लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४८९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४८९
[[लेखकः :|]]
अध्यायः ४९० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां रम्यां चमत्कारपुरोद्भवाम् ।
सत्यधर्मपरां तिर्यग्योनिमोक्षकरीं शुभाम् ।। १ ।।
नागनद्यास्तटे तत्र दक्षिणे योजनद्वये ।
आस्ते सरोवरं दीर्घं पञ्चयोजनविस्तृतम् ।। २ ।।
कस्यचित्त्वथ कालस्य स्नात्वा तत्र सरोवरे ।
दुर्वासा मुनिराड् राज्ञः कलशस्य गृहं ययौ ।। ३ ।।
चमत्कारपुरेशं तं कलशं प्राह सत्वरः ।
चातुर्मास्यव्रतस्थोऽहं पारणं कर्तुमुत्सहे ।। ४ ।।
तस्माद् यत्किंचिदन्नं ते सिद्धमस्ति गृहे नृप ।
तद् देहि भोजनार्थं मे बुभुक्षाऽतीव वर्धते ।। ५ ।।
कलशाख्यो महाराजः सिद्धान्नं यदुपस्थितम् ।
मिष्टान्नं व्यञ्जनं चोष्यं पेयं खाद्यं तथाऽऽमिषम् ।। ६ ।।
सर्वं भोज्यकृते तस्मै प्रददौ स्वयमेव वै ।
अथाऽसौ बुभुजे विप्रः सूपं मांसरसान्वितम् ।। ७ ।।
अज्ञातभोजनो विप्रो ज्ञात्वाऽन्नं मांसमिश्रितम् ।
व्रतभंगस्य दोषेण चुकोप तं शशाप च ।। ८ ।।
यतो मांसान्वितं दत्वा व्रतभंगः कृतो मम ।
तस्मात्त्वं चामिषाहारो भव व्याघ्रो वनादिषु ।। ९ ।।
राजा प्रदीनवचनः प्रोवाचाऽनुग्रहं कुरु ।
आज्ञांकितस्य दासस्य भक्तस्य विनतस्य च ।। 1.489.१ ०।।
दुर्वासास्तं ततः प्राह यदा धेनुस्तु नन्दिनी ।
शंभोर्बाणं भूतलस्थं दर्शयिष्यति ते नृप ।। ११ ।।
भविष्यसि तदा मुक्तश्चेत्युक्त्वा. प्रययौ मुनिः ।
बभूव राजा भयकृद् व्याघ्राकृतिर्वनेचरः ।। १ २।।।
अथ कालेन च गवां कुलं तृणार्थमागतम् ।
यत्रासीन्नन्दिनी धेनुर्हंसवर्णा घटस्रवा ।। १ ३।।
सा तृणार्थं निकुंजान्ते गता लिंगं तु शूलिनः ।
ददर्श तृणधान्यादिच्छन्नं गुल्मादिमध्यगम् ।। १४।।
ततस्तस्योपरि स्थित्वा सुस्राव सुमहत्पयः ।
तत्र दैवात् स वै व्याघ्रो भ्रमँस्त्वरित आययौ ।। १५।।
दृष्ट्वा तां नन्दिनीं व्याघ्रः प्रजग्राह ततस्तु सा ।
गोष्ठे बद्धं स्वकं वत्समतृणादं पयःपरम् ।। १६।।
संस्मृत्य दुःखिता दीना करुणं पर्यदेवयत् ।
अहोऽहं केन पापेन त्यक्त्वा वालं तु गोष्ठगम् ।। १७।।
मरणार्थ व्याघ्रमुखे पतिता शंकरोऽवतु ।
येन सत्येन भक्त्या तै स्नपनाय तृणाय च ।। १८।।
आगता तेन सत्येन भूयान्मे सुतसंगमः ।
व्याघ्रः श्रुत्वा तामुवाच त्यज वृथा प्रलापकान् ।। १ ९।।
इष्टदेवं स्वर्गदं त्वं स्मर सौख्यं ततो भवेत् ।
अवश्यं मरणं तेऽस्ति यतोऽस्ति वशगा मम ।।1.489.२०।।
धेनुः प्राह शृणु व्याघ्र नात्मानं विलपाम्यहम् ।
शंभुपूजां विधायैव मृत्युर्मे मोक्षदो यतः ।।२ १ ।।
वत्सो मे गोकुले बद्धः स्मरमाणो मदागमम् ।
सन्तिष्ठते पयोवृत्तिः कथं स्यात् स मया विना ।।२२।।
तस्मान्मुञ्च महाव्याघ्र मामद्य सुतवत्सलाम् ।
सखीजनस्य तं दत्वा समागच्छामि तेऽन्तिकम् ।।२३।।
व्याघ्र उवाच या मृत्योर्मुखान्निष्क्रम्य याति सा ।
पुनर्नैव समागच्छेत् तस्मात् त्वां भक्षयामि ।।२४।।
नन्दिन्युवाच शपथैरागमिष्यामि तेऽन्तिकम् ।
यत्पापं ब्रह्महत्यायां मातापित्रोश्च वञ्चने ।।२५।।
गुरोः साधोर्वञ्चने च पत्युः साध्व्याश्च वञ्चने ।
तेन पापेन लिप्यामि नाऽऽगच्छामि पुनर्यदि ।।२६।।
विश्वासघातिनां पापं कृतघ्नानां च यद्भवेत् ।
व्रतभंगप्रकर्तॄणां देवखण्डनकारिणाम् ।।२७।।
निन्दकानां जीविकाहारिणां पापं च यद्भवेत् ।
तेन पापेन लिप्यामि नाऽऽगच्छामि पुनर्यदि ।।२८।।
एवं शपथान् व्याघ्रः स श्रुत्वा विस्मयतोऽब्रवीत् ।
यद्येवं तद्गृहं गच्छ वीक्षयस्व निजात्मजम् ।।२९।।
सखीनामर्पयित्वाऽथ भूय आगमनं कुरु ।
इत्युक्ता रंभमाणा सा ययौ वत्सं त्वरान्विता ।।1.489.३ ०।।
अथाऽकालाऽऽगतां दृष्ट्वा रंभमाणां स्वमातरम् ।
वत्सः प्रपच्छ कस्मात् त्वमद्याऽकाले समागता ।।३ १ ।।
उद्भ्रान्तमानसाः कस्माद् बाष्पक्लिन्नानना कुतः ।
माता प्राह पयःपानं कुरु पश्चाद् वदामि ते ।।३२।।
वत्सः पपौ पयः पूर्णं मूर्ध्न्याघ्रातस्तया मुहुः ।
आलीढश्च शनैरुक्तो व्याघ्रवृत्तान्त एव च ।।३३।।
अहं गता वने त्वद्य व्याघ्रेणासादिता बलात् ।
स मया प्रार्थितो व्याघ्रो भक्षमाणो नखायुधः ।।३४।।
शपथैरागमिष्यामि गोष्ठे संवीक्ष्य बालकम् ।
साऽहं तेन विनिर्मुक्ता तवार्थं शपथैः सुत ।।३५।।
अथ तत्र गमिष्यामि दत्वा त्वामन्यधेनवे ।
सुखी जीव प्रिय वत्स भोजितो दृष्टभाषितः ।।३६।।
वत्साऽऽहाहं च तत्रैव यास्यामि यत्र गच्छसि ।
श्लाघ्यं हि मरणं सम्यङ् मातुरग्रे ममाऽधुना ।।३७।।
एकाकिनाऽपि मर्तव्यं त्वया हीनेन वै मया ।
त्वदग्रतो हि मर्तव्यं स्वर्गदं मे भविष्यति ।।३८।।
यदि मातस्त्वया सार्धं व्याघ्रो मां सूदयिष्ययि ।
या गतिर्मातृभक्तानां सा मे नूनं भविष्यति ।।३९।।
अथवा शपथैश्चाहं यामि त्वमत्र तिष्ठ वै ।
नास्ति मातृसमो बन्धुर्बालानां क्षीरजीविनाम् ।।1.489.४०।।
नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः ।
नास्ति मातृसमः पूज्यो नास्ति मातृसमः सखा ।।४१ ।।
नास्ति मातृसमो देवस्त्विह लोके परत्र च ।
एवं सेवा सदा मातुः कर्तव्या भक्तिरुत्तमा ।। ४२।।
मातृसेवां परं धर्ममनुतिष्ठन्ति ये सुताः ।
गतिं ते परमां यान्ति मात्राशीर्वादलक्षिताः ।।४३।।
तस्मादहं गमिष्यामि त्वं तु तिष्ठाऽत्र गोष्ठके ।
आत्मप्राणैस्तव प्राणान् रक्षयिष्याम्यसंशयम् ।।४४।।
पुत्रवाक्यं धर्मयुक्तं श्रुत्वोवाच तु नन्दिनी ।
ममैव विहितो मृत्युर्न ते पुत्राऽद्य वासरे ।।४५।।
तत्कथं मम जीवं त्वं रक्षस्यसुभिरात्मनः ।
मातुर्वाक्यमनुष्ठाय प्रमादं मा समाचर ।।४६ ।।
लोभात् संजायते नाशस्त्विह लोके परत्र च ।
लोभात्प्रमादाद्विश्वासाजनो वै बध्यते त्रिभिः ।।४७।।
तस्माल्लोभस्त्वया पुत्र मा कार्यो गमनाय वै ।
आत्मा पुत्र त्वया रक्ष्यः सर्वदैव प्रयत्नतः ।।४८।।
नैकाकिना प्रगन्तव्यं यूथं त्यक्त्वा निजं क्वचित् ।
एवं संभाष्य तं लक्ष्मि! मुहुस्तमवलिह्य वै ।।४९।।
शोकबाष्पसमायुक्ता सखीमध्येऽभवत् क्षणम् ।
उवाच बहुले! चम्पे! वसुधारे! घटस्रवे! ।।1.489.५०।।
हंसनादे! श्रियानन्दे । शुभक्षीरे! महोदये! ।
तथाऽन्या धेनवः सर्वाः श्रुत्वा कुर्वन्तु मद्वचः ।।५१।।
अद्य व्याघ्रेण निकटे भक्ष्यार्थं गृहीताऽस्म्यहम् ।
प्राप्ता युष्मद्दर्शनार्थं सुतस्य दर्शनाय च ।।५२।।।
शपथैः कृच्छ्राच्चायाता दुष्टः पुत्रः सुभाषितः ।
शासितो भवतीनां च प्रदत्तः पुत्रको मया ।।५३।।
ज्ञानाऽज्ञानकृतं यद्वै भवतीनां तु दुष्कृतम् ।
क्षान्त्वाऽनाथोदुग्धपो मे बालो रक्ष्यः सदा प्रियाः ।।५४।।
मातृशोकाभिसन्तप्तः पाल्यः सर्वाभिरेव सः ।
अहं तत्र गमिष्यामि स व्याघ्रो यत्र वर्तते ।।५५।।
अपश्चिमः प्रणामोऽयं सर्वासां विहितो मया ।
श्रुत्वा तद् धेनवः प्राहुर्न गन्तव्यं हि नन्दिनि! ।।५६।।
आपद्धर्मे शपथस्तु मृषा कर्तव्य एव यत् ।
पापं नास्ति मृषावक्तः प्राणनाशे ह्युपस्थिते ।।५७।।
विवाहे नर्मणि नार्यां प्राणापदि धनापदि ।
अनृतं नहि पापाय धर्मः प्रोक्तः स रक्षकः ।।५८।।
पालयस्व निजं पुत्रं व्रजाऽस्माभिर्निजं गृहम् ।
श्रुत्वा ता नन्दिनी प्राह परप्राणस्य रक्षणे ।।५९।।
पञ्चाऽनृतं शुभो धर्मो न स्वप्राणस्य रक्षणे ।
साधूनां सत्यमेवाऽस्ति धर्मस्तारणकारकः ।।1.489.६० ।।
सत्ये प्रतिष्ठितो लोको धर्मः सत्ये प्रतिष्ठितः ।
विष्णवे पृथिवीं दत्वा बलिः सत्ये व्यवस्थितः ।।६१।।
प्रतिज्ञाय विहन्याच्चेत् सर्वघाती भवेद्धि सः ।
धेनवोऽथ तदा प्राहुर्नमस्कार्याऽसि सर्वथा ।।६२।।
सत्यधर्मवती प्राणान् गणयस्येव नैव यत् ।
किं वक्ष्यामो वृषे सत्ये स्थितां त्वां देववन्दिताम् ।।६३।।
तस्माद् गच्छ महापुण्ये न शोच्यः पुत्रकस्त्वया ।
शुभस्ते विजयश्चास्तु धर्मो रक्षतु नन्दिनीम् ।।६४।।
इत्युक्त्वा नन्दिनी सखीजनान् नत्वा शनैः शनैः ।
वनाधिदेवताः सर्वा रक्षन्तु मम पुत्रकम् ।।६५।।
एवं प्रलपमाना सा ययौ व्याघ्रस्थलं तु गौः ।
व्याघ्रो व्यात्ताननश्चास्ते तस्या मार्गावलोककः ।।६६।।
नन्दिनी प्राह तं नत्वा त्वागताऽहं वनेचर ।
सत्यमालम्ब्य धर्म वै कुरु तृप्तिं प्रभक्षय ।।६७।।
व्याघ्रः प्राह सति! सत्ये स्थिता विघ्नविवर्जिता ।
त्वां दृष्ट्वाऽहं महापुण्यो भवाम्यद्याऽतिपावनः ।।६८।।
नहि सत्यवतां किञ्चिदशुभं विद्यते क्वचित् ।
अहं भद्रे दुराचारो हिंसकः पापशेवधिः ।।६९।।
त्वां धर्मिष्ठां घातयित्वा प्राप्स्यामि खलु कां गतिम् ।
तस्मात् त्वं मे ज्ञानदानप्रसादं कर्तुमर्हसि ।।1.489.७०।।
सत्संगं सफलं लब्ध्वा गतिर्मे शुभदा भवेत् ।
धेनुः प्राह तपः सत्ये, त्रेतायां ध्यानमेव तु ।।७१ ।।
द्वापरे यज्ञदानं च, दानमेकं कलौ शुभम् ।
कल्यन्ते तु हरेर्नाम तारकं केवलं भवेत् ।।७२।।
सर्वदानोत्तमदानं ह्यभयस्य प्रदानकम् ।
हिंस्राणां तु भवेत् तन्न तस्माच्छ्रीहरिकीर्तनम् ।।७३।।
सेवनं श्रीहरेर्वापि शंभोर्वा राधिकापतेः ।
कर्म मोक्षकरं स्याच्च त्वं सदा तत्समाचर ।।७४।।
गहनेऽत्र वने व्याघ्र वर्ततेऽत्र हरस्थलम् ।
तृणच्छन्नं शिवलिंगं नित्यं प्रातः प्रपूजय ।।७५।।
प्रदक्षिणां प्रणामादि कुरु मुक्तिर्भविष्यति ।
इत्युक्त्वा दर्शयामास लिंगं व्याघ्रस्य नन्दिनी ।।७६।।
व्याघ्रो दृष्ट्वा सत्वरं वै यथा राजाऽभवत् पुरा ।
दुर्वासःशापमुक्तोऽभूत् स्मृत्वा प्राह च नन्दिनीम् ।।७७।।
नृपः कलशनामाऽहं हैहयाऽन्वयसंभवः ।
दुर्वाससो मुनेः शापाद् व्याघ्रत्वे समुपागतः ।।७८।।
नन्दिनीधेनुयोगेन शापमुक्तिर्भविष्यति ।
शंकरस्य दर्शनेन पुना राजा भविष्यसि ।।७९।।
इत्यहं पूर्ववृत्तान्तं स्मराम्यद्य शुचित्वदे! ।
इत्युक्त्वा स प्रणम्यैव गां शिवं तं ननाम च ।।1.489.८० ।।
पुपूज परया भक्त्या स्नपयामास गौः शिवम् ।
दुग्धेन तु तदा शंभुराविर्भूय जगाद ह ।।८१ ।।
मम भक्तौ सदा शुद्धौ मुक्त्यर्थं कृष्णमेव वै ।
भजतां श्रीकृष्णनारायणं पतिं हरिं मुदा ।।८२।।
इत्युक्तौ 'श्रीकृष्णनारायणाय स्वामिने नमः' ।
मन्त्रं गृहीत्वा ययतुर्निजं निजं गृहं ततः ।।८३।।
कुटुम्बादिकमुभयोरानन्दं चाप्तवत् तदा ।
कालेन मुक्तिमापन्नो कृष्णनारायणाश्रितौ ।।८४।।
विमानेन सुदिव्येन ययतुः कृष्णधाम तौ ।
पठनाच्छ्रवणाच्चास्य भुक्तिं मुक्तिं वृषं लभेत् ।।८५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चमत्कारपुरीयकलशाख्यनृपस्य दुर्वाससः शापाद् व्याघ्रत्वं, नन्दिनीधेनुयोगाच्छिवदर्शनान्मुक्तिः, सत्यव्रतस्य प्रभावश्चेतिनिरूपणनामैकोननवत्यधिकचतुश्शततमोऽध्यायः ।।४८९।।