लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४८८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४८८
[[लेखकः :|]]
अध्यायः ४८९ →

श्रीलक्ष्मीरुवाच-
भगवन् श्रोतुमिच्छामि शारदं रासमण्डलम् ।
कृष्णनारायणगोपीलीलामयं निशामय ।। १ ।।
श्रीनारायण उवाच-
शृणु तत्ते प्रवक्ष्यामि रासरमणमुत्तमम् ।
गोपीभिर्नवलक्षाभिर्नवलक्षैश्च माधवैः ।। २ ।।
शरच्चन्द्रपूर्णिमायां किशोरः स युवाऽभवत् ।
युवतीभिर्युवानश्च श्रीकृष्णा रेमिरे प्रिये ।। ३ ।।
विचार्य श्रीहरिर्नक्तं वनं वृन्दावनं ययौ ।
शुभो, चन्द्रोदये सर्वगोपीसंकल्पपूर्तये ।। ४ ।।
चकार तत्र कुतुकाद् विनोदमुरलीरवम् ।
तच्छ्रुत्वा राधिका विनिःससार च द्रुतं गृहात् ।। ५ ।।
त्रयस्त्रिंशद्वयस्याश्च सुशीलाद्या ययुर्मुदा ।
समा वेषेण वयसा रूपेण च गुणेन च ।। ६ ।।
ययुस्त्वन्या नवलक्षगोप्यस्त्यक्त्वा गृहादिकम् ।
सर्वा बभूवुरेकत्र मालाहस्तास्तु काश्चन ।। ७ ।।
चारुचन्दनहस्ताश्च श्वेतचामरहस्तकाः ।
काश्चित् कस्तूरिकाकराः काश्चित् कुंकुमवाहिकाः ।। ८ ।।
काश्चित् ताम्बूलपात्राश्च काश्चित् कांचनभाम्बराः ।
कृष्णकृष्णवदन्त्यश्च ददृशू रासमण्डलम् ।। ९ ।।
सुनिर्जनं कुसुमितं वासितं पुष्पवायुभिः ।
शुश्रुवुस्ता द्विरेफाणां कोकिलानां मधुध्वनिम् ।। 1.488.१०।।
राधा गोप्यः प्रविविशुः शोभितं रासमण्डलम् ।
राधां गोपीश्च संवीक्ष्य हसन् कृष्णोऽप्यदृश्यत ।। ११ ।।
नवयौवनसम्पन्नो रत्नाभरणभूषितः ।
कन्दर्पकोटिलावण्यरूपोज्ज्वलो मनोहरः ।। १ २।।
वक्रलोचनकोणेन ददर्श गोपिका मुहुः ।
गोपीनां नवलक्षाणि कृष्णानां च तथैव हि ।। १३।।
लेक्षाण्यष्टादश युगलानि वै रासमण्डले ।
रासं रेमे कीर्तनैः सत्तालैश्च कूर्दनैर्मुहुः ।। १४।।
हस्तानां मेलनैस्तालीदानैर्वक्रविभङ्गिभिः ।
दण्डैश्च स्कन्धसंयोगैश्चुम्बनैः करपीडनैः ।। १ ५।।
एवं वै रासमाक्रीड्य श्रान्ता निषेदुरुन्मुखाः ।
पुपूजुस्ताः प्रियं कान्तं ददुस्ताम्बूलमुत्तमम् ।। १६ ।।
जगृहुर्मुखताम्बूलं परस्परं स्मरान्विताः ।
कामरूपः स्वयं कृष्णो ज्ञात्वा तन्मानसानि वै ।। १७।।
कामभावेन ताः सर्वा जग्राह च चुचुम्ब च ।
शृंगाराऽष्टप्रकारं च संयोगं त्वंगयोस्तथा ।। १८ ।।
नखदन्तकराणां च प्रहारं वै यथोचितम् ।
चुम्बनाष्टविधं चापि चकार रसिकेश्वरः ।। १९ ।।
अंगैरंगानि प्रत्यंगैः प्रत्यंगानि युयोज च ।
चकाराश्लेषणं तासां कामुकीनां सुखावहम् ।। 1.488.२० ।।
नवलक्षस्थले कृष्णः कान्तासक्तो विराजते ।
तासां दत्वा रतितृप्तिं तूर्ध्वरेताः स्वयंप्रभुः ।। २१ ।।
स्थलक्रीडां तथा कृत्वा जलक्रीडार्थमाययौ ।
नवलक्षयुगलानि रेमिरे यमुनाजले ।। २२ ।।
सवस्त्राश्च विवस्त्राश्च रमन्ते कामतृप्तये ।
चुचुम्बुः स्वामिनं मूर्छां प्रापुरानन्दवारिधौ ।। २३ ।।
समाश्लिषुर्दृढं कान्तं कृत्वा वक्षसि वर्ष्मणि ।
एवं तृप्तिं ददौ कृष्णो जलेऽपि सुचिरं प्रभुः ।। २४।।
अथ निर्गत्य वस्त्राणि धारयामासुरुत्सुकाः ।
ततश्च खेलनं चक्रे भिन्नं भिन्नं सुरञ्जनम् ।। २२ ।।
शृंगारं च विविधं ताश्चक्रे कृष्णस्य गर्विताः ।
कृष्णस्तासां कबर्यादिशृगारं त्वसृजन्नवम् ।। २६ ।।
काचित् कान्तं पुरः कृत्वा चकार केशसाधनम् ।
काचिद् ददौ तु चूडायां मयूरपिच्छमुत्तमम् ।। २७।।
काचिद् ददौ चक्षुषोस्तु कज्जलं भालकुंकुमम् ।
गुञ्जामाल्यं च चूडायां वेष्टयामास काचन ।। २८ ।।
काचिद् वस्त्रं ददौ सूक्ष्मं स्वामिने चोत्तरीयकम् ।
काचिद् ददौ कुसुमानां मालां कण्ठे मनोहराम् ।। २ ९।।
काचिच्चकार तिलकं चन्द्रकं काचिदादधत् ।
काचिदलक्तकं हस्तपादतलनखेष्वदात् ।। 1.488.३० ।।
काचिद् वंशी ददौ हस्ते काचित्ताम्बूलकं ददौ ।
अन्या सुदर्पणे रम्यं दर्शयामास चाननम् ।। ३ १ ।।
परा चकार कृष्णस्य पादसंवाहनं मुदा ।
अन्या जलं ददौ काचिद् ददौ सत्पवनं शनैः ।। ३२ ।।
काचिच्चन्दनलेपं च चकार कृष्णवर्ष्मणि ।
अपरा हस्तमादाय ग्रन्थिस्फोटं चकार ह ।। ३३ ।।
इतरा जंघयोः सक्थ्नोर्मर्दनं प्रचकार वै ।
ननृतुश्च जगुः काश्चित् काश्चिच्चुचुम्बुरुत्सुकाः ।।३४।।
काचित् कृष्णं समादाय निकुंजे प्रजगाम ह ।
अन्या तं शयने कृत्वाऽऽददे रतिसुखं मुदा ।।३५।।
नर्तनं कारयामास तं तु काचिद् बलेन वै ।
सोऽपि कस्याश्चित्कबर्याः सुनिर्माणं चकार ह ।।३६।।
सिन्दूरं प्रददौ भाले कस्तूरीं बिन्दुभिः सह ।
अतिसूक्ष्मं चन्दनेन्दुं कौतुकात् तदधो ददौ ।।३७।।
पत्रावलीं सुललितां सुकपोले चकार ह ।
पादयोर्मञ्जिरे दत्वाऽलक्तकं सुन्दरं ददौ ।।३८।।
भूषणैर्भूषयामास लोपयामास चन्दनम् ।
प्रददे नासिकामध्ये दुर्लभं गजमौक्तिकम् ।।३९।।
एवं कृष्णा नवलक्षं नवलक्षं च गोपिकाः ।
अन्योन्यं भूषयामासुः रमे! कामातिचेष्टिताः ।।1.488.४०।।
बहुमूर्तीः संविधाय योगिनां परमो गुरुः ।
पुनश्चकार शृंगारं गोपीनां कामसौख्यदम् ।।४१ ।।
मूर्छामवापुः सततं कामानन्दपरिप्लुताः ।
एवं रामा रमयित्वा कृत्वा षाण्मासिकीं निशाम् ।।४२।।
निद्रां दीर्घां भुवि कृत्वा कृत्वाऽर्कस्य स्थिरां गतिम् ।
कामतृप्तिं परां दत्वाऽप्यूर्ध्वरेताः परेश्वरः ।।४३।।
अप्रस्खलितः श्रीकृष्णो बभूव कामगर्वहृत् ।
पुनर्जगाम रासस्य मण्डपे रासखेलनम् ।।४४।।
चकार बहुभ्रमणैर्विविधैः कीर्तनैस्तदा ।
सर्वे देवादयो व्योम्नि स्थिताः पत्नीप्रजायुताः ।।४५।।
चिक्षिपुः पुष्पवृष्टिं च ददृशू रासमण्डलम् ।
कस्तूरीचन्दनादीनां वृष्टिं चक्रुर्मुनीश्वराः ।।४६ ।।
जयकारं स्तुतिं कृत्वा ययुस्ते यमुनातटे ।
श्रीकृष्णो रमयामास विश्रम्य तु पुनश्च ताः ।।४७।।
विजहाराऽपि सर्वत्र निर्जनेषु यथेष्टकम् ।
पुष्पोद्यानेषु रम्येषु सरसां सुतटेष्वपि ।।४८।।
कन्दरे कन्दरे रम्ये नदेषु च नदीष्वपि ।
वाञ्च्छितेषु प्रमदानां त्रयस्त्रिंशद्वनेष्वपि ।।४९।।
भाण्डीरे श्रीवने रम्ये कदम्बकानने तथा ।
तुलसीकानने कुन्दवने चम्पककानने ।।1.488.५०।।
निम्बारण्ये मधुवने जम्बीरकानने तथा ।
नालिकेरवने पूगवने च कदलीवने ।।५ १ ।।
बदरीकानने बिल्ववने नारिंगकानने ।
अश्वत्थकानने वंशवने दाडिमकानने ।।५ २।।
मन्दारकानने तालवने चाम्रवने तथा ।
केतकीकाननेऽशोकवने खर्जूरकानने ।।५३ ।।
आम्रातकवने जम्बूवने शालसुकानने ।
कटादिकानने पद्मवने जातिवने तथा ।।५४।।
न्यग्रोधगहने रम्ये तथा श्रीखण्डकानने ।
प्रकृष्टकेसरवने रेमे षाण्मासिकीं निशाम् ।।५५।।
कामिनीनां यथा कामः शृंगारेण विवर्धते ।
तथा तथा हरी रेमे तासामानन्ददायकः ।।५६।।
तथापि मानसं पूर्णं कामिनीनां बभूव न ।
आप्रातरेवं रासेषु ददौ कामसुखं हरिः ।।५७।।
सर्वासां च यदा कामतृप्तिर्जाता मुमोच ताः ।
ततो यम्यां गता वार्षु क्रीडनार्थं ततः परम् ।।५८।।
कृष्णस्त्वदृश्यतां यातो गोप्यो ययुर्निजालयान् ।
एता गोपांगनाः सर्वा नेश्वरं मेनिरे पतिम् ।।५९।।
कामुक्यः कामभावेन रतिशूरं हि मन्वते ।
तथापि तन्मनस्कास्ताः प्रापुर्दिव्यगतिं प्रियाः ।।1.488.६ ०।।
दिव्ययोगाज्जडं चापि दिव्यभावं व्रजत्यपि ।
कृष्णं लोष्टं वह्नियोगाद् वह्निभावं हि ऋच्छति ।।६ १ ।।
अथ रासस्य वै श्रेष्ठान्मण्डपान् कृत्रिमान् शुभान् ।
विश्वकर्मकृतान् दिव्यान् शतयोजनविस्तृतान् ।।६ २।।
नवलक्षासनान् रम्यान्पर्यंकान्नवलक्षकान् ।
विश्वकर्मा तिरोहिताँश्चकार क्षणमात्रतः ।।६ ३ ।।
अथैकलः किशोरोऽयं श्रीकृष्णः स्वगृहं प्रति ।
यावद्गच्छति मार्गे तं ददर्श मुनिपुंगवः ।। ६४।।
अष्टावक्रः कृष्णवर्णो दिगम्बरो जटान्वितः ।
नखश्मश्रुसुदीर्घश्च शान्तः प्रणतकन्धरः ।।६ ५ ।।
स वै प्रणम्य गोविन्दं तुष्टाव मुनिपुंगवः ।
प्राणाँस्तत्याज योगेन निपत्य चरणाम्बुजे ।।६६ ।।
तत्तेजस्तु समुत्तस्थौ सप्ततालप्रमाणकम् ।
सुदिव्यः पुरुषो भूत्वा तस्थौ कृष्णसमीपतः ।।६७।।
दृष्ट्वा मृतं मुनिं कृष्णः संस्कारं कर्तुमुद्यतः ।
षष्टिवर्षसहस्राणि निराहारोऽभवन्मुनिः ।।६ ८।।
रक्तमांसाऽस्थिहीनं तद्वर्ष्म भस्मभृतं ह्यभूत्। ।
तदुद्धृत्य ददौ कृष्णश्चितायां भस्म मिश्रितम् ।।६ ९ ।।
एतस्मिन्नन्तरे व्योम्नः स्यन्दनः प्रसमाययौ ।
पार्षदप्रवरैर्युक्तः श्रीकृष्णसदृशैर्वरैः ।।1.488.७०।।
पार्षदाः श्रीहरिं नत्वा नीत्वा तं दिव्यपूरुषम् ।
अष्टावक्रं मुक्तदेहं जग्मुर्गोलोकमुत्तमम् ।।७१ ।।
शृणु लक्ष्मि! ब्रह्मणस्तु प्रचेतास्तस्य चाऽसितः ।
सुतः सपुत्रविहीनस्तपस्तेपे सहस्रकम् ।।७२।।
अब्दानां सकलत्रोऽपि न लेभे च यदा सुतम् ।
तदा प्राणान् विहातुं सोऽभवदुद्यमितोऽथ वै ।।७३।।
तं सम्बोद्धुं बभूवाऽथ सत्या वागशरीरिणी ।
कथं त्यजसि प्राणाँस्त्वं गच्छ शंकरसन्निधिम् ।।७४।।
सिद्धं कुरु गृहीत्वा तु मन्त्रं शंकरवक्त्रतः ।
वरेणाऽभीष्टदेव्याश्च पुत्रस्ते भविता ध्रुवम् ।।७५।।
श्रुत्वा ययौ स कैलासं सकलत्र उवाच तम् ।
महादेव कृपासिन्धो देहि पुत्रं नमाम्यहम् ।।७६।।
हरः प्राह भविता ते पुत्रो मदंशमत्समः ।
जप मन्त्रं 'राधिकायै श्रीकृष्णाय नमोऽस्तु ते' ।।७७।।
राधा मन्त्रेण प्रत्यक्षा शतवर्षोत्तरं ह्यभूत्। ।
पुत्रवान् भव चेत्युक्त्वाऽदृश्या बभूव राधिका ।।७८।।
असितस्य ततः पुत्रो देवलाख्यो बभूव ह ।
सुयज्ञनृपतेः कन्यां रत्नमालावतीब्रुवाम् ।।७९।।
जगृहे स विवाहेन शतवर्षोत्तरं स च ।
विरक्तः शयने त्यक्त्वा तां स्वयं तु वनं ययौ ।।1.488.८०।।
तपसे पर्वते गन्धमादनेऽब्दसहस्रकम् ।
तपश्चचार दिव्योऽभूद् देहेन सूर्यवद् द्विजः ।।८१ ।।
रंभा तं देवलं दृष्ट्वा त्वेकदा काममोहिता ।
तपोभंगार्थमागच्छज्जग्राह देवलो न ताम् ।।८२।।
रुष्टा शापं ददौ कोपादन्तर्दुःखान्विता सती ।
कामदुःखेन दुःखार्ता यतो मां स्वीकरोषि न ।।८३।।
भव कुब्जश्चाष्टवक्रो जर्जरो नीलविकृतः ।
तपोहीनः कुरूपश्च कामिनीजनगर्हितः ।।८४।।
रम्भा शप्त्वा ययौ स्वर्गमृषिर्नाम्नाऽष्टवक्रकः ।
देवलः स प्रसिद्धोऽभूत् प्रययौ मलयाचलम् ।।८५।।
षष्टिवर्षसहस्राणि तपः पुनश्चकार सः ।
सोऽयं ज्ञात्वा रासखेलं दर्शनाय समागतः ।।८६।।
ध्यानमग्नो दीर्घसूत्री न प्राप्तो रासदर्शनम् ।
कृष्णयोगाद् ययौ धाम गोलोकं भक्तिमान् मुनिः ।।८७।।
कृष्णनारायणो विष्णुर्ययौ नन्दगृहं ततः ।
प्रातः स्मरन्ति सर्वास्ता विकृताः कृष्णतन्मयाः ।।८८।।
इति लक्ष्मि! कथितं ते रासमण्डलमुत्तमम् ।
पठनाच्छ्रवणात्त्वस्य कृष्णप्राप्तिर्भवेद्ध्रुवम् ।।८९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रासमण्डले गोपीभिः कामभावेन कृष्णस्य चरित्रम्, देवलस्य रंभायाः शापेनाऽष्टावक्रत्वं, तस्य मोक्षणं चेतिनिरूपणनामाऽष्टाशीत्यधिकचतुश्शततमोऽध्यायः ।।४८८।।