लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५१०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५०९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५१०
[[लेखकः :|]]
अध्यायः ५११ →

श्रीनारायण उवाच-
शृणु लक्ष्मि यजतश्च ब्राह्मणो वै क्रतौ तदा ।
ऋषीणां कोटिरायाता दक्षिणापथवासिनाम् ।। १ ।।
सिंहारण्यस्थितानां च नैमिषारण्यवासिनाम् ।
खण्डान्तरस्थितानां च कोटयः संगतास्तदा ।। २ ।।
श्रुत्वा पैतामहं यज्ञं कौतुकेन समन्विताः ।
कीदृशो भविता यज्ञो दीक्षितो यत्र पद्मजः ।। ३ ।।
रूपतीर्थे नागनद्यां स्नात्वा दिव्यस्वरूपिणः ।
ऋषयस्ते यज्ञभूमिं गत्वा नेमुः पितामहम् ।। ४ ।।
उपविष्टाः परिश्रान्ताः स्वागतेन प्रपूजिताः ।
चक्रुस्ते वै कथा दिव्या यज्ञकर्मसमुद्भवाः ।। ५ ।।
सोमपानस्य सम्बन्धे वादं चक्रुः परस्परम् ।
उद्गातुश्च तथाऽध्वर्योः तत्त्ववादो बभूव च ।। ६ ।।
भुक्तवन्तस्ततः सर्वे निन्युर्निंशां सुखेन ते ।
द्वितीये दिवसे प्राप्ते द्वादश्यां मखकर्मणि ।। ७ ।।
ऋत्विग्भिश्च समारब्धे कौतुकं शृणु पद्मजे ।
बटुः कश्चिन्नर्मकारी जलसर्पं सदःस्थले ।। ८ ।।
चिक्षेप प्रहसन् शीघ्रं विधातुः सन्निधौ ततः ।
डुण्डुभः स भ्रममाणो होतुः पार्श्वमुपाययौ ।। ९ ।।
होतारं वेष्टयामास भृगुं तथापि वै भृगुः ।
न चचाल निजस्थानात् प्रायश्चित्तबिभीषया ।। 1.510.१ ०।।
तदोद्वेगश्च सर्वेषां क्षोभो मनाक् बभूव ह ।
मुनिश्च्यवनः पितरं ददर्श सर्पवेष्टितम् ।। १ १।।
सर्पप्रक्षेपकं बालं शशाप क्षोभकारकम् ।
यस्मात् पाप त्वया सर्पः क्षिप्तः सदसि दुर्मते ।। १२।।
तस्माद् भव द्रुतं सर्पः श्रुत्वाऽथाऽऽह बटुस्तु तम् ।
हास्येन जलसर्पोऽयं मया मुक्तोऽत्र लीलया ।। १३ ।।
न होतारं समुद्दिश्य कस्माच्छापं ददासि मे ।
इति प्रवदन् सर्पत्वमापन्नः स क्षणान्तरे ।। १४।।
सनातनऋषेः पुत्रो बटुः शुशोच वै मुहुः ।
डुण्डुभं स्वं समादाय ययौ भृगुं जगाद च ।। १५।।
सनातनसुतश्चास्मि पौत्रस्तु परमेष्ठिनः ।
शप्तस्तव सुतेनाऽस्मि च्यवनेन महात्मना ।। १६।।
शापाद् रक्ष मुने विप्रं बटुं मां शरणागतम् ।
श्रुत्वा भृगुः कृपाविष्टश्च्यवनं प्राह रे सुत! ।। १७।।
अयुक्तं विहितं त्वेतद् यच्छप्तोऽयं बटुस्त्वया ।
न त्वां धर्षयितुं शक्तो विषाढ्योऽपि भुजंगमः ।। १८।।
किम्पुनर्जलसर्पोऽयं निर्विषो रज्जुसन्निभः ।
शापमोक्षं कुरुष्वाऽस्य विप्रबटुः सुखीभवेत् ।। १ ९।।
च्यवनः प्राह शापो मे मिथ्या नैव भवेत् पितः ।
ब्रह्मा श्रुत्वा तदा प्राह जातं सर्वं मदिच्छया ।।1.510.२०।।
पुरा संसृष्टुकामोऽहं नागानां नवमं कुलम् ।
तद्भविष्यति वै त्वत्तस्तव वंशो धरातले ।।२ १ ।।
नागः कर्कोटकः पुत्रीं निजां दास्यति ते प्रियाम् ।
तव वंशः सविस्तारो मर्त्यलोके निवासकृत् ।।।२२।।।
श्रावणशुक्लपञ्चम्यां जनास्तद्वंशपूजनम् ।
करिष्यन्ति तव वासो नागतीर्थं प्रथिष्यते ।।२३।।
एवं प्रवदतोऽजस्य यज्ञे नागाः समाययुः ।
निमन्त्रिताश्च वासुकिस्तक्षकश्च कृषीहरः ।।२४।।
पुण्डरीकः कम्बलाश्वतरौ कालपरो बलः ।
शेषश्चान्ये प्रणम्योचुर्यज्ञे देवं पितामहम् ।।२५ ।।
सेवाकार्यं क्रतौ ब्रह्मन् प्रयच्छ नः सदोचितम् ।
ब्रह्मा प्राह भवन्तोऽत्र कामरूपधराः शुभाः ।।२६ ।।
नागतीर्थे निवसन्तु यज्ञे येषां च दुष्टता ।
विघ्नेच्छा च भवेत् तेभ्यो रक्षणीयः क्रतुर्मम ।।२७।।
एतत्कृत्यतमं नागा मम यज्ञस्य रक्षणम् ।
भाद्रकृष्णस्य पञ्चम्यां जनैः पूजामवाप्स्यथ ।।२८।।
बाढमुक्त्वा च ते सर्वे नागतीर्थमुपाश्रिताः ।
सनातनसुतोपेताः सनातनस्य वंशकृत् ।।२९।।
परिणेमे सुतां कर्कोटकस्य नवयौवनाम् ।
तद्वंशः सर्वथा भूमौ विस्तृतश्चाऽभवत्ततः ।।1.510.३०।।
यत्फणासु बिन्दुयुक्तं तिलकं चतुरस्रकम् ।
उपरि दण्डशून्यं च ते सनातनवंशजाः ।।३ १ ।।
वैष्णवा बहुरूपाश्च शुक्लाः पिंगाश्च पाण्डुराः ।
रक्ताः कृष्णा हरिताश्च बभूवुः कालभेदतः ।।३२।।
कर्बुराश्च ततो जाताः सांकर्यान्निर्विषास्तथा ।
जलसर्पाः स्थलसर्पाः कामरूपधरास्तथा ।।३३।।
अथ भोज्यादिकं चक्रुः सायं रात्रौ च जागरम् ।
तृतीये च दिने त्रयोदश्यां ऋत्विज एव ते ।।३४।।
प्रातः सवनमासाद्य संलग्ना यज्ञकर्मसु ।
यज्ञे प्रवर्तिते शब्दस्तत्राऽभूद् विरतिं विना ।।३५।।
दीयतां दीयतां त्विष्टं भुज्यतां भुज्यतां बहु ।
नीयतां नीयतां दानं वाञ्च्छिताद्वै चतुर्गुणम् ।।३६।।
पक्वान्नानां पर्वताश्च वित्तानां राशयस्तथा ।
घृतक्षीरवहा नद्यो मिष्टपेयसरांसि च ।।३७।।
आसन् सहस्रगुणिताः कोटितृप्तिप्रदास्तदा ।
एतस्मिन्नन्तरे तत्र कश्चिज्ज्ञानी समागतः ।।३८।।
त्रिकालज्ञो नमस्कृत्य ब्रह्माणं निषसाद ह ।
कथयामास सर्वान् स नैजं परिचयं ततः ।।३९।।
ऋत्विजस्तं पप्रच्छुः स्वभूतकर्माणि कौतुकात् ।
स तानि कथयामास तेनाऽऽश्चर्यान्विताश्च ते ।।1.510.४०।।
पप्रच्छुर्वद कस्मात्ते ज्ञानं लोकोत्तरं ननु ।
को गुरुस्ते वद विद्वन् ब्रह्मा हरो हरिश्च वा ।।४१ ।।
ज्ञानी प्राह गुरवो मे षडेते पिंगला तथा ।
कुररः सर्पो भ्रमरश्चेषुकारः कुमारिका ।।४२।।
एतेषां वर्तनाज्ज्ञानं लब्धं मया शुभोत्तमम् ।
सौराष्ट्राधिपतेरासीन्नारीणां शतकं द्विजाः ।।४३।।
तस्याऽप्यन्तःपुरे चासीत् पिंगला नाम नायिका ।
रात्रौ सुखं स्वपित्येव पतिहीना निरीहिणी ।।४४।।
अन्यास्तु शतशो भार्या रजन्यां कामवाञ्च्छया ।
आहरन्ति शुभान् धूपान् लेपाँश्च कुसुमानि च ।।४५।।
विलेपनानि मुख्यानि सूक्ष्माणि चाम्बराणि च ।
मन्मथोत्साहसंयुक्ताः पुलकेन समन्विताः ।।४६।।
एका जानाति मां शय्यां नूनमेवाऽऽह्वयिष्यति ।
अन्या जानाति मां चैव तृतीया मां च नाऽपराम् ।।४७।।
स्पर्धयन्ति प्रपश्यन्ति प्रतीक्षन्ति नृपं तदा ।
तासामेकामाह्वयति द्वितीयां वा तृतीयकाम् ।।४८।।
चतुर्थीं वा पञ्चमीं वा दश वा तु क्वचिन्निशि ।
शेषाः शोकं समासाद्य निःश्वस्य प्रस्वपन्ति च ।।४९।।
आशादुःखगता नैव लभन्ति निद्रिकालवम् ।
आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।।1.510.५० ।।
आशां निराशां कृत्वा च सुखं स्वपिति पिंगला ।
न करोति च शृंगारं न स्पर्धां च कथंचन ।।५१ ।।
न व्याकुलत्वमापेदे सुखं स्वपिति पिंगला ।
अन्तःपुरस्य सेवायां नियुक्तेन मया सदा ।।५२।।
विलोकितं ततश्चाहं त्यक्त्वाऽऽशां प्रस्वपिम्यपि ।
ये स्वपन्ति सुखं रात्रौ तेषां जाठरजोऽनलः ।।५३ ।।
इध्यते भोजनं पूर्णं गृह्णाति याति पुष्टताम् ।
तदेतत् कारणं जातं पुष्टता ज्ञानवर्धिनी ।।५४।।
श्रूयतां कुरराल्लब्धं ज्ञानं यथा वदामि तत् ।
ममाऽऽसीद् द्रविणं भूरि पितृपैतामहं महत् ।।५५।।
द्रविणस्य कृते मां च प्रबाधन्ते दिवानिशम् ।
पुत्राः पौत्राश्च दायादा बान्धवा ज्ञातयस्तथा ।।।५६ ।।
यस्याऽहं न प्रयच्छामि स मां नित्यं प्रबाधते ।
एकस्तु यतते प्राणान् हर्तुं नित्यं ममान्तिके ।।५७।।
अपरो दण्डयुक्तश्च भयं दत्वा प्रयाचते ।
तृतीयो याचते साम्ना परः प्रशंसया तथा ।।५८ ।।
अन्यो भेदेन च तथेतरो जयप्रदानकैः ।
याचते द्रविणं चान्ते दीनो भूत्वाऽपि वै मुहुः ।।५९।।
एवं नाहं क्वचित् सौख्यं तेषां पार्श्वाल्लभामि वै ।
दिवारात्रौ सुखं निद्रां शान्तिं लभामि नैव च ।।1.510.६० ।।
अथैकस्मिन् दिने दृष्टः कुररो मांससंयुतः ।
हन्यमानो व्योममार्गे मांसार्थं परितः खगैः ।।६ १।।
मांसं चञ्च्वा पतितं तदनुपेतुः खगाश्च ते ।
कुररश्च सुखी जातः पक्षिभिस्तैः समुज्झितः ।।६२।।
आमिषस्य परित्यागात् कुररः सुखमेधते ।
मया पुत्रादिकान् द्रव्यं विभज्याऽर्पितमेव ह ।।६३ ।।
ततः प्रभति तैर्मुक्तः सुखं तिष्ठामि पुष्टिमान् ।
अर्थसम्पद् विमोहाय विमोहो नरकाय च ।।६४।।
तस्मादर्थमनर्थं तु मोक्षार्थी दूरतस्त्यजेत् ।
यथाऽऽमिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि ।।६५।।
आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ।
दोषहीनोऽपि धनवान् भूपालैर्दण्ड्यते मुहुः ।।६६।।
दरिद्रः कृतदोषोऽपि प्रायः सन्त्यज्यते जनैः ।
परैः समावृता नित्यं यान्ति स्खलन्ति वै पदे ।।६७।।
असम्बद्धानि जल्पन्ति धनिनो मद्यपा यथा ।
भक्ते द्वेषो बहिः प्रीतिः रुचिरं गुरु लघ्वपि ।।६८।।
मुखे तु कटुकं नित्यं धनिनां ज्वरिणामिव ।
अर्थार्थं जीवलोकोऽयं श्मशानमपि सेवते ।।६९।।
जनितारमपि त्यक्त्वा निःस्वं यान्ति सुता अपि ।
तावत् निष्ठति मैत्री वै यावन्नार्थप्रयोगिता ।।1.510.७० ।।
सम्बन्धेऽर्थस्य संजाते वैरं सम्पद्यते स्वयम् ।
ततो वित्तं विहायाऽहं सुखं कुररवत् स्थितः ।।७१।।
सर्पाज् ज्ञानं यथा लब्धं कथयामि यथा पुरा ।
सर्पः परकृतं वेश्म प्रविश्य सुखमश्नुते ।।७२।।
उषित्वा तत्र सौख्येन त्यक्त्वा याति दिगन्तरम् ।
ममत्वं कुरुते नैव स्वयं नैव करोति च ।।७३।।
गृहारंभस्तु दुःखाय न सुखाय कदाचन ।
गृहारम्भेण ममता मृत्युकाले प्रतिष्ठति ।।७४।।
गृहे कृते कृता भार्या ततः पुत्राश्च कन्यकाः ।
कृत्याऽकृत्यं तदर्थं च पुनर्भोगाय तिष्ठति ।।७५।।
कोशकारमिवाऽऽत्मानं वेष्टितं नैव बुद्ध्यते ।
अहंताममतायुक्ताः सक्ताः सीदन्ति जन्तवः ।।७६।।
स्नेहपंकार्णवे मग्नाः पुत्रस्त्रीपशुसम्पदाम् ।
यथा मत्तगजा अज्ञास्तथा नश्यन्ति मानवाः ।।७७।।
भृत्यः पापानि कुरुते भुक्तेऽर्थांश्च महाजनः ।
भोक्ता मुक्तश्च तत्पापात् कर्ता दोषेण लिप्यते ।।७८।।
मोक्षमार्गार्गलभूतं हर्म्यं त्यक्तं मया ततः ।
गृहिणां दुःखदात्रा न भवितव्यं सता क्वचित् ।।७९।।
यत्र क्वापि वसेन्नित्यं सत्तावर्ज्यं द्रुमाश्रये ।
बाधावर्ज्यां चरेद् भिक्षां माधुकरी विधूमके ।।1.510.८०।।
ध्यायेन्नारायणं जपेत् कृष्णनारायणं सदा ।
रागद्वेषौ न वै कार्यौ शत्रुता मित्रता न च ।।८ १ ।।
लोष्टाऽश्मकाञ्चनानां च तुल्यताऽमानमानयोः ।
देशो यस्य स्वस्य नास्ति परो वा नास्ति सर्वदा ।।८२।।
वसुधाऽस्ति कुटुम्बं वा ब्रह्मकुटुम्बमेव वा ।
चतुर्विंशतितत्त्वानि गृहं कुटुम्बमस्थिरम् ।।८३ ।।
सहैव तूह्यते नित्यं नान्यगृहे तु वासना ।
कुलालचक्रवच्चात्र वेगेन भ्रमणं यदा ।।८४।।
शान्तिं यास्यति तावत्तु मोक्षघटं समर्जयेत् ।
एवंज्ञानं मया सर्पाल्लब्धं वै मोक्षदायकम् ।।८५।।
तत्प्रभावान्महत्तेजः सुखं मे वर्तते सदा ।
अथापि भ्रमराल्लब्धं ज्ञानं वदामि सारजम् ।।।८६।।
कस्मिँश्चित्तु द्रुमे दृष्टो भ्रमरो वै मया पुरा ।
शाखाग्रं स समाश्रित्य कृतपूर्वनिकेतनः ।।८७।।
वसन्ते द्रुमपुष्पेषु फलेष्वपि सुगन्धिषु ।
वन्येषु बहुवृक्षेषु स्थितं श्रेष्ठतरं रसम् ।।८८ ।।
समादाय निकेते स्वे नियोजयति नित्यदा ।
अनुद्वेगो मधुश्रेष्ठं पुटके भृतवान् बहु ।।८९।।
तेन तृप्तिं प्रयाताश्च बहवो मधुपाः परे ।
मया सारं गृहीतं च शास्त्राणां मधुवत् शुभम् ।।1.510.९०।।
रचितानि सुशास्त्राणि तानि गृह्णऽन्ति मानवाः ।
उपजीवन्ति वै चान्ये यथा भृंगास्तथा जनाः ।।९१ ।।
तेन पुण्येन तेजस्वी चास्मि ज्ञानेन सर्वदा ।
आत्मारामाश्च मुनयो भोगतृष्णाविवर्जिताः ।।९२।।
सारमाध्वीकसन्तृप्ताः प्रभवन्ति सुतेजसः ।
लोभमोहान्विता ये ते जायन्ते वै वितेजसः ।।९३।।
वेदाः शास्त्राणि लोकानां हितार्थाय मया कृताः ।
सारमादाय सर्वेभ्यो दत्तवानस्मि वै सुखी ।।९४।।
इषुकाराद् यथा लब्धं ज्ञानं तत् प्रवदामि च ।
आत्माऽवलोकनार्थाय मया पृष्टाः सहस्रशः ।।९५ ।।
आत्मदर्शनप्रख्यातास्तदुक्त च मया कृतम् ।
ज्ञानेन चापि योगेन चाध्यात्मपठनेन च ।।९६।।
अभ्यासेन च दिव्येन चक्षुषा तन्मया कृतम् ।
न. वै दृष्टो मयाऽऽत्मा तु ततो वैराग्यवानहम् ।।९७।।
अभ्रमद् भूतले तादृग्गुर्वर्थं यः प्रदर्शयेत् ।
आत्मानं किन्तु कुत्रापि नाऽलभं तादृशं गुरुम् ।।९८।।
अथाऽहं राजमार्गस्य निर्जने च स्थले स्थितः ।
कश्चिदभ्यासकर्ता च यत्र विध्यति लक्ष्यकम् ।।९ ९ ।।
इषुणा च मुहुर्लक्ष्यं त्वेकाग्रमनसा हि सः ।
विध्यत्येव हि पार्श्वस्थं नाऽन्यज्जानाति चापरम् ।। 1.510.१० ०।।
तन्मार्गेण तु सैन्येन सहितो नृपतिर्ययौ ।
मया दृष्टोऽथ केनापि समागत्य क्षणान्तरे ।। १०१ ।।
इषुमान् लक्ष्यवेद्धाऽयमभ्यासदत्तमानसः ।
सम्पृष्टः कियतीर्वेला गता यातस्य भूपतेः ।। १०२ ।।
इषुकारो न शुश्राव पुनः पप्रच्छ तं तथा ।
तयापि नैव शुश्राव लक्ष्ये तल्लीनतां गतः ।। १०३ ।।
पुनः स्पृष्ट्वा कम्पयित्वा पप्रच्छ मानवो हि तम् ।
तदा प्राहेषुमान्नैव वीक्षितः क इतो गतः ।। १ ०४।।
नेतः सैन्यं गतं दृष्टं पृच्छाऽन्यं चेद् गतो भवेत् ।
शरलक्ष्यसमभ्यासमानसो न व्यलोकयम् ।। १०५ ।।
तच्छ्रुत्वा च मया तत्र त्वात्मदर्शनहेतवे ।
चिन्तितं त्वेकचित्तत्वं स्वात्मदर्शनकारकम् ।। १ ०६।।
आत्मज्ञानं ब्रह्मविद्या विना चित्तनिरोधनम् ।
नैव सञ्जायते क्वापि विनाऽभ्यासं न दर्शनम् ।। १ ०७।।
लब्धं चेति मया ज्ञानं तत्करोमि निरोधनम् ।
चिन्तयामि हरिं नित्यं हृत्पंकजनिवासिनम् ।। १ ०८।।
विश्वरूपं हरिं कृष्णनारायणं बहिर्हृदि ।
सुरूपं धारयाम्येव ध्यायामि च पुनः पुनः ।। १ ०९।।
ततो दिक्षु दिगन्तेषु गगने पृथिवीतले ।
नरे बाले गवि वृक्षे स्त्रीषु वल्लीषु पर्वते ।। 1.510.११० ।।
अग्रे पृष्ठे सर्वतत्त्वे पश्याम्यभ्यासतो हरिम् ।
तमेकं चैवं पश्यामि नान्यत् किंचिद् विना हरिम् ।। १११ ।।
अहं तत्तेजसा चैवं दीप्तोऽस्म्यद्य सदा तथा ।
एवं ज्ञानं ततो लब्धं ध्यानाभ्यासस्य सर्वथा ।। ११ २।।
अथ कन्यासकाशाच्च लब्धं ज्ञानं ब्रवीम्यहम् ।
मम पृष्ठे पुरा मार्गे मम पत्नी विनिर्गता ।। १ १३।।
नारी पुत्रवती कन्यावती प्राह पतिं च माम् ।
कुरु योगं गृहे मुक्तिर्भविष्यति न संशयः ।। १ १४।।
ब्रह्मचारी यतिर्भूत्वा संयतात्मा भव गृहे ।
यदि मां त्वं परित्यज्य यास्यस्यन्यत एव चेत्। ।। ११५।।
तदहं तु मरिष्यामि बालस्तेऽपि मरिष्यति ।
मरिष्यति कुमारी च ततो नाथ दयां कुरु ।। १ १६।।
मा व्रजस्व परं तीर्थं गृहतीर्थं विहाय वै ।
हाटकेश्वरजं तीर्थं स्मरणान्मुक्तिदं यतः ।। १ १७।।
इतिभार्यावचसाऽहं पर्णकुटिं विधाय च ।
हाटकेश्वरजे क्षेत्रे नातिदूरं वसामि वै ।। १ १८।।
वानप्रस्थस्य मे कन्या क्रीडति वै ममाश्रमे ।
प्रकोष्ठे वलयैर्युक्ता बहुभिः शब्दकारिभिः ।। ११ ९।।
काष्ठद्यानयने कार्ये काष्ठघातेन वै क्वचित्। ।
क्वचिदेकैकवलयं भिद्यते खण्डशः क्वचित् ।। 1.510.१ २०।।
एवं याते तु समयेऽवशिष्टं वलयद्वयम् ।
ततः शब्दोऽपि भवति ततः काले गते पुनः ।। १२१ ।।
प्रतिप्रकोष्ठं त्वेकं तु वलयं विद्यतेऽधुना ।
न संघर्षो न शब्दश्च ह्येकलस्य प्रजायते ।। १२२।।
तद्विचिन्त्य मया ज्ञानं प्राप्तं त्यक्तः स चाऽऽश्रमः ।
बहुभिः कलहो नित्यं द्वाभ्यां संघर्षणं तथा ।। १ २३।।
एकाकी विचरिष्यामि कुमारीवलयं यथा ।
ततो दाराऽऽसुतपुत्रीः परित्यज्य भ्रमाम्यहम् ।। १ २४।।
यत्राऽस्तमितशायी च यल्लब्धकृतभोजनः ।
स्मरामि सर्वदा कृष्णनारायणं विबन्धनः ।। १ २५।।
एवं लब्धं मया ज्ञानं तेभ्यस्तेभ्यो विचिन्तनात् ।
यस्माद् यस्माद् भवेज्ज्ञानं स स्याद् गुरुस्तथा च ते ।। १२६।।
एभिर्लोकान्तरज्ञानं मयाऽऽत्मज्ञानमेव च ।
लब्धं तच्छ्रीकृष्णनारायणानुग्रहतोऽधिकम् ।। १ २७।।
एतस्य श्रवणाच्चापि लभते ज्ञानमीदृशम् ।
इत्युक्त्वा विररामाऽसौ ज्ञानी यज्ञाऽतिथिस्तदा ।। १२८।।
अश्वपट्टसरःस्थो वै कृष्णनारायणः स्वयम् ।
यज्ञेऽतिथिश्च सत्कार्यः इत्यादेशार्थमागतः ।। १२९।।
विज्ञाय श्रीकृष्णनारायणं ध्यानेन ऋत्विजैः ।
सत्कृतः श्रीहरिर्विप्रः ऋत्विक्षु निषसाद ह ।। 1.510.१३ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने यज्ञे सनातनसुतस्य बटुरूपेण सर्पक्षेपणार्थमागमनम्, ततः श्रीकृष्णनारायणस्याऽतिथिरूपेण स्वगुर्वादिज्ञानप्रदानार्थमागमनम्, ज्ञाननिरूपणं चेत्यादिप्रदर्शननामा दशाधिकपञ्चशततमोऽध्यायः ।।५१० ।।