लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४८५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४८५
[[लेखकः :|]]
अध्यायः ४८६ →

श्रीनारायाण उवाच--
अन्यत्त्वाख्यानकं वक्ष्ये शृणु लक्ष्मि पुरातनम् ।
सकुटुम्बो गतो मोक्षमृषिर्दीर्घतमा महान् ।। १ ।।
काशीराजोऽभवच्चित्रसेनाऽऽख्यस्तस्य पत्तने ।
काश्यभिधे स वसते मुनिर्दीर्घतमाः सदा ।। २ ।।
काश्या उत्तरदिग्भागे मन्दारारामनामकम् ।
स्थलं द्रुमलताकीर्णं तत्र दीर्घतमा ऋषिः ।। ३ ।।
तपस्तपति चात्यर्थं तिष्ठति दारपुत्रयुक् ।
शुश्रूषयन्ति ते सर्वे सुताः पञ्च तथेतरे ।। ४ ।।
तस्य पुत्रः ऋष्यशृंगः कनीयानपि तापसः ।
योगी च ब्रह्मचारी च वेदाध्ययनतत्परः ।। ५ ।।
कन्दमूलफलाहारस्तिष्ठति मृगरूपधृक् ।
मृगमध्ये वसन्नित्यं पित्रोर्नमः क्रियाकृते ।। ६ ।।
प्रातः सायं समायाति पुनर्याति मृगेषु सः ।
अथ काशीपतिश्चित्रसेनो नृपो जनैः सह ।। ७ ।।
मृगयार्थं गतश्चाश्वारूढो मन्दारपादपान् ।
तत्र राजा मृगयूथपश्यद्वै महत्तमम् ।। ८ ।।
अधावँश्च मृगा दश दिशो भयान्नृपोऽपि च ।
एकाकी प्रययौ पृष्ठे मृगाणां गहने वने ।। ९ ।।
मध्याह्नोऽपि प्रसंजातो दिग्भ्रमोऽपि च भूभृतः ।
क्षुत्तृषार्तोऽभवच्छायामाश्रित्य सरसस्तटे ।। 1.485.१ ०।।
स्थितः क्षणं जले स्नानं चकार कुमुदानि च ।
गृहीत्वा तर्पणं कृत्वा पपौ वारि यथेप्सितम् ।। १ १।।
मृगमध्ये स्थितो योगी ऋष्यशृंगो महातपाः ।
मृगभक्षणकामश्च राजा वृक्षमूलाश्रितः ।। १ २।।
चापं धृत्वा कराग्रेण प्राक्षिपत्तच्छरं मृगे ।
ऋष्यशृंगः शरविद्धः कृष्णकृष्णेति संवदन् ।। १ ३।।
कस्यैषा दुर्मतिर्जाता मृगमध्ये स्थितौऽप्यहम् ।
केनाऽहं पातितस्त्वत्र न किञ्चिदपराधवान् ।।१४।।
वाचं तां मानुषीं श्रुत्वा राजा तन्निकटं ययौ ।
दृष्ट्वा तं घातितं विप्रं हाहाकृत्वा रुरोद ह ।। १५।।
विप्रः प्राह न ते सिद्धिर्मम नाशे तु भूमिप! ।
तवैव विहिता हत्या त्वया तत्प्रतिफालिनी ।। १६।।
जननी मे पिता वृद्धौ भ्रातरौ मे तपस्विनः ।
मम नाशं तु ते श्रुत्वा मरिष्यन्ति यदि नृप! ।। १७।।
एता हत्या भविष्यन्ति कथं शुद्धिर्भवेत् तव ।
उपायं ते कथयामि कुरु तद् यदि मन्यसे ।। १८।।
मां गृहीत्वाऽऽश्रमं पुण्यं यत्र तीौ पितरौ मम ।
आवेदयस्व चात्मानं पुत्रहन्तारमागतम् ।। १ ९।।
तौ दृष्ट्वा मां करिष्येते कारुण्यं वै तवोपरि ।
उपायं वा करिष्येते येन शान्तिर्भविष्यति ।। 1.485.२०।।
चित्रसेनस्तु तच्छ्रुत्वा स्कन्धे कृता तु भूसुरम् ।
मूर्छितं नीयमानं तं दृष्ट्वा मार्गे व्यसुं नृपः ।। २१ ।।
न्यग्रोधमूलके विप्रं दाहयामास तद्वने ।
स्नानं कृत्वाऽतिशोकार्तो रुरोद च मुमोद च ।।२२।।
ऋष्यशृंगस्य चास्थीनि गृहीत्वाऽऽश्रमसन्निधौ ।
गतवन्तं नृपं वीक्ष्य मुनिर्दीर्घतपास्तु तम् ।।२३ ।।
आसनं मधुपर्कादि ददौ स्नेहेन भूपतिम् ।
राजाऽऽह नार्घयोग्योऽहं पापवानस्मि भूसुर ।।२४।।
मृगमध्ये स्थितो विप्र तव पुत्रो मया हतः ।
पुत्रघ्नं शाधि मां विप्र तीव्रदण्डेन दण्डय ।।२५।।
मृगभ्रान्त्या हतो विप्रो दुष्कृतं तन्मया प्रभो ।
इति श्रुत्वा तु मात्राया रुरुदुर्बान्धवादयः ।। २६।।
दीर्घतपा विचार्यैव रुदन् ययौ तु तत्स्थलम् ।
जगाद नृपतिं राजन् बुद्धिः कर्मानुसारिणी ।।२७।।
जायते हि मनुष्याणां तथा तेऽपि मतिर्मता ।
हत्यां त्वं कृतवान् राजन्! किन्तु सा ते न वै भवेत् ।।।२८।।
वयं पिता तथा माता भ्रातरश्च कुटुम्बकम् ।
ऋष्यशृंगस्य शोकेन योगेन च तनुत्यजः ।।२९।।।
भविष्यामः क्षणाद् राजन्नस्थीन्यादाय नार्मदम् ।
शूलभेदं गच्छ तीर्थं क्षिपाऽस्थीनि च तज्जले ।। 1.485.३ ०।।
मुच्यसे सर्वपापेभ्यो मम वाक्यान्न संशयः ।
आदेशं ते करिष्यामीत्याह तं नृपसत्तमः ।। ३१ ।।
ऋष्यशृंगस्य शोकेन योगधारणया द्विजाः ।
कुटुम्बं व्यसुतां प्राप्तं दग्ध्वा तद् ब्राह्मणैर्जनैः ।।३२।।
राजाऽस्थीनि च संगृह्य शुद्धो भूत्वा तु नर्मदाम् ।
ययौ स्वल्पेन कालेन पृष्ट्वा तीर्थं च तन्नृपः ।।३ ३।।
नर्मदादक्षिणे कूले शूलभेदं सुपावनम् ।
आगत्याऽस्थीनि संधृत्वा भूमौ स्नात्वा ततः शुचिः ।।३४।।
तिलमिश्रेण तोयेन तर्पयित्वेष्टदेवताः ।
निक्षिप्याऽन्तर्जलेऽस्थीनि यावत्पश्यति चाम्बरे ।।३५।।
तान् ददर्श ततः सर्वान् देवमूर्तिंधरान् शुभान् ।
दिव्यवस्त्रैश्च संवीतान् दिव्याभरणभूषितान् ।।३६।।
विमानैः काञ्चनैर्दिव्यैः कृष्णषार्षदसेवितैः ।
उत्पततः समालोक्य राजा हर्षमुपागतः ।।३७।।
ऋषिर्विमानमारूढश्चित्रसेनमथाऽब्रवीत् ।
भोभो राजँस्त्वत्प्रसादाद् गतिर्दिव्या ममाऽद्य वै ।।३८।।
मदीयवचनाद् राजन् निष्पापस्त्वं भविष्यसि ।
इत्युक्त्वा प्रययुः सर्वे मुक्तिं दीर्घतपोजनाः ।।३९।।।
राजा शंभुं स्मरन् प्राणाँस्त्यक्तं तत्र समुद्यतः ।
शंकरस्तु समागत्य तं रुरोध नृपं हठात् ।।1.485.४०।।
अद्यापि त्वं युवा राजन् न यु्क्तं मरणं तव ।
स्वस्थानं याहि राज्यं संभुक्ष्व कालान्तरे ततः ।।४१ ।।
काशीराज्यं चिरं कृत्वा ध्यात्वा श्रीशंकरं तु माम् ।
नन्दिर्नामा गणो मे त्वं देहान्ते संभविष्यसि ।।।४२।।
इत्युक्त्वा प्रययौ शंभुः राजा काशीपुरीं ययौ ।
देहान्ते शंकरं ध्यात्वा नन्दिर्नामा गणोऽभवत् ।।४३।।
इति ते कथितं लक्ष्मि! पावनं चरितं शुभम् ।
यच्छ्रुत्वा विलयं यान्ति पातकानि नृणां प्रिये! ।।४४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ऋष्यशृंगस्य मृगरूपस्य काशीराजचित्रसेनशरेण मृत्यूत्तरं तत्पितृदीर्घतपःप्रभृतीनां नर्मदाजलेऽस्थिनिक्षेपान्मुक्तिरित्यादिनिरूपणनामा पञ्चाशीत्यधिकचतुश्शततमोऽध्यायः ।।४८५।।