लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४८७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४८७
[[लेखकः :|]]
अध्यायः ४८८ →

श्रीनारायण उवाच-
अथ धन्वन्तरेर्दर्पभंगः पूर्वं यथा कृतः ।
तदाख्यानं कथयामि शृणु लक्ष्मि सुरेश्वरि! ।। १ ।।
नारायणांशो भगवान् स्वयं धन्वन्तरिर्महान् ।
पुरा समुद्रमथने समुत्तस्थौ महोदधेः ।। २ ।।
सर्ववेदेषु निष्णातो मन्त्रतन्त्रविशारदः ।
गरुडस्य सुशिष्यो वै शंकरस्योपशिष्यकः ।। ३ ।।
शिष्याणां स सहस्रेण याति वैकुण्ठमेकदा ।
ददर्श तक्षकं मार्गे लेलिहानं भयानकम् ।। ४ ।।
लक्षनागैः परिवृतं पातालात्तु समागतम् ।
तीर्थेच्छया महीलोके विचरन्तं शुभाशयम् ।। ५ ।।
धन्वन्तरिर्गर्वयुक्तो विषमन्त्रान् मुमोच ह ।
तक्षकः क्रोधसंयुक्तो भोक्तुं दुद्राव वैद्यकम् ।। ६ ।।
तावद् धन्वन्तरेः शिष्यो दम्भिनामा जजाप ह ।
विषमन्त्रं महाघोरं संचक्रे तक्षकं वशे ।। ७ ।।
मन्त्रेण जृम्भितं कृत्वा निर्विषं तं चकार ह ।
अमूल्यं मणिरत्नं जहार तन्मस्तकस्थितम् ।। ८ ।।
करेण भ्रामयित्वा तु क्षेपयामास दूरतः ।
पतितो मृतवत्तस्थौ तक्षकस्तद्गणास्तदा ।। ९ ।।
चक्रुर्निवेदनं वासुकये वासुकिराययौ ।
सर्पान् विषोल्बणान्नीत्वा पञ्चमुखान् सहस्रशः ।। 1.487.१० ।।
द्रोणकालीयकर्कोटपुण्डरीकधनञ्जयान् ।
धन्वन्तरेः शिष्यगणा भयमापुर्विलोक्य तान् ।। ११ ।।
नागविषैर्दंशितास्ते शेरते पृथिवीतले ।
धन्वन्तरिर्मन्त्रामृतैर्जीवयामास सेवकान् ।। १२।।
चकार जृम्भितं मन्त्रैः सर्पसंघं रुषा ज्वलन् ।
वासुकिस्तु तदा गौरीं सस्मार मनसाऽभिधाम् ।। १३ ।।
मनसे! त्वं समागच्छ नागान् रक्षाऽतिसंकटात् ।
जगत्त्रये महाभागे पूजा तव भविष्यति ।। १४।।
मनसा द्राक् समागत्योवाच यामि रणांगणे ।
तं शत्रुं संहरिष्यामि प्रजेष्यामि न संशयः ।। १५।।
गुरुर्मे भगवान् शेषो दत्तवान् कवचं मम ।
संसारं भस्मसात् कृत्वा पुनः स्रष्टुमहं क्षमा ।। १६।।
शिष्याऽहं मन्त्रशास्त्रेषु शंभोर्भगवस्तथा ।
शंभोः शिष्यं गरुडं न गणयामि मनागपि ।। १७।।
धन्वन्तरिस्तच्छिष्याणामेकः किं गणयामि तम् ।
इत्युक्त्वा श्रीहरिं शेषं शंभुं स्मृत्वा प्रणम्य च ।।१८।।
यत्र धन्वन्तरिस्त्वास्ते तत्राजगाम तत्क्षणम् ।
मन्त्रैश्च जृम्भितान् सर्पान् जीवयामास लीलया ।। १९।।
विषमन्त्रैः शत्रुशिष्यान्निश्चेष्टांश्च चकार सा ।
यत्नतोऽपि धन्वन्तरिर्नोत्थापयितुमीश्वरः ।।1.487.२०।।
प्रहस्य मनसा प्राह त्यज सिद्धाभिमानिताम् ।
वद जानासि किं सिद्ध शिष्योऽसि गरुडस्य वै ।।२१ ।।
अहं च गरुडश्चापि शिष्यौ शंभोर्हि विश्रुतौ ।
अधीतं कल्पपर्यन्तं तत्र का गणना तव ।।२२।।
मन्त्रितं कमलं चेदं प्रेरयामि स्थिरो भव ।
इत्युक्त्वा प्राक्षिपत् पद्मं मन्त्रितं सूर्यसदृशम् ।।२३।।
धन्वन्तरैस्तु फुत्कारैर्भस्मसात् तत् तदाऽभवत् ।
देवी जग्राह मन्त्राढ्यां शक्तिं परमदारुणीम् ।।२४।।
धन्वन्तरिस्त्रिशूलेन बभंज कणशस्तु ताम् ।
मनसा नागपाशं प्रचिक्षेप मन्त्रितं तदा ।।।२५।।
नागलक्षान्वितं घोरं धन्वन्तरिश्च तत्क्षणात् ।
गारुडं प्रेरयामास तेन नागास्त्रभक्षणम् ।।२६।।
कृतं वै लीलया तावन्मनसा शूलमाददे ।
शिवदत्तं च सफलं प्रलयाग्निसमप्रभम् ।।२७।।
तावद् ब्रह्मा तथा शंभुः रक्षार्थमागतौ द्रुतम् ।
देवौ ननाम मनसा गरुडो वैद्यकस्तथा ।।२८।।
ब्रह्मा प्राह मनसायाः पूजां कुर्विति वैद्यकम् ।
धन्वन्तरे! नहि साम्यं रणं ते दुर्गया सह ।।२९।।
त्रैलोक्यं भस्मसात् कर्तुं शूलेनेयं प्रभावती ।
कुरु स्तोत्रं मनसायास्तुष्टा वरं प्रदास्यति ।।1.487.३ ०।।
धन्वन्तरिः शुचिर्भूत्वा शुक्लपुष्पैरपूजयत् ।
चारुचम्पकवर्णाभां सर्वांगशुमनोहराम् ।।३ १ ।।
नागेन्द्रवाहिनीं देवीं सर्वविद्याविशारदाम् ।
ध्यात्वा दत्वा षोडशवस्तूनि स्तोत्रं चकार ह ।।३२।।
 'नमः सिद्धिस्वरूपायै वरदायै नमो नमः ।
नमः कश्यपकन्यायै शंकरायै नमो नमः ।।३३।।
बालानां रक्षणकर्त्र्यै नागदेव्यै नमो नमः ।
नम आस्तीकमात्रे ते जरत्कार्व्यै नमो नमः ।।३४।।
तपस्विन्यै च योगिन्यै नागस्वस्रे नमो नमः ।
साध्व्यै तपस्यारूपायै शंभुशिष्ये! च ते नमः' ।।३५।।
इति स्तुता च मनसा भूत्वा शान्ता सुखप्रदा ।
स्वस्तीत्युक्त्वा ययौ नत्वा गृहं ब्रह्ममहेश्वरौ ।।३६।।
देवा वैद्यो गरुडश्च सर्पा ययुर्निजालयान् ।
इति ते कथितं लक्ष्मि! मनसाया बलं महत् ।।३७।।
धन्वन्तरेर्दर्पभंगः श्रवणात् सर्पभीर्न वै ।
वंशजानां नागभयं नास्ति श्रवणमात्रतः ।।३८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नागेषु धन्वन्तरेर्मन्त्रप्रयोगाः, मनसादेव्या मन्त्रप्रयोगैर्धन्वन्तरेर्गर्वोनाशितश्चेतिनिरूपणनामा सप्ताशीत्यधिकचतुश्शततमोऽध्यायः ।। ४८७ ।।