लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४९०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४९०
[[लेखकः :|]]
अध्यायः ४९१ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां त्वन्यां सद्भाग्यसम्पदां प्रदाम् ।
आसीद् राजा वृको नाम सोमवंशसमुद्भवः ।। १ ।।
तस्य भार्याऽभवत्साध्वी पातिव्रत्यपरायणा ।
तयोः पश्चिमवर्षेषु कन्या त्वेकाऽभवत् तदा ।। २ ।।
ज्योतिर्विदो जन्मलग्नं दृष्ट्वा प्राहुर्नृपं नृपीम् ।
चित्रासंस्थे रवौ तिथौ चतुर्दश्यां निशाकरे ।। ३ ।।
या कन्या प्राप्नुयाज्जन्म सा भवेद् विषकन्यका ।
तस्याः पाणेर्ग्राहकः षण्मासेषु निधनं व्रजेत् ।। ४ ।।
यद्गृहे जन्म चापन्ना तत् स्याद् वैभववर्जितम् ।
सेयं राजँस्तव पुत्री तादृशी विषकन्यका ।। ५ ।।
पैतृकं श्वशुरीयं च हनिष्यति गृहद्वयम् ।
राजँस्त्यक्त्वा ततस्तां त्वं सदा राज्ये सुखी भव ।। ६ ।।
यद्वा सा च भवेत् साध्वी यतिनी सांख्ययोगिनी ।
तदा कुलद्वयोद्धारं करिष्यति न संशयः ।। ७ ।।
अभाग्यानामपि भाग्यं त्यागित्वे परिवर्तते ।
भस्मच्छन्नो यतिश्चूर्णमोषधं श्रेयसे यतः ।। ८ ।।
यत्र क्वापि समुत्पन्नो यतिर्मणिश्च मौक्तिकम् ।
स्वर्णं कन्यौषधं सर्वे दिव्यतां यान्ति दीक्षया ।। ९ ।।
तस्माद् यथेष्टं कर्तव्यं रोचते यच्च ते नृप ।
इत्युक्तोऽपि स राजर्षिर्मत्वा भाग्यं स्वपूर्वकृत् ।। 1.490.१ ०।।
मार्जयितुमशक्यं तां न वै तत्याज वत्सलः ।
येन येन शरीरेण यद्यत् कर्म करोति यः ।। ११ ।।
यस्यां यस्यामवस्थायां यादृशाद्वेगतश्च यत् ।
तेन तस्यां च तद्भुंक्ते नाऽकृतं प्राप्यते क्वचित् ।। १ २।।
पञ्चैतानीह सृज्यन्ते गर्भस्थस्यैव देहिनः ।
आयुः कर्म च वित्तं च विद्या निधनमेव च ।। १३ ।।
यथा वृक्षेषु वल्लीषु फलानि कुसुमानि च ।
स्वं कालं नातिवर्तन्ते तद्वत्कर्म पुराकृतम् ।। १४।।
यथा धेनुसहस्रेषु वत्सो विदन्ति मातरम् ।
तथैव कोटिमध्यस्थं कर्तारं कर्म विन्दति ।। १ ५।।
स्वेन पूर्वं कृतं कर्म न कश्चिद् देहवान् भुवि ।
बलेन प्रज्ञया वापि समर्थः कर्तुमन्यथा ।। १६।।
स्वकृतान्युपतिष्ठन्ति सुखदुःखानि देहिनाम् ।
अहंकारममत्वाभ्यां सज्जते यः स बद्ध्यते ।। १७।।
सुशीघ्रमभिधावन्तं निजं कर्माऽभिधावति ।
शेते सह शयानेन तिष्ठन्तमनुतिष्ठति ।। १८।।
येन यत्रापि भोक्तव्यं सुखं वा दुखःमेव वा ।
नरः स बद्धो रज्ज्वेव बलात्तत्रैव नीयते ।। १ ९।।
जाग्रतां स्वपतां वापि प्रजल्पतां प्रगच्छताम् ।
कर्म सिषाधयिषूणां प्रतिपादयितामपि ।।1.490.२०।।
सर्वस्वार्पणकर्तॄणामवश्यमुपतिष्ठति ।
तैलक्षये यथादीपो निर्वाणमधिगच्छति ।।२ १ ।।
कर्मक्षये त्वाशयानां क्षये निर्वाणमृच्छति ।
क्लेशमूला वासना सा कर्माशया निगद्यते ।।२२।।
तदुत्पन्नफलं दृष्टादृष्टजन्मनि वेधते ।
न मन्त्रा न तपो दानं न तीर्थं न च वाऽऽश्रयः ।।२३ ।।
समर्था रक्षितुं जन्तुं पूर्वकर्मप्रवाहतः ।
अन्नपानानि जीर्यन्ति भोजनानि दिवानिशम् ।।२४।।
तस्मिन्नेवोदरे गर्भः कथं नाम न जीर्यते ।
तस्माद् गर्भसमं कर्म भोगे विना न नश्यति ।।२५।।
शुभं वा यदि वा पापं स्वकृतं प्राप्यते जनैः ।
तद्वदियं मम पुत्री यथाकर्म समागता ।।२६।।
विषकन्या मम भाग्ये लिखिता पूर्वकर्मभिः ।
तत्तथाऽस्तु दैवदत्तं हेलनीयं न कर्हिचित् ।।२७।।
उपस्थितं तु भोगार्थं समागच्छतु मां प्रति ।
वैभवे बहवो भोगा तन्नाशे तापसी स्थितिः ।।२८।।
उभयत्रापि लाभो मे निर्वाणं च निसर्गतः ।
दैवदत्तं मिलेच्चेद्वै को लाभस्तत उत्तमः ।।२९।।
पुत्री निमित्तरूपा मे वैराग्येऽपि भविष्यति ।
मम मुक्तौ च तस्याश्च मुक्तिरपि भविष्यति ।। 1.490.३ ०।।
अरक्षं तिष्ठति दैवाद् दैवान्नश्यति रक्षितम् ।
दैवाज्जीवत्यनाथोऽपि दैवान्नश्यति नाथवान् ।।३ १ ।।
अतिवार्धक्यसौख्यार्थं पुत्री त्वालम्बनं मम ।
सविषा वा सर्वनाशा कथं त्यजामि चात्मजाम् ।।३२।।
अनाथामबलां त्यक्त्वा कथं स्यां भ्रूणहा भुवि ।
पोष्यत्यागं विधायैव भवेयं याम्यगः कथम् ।।३३।।
आत्मा पुत्री पुत्रतुल्या तदर्थे पृथिवीं त्यजेत् ।
सैव लक्ष्मी मम बाला मम भाग्यादुपागता ।।३४।।
एते स्वार्थपराः सर्वे वदन्तु मनसेप्सितम् ।
मया पुत्री रक्षणीया वैराग्याय निवृत्तये ।।३५।।
कृतं राज्यं बहुसमं दृष्टा भोगा अनन्तकाः ।
पुत्रीमिषेण निर्बन्धः करिष्ये भजनं हरेः ।।३६।।
सर्वं नश्यतु मे शीघ्रं स्वार्था नश्यन्तु विघ्नदाः ।
भक्तिर्मुक्तिः सुता शान्तिः सद्वृत्तिर्मा विनश्यतु ।।३७।।
एवं स निश्चयं कृत्वा नाऽऽत्यजत् कन्यकां निजाम् ।
सापि शर्मवती नित्यं वैराग्येण हि वर्तते ।।३८।।
तस्मात् शर्मवती नाम्ना कृता पित्रा सुखप्रदा ।
अथ सा यौवनं प्राप्ता कृष्णनारायणं सदा ।।३९।।
भजति स्म प्रगे स्नात्वा नमति स्म पितुः पदम् ।
सेवते स्म प्रसूं साध्वी मत्वा पुण्यमनुत्तमम् ।।1.490.४० ।।
अथ पूर्वकृताद् दैवाद् वृकस्य नृपतेः पुरीम् ।
शत्रवः परितो वृत्त्वा त्वयुद्ध्यन् बहुवासरान् ।।४१ ।।
वृको युद्धे हतो दैवाद् दिने तु दशमे यदा ।
तदा लोकास्तदेवोचुरनया विषकन्याया ।।४२। ।
राज्ञो राज्यं गतं सर्वं राजाऽपि निहतो रणे ।
उक्तो ज्योतिर्विदा पूर्वं नृपस्तत्याज नैव ताम् ।।४३ ।।
अधुना वध्यतां त्वेषा निर्यास्यतां पुरादितः ।
अवशिष्टस्य रक्षा स्यादन्यथा नाश एव हि ।।४४।।
कन्या श्रुत्वा प्रजावाणीं निर्ययौ निशिथे सती ।
हाटकेश्वरशंभोश्च क्षेत्रं गत्वा क्षणं स्थिता ।।।४५।।।
नत्वा शंभुं शोकमग्ना चिन्तयामास वै मृतिम् ।
अथ तस्याः स्मृतिर्जाता पूर्वजन्मसमुद्भवा ।।४६।।
चण्डालत्वे मया पूर्वं गौरेका वितृषीकृता ।
तत्पुण्येन नृपपुत्री सञ्जाताऽस्मि वृकालये ।।४७।।
पूर्वदेहे बहुपुत्रा त्वासं चण्डालभामिनी ।
विगर्हिता च दारिद्र्यकदर्थिता क्षुधार्दिता ।।४८।।
तृषार्दिताऽप्यहं ददौ जलं गवे सुपुष्कलम् ।
तेन पुण्येन संजाता कन्याऽहं भूभृतः खलु ।।४९।।
किन्तु चण्डालपुत्रीत्वे तदा गौरीं तु कानकीम् ।
चोरयित्वा च पाषाणैर्बभंज खण्डशश्च ताम् ।।।1.490.५०।।
देवालयाद् विनिर्गत्य विक्रयार्थं महापणम् ।
यावद्गतवती तावद्धृता राजभटैरहम् ।।५१ ।।
ताडिता दण्डिता कारागारे क्षिप्ता ततो मृता ।
पार्वतीमूर्तिभंगेन सञ्जाता विषकन्यका ।।५२।।
मम कर्म मयाऽवश्यं भोक्तव्यमघमेव तु ।
किन्तु जलप्रदानस्य पुण्यं प्राप्तं मया शुभम् ।।५३ ।।
अथ तत्रोटजां कृत्वा करोमि तप उत्तमम् ।
जलदानं फलदानं यथाशक्ति च सेवनम् ।।५४।।
सतां यतीनां साधुनां गवां धर्मिष्ठयोषिताम् ।
बालानां देवभक्तानां सेवया मोक्षणं भवेत् ।।५५।।
इति कृत्वा तपस्तेपे गौरीं संस्थाप्य भक्तितः ।
व्रतं कृतवती गौर्याः स्नात्वा पूजादि चाचरत् ।।५६।।
एकान्तरोपवासैश्च नृत्यगीतैर्मनोहरैः ।
तोषयामास नित्यं सा ग्रीष्मे पञ्चाग्निसाधना ।।५७।।
शिशिरे जलमध्यस्था वर्षायां जलवृष्टिषु ।
स्थिता पूर्वं फलाहारा पत्राहारा ततः परम् ।।५८।।
शुष्कपर्णादिनी पश्चाज्जलाहारा बभूव सा ।
वाय्वाहारा ततो जाता चात्मारामा ततः परम् ।।।५९।।
आकाशशयना त्यक्तकुटीरा च दिगम्बरा ।
बभूव धूलिकामग्ना भूतले भूतलं यथा ।।1.490.६०।
बहुकालो गतस्तस्या योगिन्या योगधर्मतः ।
मुखं वलिभिराक्रान्तं पलितैरङ्कितं शिरः ।।६ १ ।
कन्याभावेऽपि वर्तन्त्या गौरी तुष्टा बभूव ह ।
अथ तस्याः परीक्षार्थं शची भूत्वा तु पार्वती ।।६२।।
श्वेतं गजं समारुह्य महाराज्ञी समाययौ ।।.
दधती मुकुटं मूर्ध्नि सेव्यमानाऽप्सरोगणैः ।।६ ३।।
प्रसन्नवदना शर्मवतीं प्रोवाच सादरम् ।
वरं वृणु यथेष्टं ते ददामि तापसि प्रिये ।।६४।।
अहं भार्या सुरेशस्येन्द्राणी भवामि नामतः ।
स्वयं प्राप्ता दयां कृत्वा दातुं तव तपःफलम् ।।६५।।
भवानी निष्ठुरा कन्ये नाऽद्यापि त्वां प्रपश्यति ।
इति श्रुत्वा रजो देहादुद्धूल्य च कृताञ्जलिः ।।६६।।
नमस्कृत्याऽऽह नाऽहं त्वत्प्रसादं चिन्तये शचि ।
वरं त्वत्तस्तु नेच्छामि नाऽन्यासां देवयोषिताम् ।।६७।।
या देवी शिवकान्ताऽस्ति वरं तस्या वृणोम्यहम् ।
यया वर्षसहस्राणि शिवार्थं तप्तमेव यत् ।।६८।।
कृष्णवामांगसंभूता प्रकृतिर्या सदाशिवा ।
यया व्याप्तमिदं सर्वं तस्या वरं वृणोम्यहम् ।।६९।।
शच्युवाच तनया कन्यामहं वज्रधरी शची ।
स्वामिन्यहं तु देवानां देवीनामीश्वरी सती ।।1.490.७० ।।
मया दत्तैर्वरैः सर्वा देव्यो भवन्ति कन्यके ।
त्वं कथं नैव गृह्णासि वरं मत्तः कुतापसि! ।।७ १ ।।
तन्नूनं वज्रघातेन चूर्णयिष्यामि ते शिरः ।
इति श्रुत्वा धैर्ययुक्ता कन्या प्राह सुरेश्वरीम् ।।७२।।
स्वामिनी त्वं सुराणां च देवीनामपि तदृतम् ।
यस्याः प्राप्तं तवैश्वर्यं परां तां तोषयाम्यहम् ।।७३।।
स्वागतं ते मातृतुल्यं पूज्येऽर्चयामि सत्फलैः ।
स्वल्पमप्यपराधं ते न करोमि महेश्वरि ।।७४।।
तथापि वधयोग्यां मां मन्यसे निक्षिपाऽऽयुधम् ।
एवमुक्त्वा शिवां ध्यात्वाऽवाततार हृदम्बरे ।।७५।।
चिन्तयामास च हृदि मरणं वा च दर्शनम् ।
एकं लब्धव्यमेवाऽत्र शच्या वा शिवयोषितः ।।७६ ।।
अन्यथा ज्वलनं योग्यं सेवयिष्यामि चानलम् ।
तावत् त्वैरावतो जातस्तदा सिंहस्वरूपकः ।।७७।।
शची जाता शिवारूपा ह्यप्सरसस्तु सेविकाः ।
रुद्राण्यो भालचन्द्राश्च शूलहस्ताः शुभाननाः ।।७८।।
शुक्लां शुक्लवृषस्थां पार्वतीं शुक्लाम्बरां हृदि ।
दृष्ट्वा शर्मवती चक्षुरुद्घाट्याऽग्रे व्यलोकयत् ।।७९।।
विषकन्या स्तुतिं चक्रे प्रणिपत्य सगद्गदा ।
'नमस्ते शांकरि रक्षाकरि प्राणातिवल्लभे ।।1.490.८० ।।
सर्वकामप्रदे सत्ये भक्ताया हृदयंगमे ।
नमस्तेष्टगुणैश्वर्यवत्यै सत्यै नमो नमः ।।८ १ ।।
ध्यायन्ति योगिनस्त्वां चार्चयन्ति स्नेहवस्तुभिः ।
सम्यग्भावात्मकैः पुष्पैरर्चयामि महेश्वरि' ।।८२।।
इत्युक्त्वा प्रणनामाथ पार्वती तामुवाच ह ।
परितुष्टाऽस्मि ते पुत्रि वरं प्रार्थय वाञ्छितम् ।।८३।।
विषकन्या तदोवाच सर्वं जानासि चेश्वरि ।
भर्तुरर्थे मया सर्वः कृतोऽयं तपउद्यमः ।।८४।।
तत्किं तेन करिष्यामि साम्प्रतं जरयाऽऽवृता ।
वसाऽत्र पार्वति नित्यं कन्यानां शुभदा भव ।।८५।।
इत्युक्ता पार्वती तथास्त्विति प्राह ततः परम् ।
पस्पर्श पाणिना कन्यां चकार नवयौवनाम् ।।८६।।
उवाचोनषोडशाब्दां दिव्या चम्पकसदृशीम् ।
वद कन्ये वरारोहे किमिष्यते ततः परम् ।।८७।।
कन्याऽऽह मातः शंभोर्मे दर्शनं कारय प्रभोः ।
सती प्राह समागच्छ कैलासं सिंहसंस्थिता ।।८८।।
इत्युक्ता सा शर्मवती ययौ कैलासमेव तु ।
दृष्ट्वा च शंकरं साध्वी लब्ध्वा मन्त्रं तु वैष्णवम् ।।८९।।
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
कण्ठे च तुलसीमालां गृहीत्वा सात्त्वती तदा ।।1.490.९०।।
अभवद् वैष्णवी कन्या नारायणपरायणा ।
अन्ते नारायणं लब्ध्वा पतिं मुक्तिं जगाम सा ।।९१ ।।
इत्येवं कथितं लक्ष्मि! शर्मवत्याः शुभावहम् ।
तापस्याः शुक्लचरितं विषकन्यातपः परम् ।।९२।।
पार्वतीनिष्ठया भक्त्या लब्ध्वा शंभोश्च दर्शनम् ।
वैष्णवी परमा भूत्वा ययौ विष्णोस्तु मन्दिरम् ।।९३।।
भाग्यहीना गृहहीना कर्महीनाऽपि या भवेत् ।
तपसाऽऽराधनया च भुक्तिं मुक्तिं लभेत तु ।।९४।।
पठनाच्छ्रवणाच्चास्य तादृशीं सद्गतिं लभेत् ।
भाग्यरेखां सुरेखां च कृत्वा दास्यं हरेर्व्रजेत् ।।९५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सौराष्ट्रीयवृकराज्ञः शर्मवत्या विषकन्यायाः पितृराज्यनाशोत्तरं तपः, पूर्वजन्मादिस्मृतिः, गौरीशंभ्वोराराधना, परीक्षा, वरदानम्, शिवाशिवदर्शनम्, कैलासगमनम्, ततो नारायणभक्त्या वैकुण्ठे मोक्षणं चेतिनिरूपणनामा
नवत्यधिकचतुश्शततमोऽध्यायः ।। ४९० ।।