात्रैः समन्वितम् ।। ३१ ।।
वरुणस्य प्रतुष्ट्यर्थं विविशुस्ते ततो जलम् ।
ऋत्विग्भिर्ब्रह्मणा सर्वैः सर्वाऽनिष्टप्रशान्तये ।। ३२।।
अवभृथस्थले स्नानं यः कश्चिद् वै करिष्यति ।
सर्वतीर्थमये मर्त्यो विपाप्मा स भविष्यति ।।३३ ।।
यानि कानि च तीर्थानि त्रैलोक्ये वै भवन्त्यपि ।
वारुणीमिष्टिमासाद्य तान्यायान्ति च सन्निधौ ।।३४।।
तस्मात् सर्वप्रयत्नेन दीक्षितेन समन्वितैः ।
तत्र स्नानं प्रकर्तव्यं जलमध्ये तु सार्थिभिः ।।३५।।
अथ ब्रह्मा महेन्द्रं च प्राह लोकहिताय वै ।
जनानां बहुसम्मर्दे जना ज्ञास्यन्ति नैव माम् ।।३६।।
स्नानं जले क्षणे तत्र ततस्त्वं गजमास्थितः ।
हस्ते वंशे कृष्णसारमृगं धृत्वा तदाऽम्बरे ।।३७।।
सर्वेषां स्नानकालस्य ज्ञानाय तत् जले क्षिप ।
येन लोकसमस्तोऽयं ज्ञात्वा स्नास्यति तत्क्षणम् ।। ३८।।
स्नानं यः कुरुते श्रेयः सम्प्राप्नोति यथोदितम् ।
दूरस्थोऽपि सुवृद्धोऽपि बालोऽपि योषितोऽपि च ।।३ ९ ।।
स्नानजं लभते श्रेय इन्द्रः श्रुत्वा तथाऽकरोत् ।
तत्क्षणे देवता विप्राः ऋषयो मुनयस्तथा ।।1.512.४० ।।
सन्तश्च मानुषा दिव्या गन्धर्वा गुह्यकादयः ।
चतुर्दशभुवां वासकृतः सस्नुः समाहिताः ।।४१ ।।
ब्रह्मा शक्रं तदा प्राह वरं वृणु ददामि ते ।
इन्द्रः प्राहात्र वै तीर्थे प्रतिवर्षं तु यो नृपः ।।४२।।
मृगचर्मविनिक्षिप्याऽवभृथं च करिष्यति ।
गजे स्थित्वा क्रतोरन्ते सः स्यात्पापविवर्जितः ।।४३ ।।
अजेयः सर्वशत्रूणां स्नातारः पापवर्जिताः ।
प्रजाः सुखभरास्तद्वन्नीरोगाः स्युर्ममाऽऽशिषा।।४४।।
कार्तिके पञ्चदिवसैः कृत्वा क्रतुं व्रतादिकम् ।
प्रतिपद्दिवसे प्राते कुतुपे स्नायिनो जनाः ।।४५।।
भविष्यन्ति विजयिनो वर्षपापविवर्जिताः ।
आधिव्याधिविनिर्मुक्तास्ते भविष्यन्त्यसंशयम् ।।४६।।
एतस्मिन्नन्तरे प्राप्तो यक्ष्माख्यो दारुणो गदः ।
अचिकित्स्योऽपि देवानां तथा धन्वन्तरेरपि ।।४७।।
नीलाम्बरो रक्तजिह्वः शुष्कपार्श्वश्च सुस्वरः ।
क्षुत् कुर्वन् श्लेष्मणा शुष्कं पादेऽशक्तं उवाच ह ।।४८।।
दूराच्छ्रुत्वा तव यशं पितामह उपागतः ।
दक्षेणाऽहं पुरासृष्टश्चन्द्रार्थं कुपितेन वै ।।४९।।
रोहिणीपक्षपातस्य फलात्मकोऽहमस्मि च ।
चन्द्रेण शंकरो देवस्तपसा तोषितस्ततः ।।1.512.५० ।।
शंभुर्मह्यं ददौ पक्षमेकं कृष्णं न चापरम् ।
तत्र भोज्यं मम कुत्र भवेल्लभ्यं पितामह ।।५१ ।।
पूर्णिमायां यज्ञसत्रे भुक्त्वा ब्रूयुर्द्विजा यदि ।
तृप्ताः स्म इति तेन स्यात् पूर्णं यज्ञफलं विभो ।।५ २।।
यज्ञसत्रे यदि नैव तर्पिता येन भूसुराः ।
तस्मिन् वासो मम देयो यज्ञपुण्यविनाशकृत् ।।५३ ।।
तव यज्ञे मम तृप्तिर्यथा स्यात् तत्तथा कुरु ।
ब्राह्मणोऽहं दक्षपुत्रो मम तृप्तिर्विधीयताम् ।।५४।।
ब्रह्मा प्राह कृतौ विप्रवचनं तृप्तिकृन्न चेत् ।
यजमाने त्वया तत्र स्थेयं पुण्यक्षयात्मना ।।५५ ।।
किं च विप्रैर्वैश्वदेवस्याऽन्ते देयो बलिस्तव ।
तेन ते द्वितीयपक्षे तृप्तिः पूर्णा भविष्यति ।।५६ ।।
बलिदातुर्गृहे वंशे त्वया स्थेयं न कर्हिचित् ।
इत्युक्तः प्राह यक्ष्मा सः तृप्तोऽस्मि देहि भूतलम् ।।५७।।
वसामि तपसे चात्राऽऽकल्पान्तं वै पितामह ।
ब्रह्मणा च ततो दत्तं भूतलं त्वाश्रमाय तम् ।।५८।।
यक्ष्मा तूत्तरभागे च नागनद्याः समीपतः ।
सामुद्रसंगमं प्राप्य चक्रे नैजाश्रमं स वै ।।५।।।
यो ददाति वैश्वदेवस्याऽन्ते बलिं तु यक्ष्मणे ।
तस्य कुटुम्बिनां यक्ष्मा पश्वादीनां न जायते ।।1.512.६ ०।।
न तस्य भेषजानि स्युर्न मन्त्रा न चिकित्सकाः ।
इत्युक्तः स ययौ यक्ष्मा भोज्यं नीत्वाऽब्धिसन्निधौ ।।६ १ ।।
अथ लक्ष्मि शृणु जातं सावित्रीकृतभर्त्सनम् ।
क्रतौ तु वेधसस्तत्र वदामि त्वं निशामय ।।६२।।
गौरीं लक्ष्मीं शचीं मेधामरुन्धतीं च पार्वतीम् ।
प्रभां च माणिकीं स्वाहां कम्भरां च क्षमां धृतिम् ।।६ ३ ।।
स्वधां पुष्टिं च सगुणां बुद्धिं' हंसां च मञ्जुलाम् ।
पद्मां रमां सतीं कृष्णां नारायणीं सरस्वतीम् ।।६४।।
तथा दासीर्घृताचीं मेनकां रम्भां तिलोत्तमाम् ।
उर्वशीं मोहिनीं स्वर्णां ललितां च जयां दयाम् ।।६५।।
सह नीत्वा वाद्यघोषैर्यदा याता क्रतुस्थलम् ।
सावित्री तु तदा तस्याः प्रास्फुरद्दक्षिणा तु दृक् ।।६६।।
दक्षिणानि तथाऽङ्गानि प्रास्फुरन् योषितां तदा ।
गीतोत्सवपराः सर्वा आययुर्यज्ञमण्डपम् ।।६७।।
नारदः सम्मुखः प्रायाज् ज्ञात्वाऽऽगतां निजप्रसूम् ।
प्राह तां गोपकन्याया वृत्तान्तं सर्वमेव सः ।।६८।।
रशना योजिता कट्यां विवाहितेति वेधसा ।
श्रुत्वा प्रम्लानवदना सावित्री रक्तवर्जिता ।।६९।।
वैमनस्यं परं प्राप्ता तेजोरूपप्रभाक्षया ।
शून्येन मनसा याता प्रस्खलन्ती पदे पदे ।।1.512.७० ।।
काराग्रहसमं तं च मण्डपं सा ददर्श ह ।
दृष्ट्वा नूतनया तत्र सपत्न्या सहितं पतिम् ।।७१ ।।
कोपसंरक्तनयना परुषं वाक्यमब्रवीत् ।
विबुधा ब्राह्मणा आर्षा ये सदस्पतयस्त्विह ।।७२।।
मूकीभावं गता नार्यः शृण्वन्तु न्यस्तमानसाः ।
किमेतद् युज्यते कर्तुं तव वृद्धतमाकृतेः ।।७३।।
उभयोः पक्षयोरेषा ह्यशुद्धा वै विवाहिता ।
पशुधर्मपरा तक्रविक्रेत्री मलिना सदा ।।७४।।
पापप्रचुरजातीया गृहीता गर्हितं कृतम् ।
अवश्यं यदि ते कार्यं भार्यया परया मखे ।।७५।।
विधे विप्रा त्वया क्वापि न लब्धा किं जगत्त्रये ।
ऊढा त्वाभीरकन्येयं नूनं भ्रष्टोऽसि वै विधेः ।।७६ ।।
तस्मादेतेन कृत्येन न त्वं प्राप्स्यसि पूजनम् ।
तव पूजाप्रकर्तारो भविष्यन्ति हि निर्धनाः ।।७७।।
पुत्राणामथ पौत्राणामन्येषां च दिवौकसाम् ।
अयोग्यं चापि विप्राणां यदेतत्। कृतवानसि ।।७८ ।।
अथवा नैष दोषस्ते स्वार्थाः कुर्वन्ति वै तथा ।
न लज्जन्ति न जानन्ति कृत्याकृत्यं शुभाऽशुभम् ।।७९ ।।
अकृत्यं मन्यते कृत्यं मित्रं शत्रुं च मन्यते ।
शत्रुं च मन्यते मित्रं जनः स्वार्थवशंगतः ।।1.512.८०।।
द्यूतकारे न वै सत्यं चौरे चापि न सौहृदम् ।
मैत्री नास्ति नृपे क्वापि लज्जा स्वार्थिषु नैव च ।।८१ ।।
न मे स्याद् दुःखमेतद्धि यत्सापत्न्यमुपस्थितम् ।
समर्थस्य सहस्राणि नारीणां तु भवन्ति वै ।।८२।।
कुलीनानां स्वजात्यानां न तु नीचजयोषिताम् ।
एतत्पुनर्महद् दुःखं यदाभीरो विगर्हिता ।।८३ ।।
वल्लवी नष्टचारित्रा किं करोमि म्रिये ध्रुवम् ।
तस्माद् यास्याम्यरण्यं द्राग् विडम्बिता त्वया विधे ।।८४।।
तव पूजाप्रकर्ता वै दरिद्रः संभविष्यति ।
यतश्चाभीरसुतेयं मम स्थाने कृता त्वया ।।८९।।
भविष्यति न सन्तानं तव मच्छापतो विधे ।
गायत्रीपूजिका नारी वन्ध्या क्लिष्टा भविष्यति ।।८६ ।।
अस्या वै मानसाः पुत्रा भविष्यन्ति यदि क्वचित् ।
सर्वे म्लेच्छा रात्रिंचरा अशिष्टाश्चाऽप्यकेतनाः ।।८७।।
लोकनाशकराः सर्वे भविष्यन्ति युगान्तरे ।
इन्द्र त्वं शत्रुभिर्युद्धे जितो बन्धनमाप्स्यसि ।।८८।।
विष्णो त्वं मानुषो भूत्वा चिरं भृत्यत्वमाप्स्यसि ।
रुद्रं त्वं स्त्रीवियोगस्य दुःखं चिरमवाप्स्यसि ।।८९।।
अग्ने त्वं सर्वभक्षोऽभूः, विप्रा यात दरिद्रताम् ।
कुबेर ते धनं भोग्यं कदापि नो भविष्यति ।।1.512.९० ।।
देवा यज्ञे त्वाभीराणीसहाय्या अनपत्यकाः ।
भवतापि तथा दैत्यैः पराभूता मुहुर्मुहुः ।।९१ ।।
गायत्र्याः पार्श्वतश्चान्या यायाश्चात्र व्यवस्थिता ।
तासां परस्परं संगः कदापि न भविष्यति ।।९२।।
एवमुक्त्वा देवपत्नीर्विहाय त्वेकला तदा ।
सावित्री प्रययौ पूर्वपुष्करं त्वर्बुदाचले ।।९३।।
सावित्रीं पूजयेत् सम्यक् पूर्णमास्यां विशेषतः ।
सर्वान्कामानवाप्नोति दीपनैवेद्यदानतः ।।९४।।
यावन्तस्तन्तवस्तस्या दह्यन्ते दीपसंभवाः ।
मुहूर्तानि च यावन्ति घृतदीपः प्रतिष्ठति ।।९५।।
तावज्जन्मानि सा नारी भवेत् सौभाग्यशालिनी ।
पुत्रपौत्रसमेता च धनिनी शीलमण्डना ।।९६ ।।
न दुर्भगा न वन्ध्या च न वा काणा विरूपिणी ।
सावित्र्याः सन्निधौ नृत्यं करोति या तु सुन्दरी ।।९७।।
गीतं वा कुरुते या च वसेत् सा दिवि देवता ।
या मिष्टान्नं फलं दद्यात् सा वसेद् दिवि देवता ।।९८।।
चमत्कारपुरे लक्ष्मि! सावित्रीतीर्थसुस्थले ।
स्नात्वा संपूज्य चाध्यायं शृणुयाद्वा पठेत्तु यः ।।९९।।
सर्वपापविनिर्मुक्तो यज्ञस्य फलभाग् भवेत् ।
एवं गतायां सावित्र्यां गायत्री समुदैरयत् ।। 1.512.१० ०।।
मत्कृते येऽत्र संशप्ताः सावित्र्या ब्राह्मणादयः ।
तेषामहं करोम्युद्धारणं पत्युः प्रभावतः ।। १० १।।
ब्रह्मकार्येषु सर्वत्र सिद्धिर्न स्याद्विना ह्यजम् ।
ब्रह्मा सत्रेषु सर्वत्र मुख्यस्थानो भविष्यति ।। १ ०२।।
विष्णुर्द्वेधा भवन् कृष्णोऽर्जुनश्छायात्मकस्तथा ।
कृष्णो मर्त्योऽर्जुनसारथ्यं भृत्यत्वं करिष्यति ।। १०३ ।।
गोपाः कृष्णप्रसंगेन कीर्तिं यास्यन्ति देवताः ।
इन्द्र ते बन्धनं ब्रह्मा नाशयिष्यति चासुरात् ।। १ ०४।।
वह्ने त्वं सर्वभक्षित्वे पावकः पावनो भव ।
रुद्र त्वं तु सतीनाशे गौरीयुक्तो भविष्यसि ।। १ ०५।।
कुबेर त्वं देवतानां धनदो वै भविष्यसि ।
देवानां त्वनपत्यत्वं त्वैच्छिकं संभविष्यति ।। १०६ ।।
अन्याः स्त्रियस्तु याः शप्तास्तासां छायाः पृथक् पृथक् ।
असंयुक्ता भविष्यन्ति मूलरूपाणि नैव ह ।। १ ०७।।
उक्त्वैवं सा विरराम देवाः साध्विति चाऽब्रुवन् ।
गायत्र्यां पूजनं नित्यं प्रातर्जपं तथाऽर्चनम् ।। १ ०८।।
करिष्यन्ति द्विजा नित्यं सावित्रीं नैव नैव च ।
एवमुक्त्वा तु ते सर्वे गायत्रीपूजनं व्यधुः ।। १ ०९।।
स्वस्वस्थाने गताः सर्वे कोटिशो देवतादयः ।
उदुम्बरी विमानेन पितृभ्यां सह स्वर्ययौ ।। 1.512.११ ०।।
ब्रह्मा त्वर्बुदमासाद्य नीत्वा सावित्रिकामपि ।
ययौ सत्यं च तै लक्ष्मि! कथितं क्रतुवर्तनम् ।। १११ ।।
श्रवणात्पठनात्त्वस्य भुक्तिमुक्तिर्भवेद्ध्रुवम् ।
सम्पत्पुत्रपशुव्रातद्रव्यादि वर्धतेऽन्वहम् ।। ११ २।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽष्टषष्टिदेवीनां कुलदेवीत्वं यज्ञान्ताऽवभृथस्नानं यक्ष्मरोगागमनं गायत्रीविरोधात् सावित्रीदत्तशापाः,
गायत्रीकृतनिवारणानि, सर्वेषां स्वस्वलोकगमनं, चेत्यादिनिरूपणनामा द्वादशाधिकपञ्चशततमोऽध्यायः ।। ५१२ ।।