लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४८४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४८४
[[लेखकः :|]]
अध्यायः ४८५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! च रोहिण्या पुरा कृततपःपरम् ।
येनाऽऽप्ता चन्द्रपत्नीनां मौर्धन्यं सर्वदा सती ।। १ ।।
अभीष्टा सर्वनारीणां भर्तुश्चापि विशेषतः ।
एकदा निश्चयीभूता तपसे सा पतिव्रता ।। २ ।।
गत्वा तु नर्मदातीरे चकार विपुलं तपः ।
एकरात्रं द्विरात्रं च षड् द्वादश तथाऽपरैः ।। ३ ।।
पक्षमासोपवासैश्च कृशीकृतकलेवरा ।
आराधनपरा नित्यं नारायणगुरोर्हरेः ।। ४ ।।
स्नात्वा स्नात्वा जले नित्यं नर्मदाया हरौ रता ।
पूजयति स्म गोविन्दं नारायणीपतिं प्रभुम् ।। ५ ।।
प्रसन्नो भगवान्नारायणीस्वामी नरायणः ।
उवाचाऽहं प्रसन्नोऽस्मि व्रतेन नियमैश्च ते ।। ६ ।।
ददाम्यभीप्सितं तेऽद्य वरं वृणु महासति! ।
एवं श्रुत्वा वचस्तस्य नत्वा संपूज्य भावतः ।। ७ ।।
पादयोस्तु जलं पीत्वा भूत्वा दर्शनपावनी ।
वरं वव्रे रोहिणी सा दास्यं ते चरणाम्बुजे ।। ८ ।।
प्रथमं तद्वरं देहि भक्तिस्त्वयि विशेषिणी ।
अथ द्वितीयं च वरं लोके चन्द्रगृहे सदा ।। ९ ।।
सर्वासां तु सपत्नीनामधिका शशिनः प्रिया ।
यथा भवानि ह्यचिरात् त्वत्प्रसादात्तथा कुरु ।। 1.484.१ ०।।
हरिः प्राह स्वरूपे द्वे धारयाऽस्मत्प्रसादतः ।
एकेन याहि वैकुण्ठं द्वितीयेनात्र संवस ।। ११ ।।
द्वितीयेन स्वरूपेण भव त्वं शशिनः प्रिया ।
भार्या पतिव्रता सर्वसपत्नीनां समग्रणीः ।। १ २।।
इत्युक्त्वा भगवान् कृष्णनारायणो ययौ स्वकम् ।
वैकुण्ठं तां सतीं नीत्वा विमानेन विहायसा ।। १ ३।।
सा तु द्वितीयरूपा च ययौ चन्द्रमसो गृहम् ।
तत आरभ्य सा जाता मूर्धन्या सर्वयोषिताम् ।। १४।।
इति ते कथितं लक्ष्मि! तपसः फलमुत्तमम् ।
स्वर्गमोक्षप्रदं रम्यं ममाऽऽराधनरूपकम् ।। १५।।
अथाऽन्यत्ते प्रवक्ष्यामि मुक्तिदं चरितं मम ।
दक्षस्य दुहिता त्वासीत् कुमुदा नाम विश्रुता ।। १६।।
सोमाय दत्वा तान् दक्षो परमं मौदमाप्तवान् ।
तस्यां स जनयामास पुत्रममृतनामकम् ।। १७।।
अथ ज्ञात्वा सुरा यज्ञफलार्थिनो ययुश्च तम् ।
अमृतं पीतवन्तस्ते ज्ञात्वा दैत्यास्ततो ययुः ।। १८।।
चन्द्रमसं च ते प्राहुर्देहि नोऽमृतमुत्तमम् ।
पानार्थं त्वन्यथा त्वां वै भक्षयिष्याम एव यत् ।। १ ९।।
चन्दो नेयेष दातुं त्वमृतं तेभ्यस्ततो हि ते ।
तं चन्द्रं जगृहुः स्वर्गात्पातयामासुरम्बरात् ।।1.484.२० ।।
हाहाकारो महान् जातः कुमुदा तस्य कामिनी ।
पातिव्रत्येन धर्मेण जलं कृत्वा करे तदा ।।।२१ ।।
उवाचाऽहं पतिधर्मा पतिव्रता पतिस्थिता ।
पातिव्रत्यबलेनैते दानवा यान्तु संक्षयम् ।।२२।।
इत्युक्त्वा वारि चिक्षेप दानवेषु ततस्तु ते ।
भस्मीभूतास्तदा जाताः शेषाः शुक्रं गुरुं प्रति ।। २३।।
ययुर्निवेदयामासुर्दैत्यानां भस्मभावनम् ।
शुक्रस्तत्र समागत्य जीवयामास चासुरान् ।।२४।।
ननाम कुमुदां शुक्रो दैत्या नेमुर्ययुर्गृहम् ।
चन्द्रः कुमुदया स्वसामर्थ्येनोत्थापितो भुवः ।।२५।।
अथ ब्रह्ममहेशाद्यैरागत्य विश्रमीकृतः ।
पुनः संस्थापितः स्वर्गे देवा बभूवुरज्वराः ।।२६।।
इति ते कथितं लक्ष्मि! पातिव्रत्यबलं महत् ।
सर्वसम्पत्करं विघ्नहरं सौभाग्यवर्धनम् ।।२७।।
अथाऽन्यमपि वक्ष्यामि चमत्कारं शृणु प्रिये ।
नर्मदायां चतूसंगे वर्तते यज्ञपर्वतः ।।२८।।
स्वयंभुवा पुरा तस्मिन्निष्टः सौत्रामणिर्मखः ।
तत्रैवेष्टं मघवता हयमेधेन पद्मजे ।।२९।।
निष्क्रान्ता पर्वतात्तस्माच्चतूनाममहानदी ।
पतिता नर्मदायां सा संगमे यज्ञपर्वते ।।1.484.३० ।।
ऋषिः सुपर्णो यत्राऽऽसीज्जाबालिर्ब्रह्मबीजजः ।
पुरुहूता तस्य पत्नी धर्मपत्नी पतिव्रता ।।३ १।।
प्रमाद्य त्वब्रवीद्वाक्यं पुरुहूता निजं पतिम् ।
ऋतुकाले पर्वणि मां भजस्व त्वं महामुने ।।३२।।
जायते मे यथा पुत्रः सर्वसन्तानपावनः ।
पुत्रेण लोकान् जयति तृप्यन्ति पितृदेवताः ।।३३।।
अपुत्रस्य गतिर्नास्ति तस्मात्पुत्रमजीजनः ।
श्रुत्वोवाच सुपर्णस्ताममावास्याऽद्य विद्यते ।।३४।।
कामदेवः सदा पत्नि! वर्जनीयो हि पर्वणि ।
अकर्तव्यं व्रते पुण्ये दिने पितृतिथावपि ।।३५।।
गमनं दम्पतीभ्यां वै ऋतुकालेऽपि भामिनि ।
पितरस्तस्य तन्मांसं भुञ्जते ऋतुगामिनः ।।३६।।
दिव्यं वर्षसहस्रं तु तप्तं मे दुष्करं तपः ।
तच्च सर्वं प्रविनश्येत् पर्वणि संगमात्तव ।।३७।।
पश्य स्नात्वा क्षणमात्राच्चाण्डालं संगमेऽत्र वै ।
यान्तं विमानमार्गेण स्वर्गे धिक्कृत्य मां प्रिये ।।३८।।
तपः करोमि सततं धिक्कारस्तेन वै कथम् ।
कृतो भवेदिति चिन्तापरो भवामि सुप्रिये ।।३९।।
वदाऽत्र कारणं साध्वि! धिक्कृतस्तेन वै कथम् ।
पश्चात्ते संप्रदास्यामि धर्मं चेन्मन्यसे सति! ।।1.484.४०।।
ऋतुदानं पर्वकाले यदि धर्मो भवेत् प्रिये ।
तावत् काचित्समायाता निषादी नर्मदातटे ।।४१ ।।
धिक्कारं सा श्रुतवती तदर्थं त्वाह तं ऋषिम् ।
अहंकारविमूढात्मा त्वत्समो नास्ति तापसः ।।४२।।
न स्नानं न जपो होमो न स्वाध्यायोऽच्युतार्चनम् ।
न च वा भजनं चेष्टमन्त्रस्य विहितं त्वया ।।४३।।
निष्फलं क्लेशमापन्नो वायुभक्षो निराश्रयः ।
त्वत्तपोध्यानयोगश्च निष्फलं स्वर्गदं न वै ।।४४।।
उवाच तां निषादीं च तदा नम्रगिरा मुहुः ।
काऽसि त्वं तीर्थमायाता निषादीरूपमाश्रिता ।।४५।।
उमा सरस्वती गंगा मां जिज्ञासितुमागता ।
अनुग्रहमिमं मन्ये वद धर्मं सनातनम् ।।४६।।
निषाद्युवाच तं हर्षात्तदा धर्मं सनातनम् ।
विप्राण्यहं च विप्रो मे भर्ताऽऽसीन्नैमिषे वने ।।४७।।
संस्थितस्तपसि नित्यं मां न स्पृशति मासिके ।
कामार्तया मया ऋतुस्नातया प्रार्थितः स हि ।।४८। ।
अमावास्यादिने पुत्रलब्धये याचितः पतिः ।
अकाले याचमानाऽहं तेन शप्ता महात्मना ।।४९।।
अधर्मं याचमाना त्वं भव शूद्रा निषादजा ।
मया शप्तो भव तत्र चाण्डालो यत्र चाप्यहम् ।।1.484.५०।।
इति शापाभिभूतौ वै दम्पती नर्मदाभवम् ।
लक्ष्मीनारायणसहितायाः श्रुत्वा कथानकम् ।।५१ ।।
माहात्म्यमुत्तमं दिव्यं तारकं स्नानमात्रतः ।
समागतो पतिर्मे सः चाण्डालः स्वर्गमाप्तवान् ।।।५२।।
अहं निषादी विप्राणी स्नात्वा यास्यामि मोक्षणम् ।
तस्मात्त्वं भज गोविन्दं तपसा सह सर्वदा ।।५३।।
सार्थकं ते भवेत् सर्वमन्यथा निष्फलं तव ।
हर्यर्थं कुरु कर्माणि होमजप्यादिकानि वै ।।।५४।।
यास्यसे त्वं तु वैकुण्ठं कृष्णनारायणाश्रितम् ।
इत्युक्त्वा नर्मदानीरे स्नात्वा स्वर्गं ययौ हि सा ।।५५।।
येन मार्गेण तद्भर्ता ययौ सा तेन संययौ ।
एतच्छ्रुत्वा तु जाबालिं सुपर्णं स्वपतिं सती ।।५६ ।।
पुरुहूता प्रणम्यैव ययाचे वै क्षमां तदा ।
धर्मं सनातनं ज्ञात्वा पर्वण्यपि ऋतावपि ।।५७।।
मैथुनं दम्पतीनां वै योग्यं नास्त्येव सर्वथा ।
एवं धर्मं परं ज्ञात्वा दम्पती तौ तु वैष्णवौ ।।५८।।
भजनं श्रीकृष्णनारायणाय स्वामिने नमः ।
कृत्वा नित्यं च जपनं पत्नीव्रतपतिव्रतौ ।।५९।।
ययौ कालेन वैकुण्ठं जपधर्मपरायणौ ।
इति ते कथितं लक्ष्मि धर्मज्ञानं मुनेः स्त्रियाः ।।1.484.६० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रोहिण्याः कुमुदायास्तपः, पुरुहूतायाश्च नर्मदास्नानेन मोक्षणं, पर्वणि ऋतुदानाऽदानं धर्म इत्यादिनिरूपणनामा चतुरशीत्यधिकचतुश्शततमोऽध्यायः ।। ४८४ ।।