लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४९९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४९८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४९९
[[लेखकः :|]]
अध्यायः ५०० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! भद्रिकायाः कथां दिव्यां मनोरमाम् ।
रेवत्याश्च कथां दिव्यां कथयामि निबोध मे ।। १ ।।
चमत्कारपुरे नागा हाटकेश्वरभक्तितः ।
आगत्य खलु पातालान्निवसन्ति क्वचित्क्वचित् ।। २ ।।
एकदा नागबालं वै रुद्रमालाभिधं द्विजः ।
क्रथो नामाऽहनन्नद्यां लगुडेन वृथा जले ।। ३ ।।
हा हतोऽस्मीत्युवाचाऽयं सर्पस्तस्य प्रसूस्तदा ।
तथा सर्पाश्चाययुश्च मनुष्यरूपधारिणः ।। ४ ।।
प्राणाँस्तत्याज बालः स सर्पाः क्रुद्धा भयंकराः ।
दुद्रुवुर्विप्रनाशार्थं विप्रो दुद्राव चाश्रमम् ।। ५ ।।
नागा गत्वा सकुटुम्बं भक्षयामासुरुल्बणाः ।
तस्य विप्रस्य भगिनी बालवैधव्यदुःखिता ।। ६ ।।
ब्रह्मचर्यपरा साध्वी कृष्णभक्तिपरायणा ।
तापसी भद्रिकानाम्नी शशाप नागिनीं तदा ।। ७ ।।
नागमाता रेवती त्वं सवंशं नाशमाप्नुहि ।
रेवती शापमापन्नाऽऽराधयामास पार्वतीम् ।। ८ ।।
ततः कतिपयाहस्य तस्यास्तुष्टा महेश्वरी ।
प्रोवाच वरदाऽस्मीति रेवती वरमार्थयत् ।। ९ ।।
भद्रिकाशापनाशो मे भवत्विति समार्थयत् ।
पार्वती प्राह शापस्य नाशो नैव भवेत् क्वचित् ।। 1.499.१० ।।
किन्तु सर्पस्तक्षको वै सौराष्ट्रे रैवतो नृपः ।
आनर्तविषये भावी तस्य क्षेमंकरी प्रिया ।। ११ ।।
भविष्यति तयोः पुत्री मानुषी त्वं भविष्यसि ।
तव भर्ता तदा शेषः स्वयं तत्र भविष्यति ।। १ २।।
तव वरस्य लाभार्थं ब्रह्माणं प्रति मे गतिः ।
क्षणमात्रं भाविनी वै तत्र ते वंशविस्तरः ।। १३ ।।
नाशमेष्यति चेत्येवं वंशनाशो भविष्यति ।
पुनस्ते बलरामेण विवाहः संभविष्यति ।। १४।
श्रीकृष्णश्च स्ववंशस्य नाशं करिष्यति प्रभुः ।
कण्वशापेन वै तत्र ह्येवं शापः फलिष्यति ।। १५।।
एवमुक्ता रेवती सा ययौ पातालमेव च ।
शेषं निवेदयामास वृत्तान्तं निर्वृत्तं भुवि ।।१६।
अथ सा ब्राह्मणी नाम्ना भद्रिका विधवा सती ।
कथां शुश्राव शास्त्राणां कृष्णनारायणाऽऽननात् ।।१९।।
देवयात्रां तीर्थयात्रां चक्रे भक्तिं नरायणे ।
अथैकदा तक्षकश्च समाययौ भुवस्तलम् ।।१८।।।
नागवत्यास्तटे दृष्ट्वा भद्रिकां तु सुरूपिणीम् ।
निनाय नररूपेण पातालं भद्रिका च तम् ।। १ ९।।।
शशाप मानुषो भूत्वा सह पत्न्या सुताभवम् ।
दुःखं वै प्राप्स्यसे वंशनाशसम्पादकं तदा ।।1.499.२०।
तक्षको भयमापन्नस्तुष्टाव तां तु भद्रिकाम् ।
भद्रिका प्राह मां पृथ्व्यां नय तत्र स्थले पुनः ।।२१ ।
तक्षकेण तदाऽऽनीता चमत्कारपुरं प्रति ।
अथ लोकापवादेन चितां सा प्रविवेश ह ।।२२।।
पश्यतां जनवृद्धानां शुद्ध्यर्थं भद्रिका यदा ।
न दग्धा रोमशो वाजि जनास्त्वाश्चर्यमागता ।।२३।।
वह्निर्वै शीतलो जातः शुद्धा सा भद्रिका यतः ।
पपाताथ महावृष्टिः कुसुमानां नभस्तलात् ।।२४।।
देवाः प्राहुः परं शुद्धा वर्तसे त्वं सुभद्रिके ।
न त्वया सदृशी चान्या काचित् सती भविष्यसि ।।२५।
तिस्रः कोट्योऽर्धकोटिश्च यानि लोमानि मानुषे ।
तेषां मध्ये न ते साध्वि पापमेकमपि क्वचित् ।।२६।।
त्वं च साध्वी सती कृष्णनारायणपतिव्रता ।
भूत्वा च त्यागिनी देवी सांख्ययोगमुपाश्रिता ।।२७।।
सतां सेवां कुरु पुण्यं समाराधय केशवम् ।
भद्रिका प्रार्थयामास श्रुत्वा देवं जनार्दनम् ।।२८।
तावत् कृष्णो द्विजो भूत्वाऽवाततार भुवस्तलम् ।
ददौ तस्यै शुभां दीक्षां तुलसीमालिकां गले ।।२९।
 'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ।
इत्युक्त्वा त्रिः कर्णमन्त्रं ययावदृश्यतां द्विजः ।।1.499.३०।।
भद्रिकाऽऽराधयामास कृष्णनारायणं सदा ।
तत्र परं तपश्चक्रे भिक्षान्नकृतभोजना ।।३ १ ।।
नागनद्यां च तन्नाम्ना भद्रिकातीर्थमुत्तमम् ।
चमत्कारकरं जातं स्नात्वा निष्पापता भवेत् ।।३२।।
अथ सा भद्रिका कालं प्राप्ता दिव्यशरीरिणी ।
भूत्वा मोक्षं ययौ धाम कृष्णनारायणस्य वै ।।३३।।
एवं सतीबलं लक्ष्मि मुक्तिदं. पापनाशनम् ।
कृष्णनारायणभक्त्या भवत्येव न संशयः ।।३४।।
पठनाच्छ्रवणाच्चास्य कीर्तनादपि पद्मजे ।
भुक्तिं मुक्तिं लभेत् सम्पद्वरामारोग्यमीशताम् ।।३५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भद्रिकाख्यब्राह्मण्याः शापेन नागमातुः रेवतीत्वं तक्षकस्य मानुषत्वं भद्रिकायाः कृष्णभक्त्या मुक्तिश्चेत्यादिनिरूपणनामा नवनवत्यधिकचतुश्शततमोऽध्यायः ।।।४९९।।।