लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४९१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४९० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४९१
[[लेखकः :|]]
अध्यायः ४९२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! चमत्कारपुरे नागनदीतटे ।
मुण्डीरे तु वरे तीर्थे चमत्कारं वदामि ते ।। १ ।।
समुद्रखाडिकाप्रान्ते विटंकाख्ये पुरे शुभे ।
कुष्ठव्याधियुतो विप्रः शराख्यो यौवनेऽभवत् ।। २ ।।
शरभार्याऽभवत् साध्वी सुधाम्नी शीलशालिनी ।
स्वामिसेवापरा नित्यमिन्द्रियैर्नहि चञ्चला ।। ३ ।।
कुष्ठितं स्वामिनं चापि पश्यत्येव यथास्मरम् ।
सेवते दासिकारीत्या पत्नीरीत्या मुदा मुदा ।। ४ ।।
औषधानि विचित्राणि महार्घ्याण्यपि चाददे ।
तदर्थमुपलेपाँश्च पथ्यानि विविधानि च ।। ५ ।।
तथा भिषग्वरान्नित्यमानयित्वा च सादरम् ।
तदर्थेन गुणस्तस्य यथा स्यात् सा ह्यकारयत् ।। ६ ।।
यथा यथा स गृह्णाति भेषजानि तथा तथा ।
पूर्वकर्मविपाकेन रोगो व्याप्नोति वर्ष्मणि ।। ७ ।।
एकदा तस्य चायातोऽतिथिर्विप्रोऽतिमार्गगः ।
तं श्रान्तं च गृहप्राप्तं दृष्ट्वा तस्य प्रिया सती ।। ८ ।।
अज्ञातं तं गृहिभक्त्या भोजनाद्यैरतोषयत् ।
कृताहारं सुविश्रान्तं तं पप्रच्छ शरो द्विजः ।। ९ ।।
कुत आगम्यते विप्र! कुत्र यासि स्थलान्तरे ।
पान्थः प्राह चमत्कारपुरादायामि साम्प्रतम् ।। 1.491.१ ०।।
यामि कान्तीपुरीं यत्र निवासो मे सदा द्विज ।
तत्राऽहमभवं कुष्ठी पूर्वकर्मविपाकतः ।। ११ ।।
औषधानि विविधानि सेवितान्यपि सर्वदा ।
कुष्ठो न नश्यति किंचिद् वर्धते तु दिने दिने ।। १२।।
श्रुतं चापि मया वैद्याच्चमत्कारपुरे शुभे ।
सूर्यातीर्थं शुभं त्वास्ते कुष्ठव्याधिविनाशकम् ।। १३ ।।
मुण्डीरस्वामिनः स्थाने सूर्यदेवस्य मन्दिरम् ।
तत्र गच्छेद् व्रतं कृत्वा स्नायात् सूर्यं प्रपूजयेत् ।। १४।।
तेन कुष्ठो भवेल्लीनश्चमत्कारोऽस्ति दैविकः ।
अथाऽह द्रव्यमादायाऽगच्छं तीर्थं रविस्थलम् ।। १५।।
नित्यं प्रातः समुत्थाय स्नात्वा पश्यामि भास्करम् ।
पूजयामि यथाशक्ति प्रणमामि स्मरामि च ।। १६।।
सूर्यवारे विशेषेण निराहारो भवामि च ।
करोमि जागरं रात्रौ गीतवादित्रकीर्तनैः ।। १७।।
एवं पूजां व्रतं कुर्वन् यावत्सम्वत्सरं स्थितः ।
ततः सम्वत्सरस्याऽन्ते स्वप्ने मा भास्करोऽब्रवीत् ।। १८।।
प्रसन्नोऽस्मि तव भक्त्या ततः कुष्ठं प्रयातु ते ।
पूर्वजन्मनि देवस्य यतः स्वर्णं हृतं त्वया ।। १ ९।।
कुष्ठी त्वमत्र संजातः पापं लीनं च तत् तव ।
ओं ह्रां ह्रीं ह्रौं सः सूर्याय नमो रोगविनाशिने ।
एवमुक्त्वा रविस्तत्र जलेनाऽस्नापयच्च माम् ।।1.491.२०।।
तावन्निद्रा मम नष्टाऽपश्यं देहं निरोगकम् ।
अहं वै विस्मयं प्राप्तो दृष्ट्वा मां व्याधिवर्जितम् ।। २१ ।।
तस्मात् त्वं याहि विप्रेन्द्र चमत्कारपुरं शुभम् ।
सूर्यतीर्थं समाश्रित्य वत्सरं सूर्यमर्चय ।
मन्त्रं प्रोक्तं जप मालावर्तनेन दिवानिशम् । । २२ ।।
सर्वव्याधिप्रणाशस्ते सूर्यसेवाकृतो भवेत् ।
स्वस्ति तेऽस्तु गमिष्यामि स्वगृहं त्वत्र तोषितः ।। २३ ।।
इत्युक्त्वा स ययौ विप्रश्चाऽथ द्विजः स कुष्ठभाग् ।
वीक्षांचक्रे निजपत्न्या वक्त्रे दीनो जनो यथा ।। २४।।
पत्नी पतिव्रता साध्वी पान्थोक्तं चान्वमन्यत ।
गन्तव्यं नाथ तत्तीर्थं यत्र सूर्योऽस्ति कुष्ठहा ।। २५।।।
अहं त्वया समं तत्र शुश्रूषानिरता सदा ।
स्थास्यामि कः परो लाभः स्वामिनः सेवनं विना ।। २६।।
एवमुक्तः पतिर्विप्रः साध्व्या वित्तेन संयुतः ।
हाटकश्वरजे क्षेत्रे सम्प्राप्तः सूर्यमन्दिरम् ।। २७।।
दृष्ट्वा सूर्यग्रहक्षेत्रं विशालं तापसाऽन्वितम् ।
तपोमनश्चकाराऽयं वैराग्यं पुण्यतो ययौ ।। २८८।।।
सुधाम्नीं स ततः प्राह धन्योऽहं त्वं तथा प्रिये ।
तीर्थक्षेत्रं तापसाश्च रविर्दृष्टाः सुपुण्यतः ।। २९।।
मुक्तिर्जाता प्रियेऽस्माकं पुण्यक्षेत्रागमात् खलु ।
मायामोहाद् विनिष्क्रान्ता भजिष्यामो हरिं सदा ।। 1.491.३० ।।
भिक्षावृत्तिं करिष्यामो जीविष्यामो यथातथम् ।
रोगो यातु च मा यातु जन्मरोगो भविष्यति ।। ३१ ।।
भज शान्तिं हरिं साध्वि शान्तिर्मे वर्ततेऽधुना ।
तवापि सर्वदा शान्तिरस्तु मा खिन्नता व्रज ।। ३२।।
अहं निर्वेदमापन्नः पुण्यक्षेत्रागमात् प्रिये ।
त्वं यदि चेच्छसि कान्ते गृहं गन्तुं व्रजाऽधुना ।। ३३ ।।
अहं तीर्थे स्वकं देहं त्यक्त्वा यास्यामि मोक्षणम् ।
इत्युक्त्वा श्रीकृष्णनारायण रक्षेति वै गृणन् ।। ३४।।
विप्रश्चकार भजनं पत्नी प्राह च तं तदा ।
अभुक्ते त्वयि नो भुक्तं कदाचित् कान्त वै मया ।। ३५।।
एकान्तेऽपि महाभाग न सुप्तं जाग्रति त्वयि ।
विना कान्तस्य चरणं नास्ति त्वन्यत्र मानसम् ।। ३६ ।।
सुखं सर्वं कान्तसेवां विना नान्यत्तु मे हृदि ।
कान्तेन सहिता कान्ता सदा भाग्यवती त्वियम् ।। ३७।।
कान्तपुण्येन पुण्याऽहं कथं त्यक्त्वा व्रजाम्यहम् ।
परलोकाय सार्थं त्वां त्यक्त्वा यामि कथं गृहम् ।। ३८ ।।
न गृहं वै शिलाजन्यं किन्तु विवाहमालया।
प्राप्तं वै परलोकाय चेतनं त्वं गृह मम ।। ३ ९।।
भोक्तुं विश्रमितुं रन्तुं तापं शमयितुं तथा ।
गृहं सत् कान्तरूपं वै सत्या नार्याः सदाऽस्ति यत्। ।।1.491.४०।।
आत्मनो मनसस्तन्वाश्चेन्द्रियाणां सुखाप्तये ।
गृहं क्रीतं प्राणद्रव्यार्पणेन स्वामिनामकम् ।।४१ ।।
तत्र गताऽस्मि नित्यं वै गन्तव्यं नाऽवशिष्यते ।
अगृहिणी कथं यामि त्वया हीना गृहान्तरम् ।।।४२।।
तस्मात् त्वया समं नाथ करिष्ये तीर्थसेवनम् ।
देहयात्रां यथालब्धैः करिष्ये तव सेवने ।।४३।।
धर्मपाशविनिर्बद्धाः सत्येनात्मानमालभे ।
सहधर्मवृता पत्नी सहैव तु गमिष्यति ।। ४४।।
एवं तस्या विदित्वा स ब्राह्मणो निश्चयं दृढम् ।
अतीव तुष्टो धन्योऽहं यस्येदृशी सती प्रिया ।। ४५।।
अथैवं वर्तमानौ तौ दम्पती हरितत्परौ ।
श्रावणे नागनद्यास्तु तटे तत्र महोत्सवे ।।४६ ।।
लक्षाधिकमनुष्याणां समाजे सूर्यदर्शनम् ।
कर्तुं ययतुः पूजां च शुभां विशेषवस्तुभिः ।। ४७।।
जनानां बहुसम्मर्दं विप्रोऽभूद्धार्षतस्तदा ।
पतितो जनसम्मर्देऽप्यशक्तो नोत्थितः पुनः ।। ४८ ।।
अशक्ता त्वबला नेतुमूर्ध्वं सम्मर्दकर्षिता ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।।४९ ।।
इति जापं कृतवती सती साध्वी पतिव्रता ।
'ओं सवित्रे नमः साक्षिरूपिणे परमात्मने' ।।1.491.५० ।।
इतिजापं कृतवान् स भक्तो विप्रो विरागवान् ।
तावत् तयोः प्ररक्षार्थे कृष्णनारायणो रविः ।। ५१।।
समायातावेककाले हस्तेनादाय तावुभौ ।
अम्बरे दिव्यहस्तेन कृत्वा सम्मार्ज्य तावुभौ ।। ५२ ।।
कुष्ठहीनं द्विजं कृत्वा सतीं च दिव्यरूपिणीम् ।
कृत्वा चोभौ शुभं भूयात् पश्यतां तीर्थवासिनाम् ।। ५३।।
इत्याशीर्भिर्वर्धयित्वा ददतुर्वरदानकम् ।
सुखिनौ तु सदा भूत्वा चिरं स्थित्वा भुवस्तले ।।।५४।।
अन्ते धाम तु वैकुण्ठं दम्पती संप्रयास्यथः ।
इत्युक्त्वा वै शुभां पूजां ताभ्यां समर्पिता तदा ।।५५ ।।
गृहीत्वा दिव्ययानाभ्यां ततो नारायणावुभौ ।
ययतुर्निजलोकं तौ ब्राह्मणश्च प्रियायुतः ।।५६ ।।
नवयौवनरूपाढ्यश्चाभवद् देववत्तदा ।
जग्मुराश्चर्यमत्यर्थं लोका नगरवासिनः ।।५७।।।
लक्षशो मानवास्तत्र दम्पत्योः पूजनादिकम् ।
चक्रुः पूताः समभवन् तीर्थफलमवाप्य च ।।५८।।
विप्रयोगेन सूर्यस्य कृष्णनारायणस्य च ।
लब्ध्वा तु दर्शनं दिव्यं चमत्कारपुरे शुभे ।।५९।।
सूर्यक्षेत्रे सूर्यगृहे कृतकृत्या विपाप्मकाः ।
संबभूबुर्हरेर्भक्ता भेजिरे श्रीहरिं सदा ।।1.491.६ ०।।
एवं पतिव्रता साध्वी कुष्ठिपतिं प्रसेव्य च ।
याता त्वन्ते हरेर्धाम चमत्कारपुरे पुरा ।।६ १।।
एतस्य पठनाच्चाथ श्रवणात् कीर्तनादपि ।
भुक्तिः शुद्धिश्च मुक्तिश्च भवन्त्येव न संशयः ।।६२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सौराष्ट्रीयस्य विटंकपुरस्य कुष्ठिशराख्यविप्रस्य देवद्रव्यचौरस्य चमत्कारपुरे नागमतीनद्यां सूर्यगृहतीर्थकरणात् सूर्यस्य नारायणस्य च दर्शनात् पतिव्रतासुधाम्नीपत्न्या सह मोक्षं इत्यादिनिरूपणनामैकनवत्यधिकचतुश्शततमोऽध्यायः ।। ४९१ ।।