लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५००

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४९९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५००
[[लेखकः :|]]
अध्यायः ५०१ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां कर्णोत्पलाया ब्रह्मयोषितः ।
सत्यसन्ध इति ख्यातः पुराऽऽसीत् पृथिवीपतिः ।। १ ।।
तस्य कर्णोत्पलानाम्नी कन्याऽऽसीद् धर्मपालिनी ।
लक्ष्म्यंशरूपा चिह्नैश्च रेखाभिः कमलासमा ।। २ ।।
युवतीं तां वरयोग्यां दृष्ट्वा स पृथिवीपतिः ।
चिन्तयामास च मुहुः कस्येमां प्रददाम्यहम् ।। ३ ।।
न तस्याः सदृशः कश्चिद् वरोऽत्र धरणिस्थले ।
न स्वर्गे न च पाताले तस्माद् यामि पितामहम् ।। ४ ।
ब्रह्माऽत्र विषयेऽवश्यं यं वरं दर्शयिष्यति ।
तस्मै पुत्रीं प्रदास्यामि नान्यस्मै वै कथंचन ।। ५ ।।
अथ पुत्रीं सहनीत्वा ब्रह्मलोकं जगाम सः ।
ब्रह्मा चासीत् कृष्णपूजापरं क्षणं जगत्पतिः ।। ६ ।।
पूजान्ते सत्यसन्धः स राजा ब्रह्माणमादरात् ।
पुत्र्या सह नमस्कृत्य प्रोवाच विनयाऽन्वितः ।। ७ ।।
अहं पितः समायातो मर्त्यलोकात्तवाऽन्तिकम् ।
सत्यसन्धो महीपाल आनर्तदेशविश्रुतः ।। ८ ।।
इयं कर्णोत्पलानाम्नी कमलांशा सुता मम ।
अस्या योग्यः पतिः कश्चिन्नान्यलोके विलोक्यते ।। ९ ।।
तस्मान्मे ब्रूहि भर्तारमस्या येन ददाम्यहम् ।
श्रुत्वा ब्रह्मा च तं प्राह शृणु राजन् वृषं प्रति ।।1.500.१ ०।।
आत्मश्रेणीप्रसूताय वयोज्येष्ठाय सर्वथा ।
कन्या देया तु धर्माय यशसे कुलवृद्धये ।। ११ ।।
सेयं तव सुता मर्त्ये ज्येष्ठभावं समाश्रिता ।
सर्वेषां भूमिपालानां वार्धक्यमत्र तच्छृणु ।। १ २।।
ममाऽन्तिकं प्रपन्नस्य तव जातं युगत्रयम् ।
अतीता भूतले मर्त्या ये दृष्टा प्राक् त्वया नृप ।। १ ३।।
अन्या सृष्टिः समुत्पन्ना सांप्रतं धरणिस्थले ।
ममात्र सत्यलोके तु ये वर्तन्ते महर्षयः ।। १४।।
न वै ते मानुषीं भार्यां कुर्वन्ति हि कथंचन ।
श्लेष्ममूत्रपुरीषाणां संस्थानमतिगर्हिताम् ।। १५।।
तपसा कन्यका चेयं कायान्तरं करोति चेत् ।
कामदेवो दिव्यरूपां ग्रहीष्यति सुतां तव ।। १६।।
नाम्ना प्रीतिं द्वितीयां वै भार्यां रत्युत्तरागताम् ।
तस्माद् राजेन्द्र भूलोकं याहि त्वसुतया सह ।। १७।।
कामदेवाय दातव्या त्वया कालान्तरे सुता ।
इत्युक्तः सकन्यकः स भूतलं प्रसमाययौ ।। १८।।
यावत्पश्यति देशं सः स्थलस्थाने जलाशयान् ।
जलस्थानेषु वै जातान् स्थलसंघान् विचित्रकान् ।। १ ९।।
अन्यान् लोकांस्तथा धर्मान् देशे तत्र व्यवस्थितान् ।
पृच्छन्नपि न जानाति सम्बन्धं केनचित् सह ।।1.500.२०।।
पुत्राः पौत्रास्तथा भृत्या हस्त्यश्वादिकमित्यपि ।
ते सर्वे निधनं प्राप्ता युगान्तरे च बान्धवाः ।।२१ ।।
अथ मर्त्याऽनिलस्पृष्टस्तत्क्षणात् स महीपतिः ।
सा च कन्या जराग्रस्तौ तावुभौ श्वेतमूर्धजौ ।।२२।।
शीर्णदन्तौ बलिपूर्णी विरूपौ जर्जरात्मकौ ।
अमनोज्ञावतिजातौ चिपिटाक्षौ पुरातनौ ।।२३।।
स तु राजा तथाभूतो वेपमानः पदे पदे ।
पप्रच्छ .मानवान् कोऽत्र देशः कोऽयं पुरं च किम् ।।२४।।
अथ प्रोचुर्जनास्तस्य देशश्चानर्तसंज्ञकः ।
बृहद्बलाख्यो राजाऽत्र प्राप्तिपुरं च पत्तनम् ।।२५।।
शुभ्रमती सरिच्चैषा गर्तातीर्थं च नामतः ।
इति श्रुत्वाऽन्यनामानि विस्मयं त्वाप भूपतिः ।।२६।।
शुशोच वै क्षणं पश्चात् स्नात्वा नद्यां स भूपतिः ।
विद्यमानं बृहद्बलं प्रति ययौ सकन्यकः ।।२७।।
सत्यसन्धस्तमुवाच राजन् वृत्तं निबोध मे ।
आनर्ताधिपतिश्चाहं सत्यसन्धः पुरात्विति ।।२८।।
आसं कर्णोत्पलानाम्नी सुता मे गुणशालिनी ।
सेयं मया सहैवाऽऽस्ते लक्ष्मीतुल्या रमाकला ।।२९।।
सोऽहमस्याः प्रदानार्थं सत्यलोकमितो गतः ।
प्रष्टुं पितामहं देवं स्थितस्तत्र मुहूर्तकम् ।।1.500.३ ० ।।
तावदत्र व्यतीता वै युगा बहुतरा नृप ।
सत्यलोकात् समायातो यावत्पश्यामि भूतलम् ।।३ १ ।।
सर्वं परिणतं वारि स्थलं वनं च पत्तनम् ।
अज्ञातमिव मे सर्वं लोक्यते किन्तु मानवैः ।।३२।।
तव नाम प्रदत्तं तत्समायातोऽस्मि तेऽन्तिकम् ।
राजा बृहद्बलो लक्ष्मि! श्रुत्वा वंशप्रपूर्वजम् ।।३३।।
श्रुतं सत्यगतं चात्राऽऽयातं दृष्ट्वाऽतिविह्वलः ।
हर्षाश्रुनयनो भूत्वा पपात तस्य पादयोः ।।३४।।।
उवाच स्वागतं राजन् भूयः सुस्वागतं पितः ।
इदं राज्यं निजं भूयो मया भृत्येन रक्षितम् ।।३५।।
स्वेच्छया देहि दानानि कुरु राज्यं निजं पितः ।
ततः सोऽपि वंशजं स्वं समालिंग्य नृपं नृपः ।।३६।।
शिरस्याघ्रायाऽश्रुपूर्णनेत्राभ्यां तं सिषेच च ।
प्राह राज्यं मया चीर्णं दत्तं दानं पुरा बहु ।।३७।।
वाजिमेधमुखैर्यज्ञैरिष्टं सम्पूर्णदक्षिणैः ।
तस्मात् तपश्चरिष्यामि सुतया त्वनया सह ।।३८।।
बृहद्बलस्तमुवाच यथेष्टं कुरु पार्थिव ।
तवैवास्ति महद्राज्यं गृहाण वा तपः कुरु ।।३९।।
पारम्पर्येण राजेन्द्र मयैतत्सकलं श्रुतम् ।
सत्यसन्धो महीपालः कन्यामादाय निर्गतः ।।1.500.४०।।
पुनश्चिरं स नायातस्ततस्तस्य सुमन्त्रिभिः ।
अभिषिक्तः सुतस्तस्य सुहयो नाम पार्थिवः ।।४१ ।।
तस्याऽहं क्रमशः सप्तसप्ततितमवंशजः ।
पुरुषोऽस्मि समुद्धर्ता धन्योहं दर्शनात्तव ।।४२।।
गर्तातीर्थे कुरु तपः पुत्र्या समं पितामह ।
येन ते चरणौ नित्यं सेवयिष्ये ससेवकः ।।४३।।
श्रेयः प्राप्नोम्यसंन्दिग्धं प्रसादः क्रियतामिति ।
अथ प्रजा ब्राह्मणाश्च नरा नार्यश्च राष्ट्रजाः ।।४४।।
समाययुः सत्यसन्धं द्रष्टुं कुतुहलान्विताः ।
आशीर्वादान् प्रयुञ्जानाः पुपूजुस्तं मुदान्विताः ।।४५।।
अथ राजा तथा कन्या नदीं प्राप्य तटे तदा ।
कृत्वा पर्णाश्रमं तत्र तेपाते तप उत्तमम् ।।४६।।
गौरीं तत्र प्रतिष्ठाप्य कर्णोत्पला तु नित्यदा ।
भक्त्या त्वाराधयामास राजा च शंकरं ततः ।।४७।।
साक्षात्तुष्टो महादेवः प्रसन्नास्यः समाययौ ।
राजानमाह तपसा वर्धते पुण्यमत्यति ।।४८।।
वद किं ते ददाम्यत्र राजा वव्रे प्रमोक्षणम् ।
शंभुः प्राह परं मोक्षं कृष्णनारायणः स्वयम् ।।४९।।
प्रदास्यति प्रभुस्त्वां त्वं गृहाण तुलसीस्रजम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।।1.500.५०।।
मन्त्रं गृहाण चेत्युक्त्वा ददौ मन्त्रं च मालिकाम् ।
शंभुस्तिरोऽभवद् राजा भेजे जजाप माधवम् ।।५१ ।।
अथ राजा वृहद्बलो ह्यवाप निधनं तदा ।
सत्यसन्धेन विप्रेभ्यो जीविकाद्याः समर्पिताः ।।।५२।।।
एवं याते दिने गौरी सन्तुष्टा कन्यकोपरि ।
साक्षात् प्रोवाच ते पुत्रि तुष्टाऽहं वाञ्च्छितं वद ।।५ ३ ।।
कर्णोत्पलाऽऽह तातो मे मदर्थं कष्टमाप्तवान् ।
मम पत्युर्मार्गणाय राज्याद् भ्रष्टः कुटुम्बतः ।।५४।।
वैराग्येण तपस्तेपे कन्याऽहं वृद्धतां गता ।
ततस्ते कृपया गौरि यथाऽहं तरुणी नवा ।।५५।।
रूपयौवनसम्पन्ना सुन्दरी स्यां तथा कुरु ।
तथा. भवतु मे भर्ता कश्चिद् देवोत्तमोत्तमः ।।५६।।
रूपसम्पद्यौवनादियुक्तश्चिरंप्रजीवनः ।
यथापितुर्मे सन्तोषो भवेन्मातस्तथा कुरु ।।५७।।
गौरी प्रोवाच माघस्य शुक्लस्य तृतीयातिथौ ।
शनैश्चरदिने वसुदैवत्यर्क्षे तु यौवनम् ।।५८।।
रूपं संकल्प्य नद्यां च स्नानं कुर्वत्र सुन्दरि! ।
ततो दिव्यशरीरा त्वं नवयौवनशालिनी ।।५९।।
भविष्यसि न सन्देहो भज कृष्णनरायणम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ।।1.500.६ ०।।
जप मन्त्रं सदा त्वेनं ध्यानं कुरु हरेस्तथा ।
सर्वं प्राप्स्यसि तपसा भक्त्याऽभीष्टं क्षणं कुरु ।।६ १ ।।
एवमुक्त्वा कृष्णमन्त्रं दत्वा च तुलसी स्रजम् ।
तिरोबभूव गौरी च कन्या यथोक्तमाचरत् ।।६२।।
तृतीयायां शनेर्योगे वसुदेवर्क्षसंयुते ।
ध्यात्वा सारूप्य सौभाग्ययौवनानि नवानि च ।।६ ३ ।।
विवेशार्धनिशायां सा जले यावत्तदैव सा ।
नवयौवनरूपाढ्या निष्क्रान्ता सलिलात् तदा ।।६४।।
तावच्छ्रीब्रह्मणाऽऽज्ञप्तः कामदेवः स्वयं खलु ।
पत्न्यर्थं प्रीतिसंयुक्तश्चाऽऽजगामाऽब्रवीच्च ताम् ।।६५ ।।
ब्रह्मणा प्रेषितश्चाहं नवयौवनरूपवान् ।
पार्वत्यानुमतश्चात्र त्वदर्थं त्वागतोऽस्म्यहम् ।।६६ ।।
अस्म्यहं कामदेवो वै चिरंजीवी रतीश्वरः ।
प्रीतिनाम्नी मम भार्या शाश्वती भव मा चिरम् ।।६७।।
कर्णोत्पलाऽऽह मे तातं गत्वा प्रार्थय मां स्वयम् ।
कन्या नास्ति कदाचिद्वै स्वच्छन्दा पितृसन्निधौ ।।६८।।
तत्राहं पूर्वतो गत्वा कन्या तिष्ठामि सुन्दरी ।
भवानागत्य पश्चाच्च प्रार्थयिष्यति मां मुदा ।।६९।।
इत्युक्त्वा तं प्रणिपत्य कन्या स्वपितरं ययौ ।
अथ तां स समालोक्य पिता सुतां सुयौवनाम् ।।1.500.७० ।।
आश्चर्यमाप पप्रच्छ कारणं रूपयोवने ।
कन्या प्राह पितर्गौर्याः प्रसादात् स्नानमात्रतः ।।७१ ।।
नद्यां लब्धवतीरूपं यौवनं च नवं वपुः ।
हरिं चाराध्य कान्तं श्रीकृष्णनारायणं तथा ।।७२।।
सर्वमाप्तवती देव्या ब्रह्मणा च मदर्थकः ।
पतिः सुरूपलावण्यतेजोयौवनशोभितः ।।७३ ।।
प्रेषितः सुन्दरः पुष्पबाणधृक् सोऽपि तेऽन्तिकम् ।
समायाति विलोक्यैनं समर्प्य मां सुखी भव ।।७४।।
इत्युक्तश्च पिता पुत्रीं विलोक्य कमलासमाम् ।
अब्रवीदद्य मे पुत्रि संजातं तपसः फलम् ।।७५।।
एतस्मिन्नन्तरे कामो राज्ञोऽन्तिकमुपागमत् ।
नत्वाऽब्रवीत् तव कन्यां देहि मे भूप सुन्दरीम् ।।७६।।
ब्रह्मणाऽत्र समादिष्टः पार्वत्याऽनुमतस्तथा ।
वरणार्थं स्वयं समागतोऽस्मि कामदेवकः ।।७७।।
ततः समर्पयामास तां कन्यां वह्निसन्निधौ ।
सा च रतेरनुस्थाना प्रीतिनामाऽभवत् प्रिया ।।७८।।
तां च नीत्वा ययौ कामः कामलोकं सुराजसम् ।
सत्यसन्धो ऽपि हृष्टात्मा सुतां दृष्ट्वा सुखान्विताम् ।।७९।।
अभीष्टपतिना युक्ता कृतकृत्यो बभूव ह ।
दृढं पद्मासनं कृत्वा ब्रह्मद्वारेण योगवित् ।।1.500.८० ।।
देहान्निःसारयामास चात्मानं ब्रह्मणा सह ।
ययौ यत्राऽस्ति कन्या सा कामलोके सुपुत्रिका ।।८ १ ।।
तस्मात् कन्यां द्वितीयां तु तां सुरूपादिधारिणीम् ।
नीत्वा दत्वा चैकरूपां कामाय त्वपरां तनुम् ।।८२।।
राजा मुक्तः सुतां मुक्तां सहनीत्वा च पार्षदैः ।
हरेर्मुक्तैः सह धाम गोलोकं प्राप शाश्वतम् ।।८३ ।।
एवं कर्णोत्पला लक्ष्मि! भक्त्या च तपसा तथा ।
प्रीतिरूपा कामपत्नी मुक्ता च मोक्षगाऽभवत् ।।८४।।
बृहद्बलस्य राज्ञ्या च कृष्णनारायणः प्रभुः ।
आराधितश्च पुत्रार्थं विप्ररूपेण माधवः ।।८५ ।।
समागत्य ददौ गर्भं मानसं च क्षणान्तरे ।
जातिस्मरोऽभवत्पुत्रो नारायणसमुद्भवः ।।८६।।
विंशतिवर्षकायुष्को नारायणसमो गुणैः ।
धनुर्विद्यावेदविद्याचमत्कारादिशेवधिः ।।।८७।।
अटचन्द्रोऽभवन्नाम्ना चमत्कारनराधिपः ।
य एतच्छृणुयाद्वापि श्रावयेद् भक्तिभावतः ।।८८।।
चतुर्वर्गस्य संसिद्धिं लभते नात्र संशयः ।
कन्या नारी च सौभाग्यं लभते प्रीतिवत् सदा ।।८९।।
भुक्तिं मुक्तिं सम्पदश्च पुत्रं धान्यं धनादिकम् ।
सौभाग्यं पुण्यपुञ्जं च लभते नात्र संशयः ।।1.500.९०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सत्यसन्धनृपतेः कन्यायाः कर्णोत्पलायाः कमलांशायाः पतिमार्गणार्थं ब्रह्मलोकगमनं ततः पृथिवीमागत्य कामदेवपत्नीत्वं प्रीतिनाम्नाऽथ च मोक्षणं द्वितीयरूपेणेत्यादिनिरूपणनामा पञ्चशततमोऽध्यायः ।।५००।।