लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५०१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५०० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५०१
[[लेखकः :|]]
अध्यायः ५०२ →

श्रीनारायण उवाच--
शृणु लक्ष्मि! याज्ञवल्क्यऋषेः कथां मनोहराम् ।
आसीद् ब्राह्मणशार्दूलः शाकल्य इति विश्रुतः ।। १ ।।
भार्गवाऽन्वयसंभूतो वेदवेदांगपारगः ।
वर्धमाने पुरे धर्मारण्ये शिष्यप्रशिष्यवान् ।। २ ।।
सदा विद्यादानदाता योगसिद्ध्यादिशोभितः ।
तस्य शिष्योऽभवद्याज्ञवल्क्यः सेवापरायणः ।। ३ ।।
शाकल्यश्च वर्धमाननृपतेर्वै पुरोहितः ।
पौरोहित्यं करोत्येव सर्वेषु नृपकर्मसु ।। ४ ।।
प्रेरयति चाशीर्वादान् दातुं प्रभातके ।
याज्ञवल्क्यं श्रेष्ठशिष्यं याज्ञवल्क्योऽपि नित्यदा ।। ५ ।।
यात्याशीर्वाददानार्थं प्रातः स्नात्वा मुदान्वितः ।
एकदा तु विना स्नानं मलिनाम्बरसंयुतः ।। ६ ।।
याज्ञवल्क्यः प्रभाते वै वर्तते च तदा गुरुः ।
याज्ञवल्क्यमुवाचेदं गच्छ शीघ्रं नृपं प्रति ।। ७ ।।
एवं तं योजयामास शान्त्यर्थं नृपमन्दिरे ।
याज्ञवल्क्यो ययौ शान्तिपाठं कृत्वा जपोत्तरम् ।। ८ ।।
शान्त्युदकप्रदानाय तं नृपं प्रति संययौ ।
पार्थिवोऽपि मुनिं विना स्नानं दृष्ट्वा च शंकितः ।। ९ ।।
न जग्राह जलं चाशीर्वचनं चापि तद्दिने ।
असत्यं च प्राह राजा नाऽहं स्नातो द्विजोत्तम ।। 1.501.१ ०।।
मुनिं स्नानविहीनं तु तथ्यं प्रवक्तुमक्षमः ।
अत्र शालागते काष्ठे तस्मादेतज्जलं क्षिप ।। ११ ।।
याज्ञवल्क्योऽपि विज्ञाय स्वस्याऽस्नातस्य कारणम् ।
ज्ञात्वाऽपमानं स्वस्यैव जलं चिक्षेप काष्ठके ।। १ २।।
तावत् काष्ठं पल्लवितं शाखाफलसमन्वितम् ।
तत्क्षणादेव सञ्जातं जलस्पर्शप्रभावतः ।। १३ ।।
राजा चमत्कृतिं दृष्ट्वा पश्चात्तापं विधाय च ।
सत्यं प्राह पुनर्वाक्यं मुने स्नातोऽस्मि किन्तु ते ।। १४।।
भयात्तवैव मालिन्यं दृष्ट्वा जग्राह नैव तत् ।
ततोऽभिषेकं मे विप्र कुरु स्यां पुत्रवान् यथा ।। १५।।
याज्ञवल्क्यस्तदा प्राह राजन् शंकापरो भवान् ।
ममाऽभिषेकदानस्य त्वमनर्होऽसि साम्प्रतम् ।। १६।।
गुरवस्तु सदा शुद्धा भवन्ति ब्राह्मणा नृप ।
साधवश्च न वा स्नाताः स्नाता वा श्रीहरेस्तनुः ।।१७।।
तत्रापि यदि विद्वांसस्तत्राप्यैश्वर्यशालिनः ।
सिद्धा वा ब्राह्मणा देवा देववासाः प्रतापिनः ।। १८।।
नारीसंगकृताश्चापि न स्नाता अपि पावनाः ।
मन्त्रसिद्धिब्रह्मसिद्धितपःसिद्धिपरास्तु ये ।। १ ९।।
तत्र शुद्धिर्न द्रष्टव्या गुरौ साधौ सुरे हरौ ।
पितरि मातरि पत्यौ सत्यां गवि कदाचन ।।1.501.२०।।
कामः क्रोधस्तथा लोभः पारुष्यं वासना रतिः ।
सर्वे दिव्यास्तत्र बोध्याः समर्थे नास्ति दूषणम् ।।२१ ।।
मलिना पृथिवी पादस्पृष्टा तस्य हि पावनी ।
रथ्याम्बु गंगया मिश्रं गांगवत्पापनाशकम् ।।२२।।
विष्णुप्रसादभोजी वै जीवन्मुक्तो गुरुः स्मृतः ।
नित्यं तपस्यानिरतः शुचिः शान्तश्च शास्त्रवित् ।।२३।।
सर्वेषामपि तीर्थानां पावनस्तु गुरुर्भवेत् ।
सर्वेषामपि वन्द्यानां पिता वन्द्यो गुरुर्मतः ।।२४।।
पितुः शतगुणैर्माता मातुः शतगुणैः सुरः ।
मन्त्रदस्तन्त्रदश्चैव सुराणां च चतुर्गुणः ।।२५।।
गुरुः श्रेष्ठः पापपुञ्जनाशको मोक्षसम्प्रदः ।
नारायणश्च भगवान् गुरुरेव मतो भवेत् ।।२६।।
प्रत्यक्ष ईश्वरश्चात्र तारको भवति प्रभुः ।
उद्देशे दीयते तस्मै सुरायेति श्रुतौ श्रुतम् ।।२७।।
प्रत्यक्षभोक्ता स्वगुरुः स्वयं देही जनार्दनः ।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुरेव स्वयं शिवः ।।२८।।
गुरौ च सर्वदेवाद्यास्तिष्ठन्ति सततं मुदा ।
गुरौ तुष्टे हरिस्तुष्टो यस्मिँस्तुष्टे च देवताः ।।२९।।
वह्निवायुसमः पूतस्तेजसा भास्करोपमः ।
विष्णुमन्त्रोपासकश्च गुरुर्वै वैष्णवो द्विजः ।।1.501.३० ।।
तेजस्विनं गुरुं दृष्ट्वा गृह्णीयात् सर्वमेव ह ।
मन्त्रं जलं प्रसादं चाशीर्वादं ह्यविशंकितः ।।३ १ ।।
ऐकान्तिको गुरुर्देवः पुसां लक्षं समुद्धरेत् ।
क्रियाः शुभाऽशुभा यस्य विष्णुपादे समर्पिताः ।।३२।।
मन्त्रग्रहणमात्रेण जीवन्मुक्तस्ततो भवेत् ।
भित्त्वा ब्रह्माण्डमखिलं प्रापयते हरेः पदम् ।।३३।।
राजँस्त्वं वञ्चितश्चाद्य मायया शंकितो मयि ।
पुनर्जलं मया नैव दीयते शंकिताय ते ।।३४।।
विशेषतश्च स्वार्थाय लाभं दृष्ट्वा प्रयाचते ।
दातव्यं नैव ऋषिभिः स्वार्थिने नास्तिकाय च ।।३५।।
तस्मान्नेऽभिषेकदानपात्रं नाऽसि पुनर्नृप ।
अहं यास्यामि तत्रैव यत्रस्थः स गुरुर्मम ।।३६।।
राजा प्राह याज्ञवल्क्यमभिषेकं ददासि चेत् ।
तव दास्यामि वस्त्राणि वाहनानि वसूनि च ।।३७।।
ऋषिः प्राह स वै मन्त्रो होमान्ते स्फुरते न मे ।
तस्माज्जलं पुनस्तादृग् बलवन्नैव जायते ।।३८।।
गच्छाम्यहं गृहं राजन् तवेष्टं नाऽद्य संभवेत् ।
इत्युक्त्वा स्वगृहं तूर्णं जगाम मुनिसत्तमः ।।३९।।
अपरेऽह्नि प्रभाते च शाकल्यः स्वयमेव ह ।
आशीर्वादान् प्रदातुं च ययौ भूपं तदा नृपः ।।1.501.४०।।
प्रणिपत्य मुनिं प्राह ह्यस्त्वया यः प्रप्रेषितः ।
शिष्यो भूयः स शान्त्यर्थं प्रेषणीयो मम गृहम् ।।४१ ।।
बाढमित्येव सम्प्रोक्त्वा पूजामादाय वै गुरुः ।
याज्ञवल्क्यं समाहूय पुनः प्रोवाच सादरम् । ।४२।।
अद्यापि त्वं नरेन्द्रस्य शान्त्यर्थं भवनं व्रज ।
विशेषात्पार्थिवेन्द्रेण समाहूतोऽसि पुत्रक ।।४३ ।।
याज्ञवल्क्यस्तदा प्राह राजाऽस्ति नास्तिको द्विजे ।
गर्वयुक्तोऽस्ति तस्मात्त्वं गमिष्यामि न वै पुनः ।।४४।।
मया तस्याऽभिषेकार्थं सलिलं चोद्यतं यदा ।
क्षिप काष्ठे सलिलं तदित्युक्तं वै कुबुद्धिना ।।४५ ।।
मयाऽपि द्राक् जलं क्षिप्तं काष्ठे काष्ठं ततो द्रुतम् ।
नवपल्लवितं जातं दृष्ट्वा राजा मुमोह तत् ।।४६ ।।
शाकल्यः प्राह सामर्थ्यं तवाऽऽलोक्य स भूपतिः ।
आह्वयति पुनस्त्वां तं गच्छ मानपुरःसरम् ।।४७।।
अनुवृत्ता नृपा ग्राह्या नावमान्यास्तदा क्वचित् ।
आरोहन्ति शनैर्भृत्या धुन्वन्तमपि पार्थिवम् ।।४८।।
समो मानेऽपमाने च चित्तज्ञः कालवित् सदा ।
सर्वंसहः क्षमी विज्ञो भवेद्वै राजवल्लभः ।।४९।।
ममाऽऽज्ञाऽपि त्वया पाल्या गच्छ पुत्र नृपं प्रति ।
याज्ञवल्क्यस्तदा प्राह न यामि नास्तिकं प्रति ।।1.501.५० ।।
चतुर्धा धर्मनाशोऽत्र विद्यते शृणु सद्गुरो ।
गन्तुं यस्याऽद्य शिष्यस्य क्रमो वै वर्तते गुरो ।।५१ ।।
तद्भंगः प्रथमो दोषो द्वितीयोऽक्रमदूषणम् ।
न गमिष्ये च मद्वाक्यं निषेधात्मकदूषणम् ।।५२।।
तृतीयं जायते मेऽत्र नृपेच्छाभंगदूषणम् ।
चतुर्थं फलदोषात्म तस्मात् कार्यं न तन्मया ।।।५३ ।।
एवं यदि बलान्मां त्वं योजयिष्यसि तं प्रति ।
त्वां त्यक्त्वाऽन्यत्र यास्यामि गमिष्यामि न तं प्रति ।।५४।।
इत्युक्तः क्रोधमापन्नः शाकल्यः समुवाच तम् ।
एकमप्यक्षरं गुरोरवगत्य ततः परम् ।।५५।।
दक्षिणां नास्ति पृथ्व्यां यां दत्वा शिष्योऽनृणी भवेत् ।
तस्मात्पालय चाज्ञां मे मद्विद्यां वा परित्यज ।।५६।।
नो चेद् ददामि शापं ते गच्छाऽन्यत्र यथासुखम् ।
इत्युक्तो याज्ञवल्क्यः स विद्याया वमनं तदा ।।५७।।
कृत्वोवाच गुरुं नत्वा पश्य विद्यां प्रछर्दिताम् ।
एकमप्यक्षरं नास्ति तावकीयं ममोदरे ।।५८।।
तस्माच्छिष्योऽस्मि ते नाऽहं न च मे त्वं गुरुः स्थितः ।
साम्प्रतं स्वेच्छयाऽन्यत्र प्रयास्यामि नमोऽस्तु ते ।।५९।।
एवमुक्त्वा सिद्धिदं वै हाटकेश्वरनामकम् ।
क्षेत्रं समाययौ तत्राऽऽराधयामास भास्करम् ।।1.501.६०।।
नियतो नियताहारो ब्रह्मचर्यपरायणः ।
गायत्रीन्यासमासाद्य चचार दुष्करं तपः ।।६ १।।
सूर्यस्तुष्टो मानवः सन् वर्षान्ते तमुवाच ह ।
याज्ञवल्क्य वृणु स्वेष्टं सर्वं दास्यामि ते रविः ।।६२।।
याज्ञवल्क्यः प्रणम्यैव वव्रे विद्यां च वैदिकीम् ।
तथाऽन्यां मन्त्रतन्त्रीयां ब्रह्मविद्यां तथा पराम् ।।६३।।
सूर्यः प्राह लघिमां ते सिद्धिं ददामि वै तथा ।
लघुर्भूत्वा ममाऽश्वानां कर्णान्ते विश तिष्ठ च ।।६४।।
मत्तोभ्यासं च विद्यानां वैदिकीनां कुरु द्रुतम् ।
एवमुक्तः स तेनाऽथ वाजिकर्णं समाश्रितः ।।६५।।
वेदानपठत्सूर्यात् स जनकायाऽभ्यपाठयत् ।
ब्रह्मविद्यां दत्तवाँश्च भार्याद्वयाय वै ऋषिः ।।६६।।
मैत्रेयी प्रथमा ज्येष्ठा कात्यायनी द्वितीयका ।
पत्नीद्वयं याज्ञवल्क्यस्याऽऽसीत् कात्यायनः सुतः ।।६७।।
कात्यायनं सर्वविद्याः पाठयामास चान्ततः ।
एकदा शाण्डिली कात्यायनीं बोधं ददौ शुभम् ।।६८।।
नागनद्यास्तटे तेन वैराग्यं समवाप सा ।
न स्नाति न च भुंक्ते वा हास्यं न कुरुते सती ।।६९।।
केवलं बाष्पपूर्णाक्षी निःश्वसन्ती बभूव ह ।
शाण्डिली तां प्रतिदिनं ह्यपदेशं ददाति च ।।1.501.७०।।
शृणु साध्वि मम तातः शाण्डिल्यो मुनिपुंगवः।
तस्यैकाऽहं समुत्पन्ना माधवीनामकन्यका ।।७१ ।।
पितुः करोमि शुश्रूषां होमकाले यथोचिताम् ।
नीवारादीनि धान्यानि नित्यं चैवाऽऽनयाम्यहम् ।।७२।।
कदाचित्त्वथ कालस्य नारदो मुनिरागतः ।
आश्रमे मम तातस्य श्रान्तो मया प्रसेवितः ।।७३।।
स्नापितो भोजितः संवाहितो देहेऽतिभावतः ।
निविष्टश्चासने मात्रा संपृष्टो विनयात्तदा ।।७४।।
एकेयं कन्यकाऽस्माकं वार्धक्ये वर्तते मुने! ।
तदस्याः कीर्तय क्षिप्रं भर्तारं सुसुखोदयम् ।।७५।।
व्रतं वा नियमं वा त्वं तपो होमं जपं च वा ।
मन्त्रं वा येन चीर्णेन भर्ता स्यात् सौम्यसद्गुणी ।।७६ ।।
स्नेहिलश्च प्रसन्नास्यः प्रियवाक् स्वप्रियाप्रियः ।
श्रुत्वा श्रीनारदः प्राह गौरीपूजनमुत्तमम् ।।७७।।
हाटकेश्वरजे क्षेत्रे गत्वा करोतु ते सुता ।
भर्तारं प्राप्स्यति गौर्या आशीर्वादेन ते सुता ।।७८।।
तत्र पूर्वं गता गौरी गंगेर्ष्यया शुभस्थलम् ।
ततः सा चिन्तयामास कां देवीं पूजयाम्यहम् ।।७९।।
सौभाग्यार्थं यतोऽन्या मां पूजयेयुः सदा स्त्रियः ।
इति विचार्य सा भक्त्या पुपूजाऽऽत्मानमेव च ।।1.501.८०।।
स्वीयमूर्तिं मृदा कृत्वा स्थाने चैकत्र चासने ।
आत्मप्राणाग्निहोत्रैश्च मन्त्रैराथर्वणैस्तथा ।।८१ ।।
पृथ्वीं जलं तथा तेजो वायुमाकाशमित्यमून् ।
मूर्तौ संयुज्य चात्मानं तापसी सा यतव्रता ।।८२।।
गौरीं संपूजयामास पुष्पधूपानुलेपनैः ।
तन्मन्त्राकृष्टचित्तो वै शंकरः सत्वरं ययौ ।।८३ ।।
वद् देवि तव शक्त्या गौर्याऽऽकृष्टोऽहमागतः ।
कथं त्वं कुरुषे चैतत्तव रूपस्य पूजनम् ।।८४।।
आकर्षयति मां गौरी प्रसह्य तव सन्निधौ ।
तस्मादागच्छ कैलासं ब्रूहि दोषोऽस्ति चेन्मयि ।।८५ ।।
पार्वती प्राह मूर्ध्ना त्वं धत्से गंगां सपत्निकाम् ।
तस्मान्नाहं गमिष्यामि यावन्न त्यजसि प्रियाम् ।।८६ ।।
शंभुः प्राह नृपो भागीरथस्तप्त्वाऽतिदारुणम् ।
तपो मां प्रार्थयामास गंगाया धारणाय वै ।।८७।।
आकाशाज्जाह्नवीवेगं पतन्तं धरणीतले ।
गमिष्यन्तं च पातालं विज्ञाय मां न्ययोजयत् ।।८८।।
अत्रैव गंगास्थित्यर्थं ततश्चैवं धृता मया ।
सा मन्मूर्ध्ना शनैर्हिमालयं लब्ध्वा शुभाऽऽलयम् ।।८९।।
भारते पावनार्थं वै देहिनां यास्यति ध्रुवम् ।
एनां जलस्वरूपां च कृत्वा पित्रे ददामि ते ।।1.501.९०।।
आगच्छ मे प्रिये कान्ते सौभाग्यं सर्वदाऽस्तु ते ।
सापत्न्यं नैव बोद्धव्यं सा नास्ति मे विवाहिता ।।९१ ।।
नापि पत्नी न वा दासी नान्या भार्यात्मिकापि च ।
आश्रिताऽस्ति सती तस्मादागच्छ गृहमेव मे ।।९२।।
एवमुक्त्वा महादेवो वृषमारोप्यतां शिवाम् ।
स्वयमारुह्य पश्चाच्च ययौ कैलासपर्वतम् ।।९३।।
तां गौरीं तव पुत्रीयं समाराधयतु द्रुतम् ।
प्रीतिकरं यथेष्टं च ततः प्राप्स्यति सत्पतिम् ।। ९४।।
इत्युक्त्वा नारदः सत्यं लोकं ययौ ततः परम् ।
मया कुमार्या च भक्त्या गौरी प्रपूजिता व्रते ।। ९५।।
मार्गशुक्लतृतीयायां नैवेद्यगन्धलेपनैः ।
तत्प्रभावादयं प्राप्तो जैमिनिर्ब्राह्मणः पतिः ।।९६।।
तस्मात्त्वमपि कल्याणि पूजयैनां समाहिता ।
संप्राप्स्यसि सुसौभाग्यं मैत्रेय्या सदृशं शुभे ।।९७।।
श्रुत्वा कात्यायनी सर्वं शाण्डिल्या यत्प्रकीर्तितम् ।
चकार मार्गतृतीयाव्रतं गौरीप्रपूजनम् ।।९८।।
ततोऽस्याः पतिरागत्य गृहीत्वा दक्षिणे करे ।
नियाय स्वगृहं तां वै बहुमानपुरःसरम् ।।९९।।
ततः परं तया सार्धं वर्तते हर्षितः सदा ।
मैत्रेय्या सदृशो यद्वत् ततोऽपि च विशेषतः ।। 1.501.१० ०।।
कात्यायनी सुपुत्रं सुषुवे कात्यायनं परम् ।
कात्यायनसुतो वररुचिर्जातो गुणालयः ।। १०१ ।।
कात्यायनस्य सामर्थ्यं शृणु लक्ष्मि! वदामि ते ।
पुरा पृथ्व्याः समुद्भूतं किञ्चित्प्राणिमयं चरम् ।। १०२ ।।
अपूर्वं चान्धकमुग्रं कृष्णदन्तं भयानकम् ।
शंकुकर्णं कृशास्यं च ऊर्ध्वकेशं बुभुक्षितम् ।। १०३ ।।
नृपेण बलिना मन्त्रैराकृष्टं बलवन्महत् ।
अथ देवान् भक्षितुं तत् प्रदुद्राव पुनः पुनः ।। १ ०४।।
बलिना सम्परित्यक्तं देवैस्तत् ताडितं मुहुः ।
तथापि न क्षतिं प्राप पातितं धरणिस्थले ।। १ ०५।।
उपविष्टास्ततस्तस्य देवा भूत्वा समन्ततः ।
तस्योदरे गतो ब्रह्मा शक्राद्यः पार्श्वतः स्थिताः ।। १ ०६।।
तावच्छुक्रेण सन्दिष्टा दैत्या हन्तुं सुराँस्तदा ।
आययुः पक्षमादाय तावद्विष्णुः स्वयं प्रभुः ।। १ ०७।।
प्राह भूतं शृणु भूत त्वदर्थं देवदैत्ययोः ।
संग्रामोऽत्र भवेत् तद्वै नैष शोभन एव ह ।। १ ०८।।
देवा दैत्यास्त्वयि भूते तिष्ठन्तु मित्रवद् यथा ।
तव पूजां करोम्येवं वास्तुनामा भवान्मतः ।। १०९।
तत्र ते भोजनं चार्पयामि गृहाण भावतः ।
ततस्तेन प्रतिज्ञातमविकल्पेन चेतसा ।।1.501.१ १ ०।
उक्तं च यो न मे पूजां करिष्यति नवे स्थले ।
कथंचिन्मानवः कश्चिद् भक्ष्यः स मे भविष्यति ।। १११ ।
बाढमित्येवमुक्ते च विश्वकर्माऽकरोद् विधिम् ।
कात्यायनो गृहं चक्रे वास्तुं चाऽपूजयत्तदा ।। १ १२।।
वास्तुपूजां च सकलां कात्यायनश्चकार ह ।
हाटकेश्वरजे क्षेत्रे ततः पूजा प्रवर्तिता ।। ११ ३।।
तथा न प्राप्नुयाद् दोषं गृहजातं कथंचन ।
शिलोत्थं कुपदोत्थं च कुवास्तुजमथापि वा ।। १ १४।।
वैशाखस्य तृतीयायां वास्तोः पूजाऽभवत्पुरा ।
तदा पूजाप्रकर्तुश्च गृहं राज्यसमं भवेत् ।। ११५।।
इति ते कथितं लक्ष्मि! त्वाख्यानं चोत्तमोत्तमम् ।
भुक्तिमुक्तिसुसौभाग्यपतिपुत्रादिदायकम् ।। ११६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शण्डिल्यशिष्यस्य याज्ञवल्क्यस्य शुष्ककाष्ठेपल्लवीकरणता विद्याप्रच्छर्दनं याज्ञवल्क्यस्य तत्पुत्रकात्यायनस्य च चमत्काराः, वास्तुपुरुषाऽर्चनादि चेतिनिरूपणनामैकाऽधिकपञ्चशततमोऽध्यायः ।। ५०१ ।।