लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४९८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४९७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४९८
[[लेखकः :|]]
अध्यायः ४९९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ब्राह्मणानां चमत्कारमयीं कथाम् ।
आनर्ताधिपतिर्भूभृत् प्रसन्नो ब्राह्मणान् वरान् ।। १ ।।
समाहूय समुवाच प्रणिपत्य मुहुर्मुहुः ।
सुवर्णं वा गजाश्वं वा संक्रान्तौ मकरे रवेः ।। २ ।।
यस्य यद्रोचते दातुमिच्छामि पृथिवीमपि ।
प्रसादः क्रियतां मह्यं दीनस्य प्रणतस्य च ।। ३ ।।
विप्रास्त्वाहुर्वयं नित्यं निष्परिग्रहधर्मिणः ।
भिक्षाहारास्तापसाश्च किं गजाश्वसुवर्णकैः ।। ४ ।।
चमत्कारो नृपः प्राह भवन्तो लोकपावनाः ।
राज्यलक्ष्म्याः प्रशुद्ध्यर्थं दानं गृह्णन्तु पावनाः ।। ५ ।।
द्वासप्ततिब्राह्मणाश्च वर्तन्तेऽत्र नदीतटे ।
पर्णकुटीर्विधायैव व्योममार्गविहारिणः ।। ६ ।।
तपःशक्त्या सदा यान्ति नानातीर्थेषु भक्तितः ।
जपं स्नानं तर्पणं च कृत्वा त्वायान्ति वै पुनः ।। ७ ।।
वाराणस्यां प्रयागे वा पुष्करे नैमिषे तथा ।
अश्वपट्टसरसि प्रभासे केदारके तथा ।। ८ ।।
क्वचित् प्रयान्ति संक्रान्तौ चातुर्मास्येऽपि यान्ति च ।
अत्र वर्षे च संक्रान्तौ नागवत्यास्तटे द्विजाः ।। ९ ।।
गृह्णन्तु मम दानं च कुर्वन्तु पावनान् हि नः ।
इत्युक्ता अपि विप्रास्ते विरागाः पुष्करं ययुः ।। 1.498.१ ०।।
पञ्चरात्रिनिवासार्थं संक्रान्तौ मकरे रवेः ।
राजा विज्ञाय तत्सर्वं दमयन्तीं प्रियां तदा ।। ११ ।।
प्राह त्वं कनकं भूषा वस्त्राण्यादाय सद्धनम् ।
नागनद्यास्तटं याहि यत्र ब्राह्मणयोषितः ।। १ २।।
भूषणादीनि वस्तूनि तासां यच्छ यथेच्छया ।
न तासां पतयोऽस्माकं प्रकुर्वन्ति प्रतिग्रहम् ।। १ ३।।
स्त्रियोऽवश्यं ग्रहीष्यन्ति दानं भूषणप्रभृति ।
यादृशं यादृशं वाऽपि नारी धत्ते विभूषणम् ।। १४।।
सा तथेति प्रतिज्ञाय बहून्याभरणानि च ।
मणिमुक्ताप्रवालानि कुण्डलानि शुभानि च ।। १५।।
तथा चन्द्रोज्ज्वलान् हारान् नूपुराणि बृहन्ति च ।
इन्द्रनीलमहानीलवैदूर्यखचितानि च ।। १६।।
पद्मरागैस्तथा वज्रैर्माणिक्यैश्च मनोहरैः ।
केयूरैः कंकणैर्दिव्यैः शृंखलाहेमसूत्रकैः ।।१७।।
गृहीत्वा नागवत्यां वै स्नातुं संक्रान्तिपर्वणि ।
समायाता तिलमिष्टान्नानि नीत्वा बृहन्ति च ।। १८।।
स्नात्वा तीरे निवेश्यैतन्महाभूषणपर्वतम् ।
प्रतीक्षते च पात्राणि दानस्य तन्नदीतटे ।। १ ९।।
एतस्मिन्नन्तरे प्राप्तास्तापस्यः कौतुकान्विताः ।
ज्ञात्वा दानार्थमायातां दमयन्तीं नृपप्रियाम् ।।1.498.२०।।
कीदृशी राजपत्नी सा किंरूपा किंविभूषणा ।
इतिकौतुकमापन्ना विप्रपत्न्यः समागताः ।।२१ ।।
आगतास्ता नमश्चक्रे प्राह राज्ञी मनोहरम् ।
मयाऽयं भूषणस्तोम उद्दिश्य गरुडध्वजम् ।।२२।।
कल्पितोऽद्य दिने दानं ब्राह्मणीषु फलप्रदम् ।
तस्माद् गृह्णन्तु तापस्यो मया दत्तानि वाञ्छया ।।२३।।
भूषणानि ह्यनेकानि प्रसादः क्रियतां मम ।
ततश्चैकाऽब्रवीत् तासामेनां मुक्तावलीं मम ।।२४।।
देहि श्रुत्वा नृपपत्न्या प्रक्षाल्य चरणौ स्वयम् ।
दत्ता मुक्तावली तस्यै वस्त्रैर्दिव्यैः समन्विता ।।२५।।
तथाऽन्यायै ददौ हारं हाराकांक्षां विबुध्य सा ।
तृतीयायै कुण्डले च ददौ ज्ञात्वा च तन्मनः ।।२६।।
ततश्च शेषास्तापस्यो जगृहुर्भूषणानि च ।
यानि यानि ददौ तस्यै तस्यै मुदा च तानि च ।।२७।।
यथा यथा प्रगृह्णन्ति तापस्यो भूषणानि ताः ।
तथा तथाऽस्याः संजज्ञे दमयन्त्याः प्रमोदकः ।।२८।।
अन्यानि च प्रचिक्षेप शतशोऽथ सहस्रशः ।
गृह्णन्त्विति कथयित्वा मौनं तस्थौ नृपप्रिया ।।२९।।
गृहीतानि तु सर्वाणि तापसीभिस्ततो ह्यपि ।
न तृप्तिर्जायते तासां राज्ञी तदाह ताः पुनः ।।1.498.३ ० ।।
सन्तोषः क्रियतां गत्वा चानयामि पुनः पुनः ।
इत्युक्त्वा प्रययौ तूर्णं गृहीत्वा चाययौ द्रुतम् ।।३ १ ।।
अनन्तानि भूषणानि चाम्बराणि धनानि च ।
ददौ पञ्चाहपर्यन्तं ब्राह्मणीभ्यो मुहुर्मुहुः ।।३२।।
तापस्योऽपि दधुस्तानि वस्त्राणि विविधानि हि ।
भूषणानि च गात्रेषु सस्पृहास्तोषपूर्विकाः ।।३३।।
ऊटजानि धनवस्त्रभूषापूर्णानि चक्रिरे ।
अथ चतस्रो ब्राह्मण्यो वल्कलाजिनशोभिताः ।।३४।।
दानग्रहणं नेच्छन्त्यो न तस्याः पार्श्वमागताः ।
तासां दानस्य लाभार्थं राज्ञी तु पञ्चमे दिने ।।३५।।
भूषणानि महार्हाणि गृहीत्वा ताः ययौ द्रुतम् ।
राज्ञी प्रोवाच ताः सर्वाः प्रसादः क्रियतामिति ।।३६।।
इमानि भूषणार्थाय गृह्यन्तां भूषणानि वै ।
तापस्यस्तु विरागिण्यः पतीच्छानुगताः सदा ।।३७।।
पातिव्रत्यपराः प्राहुः पतीनां नास्ति तन्मनः ।
पत्युराज्ञां विना पत्नी करोति देहशोभनम् ।।३८।।
पापं सा प्राप्नुयात् तस्माद् गृह्णीमो न वयं तव ।
नाऽस्माकं भूषणैः कार्यं भूषिता वल्कलैर्वयम् ।।३ ९ ।।
एवं संवदतां तासां तया सार्धं तु तत्क्षणम् ।
चत्वारः पतयः प्राप्ता व्योममार्गेण चाश्रमान् ।।1.498.४०।।
शुनःशेपोऽथ शाक्रेयो बोद्धो दान्तश्चतुर्थकः ।
शेषाः सर्वे गतिभ्रंशं प्राप्य भूमार्गमाश्रिताः ।।४१ ।।
पत्नीनां तृष्णया भूषादानग्रहणदोषतः ।
चत्वारस्ते ऋषिपत्नीः कन्यकाश्च विभूषिताः ।।४२।।
दृष्ट्वा किमिदं किमिदं प्रोचुर्विकृतमाश्रिताः ।
केन दत्वाऽऽभूषणानि यत् तापस्यो विडम्बिताः ।।४३।।
धनवस्त्राणि दत्वा नश्चाश्रमोऽयं विकारितः ।
तदा प्राहुस्तु तापस्यश्चमत्कारनृपस्य वै ।।४४।।
महिषी दमयन्तीयं वर्तते साम्प्रतं तया ।
सम्प्रदत्तानि सर्वासां भूषणान्यम्बराणि च ।।४५।।
अस्माकमपि संप्राप्ता दातुं सेयं प्रतिष्ठति ।
अस्माभिर्न गृहीतानि निषिद्धा सा निवारिता। ।।४६ ।।
इतिश्रुत्वा च तां दृष्ट्वा ब्राह्मणास्तपसः क्षयात् ।
तां शेपुस्ते श्रावयित्वा शृणु लक्ष्मि! तपोबलम् ।।४७।।
द्वासप्ततिर्वयं राज्ञि! स्नानार्थं पुष्करे गताः ।
व्योममार्गेण तपसा मनोमारुतरंहसा ।।४८।।
चत्वारस्त इमे प्राप्ता येषां दारैः परिग्रहः ।
न कृतस्तेऽपरे व्योम्नो मार्गाद् भ्रष्टाश्च पुष्करे ।।४९।।
नारीणां च सतीनां तु सतीत्वेन महद्बलम् ।
दानग्रहेण नष्टं तद् वैहायसं बलं यतः ।।1.498.५०।।
तपसो वञ्चितोऽस्माकमाश्रमोऽयं त्वया धनैः ।
विभूषणादिदानैश्च तत् त्वं शिला भवाऽत्र वै ।।५१ ।।
अथ तुष्टाव सा राज्ञी मुक्त्यर्थं च तदा तु ते ।
प्राहुश्चात्र माधवीति शाण्डिली कमलांशजा ।।५ २।।
विप्रकन्या समागत्य तवोद्धारं करिष्यति ।
अचिरेणैव कालेन साऽऽगमिष्यति माधवी ।।५ ३ ।।
लक्ष्मीरूपा शिलायां सा स्थास्यत्येव नदीतटे ।
शिला कन्यास्वरूपा सा भविष्यति रमा यथा ।।५४।।
शृणु लक्ष्मि! तत्र कन्यां शिलां ब्राह्मणसन्निधौ ।
तत्क्षणमेव सञ्जातां ज्ञात्वा वृत्तान्तमेव तम् ।।५५ ।।
राजा तत्र द्रुतं प्राप पत्नीं शुशोच वै द्रुतम् ।
चत्वारो ब्राह्मणा नीत्वा कुटुम्बं व्योमसत्पथा ।।५६।।
ययुर्हिमालयं विघ्नशून्यं स्थलं तपस्विनः ।
राजा शिलां प्रसंस्पृश्य स्मृत्वा स्मृत्वा प्रियागुणान् ।।५७।।
विललाप क्षणं पतिव्रतां श्राद्धं चकार ह ।
तस्या उपरि सौधं च कारयामास पार्थिवः ।।५८।।
स्वयं कर्पूरधूपाद्यैर्वस्त्रकुंकुमचन्दनैः ।
पूजां चकार नित्यं च कारयामास भूसुरैः ।।५९।।
अथ पद्भ्यां महीं क्रान्त्वा चाऽष्टषष्टिद्विजाः शुभाः ।
आयाता नागनद्यास्ते तीरे श्रान्ताः सुदूरगाः ।।1.498.६०।।
दृष्ट्वाऽऽभरणयुक्ताँश्च ज्ञात्वा वृत्तान्तमित्यपि ।
विविदुः कारणं व्योम्नः पातस्य दानसंग्रहम् ।।६१ ।।
दमयन्त्याः शिलाभावं ज्ञातवन्तश्च वै ततः ।
चमत्कारनृपराष्ट्रनाशार्थं जगृहुर्जलम् ।।६२।।
यतश्चास्मद्गतिर्व्योम्नि नाशिता दानलोभतः ।
ब्राह्मणीनां मनो जातं राजसं रागमिश्रितम् ।।६३।।
तत्फलं यातु राजा च राष्ट्रं चेति विचिन्त्यते ।
शापं वक्तुमारभन्ते तावद्वै विप्रयोषितः ।।६४।।
वारयामासुरत्यर्थं शापो देयो न सर्वथा ।
यतो वयं नरेन्द्रस्य भार्यया समलंकृताः ।।६५।।
सुवस्त्रैर्भूषणैर्दिव्यैः श्रद्धापूतेन चेतसा ।
वयं दारिद्र्यदोषेण कर्षिता भवतां गृहे ।।६६।।
न प्राप्तं तु सुखं मर्त्ये वस्त्रभूषादिसंभवम् ।
केवलानां तापसानां परो लोकः सुखप्रदः ।।६७।।
नीचानां विषयस्थानां त्विहैव सुखमात्रकम् ।
तपोधर्मगृहस्थानामुभयत्र सुखं सदा ।।६८।।
तदस्माभिः सुखं चात्र भोक्तव्यं धर्मवर्तिभिः ।
ता वयं वस्त्रभूषाणां सुखं संसेव्य सर्वदा ।।६९।।
गृहस्थधर्मान् संसेव्य पतिसेवां सुरार्चनम् ।
संसेव्य साधयिष्यामो लोकद्वयमनुत्तम् ।।1.498.७०।।
तस्माद् यूयं चात्र विप्रा भूमिमादाय भूपतेः ।
वृत्तिं चापि गृहीत्वैव रम्याणि च गृहाणि च ।।७१ ।।
गृहीत्वैवाथ वीक्षध्वं पुत्रपौत्रसमुद्भवम् ।
सौख्यं चापि कुमारीणां बान्धवानां विशेषतः ।।७२।।
न करिष्यथ चेद्वाक्यमेतदस्मदुदीरितम् ।
सर्वाः प्राणपरित्यागं करिष्यामो न संशयः ।।७३।।
यूयं स्त्रीवधपापेन युक्ताः यास्यथ रौरवम् ।
श्रुत्वैतच्छापदानार्थं धृतं वारि भुवस्तले ।।७४।।
तत्यजुर्दारवाक्यैस्ते सा भूरूषरतां गता ।
अथ श्रुत्वा च तद्वार्तां राजा मुमोद चाययौ ।।७५।।
ब्राह्मणेभ्यः प्रदानार्थं भुवो धनस्य सम्पदाम् ।
ब्राह्मणानां वचनेन राजा पुरमकारयत् ।।७६ ।।
प्राकारपरिखायुक्तं गोपुरैः सौधपंक्तिभिः ।
शोभितं नगरं नाम चमत्कारपुरं तु तत् ।।७७।।
अष्टषष्टिब्राह्मणानां वासस्तत्र कुटुम्बिनाम् ।
कारितो भूभृता तेभ्यो जीविकाऽपि समर्पिता ।।७८।।
ततः परं च सा लक्ष्मीर्माधवी या च शाण्डिली ।
नागनद्यां नचिराद्वै पुरं द्रष्टुं समागता ।।७९।।
स्नात्वा क्षणं शिलायां सा निषसाद तदा सती ।
दमयन्ती पुनर्जाता नारीरूपा यथा पुरा ।।1.498.८०।।
ब्राह्मणीभ्यो नमस्कृत्य स्वप्नोत्थितैव हर्षिता ।
ययौ राजगृहं महोत्सवं चकार भूपतिः ।।८१।।
ग्रामाणामष्टषष्टिं च ददौ दानं सुखप्रदम् ।
विप्राणामथ चत्वारि गोत्राण्यन्यान्यपि प्रिये ।।।८२।।।
ययुर्हिमालयं चात्र चतुःषष्टिश्च शेषिताः ।
तैः सम्यक्कारिता यज्ञा बहुहव्यसुदक्षिणाः ।।८३ ।।
यज्ञे कृतेऽभवद् राजा रोगेणातिप्रपीडितः ।
कारणं तत्र वै चासीदेकस्य ब्राह्मणस्य वै ।।८४।।
त्रिजातस्य स्पृष्टद्रव्यहोमः क्रूरफलप्रदः ।
त्रिजातस्य परीक्षार्थं वह्निना दिव्यसज्जलम् ।।८५ ।।
कुण्डं प्रदर्शितं तत्र स्नाने विस्फोटको भवेत् ।
यस्य स एव बोद्धव्यस्त्रिजात इति तत्कृतम् ।।८६।।
परीक्ष्यैवं च विप्रः स निष्कासितो वनं ययौ ।
तपश्चक्रे हरं स्मृत्वा हरस्तुष्टो बभूव ह ।।८७।।
वरं वृणु हरः प्राह विप्र उवाच शंकरम् ।
त्रिजातदोषं निष्कास्य देहि सर्वोत्तमोच्छ्रताम् ।।८८।।
शंकरश्च ददौ तस्मै न गरं न गरं मनुम् ।
यदुच्चारणमात्रेण सर्पा निर्विषतां तथा ।।८९।।
प्राप्नुयुर्मरणं चापि गृहाण गच्छ तत्स्थलम् ।
एतन्मन्त्रं गृहीत्वा स नगरं च ययौ द्विजः ।।1.498.९ ०।।
नगरस्था द्विजा ह्यासँस्तदा सर्पप्रपीडिताः ।
त्रिजातेन च मन्त्रेण रक्षिताः सर्वतो द्विजाः ।।९ १ ।।
ते स्थिता नागराः सर्वे त्रिजाताद्याः समुत्तमाः ।
कृष्णभक्तिपराः सर्वे हाटकेश्वरपूजकाः ।।९ २।।
हाटकेश्वरदेवात्ते लब्धवन्तो मनुं तदा ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।।९ ३।।
चक्रुश्च भजनं जापं नरा नार्यश्च सर्वदा ।
गोलोकं प्रययुश्चान्ये प्रयान्ति भजनात् प्रिये ।।९४।।
इत्याख्यातश्चमत्कारो ब्राह्मणानां तपस्विनाम् ।
पठनाच्छ्रवणाच्चास्य वाञ्च्छितं च फलं भवेत् ।। ९५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चमत्कारनृपतिभार्यया दमयन्त्या कृतरत्नस्वर्णादिदानग्रहणेन व्योममार्गगामिब्राह्मणानां पतनं विप्रशापेन दमयन्त्याः शिलात्वं पुनर्माधवीस्पर्शेन राज्ञीत्वं नगरवासादि चेतिनिरूपणनामाऽष्टनवत्यधिकचतुश्शततमोऽध्यायः ।।४९८।।