लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५१० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५११
[[लेखकः :|]]
अध्यायः ५१२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततश्चैनमतिथिं श्रीनरायणम् ।
विप्ररूपं पप्रच्छुस्ते ब्राह्मणा मण्डपस्थिताः ।। १ ।।
गृहं त्यक्त्वा गतस्त्वं क्व कियान् कालो गतस्तव ।
वद योग्यं यज्ञकार्ये समेतानां तपस्विनाम् ।। २ ।।
अतिथिश्च तदा प्राह भ्रान्तोऽहं भुवनत्रयम् ।
ब्रह्मलोकं चेशलोकं जीवलोकं पुनः पुनः ।। ३ ।।
खण्डानां पृथिवीनां च गोलोकानां शतानि च ।
सहस्राणि चायुतानि लक्षाणि चार्बुदानि च ।। ४ ।।
यत्राऽस्तमितशाय्यस्मि कृताप्तदेहयात्रकः ।
निवसामि यथादेहे प्रायस्तत्त्वेषु वै तथा ।। ५ ।।
यज्ञे वसामि सर्वत्र प्रलयेऽपि वसामि च ।
संख्यया रहितान्येव वर्षाणां मे गतानि च ।। ६ ।।
युगानां संख्यका नास्ति त्वायुर्मे शाश्वतं मतम् ।
यत्र गच्छामि तीर्थानि भवन्त्येव ममागमात् ।। ७ ।।
तानि कृत्वाऽप्यनन्तानि त्वागतोऽस्मि सुरक्रतौ ।
द्वीपान् खण्डान् भ्रमित्वा च तीर्थानि सकलान्यपि ।। ८ ।
दक्षिणं पूर्वज्योतिष्कं हिमशैलं तथोत्तरान् ।
श्वेतद्वीपं कृष्णदेशं सिंहारण्यं च रैवतम् ।। ९ ।।
कृत्वा सारस्वतं गांगं वाराणसीं च पुष्करम् ।
श्रुत्वा क्रतुं सार्वभौमं पितामहस्य पश्चिमे ।।1.511.१ ०।।
समागतोऽस्मि चातिथ्यं ग्रहीतुं दीयते यदि ।
ब्रह्माद्यास्ते कृष्णनारायणं प्राहुर्वरं वृणु ।। ११ ।।
यथेष्टं च तथाऽऽतिथ्यं गृहाणाऽध्यात्मिकं च वा ।
अवश्यं तत् प्रदास्यामो ज्ञानिने त्वन्तरात्मने ।। १२।।
अतिथिः प्राह मेऽपेक्ष्या नित्यमात्मनिवेदिता ।
प्रपन्नानां शरण्यं च सर्वार्पणं तथेप्सितम् ।। १ ३।।
अदत्वा मे तु ये कुर्युर्ब्रह्माद्या अपि वै क्रतुम् ।
अदत्वाऽतिथये नैव प्राप्नुयुः फलमीप्सितम् ।। १४।।
यज्ञभागं देवभागं दिव्यत्वं प्रार्थयामि च ।
आन्तरत्वं च बाह्यत्वं प्रयच्छन्तु तथा मम ।। १५।।
इत्युक्ता देवताः प्राहुर्दूरात् समागतोऽतिथिः ।
सत्यात्रं चासि विप्रेन्द्र सर्वं ते दीयते क्रतौ ।। १६।।
य एषः क्रियते यज्ञस्तस्य नाथो हरिः स्मृतः ।
एतस्मात् कारणात् प्रोक्तः स देवो यज्ञपूरुषः ।। १७।।
वर्तसे कुंकुमवाप्यां क्षेत्रे कृष्णनरायणः ।
श्रीमद्गोपालकृष्णस्य कम्भरा कमला प्रिया ।। १८।।
तपसा मानसं लेभे त्वात्मस्थं चात्मजं तु यम् ।
स त्वं लक्ष्मीपतिर्नारायणः श्रीपार्वतीपतिः ।। १९।।
प्रभेशो माणिकीशश्च जयेशः श्रीहरिः स्वयम् ।
वर्तसे यज्ञकर्मात्मन् कर्मणां फलदायकः ।।1.511.२०।।
मनसेशो मंगलेशो राधेशश्चाक्षरेश्वरः ।
रमेशश्चापि मुक्तेशः परमात्माऽऽन्तरस्थितः ।। २१ ।।
तव नाम्ना सदा देयं पूर्णं यज्ञे फलं भवेत् ।
श्राद्धे पैत्र्ये तथा दैवे यो वै त्वां पूजयिष्यति ।। २२।।
विष्णुनामसमोपेतं भविष्यति तदक्षयम् ।
कृष्णे तुष्टिं गते सर्वे सुरास्तुष्टा भवन्ति वै ।।२३।।
इत्युक्त्वा ब्रह्मलक्ष्मीशधर्मशेषशिवादयः ।
ददावतिथये सर्वं कृष्णनारायणाय वै ।।२४।।
ततः प्रभृति सञ्जाता पूजा त्वतिथिसंभवा ।
तस्माल्लक्ष्मि! सदा पूजाऽतिथेः कार्या शुभे क्षणे ।।।२५।
गृहस्थानां परो धर्मो नान्योऽस्त्यतिथिपूजनात् ।
अतिथेर्न परो देवो देवं नातिक्रमेत् क्वचित् ।। २६।।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
तद् दत्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ।।२७।।
सत्यं व्रतं तपोऽधीतं दत्तमिष्टं शतं समाः ।
तस्य सर्वं भवेन्नष्टमतिथिं यो न पूजयेत् ।।२८।।
यस्य गेहेऽतिथयो वै सुतृप्ताश्च भवन्ति हि ।
स गृहस्थस्तदन्ये तु भवन्ति गृहरक्षिणः ।।२९।।
पुरा सुकृतपुण्यानां जनानामिह भूतले ।
त्रीण्येतानि प्रपद्यन्ते श्राद्धं दानं शुभा गिरः ।।1.511.३ ०।।
तुष्टेऽतिथौ गृहस्थस्य सन्तुष्टाः सर्वदेवताः ।
विमुखे विमुखाः सर्वा भवन्त्येव न संशयः ।।३ १ ।।
अप्यात्मनः प्रदानेन तोषयितव्य एव सः ।
नारायणो देवताश्च देव्यश्चाऽतिथयो गुरुः ।।३२।।
साध्वी कन्या ह्यनाथा च भिक्षुकी ह्यतिथिर्मताः ।
पितृश्राद्धे भोजनस्य समये योऽभियाति च ।।३ ३।।
दूराध्वादित आश्रान्तो मध्याह्ने योऽभियाति च ।
कृते तु भोजने चाऽह्नि रात्रौ वा योऽभिगच्छति ।।३४।।
त एतेऽतिथयः प्रोक्ता नाऽतिथिः पूर्वमागतः ।
प्रियो वा यदि वा द्वेष्यो मूर्खो वा पण्डितोऽथवा ।।३५।।
तस्य शक्त्या प्रदातव्यमन्नं वै गृहमेधिना ।
आसनं च जलं भावः सुवाणी स्नेहवीक्षणम् ।।३६।।
एतानि तु सतां गेहे नोच्छिद्यन्ते कदाचन ।
अतिथेः स्वागतात् तृप्ता भवन्ति पितरः खलु ।।३७।।
अतिथेरासनात् तुष्टिर्ब्रह्मणो जायते तथा ।
अर्घेण शंभोः पाद्येन देवानां तोषणं भवेत् ।।३८।।
भोज्यदानेन विष्णोश्च तृप्तिर्भवति शाश्वती ।
यथाशक्ति सदा पूज्यो भोजनीयो विशेषतः ।।३ ९।।
इत्युक्त्वा यज्ञकार्यस्य विधिं कृत्वा सुरास्ततः ।
परिहारं विधायैव भोजयामासुरीश्वरान् ।।1.511.४०।।
रात्रिं निन्युरुत्सवैश्च व्याख्यानैः पारमेश्वरैः ।
चतुर्थे दिवसे यज्ञकर्मारम्भं यथाव्यधुः ।।४१।।
सोमपानादिकं सर्वं होमद्रव्यादिकं तथा ।
प्रावर्तत यथायोग्यं तावत् तत्र समागतः ।।४२।।
युवा वै ब्राह्मणः कश्चिद् बुभुक्षितस्तृषायुतः ।
होमद्रव्यं शुभं दृष्ट्वा भक्षयामास सोत्सुकः ।।४३।।
प्रस्थाता तं भक्ष्यमाणं दृष्ट्वा शशाप धिग् वदन् ।
होमार्थद्रव्यं दुष्ट त्वं रक्षोवदत्र खादसि ।।४४।।
राक्षसानामिदं कर्म राक्षसो भव मा चिरम् ।
इत्युक्तः सोऽभवत् तत्र ऊर्ध्वकेशोऽतिभैरवः ।।४५।।
लम्बोष्ठो विकरालास्यो राक्षसः कृष्णवर्णकः ।
शंकुकर्णश्च रक्ताक्षो दृष्टमात्रभयंकरः ।। ४६।।
राक्षसं तं तदा दृष्ट्वा भीता वित्रेसुरीश्वराः ।
रक्षोघ्नानि च सूक्तानि जजपुश्च पुनः पुनः ।।४७।।
राक्षसोऽपि भयं त्यक्त्वा पितामहमुपागमत् ।
उवाचाऽऽत्मानमुद्दिश्य कृताञ्जलिः प्रणम्य च ।।४८।।
पौत्रोऽहं वै तव ब्रह्मन् पुलस्त्यस्य सुतो द्विजः ।
नीतो राक्षसतामद्य प्रस्थात्रा शापतः पितः ।। ४९।।
अहं विश्वावसुर्नाम पौलस्त्योऽस्मि कृपां कुरु ।
भक्षितं यन्मया चात्र होमार्थं यत्प्रकल्पितम् ।।।1.511.५०।।
अपराधं क्षमयित्वा राक्षसत्वं निराकुरु ।
तदा ब्रह्मा प्रतिप्रस्थातरं प्राह दयायुतः ।।५१ ।।
बालोऽयं मम पौत्रस्तु कृत्याऽकृत्ये न वेत्ति च ।
तस्य राक्षसभावो वै त्वया हर्तव्य एव ह ।।५२।।
श्रुत्वा तच्च मुनिः प्राह पुलस्त्यस्य तु वंशजाः ।
देवकार्यविरोधित्वाद् भविष्यन्ति हि राक्षसाः ।।५३।।
नाऽस्य राक्षसभावो वै हर्तुं केनापि शक्यते ।
सत्यपि मानवे भावे कृतमुच्छिष्टमेव यत्। ।।५४।।
यज्ञद्रव्यं स्वभावोऽयं नैषेकः केन वार्यते ।
स्याच्च वा शीतलो वह्निर्यदि स्यादुष्णगुः शशी ।। ५५।।
तन्मे स्यादन्यथा वाक्यं व्याहृतं प्रपितामह ।
तस्मादयं सदा चास्तु राक्षसः रक्षसां पतिः ।।५६ ।।
श्रुत्वैवं वचनं तस्य विधिर्विश्वावसुं तदा ।
जगाद पौत्र चानेन रूपेण तिष्ठ सर्वदा ।।५७।।
चमत्कारपुरस्याऽस्य पश्चिमस्थानमाश्रितः ।
पश्चिमे राक्षसाः सन्ति कूष्माण्डकाः पिशाचकाः ।।५८।।
भूताः प्रेताः पिशाचाश्च तान्निवारय सर्वथा ।
तद्गच्छ पुत्र तत्र त्वं सर्वेषामधिपो भव ।।५९।।
राक्षसानां मया दत्तं तव राज्यं च साम्प्रतम् ।
राक्षसः प्राह राज्ये च मया भोक्तव्यमेव किम् ।।1.511.६० ।।
राज्ञा चैव मया देयं भृत्यानां भोजनं च किम् ।
न करोति च यो राजा भृत्यप्रजाप्रपोषणम् ।।६१ ।।
तस्यापि नरकप्राप्तिस्ततो देहि प्रभोजनम् ।
ब्रह्मा प्राह तिलैर्दर्भैविहीनं श्राद्धमेव ते ।।।६२।।
रजस्वलया संदृष्टं शूकरेणाऽवलोकितम् ।
शुना खरेण च दृष्टं विधिहीनं च तेऽर्पितम् ।।।६ ३ ।।
कुष्ठी कुनखी महिषो वा भुंक्ते यत्र तेऽर्पितम् ।
अस्नातैश्च कृतं तैलाभ्यंगवद्भिर्मलाम्बरैः ।।६४।।
भुंक्ते च श्यामदन्तो वा वृषलीपतिरेव वा ।
वेदहीनेन च कृतं ब्रह्मचर्यं विना कृतम् ।।६५
देवकार्यविहीनं च तत्ते सर्वं भविष्यति ।
प्रत्यक्षं लवणं तक्रं विकृतं ते भविष्यति ।।६ ६
यजमानो द्विजो वाऽथ ब्रह्मचर्यविवर्जितः ।
भोक्तापि तादृशो यत्र तत्सर्वं ते भविष्यति ।।६७
आयसेन तु पात्रेण यत् पावित्र्यविवर्जितम् ।
दत्तमन्नं सदा तेऽस्तु मन्त्रशुद्धिविवर्जितम् ।।६८
इत्युक्तो राक्षसो नत्वा दत्तं भुक्त्वा ययौ ततः ।
यज्ञकार्ये च सम्पन्ने परिहारः कृतस्तथा ।।६ ९
ततश्च पञ्चमे त्वह्नि पुलस्त्येन प्रबोधिताः ।
श्वेतधौताम्बराः स्नाताश्चक्रुः कर्माणि तत्क्रतौ ।।1.511.७०
सामवेदस्य गानेन तूद्गात्रा कर्मयोजितम् ।
शंकुभिः क्रियते यच्च तत्कृतं सुसमाहितम् ।।७१
देवैरागत्य सानन्दं कृतं वै सोमभक्षणम् ।
होमे प्रदीप्तवह्नौ च जायमाने पुनः पुनः ।।७२
प्रारब्धे सोमभक्ष्येऽथ गीते चोद्गातृनिर्मिते ।
आगता कन्यका त्वेका सामगीतिसमुत्सुका ।।७३
शंकुकर्णं निजं चित्ते वाञ्च्छमाना विचक्षणा ।
छन्दोगस्य सुता श्रेष्ठा देवशर्माभिधस्य सा ।।७४
उदुम्बरीतिनाम्ना सा सामश्रवणलालसा ।
उद्गातारं च सदसि वचनं व्याजहार वै ।।७५ ।
यथा तथा प्रवर्तन्ते शंकवः सामसूचिताः ।
दक्षिणाग्नौ कृते होमे पापनाशो भवेदिति ।।७६।
एवं तया दर्शितश्च होमः कृतो द्विजैरिति ।
ततः पप्रच्छुरेते तां कुत आयासि कन्यके ।।७७।
उदुम्बरी समुवाच पर्वतस्य ऋषेः सुता ।
जातिस्मराऽभिजाताऽस्मि शापाद् गन्धर्वलोकतः ।।७८
गायने स्वरभंगो वै नारदस्याऽन्वपद्यत ।
तदा च हसितस्तत्र नारदो गायने मया ।।७९।
ततः स कुपितो मह्यं मिथ्याऽहं हसितस्त्विति ।
तेन नारदशापोऽभून्मानुषी भव कन्यके ।।1.511.८०।।
मया प्रसादितः स्तोत्रैः शापान्तार्थं तदा च सः ।
प्राह मां मानुषी श्रेष्ठविप्रगृहे भविष्यसि ।।८ १ ।।
देवशर्मगृहे जाता तेनाऽहं कन्यकाऽधुना ।
सत्यभामा मम माता वर्तते च पतिव्रता ।।८२।।।
नारदेन तदा चोक्तं ब्रह्मा यज्ञं करिष्यति ।
तत्र तदा च समये शंकोश्चापि विपर्यये ।।८३ ।।
तदा तत्र त्वया वाच्यः स्थाने शंकुः समाहितः ।
दक्षिणाग्नौ कृते होमे पापनाशो भवेदिति ।।८४।।
तावत्तदा च ते मोक्षो भविष्यति न संशयः ।
इमा कान्तिं मम पश्य विमानं त्वागतं तथा ।।८५।।
अहं यास्यामि मे स्वर्गं गान्धर्वस्थानमद्य हि ।
उद्गाता च तदा प्राह यज्ञे क्षतेर्निवारिके ।।८६।।
तुष्टोऽहं त्वं वरं ब्रूहि न वृक्षा दर्शनं मम ।
उदुम्बरी तदा प्राह देहि मे देवसन्निधौ ।।८७।।
यज्ञे यज्ञे समाजे च मध्यस्था भुक्तिरेव मे ।
ततो मत्पुरतस्तत्र कार्यं शंकुप्रचारणम् ।।८८।।
मत्तेजःकर्मणा तुष्टिः स्वर्गस्थानां भवेत् तथा ।
एवं तद्वचनं श्रुत्वा उद्गाता तामथाऽब्रवीत् ।।८९।।
यज्ञे सदसि मध्ये त्वां विन्यस्य सम्प्रपूज्य च ।
वस्त्रभूषागन्धपुष्पलेपनैश्च ततः परम् ।। 1.511.९० ।।
शंकुप्रचारणं सर्वे करिष्यन्ति त्वदग्रतः ।
कल्याणं ते सदा चास्तु सन्तोषं त्वं परं व्रज ।। ९१ ।।
त्वया विरहितं कर्म निष्फलं भावि सर्वथा ।
या नारी सदसो मध्ये फलैस्त्वां पूजयिष्यति ।।९२।।
सा फलं प्राप्स्यति पूर्णं यज्ञस्य श्रेय इत्यपि ।
वस्त्रभूषादिभिः पूजाकर्त्री ते यज्ञपुण्यभाग् ।। ९३।।
इत्येवं देववर्यैश्च तथोद्गाता च भूसुरैः ।
उक्ता देवी ततो व्योम्नि दिव्या विमानगाऽभवत् ।। ९४।।
विमाने त्वम्बरे तस्याः पूजां कर्तुं जनाः स्त्रियः ।
सहस्रशश्चागतास्तैः पूजिता बहुवस्तुभिः ।।९५।।
श्रुत्वैवं देवशर्माऽपि पुत्रीं द्रष्टुं समागतः ।
पत्नीयुतो नमश्चक्रे पुत्रीं विमानगां सताम् ।।९६।।
पुत्री प्राह पितर्मा त्वं मा नमस्कारमाचर ।
प्राप्ता स्वर्गगतिर्मे वै पुण्यह्रासाद् विनंक्ष्यति ।।९७।।
तिष्ठाऽत्र स्वांगनायुक्तः स्वर्गं नेष्यामि वै सह ।
ततस्तौ हर्षितौ तस्याः पितरौ सुस्थितौ तदा ।। ९८।।
पुत्र्यां पूजां प्रपश्यन्तौ मन्यमानौ स्वधन्यताम् ।
अन्ये कुटुम्बिनश्चापि धन्यान् मत्वाऽत्र संस्थिताः ।।९९।।
तावद्भृगुः समायातो ब्रह्माणं सदसो बहिः ।
प्राह कन्यां यज्ञकार्ये गृहीत्वा नित्यदा पुनः ।। 1.511.१० ०।।
उद्गात्रा वेदमार्गोऽयं कृतश्चाऽवैदिकः प्रभो ।
देवीत्वं चार्पितं तस्यै मानुष्यै देवसन्निधौ ।। १०१ ।।
सोमपानं तया साकं यज्ञे नः सम्प्रवर्तितम् ।
एतद्योग्यं न वै जातं तस्माद् योग्यं विचारय ।। १ ०२।।
इत्युक्तो विश्वसृट् प्राह नैषा वै मानुषी सती ।
किन्तु गान्धर्वपुत्री सा देवी ह्युदम्बरी सदा ।। १ ०३।।
यज्ञे नारदशापाद्वै मुक्ता शंकुमिषेण सा ।
यज्ञीया देवता चेयं सर्वदा स्थास्यति ध्रुवम् ।। १ ०४।।
अथ तावच्च कैलासादागता मातरः क्रतौ ।
अष्टषष्टिसंख्यया वै हृष्टाः प्रोचुश्च वेधसम् ।। १ ०५।।
आमन्त्रिताः पवनेन तव यज्ञे समागताः ।
उदुम्बरी यज्ञमध्ये लब्धवती प्रपूजनम् ।। १ ०६।।
भागं चेति समाकर्ण्य चागतास्तत् पितामह ।
भागं स्थानं यज्ञसदोमध्ये देहि च शाश्वतम् ।। १ ०७।।
ब्रह्मणा त्वष्टषष्टिर्वै स्थानानि त्वर्पितानि हि ।
तेषु ताः सुस्थिता यज्ञे पूजिता बलिभिस्तदा ।। १ ०८।।
तर्पिताः संस्थिता मौनं सावित्री तत आगता ।
द्विजैः साऽभिहिता यज्ञे मा गच्छेति निवारिता ।। १ ०९।।
ब्रह्मणा परिणीताऽस्ति गायत्रीति वरांगना ।
इतिश्रुत्वा वज्रतुल्यं मेने शुशोच वै रुषा ।। 1.511.११ ०।।
सूर्यस्त्वस्तंगतस्तावत् परिहारः क्रतोरभूत् ।
याज्ञिकानां च विप्राणां तत्त्ववादोऽभवन्निशि ।। १११ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽतिथिदत्तवरदानं, पुलस्त्यपुत्रविश्वावसुना होमद्रव्यभक्षणं, राक्षसो भवेति शापः, पर्वतर्षिपुत्र्या उदुम्बर्या आगमनं क्रतौ पूजास्थानं च, अष्टषष्टिमातृकागणाऽऽगमश्चेत्यादिनिरूपणनामा एकादशाधिकपञ्चशततमोऽध्यायः ।। ५११ ।।