लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४८६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४८६
[[लेखकः :|]]
अध्यायः ४८७ →

श्रीनारायण उवाच-
आनर्तदेशे सौराष्ट्रे चमत्कारपुरान्तिके ।
नदी नागमतीनाम्ना वर्तते पूर्वतः शुभा ।। १ ।।
यस्यां स्नानाद् विमुच्यन्ते मुक्ता भवन्ति मानवाः ।
तत्र लक्ष्मि! मृगी काचित् व्याधबाणप्रपीडिता ।। २ ।।
अवाततार सलिले प्राणाँस्तत्याज वारिषु ।
चैत्रशुक्लतृतीयायां मध्याह्नेऽर्यमदैवते ।। ३ ।।
सूर्यवारे च तत्पुण्यान्मेनका नाम साऽभवत् ।
अप्सरास्त्रिदशेन्द्रस्य सुरूपा पतिधर्मिणी ।। ४ ।।
एकदा तत्र मुनिराड् विश्वामित्रः समाययौ ।
तीर्थार्थं नागनद्यां स सस्नौ नगरपूर्वतः ।। ५ ।।
यत्र सा मेनका नित्यमायाति स्नानकामुकी ।
स्नान्तं सुरूपं दिव्यं च पुष्टं मुनिं विलोक्य सा ।। ६ ।।
यौवनस्थं पतिं कर्तुमीयेष कामपीडिता ।
सानन्दा सुरतार्थाय समीपं समुपागमत् ।। ७ ।।
ननाम चरणे वाक्यैस्तुष्टाव सुमनोहरैः ।
सधैर्यः स मुनिस्तां वै मेने नागरिकीं स्त्रियम् ।। ८ ।।
आशीर्वादान् प्रदायैव प्रहृष्टेनाऽन्तरात्मना ।
उवाच देवीं तां पृच्छन् स्त्रीधर्मांश्च विशेषतः ।। ९ ।।
शुभलाभोऽस्तु ते कच्चिन्मनसा कर्मणा गिरा ।
भक्तिः संवर्तते कृष्णनारायणे च शाश्वती ।। 1.486.१० ।।
कच्चित्त्वं वर्तसे बाले पतिंपादपरायणा ।
चारित्रविनयोपेता सदा मधुरभाषिणी ।। ११ ।।
कच्चित्त्वं सर्वदाऽभीष्टा पत्युर्दानैस्तथाऽर्चसि ।
बन्धून् स्वमित्रवर्गं च तत्पुरः पृष्ठतोऽपि वा ।। १२।।
कच्चिद् भर्तरि संसुप्ते त्वं निद्रावशमेष्यसि ।
उत्थानमप्रबुद्धेन करोषि ब्राह्मकालिके ।। १३।।
कच्चित् प्रातः समुत्थाय करोषि पतिसेवनम् ।
ततो गृहं मार्जयित्वा करोषि मण्डनादिकम् ।। १४।।
कच्चित् स्नात्वा स्नापयित्वा पतिं संपूज्य भावतः ।
बालापत्यानि संभाल्य वर्तसे भक्तियोगिनी ।। १५।।
कच्चिद्देवान्नमस्कृत्य गुरुं गां च पतिं तथा ।
करोषि त्वं प्राणयात्रां दत्त्वाऽन्नं शक्तितो जलम् ।। १६।।
कच्चिन्मध्याह्नवेलायामतिथीन् सेवसेऽन्नकैः ।
कच्चिद् गृहागतनिराश्रितायान्नं ददासि वै ।। १७।।
कच्चिदस्तं गते सूर्ये नाऽन्नमश्नासि भामिनि! ।
अदत्त्वा निजभृत्येभ्यः साधुभ्यश्च विशेषतः ।। १८।।
कच्चित् पिबसि पानीयं वस्त्रपूतं सुराऽर्पितम् ।
कच्चिद् दयावती भूत्वा गात्रक्लेशकरानपि ।।१९
यूकामत्कुणदंशादीन् पुत्रवत्परिरक्षसि ।
कच्चित् साधुजनान्नित्यं कृष्णधर्मं सुभक्तितः ।। 1.486.२ ०।।
शृणोषि भक्तितो भद्रे भक्तिं करोषि सादराम् ।
कच्चिछ्रुत्वा दिनं पुण्यं प्रकरोषि व्रतादिकम् ।। २१ ।।
गुरुमाचार्यमीशं वाऽऽगतं करोषि पूजितम् ।
शास्त्रस्य वाचकस्यापि व्याख्यातुश्च विशेषत ।। २२ ।।
कञ्चिच्छास्त्राणि रम्याणि साधुभ्यः संप्रयच्छसि ।
श्रुत्वा कथां निष्क्रयं च वाचकाय प्रयच्छसि ।। २३ ।।
कच्चित् कृष्णालये नृत्यं गीतं वाद्यं सुकीर्तनम् ।
बलिपूजोपहाराँश्च त्व करोषि स्वशक्तितः ।। २४।।
कच्चित्प्रावरणं वस्त्रं साधुभ्यः सम्प्रयच्छसि ।
वृथा पर्यटनं नान्यगृहे करोषि भामिनि ।।२५।।
कच्चिन्नाऽश्नासि पूर्वं त्वं स्वभर्तरिबुभुक्षिते ।
आज्ञाभंगं कदाचिच्च भर्तुः करोषि नैव तु ।।२६।।
कच्चित् प्रकुपिते कान्ते कोपं न यासि सद्व्रते ।
कच्चित् त्वं कुपिता भर्त्रे नोत्तराणि प्रयच्छसि ।।२७।।
अथाऽपराधशान्त्यर्थं प्रियं हृद्यं प्रजल्पसि ।
कच्चित्त्वं प्रोषिते कान्ते मलिनाम्बरधारिणी ।। २८।।
दीना विवर्णवदना कच्चिद् भवसि वा कृशा ।
कच्चिन्मन्दिरमालिन्यं दूरीकरोषि सेवया ।।।२९।।
कच्चिद्भिन्नं तथोच्छिष्टं पात्रं धत्से न वै गृहे ।
कच्चिद् व्रजसि रात्र्यादौ नोत्सवेषु स्थलान्तरे ।।1.486.३ ०।।
कच्चिन्न कुरुषे मैत्रीं पुंश्चलीभिः कदाचन ।
कच्चिद् दधासि सौभाग्यचिह्नानि पतिरंजनी ।।३ १ ।।
कच्चित्ते पातिव्रत्ये वै विघ्नो नायाति कश्चन ।
पतिपुत्रवती साध्वी कच्चिद् भवसि भामिनि ।।३२।।।
इत्युक्ता सा ऋषिं प्राह पातिव्रत्योपदेशकम् ।
अन्यास्ता योषितो विप्र यासां धर्मास्त्वयोदिताः ।।३३ ।।
वयं स्वर्गस्याऽप्सरसः स्वेच्छाचारिण्य एव वै ।
अपतिकाः स्वतन्त्राश्च मुनिमानसमोहिकाः ।।३४।।
अक्षताः सर्वदा शुद्धाः प्रेमसेवापरायणाः ।
नवरूपधराः कन्याः सेवारसपरायणाः ।।३४६।।
कामधर्मेण सत्सेवां कुर्मो यतितपस्विनाम् ।
साधूनां वा गृहस्थानामस्मत्सत्कारवेदिनाम् ।।३६ ।।
रञ्जयित्वा सुबहुधा तदाशीर्वादमाप्नुमः ।
तेन पुण्येन वै स्वर्गं नित्यमस्मत्कृतेऽस्ति हि ।।३७।।
कामसेवासमं पुण्यं नान्यन्मन्यामहे वयम् ।
कामभंगसमं पापं नान्यच्छापप्रदं भुवि ।।३८।।
सुखभंगो महत्पापं सर्वस्वदाहकं ऋषे ।
सुखदानं महादानं भोजनसेवनाम्बरैः ।।३९।।
अंगानां मर्दनैः पादसंवाहनादिभिः सदा ।
नर्तनैः कीर्तनैः प्रशंसनैः पुण्यमवाप्यते ।।1.486.४०।।
यैः परे रञ्जितास्तेषां परे लोकाः सुखप्रदाः ।
यैः परे दुःखितास्तेषां परे लोकास्तु दुःखदाः ।।४१ ।।
परलोकस्य सौख्यार्थं सेवयामो वयं जनान् ।
परोपकारं कुर्मो वै यथेष्टसर्वदानकैः ।।४२।।
धनं वस्त्रं भूषणं च भोजनं देहमित्यपि ।
सर्वं दद्मः प्रसौख्यार्थं यत्फलं पुनराप्नुमः ।।४३।।
भोजनं जिह्वया त्वात्मतृप्त्यर्थं दीयते जनैः ।
स्पर्शनं तु त्वचा त्वात्मतृप्त्यर्थं दीयते तथा ।।४४।।
श्रवणं गीतिकानां तु दीयते कर्णतृप्तिकृत् ।
दर्शनं रूपशृंगारादीनां चक्षुसुखप्रदम् ।।४५।।
एवमन्येन्द्रियैश्चापि त्वात्मतृप्त्यर्थमुत्तमम् ।
दानं सन्दीयतेऽस्माभिः पुण्यार्थं हरितोषणम् ।।४६।।
आत्मतोषे हरेस्तोषस्तेन चात्मनिवेदिता ।
पाल्यते सर्वदाऽस्माभिः फलं कृष्णार्पितं महत् ।।४७।।
विधात्रा त्रिविधाः सृष्टा नार्यः संसारसेविकाः ।
विवाहिताश्च सामान्या ब्रह्मचर्यपरास्तथा ।।४८।।
विवाहितानां धर्मास्तु पतिसेवापरायणाः ।
ये त्वयोक्तास्तु सत्प्रश्नमिषेण युग्मवाहकाः ।।४९।।
द्वितीया यास्तु सामान्या अप्सरसश्च ता वयम् ।
अस्मद्धर्मास्ततो भिन्नाः सर्वसेवापरायणाः ।।1.486.५ ० ।।
तृतीयास्तु ब्रह्मचर्यपराः साध्व्यो भवन्ति ताः ।
कामधर्मपरित्यक्ताः साधुशीलपरायणाः ।।।५१ ।।
स्वधर्मस्था दिवं यान्ति परधर्मा भयावहाः ।
वयं सेवापरा भृत्याः किंकर्यः सर्वदा स्मृताः ।।५२।।
दास्यो वा ह्युपपत्न्यश्च देव्यो दिव्या यतो वयम् ।
त्वादृशासामृषीणां सेवया कृतार्थभावनाः ।।।५३।।
वद त्वं क्षत्रियवरस्तापसो हृदयंगमः ।
मम मानसतोषार्थं तव धर्मोऽस्ति चेन्मुने ।।५४।।।
भजस्व मां समायातां नारायणपरायणाम् ।
त्वां तु नारायणं मत्वा सेवयिष्ये न दूषणम् ।।५५।।
विश्वामित्रस्तदा प्राह हितं तापसधार्मिकम् ।
अहं व्रतधरः सुभ्रु ब्रह्मचर्यपरायणः ।।५६ ।।
सर्वेषां व्रतिनां मूलं ब्रह्मचर्यमुदाहृतम् ।
आस्तां दूरं तव संगः संस्पर्शो भाषणं तथा ।।५७।।
गच्छ दूरं स्वर्गदेवि न मे त्वया प्रयोजनम् ।
व्रतिनां प्रमदाग्राहः पापदः पुण्यनाशकः ।।५८।।
संसारभ्रमणं नारी विवाहमण्डपे गताः ।
वह्नेर्भ्रमणव्याजेन पतिं दर्शयति ध्रुवम् ।।५९।।
तस्मात् स्त्रीभिः समे संगं स्पर्शं योगं च वर्जयेत् ।
अंगारसदृशी नारी घृतकुंभसमः पुमान् ।। 1.486.६० ।।
अस्पर्शाद् दृढतामेति तत्संपर्काद् विलीयते ।
स्त्रियो मूलमनर्थानां निरोधः स्वर्गगामिनाम् ।।६ १ ।।

कुलीना वीरवत्यश्च नाथवत्योऽपि योषितः ।
एकस्मिन्नेव भर्तरि सन्तुष्टाः स्वर्गगास्तु ताः ।।६२।।
स्त्रीणां संगं समासाद्य संसारे भ्रमते नरः ।
नृणां संगं समासाद्य संसारे भ्रमतेऽबला ।।६३।।
मया त्यक्तौ हि संसारस्तद्बीजं त्वमुपस्थितम् ।
ममापि यमलोकानां दुःखं तेऽपि त्वया भवेत् ।।६४।।
तस्मान्मया न वै ग्राह्या गच्छाऽन्यत्र प्रिया भव ।
इत्युक्ता मेनका प्राह विश्वामित्रवचः शृणु ।।६५।।
हिमाचले प्रतपतो नरनारायणस्य वै ।
तपश्चोग्रं परं ज्ञात्वा महेन्द्रस्त्वप्सरोगणैः ।।६६।।
कामवसन्तबाणैश्च सहितः संययौ द्रुतम् ।
तपोभंगविधानाय प्रारंभन्नृत्यगीतिकाम् ।।६७।।
नारायणो नरं प्राह चूतपुष्पाणि चानय ।
सक्थ्नि संमर्दय समुत्पादय त्वप्सरोवराम् ।।६८।।
नरः सम्मृद्य पुष्पाण्युत्पादयामास चोर्वशीम् ।
अतिरूपवतीं यस्या अग्रे सर्वास्तमस्त्वचः ।।६ ९।।
अदृश्यन्ताऽत्सरसस्ता महेन्द्रस्य तदेन्द्रकः ।
साश्चर्यं समुवाचेदं शृण्वतां तु दिवौकसाम् ।।1.486.७०।।
शतशो मेऽप्सरसश्च मया कान्त्याऽन्धकी कृताः ।
तस्याः प्रभुं कथं शक्तः पातयितुं भवाम्यहम् ।।७१ ।।
इति गर्वं विहायैव पतितः पादयोर्हरेः ।
ययाचे तूर्वशीं नारायणान्नारायणो ददौ ।।७२।।
तदा नरस्य पुत्री सा प्रार्थयामास माधवम् ।
भगवन् कन्यका चाहं नरनारायणस्य वै ।।७३ ।।
अयोनिजा सती साध्वी ब्रह्मचर्यपरायणा ।
तापसी भगवत्पुत्री कथं यामि दिवं प्रभो ।।७४।।
सामान्याऽहं कथं भूत्वा वर्तिष्ये तान्सुरान्प्रति ।
अप्सरसां तु के धर्मास्तान्मे श्रावय तत्त्वतः ।।७५।।
इत्युक्तः श्रीहरिस्तस्यै श्रावयामास तद्वृषान् ।
दासीवत् सर्वदा स्थेयं सुरान्प्रति दिविस्थितान् ।।७६।।
नृत्यं गीतं सेवनं च कर्तव्यं देवयोषिता ।
सर्वे देवाः समाः सेव्याः पतिरूपेण वै दिवि ।।७७।।
मानवा वा मुनयोऽपि तापसाः पतिरूपिणः ।
सेवनीया भविष्यन्ति गच्छ तिष्ठ यथासुखम् ।।७८।।
ऊर्वशी प्रसमाकर्ण्य पितरं प्राह सद्व्रता ।
परपुंसां प्रसंगेन नरकं यातनामयम् ।।७९।।
प्रभोक्तव्यं भवेत् तस्मान्मया स्वर्गं न चेष्यते ।
नारायणस्तदा प्राह स्वर्गस्याऽप्सरसां कृते ।।1.486.८०।।
तव कृते तथा पुत्रि नास्ति वै यमयातनाः ।
अप्सरसो देवपुण्यात् ससृजे विश्वसृट् स्वयम् ।।८१ ।।
तासां पापं न चैवास्तीत्याह ब्रह्मा तथा पुरा ।
तवापि पुत्रि देवानामसंख्यानां प्रसेवया ।।।८२।।
कामधर्मेण युक्ताया अपि पापं न वै भवेत् ।
इत्यपापं पुरा प्राह ब्रह्मा नारायणस्तथा ।।।८३ ।।
अस्माकं सर्वथा देवकिंकरीणां हि योषिताम् ।
तस्माद् भजस्व मां विश्वामित्र हठं परित्यज ।।८४।।
पण्यस्त्रियो वयं यावद् वाचां बन्धनमस्ति वै ।
तावत्पतिव्रताः स्मश्च पतिर्भव सदा मम ।।८५।।
इत्युक्त्वा संस्थिता तत्र निकटे सन्मुखे हठात् ।
विश्वामित्रः स्थलं त्यक्त्वाऽन्यत्र ययौ तदा तु सा ।।८६।।
शशाप तं मुनिश्रेष्ठं कामखण्डनपीडिता ।
अद्यैव भव दुर्बुद्धे वलीपलितजर्जरः ।।८७।।
एवमुक्तोऽभवत् तादृक् शापने जरया युतः ।
मुनिः प्राह न ते पापं मम पापं तु संभवेत्। ।।८८।।
तस्माद् विहाय चान्यत्र प्रयामि तेन रोचते ।
तस्माद् भव त्वमप्याशु जराजर्जरितांगका ।।८९।।
सापि तद्वचनात् सद्यस्तादृग्रूऽपा व्यजायत ।
ततः क्रोधस्य शान्त्यर्थं नागवत्यां तु सा सती ।।1.486.९०।।
सस्नौ तावत्पूर्वरूपा यथावद् युवती प्रिया ।
समभवत् ततो विश्वामित्रः सस्नौ नदीजले ।।९१ ।।
सोऽपि पूर्वरूपोऽभूत् शापौ नष्टौ परस्परम् ।
एतादृशं महत्तीर्थं नागनद्यां प्रवर्तते ।।।९२।
यत्र स्नात्वा नरा नार्यो भवन्ति यौवनान्विताः ।
स्वर्गदेवीसमा नार्यो नराः स्वर्गसुरा इव ।।९३।।
ततः सा मेनका मुनिं नत्वा स्वर्गं ययौ स्वतः ।
ऋषिस्तपः परं चक्रे नारायणपरायणः ।।९४।।
इति ते कथितं लक्ष्मि गूढधर्मप्रवर्तनम् ।
यद्विज्ञानेन व्रतिनो लभन्ते स्वर्गमोक्षणे ।।९५।।
शृणु लक्ष्मि! प्रवक्ष्यामि महेन्द्रगर्वभंजनम् ।
चमत्कारपुरे जातं निशामय मतिप्रदम् ।।९६ ।।
पुरा शतमखो दर्पात् कृत्वा शतमखान् मुदा ।
बभूव सर्वदेवानामध्यक्षः सम्पदा युतः ।।९७।।
दिने दिने तदैश्वर्यं वर्धते तपसां फलात् ।
ददौ मन्त्रं सिद्धिदं वै बृहस्पतिस्तु पुष्करे ।।९८।।
स जजाप नमो राधेश्वराय ओं नमो नमः ।
शतसवत्सरं जप्त्वा जातः पूर्णमनोरथः ।।९९।।
ब्रह्मस्वरूपां प्रकृतिं सम्पन्मूढो न मन्यते ।
प्रकृतिर्जडदिव्या च तं शशाप ततः परम् ।। 1.486.१० ०।।
गुरुं दृष्ट्वा समुत्थाय न ननाम मुदान्वितः ।
गुरुः शशाप तं कोपाद् यातु सम्पद्धरेरिति ।। १०१ ।।
एवं भ्रष्टमतिरिन्द्रस्त्वहल्यां परिपश्य च ।
चकमे गौतमरूपं धृत्वा रेमे तया सह ।। १ ०२।।
ददर्श गौतमस्तं च धिक्कृत्य तं शशाप ह ।
योनीनां तु सहस्रं वै तव गात्रे भवत्विह ।। १० ३।।
पूर्णवर्षं च सततं योनिगन्धं त्वमाप्नुहि ।
ततः सूर्यं समाराध्य सहस्राक्षो भविष्यसि ।। १०४ ।।
मम शापाद् गुरोः शापद् भ्रष्टश्रीर्भव साम्प्रतम् ।
अथेन्द्रः प्रययौ तीर्थं पुष्करं तपसे ततः ।। १ ०५।।
निष्कृतिं संविधायाऽथ गृहं ययौ ततः पुनः ।
इन्द्रस्त्यक्तगुरुर्दैवाद्ब्रह्माणं शरणं ययौ ।। १ ०६।।
तदाज्ञया विश्वरूपं प्रचकार पुरोहितम् ।
दैत्यदौहित्रमेवैनं ज्ञात्वा दैत्याभिपक्षिणम् ।। १ ०७।।
यज्ञे दैत्येभ्य एवैनं ददतं हव्यमुत्तमम् ।
प्रचिच्छेद शिरस्तस्य तीक्ष्णबाणेन वै ततः ।। १ ०८।।
विश्वरूपपिता त्वष्टा श्रुत्वा सद्यश्चुकोप ह ।
इन्द्रशत्रो विवर्धस्वेत्युक्त्वा चक्रे क्रतुं परम् ।। १ ०९।।
यज्ञकुण्डात् समुत्तस्थौ वृत्रो नाम महासुरः ।
इन्द्रो जघान वज्रेण वृत्रं वै देवकण्टकम् ।। 1.486.११ ०।।
ब्रह्महत्या रक्तवस्त्रा सप्तनालोच्छ्रया तथा ।
ईषाप्रमाणदशना खड्गहस्ता बभूव ह ।। १११ ।।
धावन्तं धावमाना सा महेन्द्रं तं जगाम ह ।
दुद्रावेन्द्रः संविवेश मानसाख्यसरोवरे ।। १ १२।।
मृणालसूक्ष्मसूत्रे वै सापि वटे तटे स्थिता ।
नहुषस्त्वभवत्त्विन्द्रो ययाचे कामतः शचीम् ।। १ १३।।
शची गुरोर्हि शरणं याता ररक्ष तां गुरुः ।
बृहस्पतिस्ततो यातो मानसाख्यसरः स्वयम् ।। ११४ ।।
रक्षणाय स्वशिष्यस्य चाजुहाव शचीपतिम् ।
स्वरं वृहस्पतेर्ज्ञात्वा बहिः समाययौ गुरुम् ।। १ १५१।।
नत्वा तुष्टाव च गुरुं पादयोः पतितस्तदा ।
क्षमस्व भगवन् दोषं कृपां कुरु कृपानिधे ।। १ १६।।
भृत्यापराधं सततं न गृह्णाति सदीश्वरः ।
स्वभार्यासु स्वशिष्येषु स्वभृत्येषु सुतेषु च ।। १ १७।।
इति श्रुत्वा गुरुः प्राह गच्छ राज्यं दिवः कुरु ।
हतशत्रुर्मत्प्रसादाद् गत्वा पश्य सतीं शचीम् ।। १ १८।।
संसारविजयं वर्म गृहाणेदं ततः परम् ।
ब्रह्महत्यां भस्मसाच्च कुरु गच्छ मया सह ।। ११ ९।।
एवं कृत्वा महेन्द्रस्तु ययौ स्वर्गं तदा पुनः ।
दैत्यैर्विनाशितां स्वस्य राजधानीं पुनर्नवाम् ।। 1.486.१२० ।।
कारयामास रचितां नाम्नाऽमरावतीपुरीम् ।
विश्वकर्मकृतां वीक्ष्य न तुतोष सुरेश्वरः ।। १२१ ।।
विश्वकर्मा गृहं गन्तुं न शशाक विनाऽऽज्ञया ।
विश्वकर्मा हरिं कृष्णं सस्मार कमलापतिम् ।। १२२।।
नारायणो विप्ररूपं धृत्वाऽऽजगाम तां पुरीम् ।
अतिखर्वो वैष्णवश्च युयुजे शक्रमाशिषम् ।। १२३।।।
मधुपर्कादिकं दत्वा शक्रः सत्कारमाचरत् ।
पप्रच्छाऽऽगमनं कस्माद् वदेति विप्रबालकम् ।। १२४ ।।
विप्रबटुस्तु तं प्राह नूतनां नगरीं तव ।
समाद्रष्टुमागतोऽस्मि प्रष्टुं वचनमीप्सितम् ।। १ २५।।
चित्रं नगरनिर्माणं समाकर्ण्याऽद्भुतं तव ।
कतिवर्षाणि निर्माणे भवान् संकल्पितो यथा ।। १ २६।।
कतिचित् तां विश्वकर्मा निर्माणं वा करिष्यति ।
एवंभूतं विनिर्माणं न केनेन्द्रेण निर्मितम् ।। १२७।।
नैवंविधं सुनिर्माणे विश्वकर्मा परः क्षमः ।
बालकस्य वचः श्रुत्वा जहास स सुरेन्द्रकः ।। १ २८।।
सम्पन्मदातिमत्तश्च पुनः पप्रच्छ बालकम् ।
कतीन्द्राणां समूहश्च त्वया दृष्टः श्रुतोऽथवा ।। १ २९।।
विश्वकर्मा कतिविधस्तं ये ब्रूहि शिशोऽधुना ।
शक्रस्य वचनं श्रुत्वा विप्रबटुरुवाच तम् ।। 1.486.१ ३०।।
जानामि कश्यपं तव तात प्रजापतिं तथा ।
मुनिं मरीचिं जानामि तत्तातं वेधसं तथा ।। १३१ ।।
कल्पं च प्रलयं कतिविधं जानामि सर्वथा ।
ब्रह्मजनकं वैराजं तत्पितरं हिरण्मयम् ।। १ ३२।।
जानाम्यण्डं कतिविधं ब्रह्मविष्णुमहेश्वरान् ।
ब्रह्माण्डेषु कतिविधानिद्रान् जानामि सर्वशः ।। १३३।।
यदि संख्याऽस्ति रेणूनां धरायां तु सुरेश्वर ।
तथापि संख्या शक्राणां नास्त्येव किं वदामि ते ।। १३४ ।।
शक्रस्याऽऽयुश्चाधिकारो युगानामेकसप्ततिः ।
अष्टाविंशतिशक्राणां पतनेऽहर्निशं विधेः ।। १ ३५।।
विधेरष्टोत्तरशतमायुरेव प्रमाणतः ।
सुरेन्द्राणां तु का संख्या नास्ति संख्या विधेरपि ।। १३६।।
महाविष्णोर्लोमकूपे वैराजाः सन्त्यनेकशः ।
वैराजस्य रोमकूपे ब्रह्माद्याः सन्त्यनेकशः ।। १ ३७।।
एवं लोम्नः प्रमाणेन ब्रह्माण्डाः सन्त्यसंख्यकाः ।
ब्रह्माण्डे च कतिविधाः सुराः सन्त्येव त्वत्समाः ।। १ ३८।।
विप्रबटौ वदत्येवं पार्श्वतो निर्गतं तदा ।
पिपीलिकासमूहं च व्यायतं धनुषां शतम् ।।१ ३९।।
क्रमशस्तान् सन्निरीक्ष्य जहासोच्चैर्द्विजार्भकः ।
नोवाच किञ्चिन्मौनी च गंभीरः सगणो यथा ।। 1.486.१४०।।
इन्द्रः प्राह कथं विप्रवटो हससि मे वद ।
विप्रबटुरुवाचेन्द्रं दृष्टाः पिपीलिकास्त्वया ।। १४१ ।।
सृष्टः पिपीलिकासंघ एकैकः क्रमशो मया ।
सर्वे ते क्रमशस्त्वासन्निन्द्राः पूर्वात्प्रपूर्वजाः ।। १४२।।
इदानीं ते तु सम्प्राप्ता भूतजातिं पिपीलिकाम् ।
कर्मणा क्रमशो यान्ति जीवाः कीटनृदेवताः ।। १४३।।
कर्मणा द्रुमतां यान्ति यक्षतां नागतां तथा ।
पक्षित्वं च पशुत्वं च नारीत्वं नरतां तथा ।। १४४।।
प्रेतत्वं च सुरत्वं च ऋषित्वं कर्मणा तथा ।
ब्रह्मत्वं सुरराजत्वं कर्मणा प्राप्यतेऽपि तु ।। १४५।।
मृत्युस्तु मस्तकस्थायी सर्वेषां विद्यते सदा ।
जलबुद्वुदवत्सर्वं शक्र नश्यति नित्यशः ।। १४६।।
मूढा मुह्यन्ति लोकेऽत्र मुह्यन्ति नैव पण्डिताः ।
इत्युक्त्वा स विप्रबटुस्ततत्र तस्थौ च सस्मितः ।। १४७।।
विस्मितस्त्रिदशाध्यक्षो गर्वहीनो बभूव ह ।
एतस्मिन्नन्तरे तत्राऽऽजगाम तापसो जनः ।। १४८।।
अतिवृद्धो महायोगी जटाधारी मृगाजिनी ।
सर्वं वक्षःस्थलं तस्य रोमचक्राभिसंभृतम् ।।१४९।।
मध्ये किञ्चिद्रोमहीनं समुत्पाटितलोमकम् ।
मस्तके च वर्तुलं संदधन् कटं समायतम् ।। 1.486.१५०।।
आगत्य मध्ये तस्थौ स विप्रपुत्रमहेन्द्रयोः ।
महेन्द्रो वृद्धरूपं तं मधुपर्कादिकं ददौ ।। १५१ ।।
प्रणनामाऽथ पप्रच्छ कुत आगम्यते त्वया ।
किन्नामा त्वं गृहं कुत्र कथमागमनं तव ।। १५२।।
करं कथं मस्तके ते लोमचक्रं च वक्षसि ।
मध्यदेशे रिक्तभागो लोमोत्पाटनजः कथम् ।। १५३।।
वृद्धः प्राह च वैकुण्ठादद्य त्वागम्यते मया ।
लोमशोऽहं ऋषिर्नाम्ना तीर्थार्थं गमनं मम ।। १५४।।
अल्पायुषा मया चेन्द्र कुत्रापि न कृतं गृहम् ।
न विवाहश्चोपजीव्यं भिक्षोपजीविनाऽधुना ।। १५५।।
वर्षणाऽऽतपशान्त्यर्थं मस्तकस्थं कटं मम ।
वक्षोरोमाणि यावन्ति तावत्कल्पायुरस्म्यहम् ।। १५६।।
कल्पैकेऽपगते चेन्द्र लोमैकोत्पाटनं मम ।
उत्पाटितरोमसंख्याः कल्पा नष्टा ममाग्रतः ।। १५७।।
जातं त्वंगुलमात्रं तद् वर्तुलं रोमहीनकम् ।
वक्षोलोमानि यावन्ति प्रतिकल्पैकरोमकम् ।। १५८।।
भविष्यन्त्युत्पाटितानि तदा मे मरणं भवेत् ।
दशाधिकशते याते ब्रह्माऽब्दानां मृतिर्मम ।। १५९।।
असंख्यविधयः सृष्टौ मरिष्यन्ति मृता अपि ।
कलत्रेण च पुत्रेण गृहेण किं प्रयोजनम् ।। 1.486.१६०।।
वैराजपतने चक्षुर्निमेषस्तु हरेर्भवेत् ।
श्रीहरेश्चरणं नित्यं चिन्तयामि स्थले स्थले ।। १६१ ।।
दुर्लभं श्रीहरेर्दास्यं भक्तिर्मुक्तेर्गरीयसी ।
स्वप्नवत् सर्वमैश्वर्यं तद्भक्तिव्यवधायकम् ।। १६२।।
एवमुक्त्वा वृद्धविप्रश्चान्तर्धानं जगाम ह ।
शिशुविप्रस्ततश्चेन्द्रं कृत्वा गर्वविहीनकम् ।। १६३।।
अदृश्यतां गतस्तूर्णमिन्द्रो वैराग्यमाप्तवान् ।
सर्वं विन्यस्य पुत्रे तु त्यक्त्वा राज्यश्रियं शचीम् ।। १६४।।
उत्सुकोऽभूदरण्यं वै हरेर्भक्त्यर्थमादरात् ।
बृहस्पतिः स्वकं शिष्यं बोधयामास वै तदा ।। १६५।।
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
इति नित्यं जपं ध्यानसहितं कुरु शार्ङ्गिणः ।। १६६।।
तेन मुक्तिश्च ते भाव्या मा याहि वनमन्यथा ।
इत्युक्तो भजमानः स भूत्वा च वैष्णवो महान् ।। १६७।।
चकार राज्यं धर्मिष्ठश्चान्ते मुक्तिं जगाम ह ।
पठनाच्छ्रवणाच्चास्य ज्ञानवान् जायते जनः ।। १६८।।
श्रद्धा सुवर्धते भक्तो भक्तौ गर्वो नश्यति सर्वथा ।
वृथा मानं याति दूरं याति त्वन्ते हरेः पदम् ।। १६९।।
इति ते कथितं लक्ष्मि! भुक्तिमुक्तिप्रदं शुभम् ।
विज्ञानं गर्वनाशार्थं भक्तेर्वृद्ध्यर्थमेव च ।। 1.486.१७० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मेनकां प्रति विश्वामित्रपृष्टपातिव्रत्यप्रश्रेऽप्सरसामन्यधर्मपरत्वे परस्परशापेन जरा, नागमतीनद्यां स्नानेन शापनिवारणं चेत्यादि । तथा इन्द्रस्य गर्वनाशार्थं प्रकृतेः शापः, गुरोः शापः, गौतमशापश्च, गुरोरपमानाच्छापेन सम्पन्नाशः, वृत्रनाशः, ब्रह्महत्या, गुरोः कृपया ब्रह्महत्यानाशः, नवीनप्रासादनिर्माणं, विश्वकर्मनिरोधः, नारायणस्य विप्रबटुरूपेणाऽऽगमनं पिपीलिकासमूहदर्शनं, लोमशस्यागमनं, तदायुर्लोमक्षरणे निश्चित्येन्द्रस्य वैराग्यं विश्वकर्मणो निर्बन्धतेन्द्रगर्वनाशश्चेतिनिरूपणनामा षडशीत्यधिकचतुश्शततमोऽध्यायः ।। ४८६ ।।