लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४८३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४८३
[[लेखकः :|]]
अध्यायः ४८४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि त्वनसूयां पतिव्रताम् ।
अत्रिर्नाम्नाऽभवत्तस्याः पतिर्वै ब्रह्मणः सुताः ।। १ ।।
अग्निहोत्ररतो नित्यं देवताऽतिथिपूजकः ।
अनसूयाऽपि तत्प्राणा पतिकार्यहिते रता ।। २ ।।
पतिव्रता पतिं भेजे कृष्णनारायणं यथा ।
एवं काले गतेऽपत्यं दम्पत्योर्नाऽभवत्तदा ।। ३ ।।
सुखासीनौ प्रवदतः सुखदुःखानि कर्मभिः ।
अत्रिः प्राह प्रिये कान्ते त्रैलोक्ये सचराचरे ।। ४ ।।
न त्वया सदृशी लोके सर्वदा मे हिते रता ।
पतिपुत्रप्रिया नारी लोकाञ्जयति दुस्तरान् ।। ५ ।।
पुत्रेण लोकाञ्जयति पुत्रेण परमा गतिः ।
नास्ति पुत्रसमो बन्धुः पृथिव्यां चात्र दृश्यते ।। ६ ।।
असिपत्रवने याम्ये पतन्तं योऽभिरक्षति ।
दुर्भिक्षेष्वपि दैन्यादौ वृद्धकालेऽपि सत्सुतः ।। ७ ।।
पुत्रं विना तु किं भद्रे यतिर्वापि सुतः प्रिये ।। ८ ।।
लोकलज्जाप्रेरितश्च तारयेत् पितरौ हि सः ।
पुत्रहीने कथं सौख्यमिह लोके परत्र च ।। ९ ।।
दिवानिशं चिन्तयानः शुष्यामि शर्म नो लभे ।
अनसूयाऽपि तं श्रुत्वा प्राहाऽहं शोचयामि तत् ।। 1.483.१ ०।।
तवोद्वेगकरं यच्च मामुद्वेजयति प्रभो ।
येन पुत्रा भवेयुर्मे येन तुष्येत् प्रजापतिः ।। ११ ।।
अत्रिः प्राह मया भद्रे तपस्तप्तं सुदारुणम् ।
व्रतोपवासैर्नियमैः शाकाहारादिभिः प्रिये ।। १ २।।
क्षीणं देहमशक्तोऽहं जन्मप्रभृति तापसः ।
वार्धक्यं दृश्यते देहे प्रस्थानं पारलौकिकम् ।। १ ३।।
नाऽतिदूरं दृश्यतेऽत्र तथ्यं तुभ्यं निवेदितम् ।
अनसूयाऽह तं भर्तर्नारी पतिव्रताऽस्मि ते ।। १४।।
त्रिवर्गसाधना चाऽस्मि पतिपुत्रविवर्धिनी ।
भवतस्त्वाज्ञया तप्त्वा भविष्यामि सुतप्रसूः ।। १५।।
जपस्तपस्तीर्थयात्रापुत्रेज्यामन्त्रसाधनम् ।
पतिव्रतां वदन्त्येव गुरवो लोकरक्षकाः ।। १६।।
अनुज्ञाता च दुःखेऽहं तपस्तप्स्यामि दारुणम् ।
पुत्रार्थिनी बहुदिनान्यहं विष्णुं प्रयामि च ।। १७।।
अत्रिः प्राह समीचीनं मम सन्तोषकारकम् ।
अनुज्ञाता मया भद्रे पुत्रार्थं तप आचर ।। १८।।
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे नियोजयेत् ।
देवानां च मनुष्याणां पितॄणामनृणं कुरु ।। १ ९।।
न भार्यासदृशं पोतं तारकं त्वपरं मतम् ।
नहि देवाः प्रशंसन्ति सद्भार्यारहितं गृहम् ।।।1.483.२०।।
शुष्कं भवति वै चान्यद् भार्यया रहितं सुखम् ।
सम्मुखे सम्मुखाऽऽयाति विलोमे तु पराङ्मुखी ।।२१ ।।
अतो भार्या प्रशंसाया आस्पदं गृहमेधिनाम् ।
पतिव्रते महाभागे सर्वदा हितकारिणि ।।२२।।
तपश्चरस्व सफलं पुत्रप्रदं ममाऽऽज्ञया ।
पत्याज्ञा विष्णुवचनं सफलं स्यात् प्रिये त्वयि ।।२३।।
तवेच्छा वर्तते सापि द्राक् सफलयतु प्रभुः ।
एवं प्रसन्नतां पत्युः समागृह्य पतिव्रता ।।२४।।
स्वकार्ये सबला भूत्वा साष्टांगं प्रणताऽब्रवीत् ।
त्वत्प्रसादेन विप्रेन्द्र सर्वमेतदवाप्नुयात् ।।।२५।।
आशीर्वादैर्योजिता चानसूया वै पतिव्रता ।
हंसलीलागतितीव्रा प्राप्ताऽसौ नर्मदातटम् ।।२६।।
नर्मदोत्तरतीरे साऽभवत्पर्णाशना तथा ।
नियमस्थाऽभवन्नित्यं शाकाहारा क्वचित् क्वचित् ।। २७।।
स्तोत्रपरा हृदा देवान् शुभैः स्तोत्रैश्च संयता ।
ग्रीष्मेषु साऽभवन्मध्ये पञ्चाग्नितेजसां दिवा ।।२८।।
वर्षायां साऽवर्ण्यच्च चान्द्रायणं बहिः स्थिता ।
हेमन्ते जलवासा चाऽकरोत् त्रिषवणं सती ।।२९।।
देवानां तर्पणं समर्चनं च हवनं तथा ।
नैवेद्यं सोत्सवं पुष्पाञ्जलिं स्तोत्रं क्षमार्थनम् ।।1.483.३ ०।।
अकरोत् सा वने नित्यहरिण्यादिसहायिनी ।
एवं वर्षशते याते विष्णुरुद्रपितामहाः ।।३ १।।
क्षुत्क्षामां तापसीं पुत्रार्थिनीं ज्ञात्वा समाययुः ।
द्विजरूपेण ते देवा एरण्ड्याः संगमस्थले ।। ३२।।
आगत्य वेदमन्त्राँश्चोच्चारयन्ति तपःस्थले ।
श्रुत्वा वेदस्य मन्त्राँश्चाऽनसूया प्रेमपूरिता ।।३३।।
ईक्षमाणा मुहुस्तां तु दिशां समुत्थिता स्थलात् ।
दृष्ट्वाऽऽश्रमगतान् विप्रानतिथीनर्घ्यमाददौ ।।३४।।
तेषां चरणान्प्रक्षाल्य पपौ शिरसि चाऽकरोत् ।
अद्य मे सफलं जन्म विप्राणां दर्शनेन वै ।।३५।।
अद्य मे सफलं कार्यं तपो विप्रप्रदर्शनात् ।
अद्य मे भूमिका चेयं सफला ब्राह्मणागमात् ।।३६।।
इत्युक्त्वा पादयोर्नत्वा चक्रे प्रदक्षिणं मुहुः ।
पुनः साष्टांगनमनं कृत्वा सत्कारमब्रवीत् ।।३७।।
कन्दमूलफलैर्दिव्यैरद्याहं तर्पयामि वः ।
पर्णकुट्यां च विश्रान्तिं यात दर्भासनादिषु ।।३८।।
इति श्रुत्वा तु ते विप्रा ऊचुस्तां तापसीं सतीम् ।
तपसा चातितीव्रेण तव सत्येन सुव्रते ।।३९।।
पातिव्रत्येन धर्मेण तृप्ताः स्म तव दर्शनात्। ।
अस्माकं कौतुकं जातं किमर्थं तप्यते त्वया ।।1.483.४० ।।
स्वर्गं वा लोकसम्पत्तिं मोक्षं वा चान्यदेव वा ।
किमिष्यते त्वया साध्वि! तपसा दुष्करेण वै ।।४१ ।।
तपसा सिद्ध्यति स्वर्गस्तपसा तु परा गतिः ।
तपसा सर्वकामानां सिद्धिर्भवति पुष्कला ।।४२।।
यौवने तु सदा भोगा भोक्तव्या मनसेप्सिता ।
ताँस्तु सर्वान् विहायाऽत्र कुतो हेतोर्विशुष्यसि ।।४३।।
अनसूया तु तच्छ्रुत्वा प्रोवाच सुरपुंगवान् ।
युवत्वे तु तपः कार्यं युवत्वे परमा गतिः ।।४४।।
युवत्वे च सुतोत्पत्तिर्वृद्धत्वे सर्वमप्रियम् ।
इत्युक्ता देववर्यास्ते साधु साध्विति चाऽब्रुवन् ।।४५।।
विप्ररूपाणि विवृत्य ब्रह्मविष्णुमहेश्वराः ।
त्रयः साक्षात्तु ते भूत्वा वरं वृण्विति चाऽब्रुवन् ।।४६।।
यत्त्वया चाभिलषितं दद्मः सर्वं वदाधुना ।
चतुर्भुजो वासुदेवः शंखचक्रगदाधरः ।।४७।।
गरुडेन सहितश्च श्रिया च सहितोऽभवत् ।
प्रसन्नवदनो ब्रह्मा चतुर्वदनशोभितः ।।४८ ।।
हंससावित्रिकायुक्तश्चाऽक्षमालाकरोऽभवत् ।
वृषभं तु समारूढः पार्वतीसहितः शिवः ।।४९।।
पञ्चवक्त्रस्त्रिनेत्रश्च दशबाहुसमन्वितः ।
इत्येतान् पूजनीयाँश्च देवान् दृष्ट्वा च तापसी ।।1.483.५०।।
आनन्दिताऽभवत् तूर्णं दृष्ट्वा नत्वा ह्युवाच तान् ।
किंव्यापाराश्च के यूयं विष्णुरुद्रपितामहाः ।।५१ ।।
तदहं श्रोतुमिच्छामि वदतात्र दयादवः ।
ब्रह्मोवाच सति! प्रावृट्कालोऽहं च जलं तथा ।।५२।।
मेघोऽहं च प्रवर्षामि सन्ध्याऽहं पूर्वदैशिकी ।
विष्णुरुवाच हेमन्तश्चाहं पुष्णामि सर्वथा ।।५३।।
पालनीयं जगत् सर्वं ममाऽस्ति कार्यमुत्तमम् ।
रुद्रः प्राह सति! चाहं ग्रीष्मकालः क्षयंकरः ।।।५४।।
शोषयामि जगत्सर्वं रुद्ररूपस्तपस्विनि! ।
एवं वयं त्रयो देवास्त्रयः कालास्त्रयोऽग्नयः ।।।५५।।
तिस्रः सन्ध्या भवामश्च नित्यमेकत्वमागताः ।
वरं दद्मश्च ते भद्रे यत्ते मनसि वर्तते ।।५६।।
अनसूया समुवाच वन्ध्याऽस्मि किं वृणे सुराः ।
मम पुत्रा भवताऽत्र ब्रह्मविष्णुमहेश्वराः ।।५७।।
विष्णुरुवाच तां देवीं भद्रे न वरदाः सुताः ।
भवन्ति किन्तु तत्तुल्या भवन्ति वरदानतः ।।५८।।
भद्रे ददामि तान्पुत्रान् देवतुल्यपराक्रमान् ।
पितृतुल्यगुणोपेतान् सोमयाजिबहुश्रुतान् ।।५९।।।
अनसूया च तान्प्राह दातव्यमीप्सितं मम ।
वरदानकृते योग्या यद्यस्ति यात पुत्रताम् ।।1.483.६० ।।
नान्यथा तत्तु कर्तव्यं वसताऽद्य ममोदरे ।
विष्णुरुवाच तां देवीं गर्भवासे न वै वयम् ।।६ १ ।।
आयामः किन्तु वायुस्ते गर्भे स्थास्यति गर्भवत् ।
सगर्भमुदरं ते तु वायुः प्रदर्शयिष्यति ।।६२।।
नवमासोत्तरे काले प्रसूतेश्च गृहे वयम् ।
आगमिष्याम ऐश्वर्यसहितास्त्वद्गृहे शुभे ।।६३।।
वायोर्निःसरणे काले वयं बालस्वरूपिणः ।
त्रय एव भविष्यामश्चाऽयोनिसंभवाः सुताः ।।६४।।
योनिवासं तु वै देवा नैव यान्ति शुभाश्रयाः ।
इत्युक्त्वा बालरूपास्तेऽदृश्यन्त वै क्षणं तदा ।।६५।।
अथ ययुः स्वकं धाम दिव्यवाहनसंश्रिताः ।
प्राप्ता वरं तु सा देवी क्षीणदेहा ययौ गृहम् ।।६६ ।।
शिलातले निषण्णं साऽपश्यत् कान्तं महाव्रतम् ।
ननाम प्रणता तस्य पादौ प्रक्षाल्य सा पपौ ।।६७।।
कुशलं पृष्ठा प्रोवाच कृपया ते फलान्विता ।
निर्विघ्ना वरमादाय सेवायामागताऽस्मि वै ।।६८ ।।
पतिपुण्येन साध्याश्च फलन्ति त्विष्टपादपाः ।
पुत्रत्रयं ब्रह्मविष्णुमहेशाख्यं मयाऽर्जितम् ।।६९।।
भगवत्पादसेवायाः फलं प्राप्तं चिरेण वै ।
असाध्यश्चान्यनारीणां वरः प्राप्तः सुदुर्लभः ।।1.483.७०।।
तेनाऽहं ते प्रयच्छामि पुत्रानृषितपोधनान् ।
इत्युक्ता हर्षिता सम्यक्कान्तसेवापराऽभवत् ।।७१ ।।
साऽलोकयत् पतिं कान्तं कान्तेन साऽवलोकिता ।
दर्शनादेव सञ्जातं ललाटे मण्डलं प्रभम् ।।७२।।
अमूलं दीर्घमूलं च त्रिरंगं गोलकं शुभम् ।
तेजोमयं सहस्रादिरश्मिजालसमावृतम् ।।७३ ।।
तस्य मध्ये त्रयो देवा ह्यभासन्त क्षणान्तरे ।
देवैराज्ञापितो वायुर्गर्भस्थानेऽवसत् सदा ।।७४।।
अनसूया गर्भवती तेजसा त्वभवच्छुभा ।
अथ मासेषु नवसु यातेषु दशमे यथा ।।७५।।
योग्ये तु समये साध्वी सूतिकागृहमाविशत् ।
वायुर्गर्भान्निःससाराऽभवन् देवास्तु बालकाः ।।७६।।
हेमवर्णः पूर्वपुत्रो ब्रह्माऽभवत् पितामहः ।
चन्द्रमाः षोडशकलः सोमः पोषणदायकः ।।७७।।
स चाऽयं प्रथमः पुत्रोऽनसूयायास्तु नन्दनः ।
द्वितीयस्तु महाभागः स्वयं साक्षान्महेश्वरः ।।७८।।
सृष्टिसंहारकः सोंऽशो दुर्वासो नामतोऽभवत् ।
तृतीयस्त्वभवत्पुत्रो विष्णुर्नारायणो हरिः ।।७९।।
दत्तात्रेयो महायोगी भगवान् श्रीपतिः प्रभुः ।
जगद्व्यापी जगन्नाथः स्वयं देवो जनार्दनः ।।1.483.८० ।।
एवं प्राप्य सती पतिव्रता पुत्रत्रयं वरम् ।
कृतकृत्याऽभवत् सा हि मुनिरत्रिस्तथैव च ।।८ १ ।।
त्रयस्ते जातमात्रास्तु युवानश्चाभवन् प्रिये ।
सती लक्ष्मीश्च सावित्री दिव्यास्तत्र समागताः ।।८२ ।।
रवस्वपतीनां सेवार्थमनसूयां प्रणम्य ताः ।
वध्वः सिषेविरे देवान् जलभोजनचन्दनैः ।।८३।।
त्रयस्ते दर्शनं ददुः पित्रोर्दिव्यस्वरूपिणः ।
सर्वस्मृद्धिमयं त्वत्रेर्गृहं तैर्वै कृतं सदा ।।८४ ।।
देवाश्च मुनयः सिद्धाः ऋषयश्च तपोधनाः ।
देव्यश्च पार्षदा गणा नित्यमायान्ति दृष्टये ।।।८५।।।
अत्रेराश्रममाकीर्णं वर्तते देवकोटिभिः ।
नित्यं यज्ञाः प्रवर्तन्ते तथोत्सवा दिने दिने ।।८६ ।।
अथ देवास्त्रयस्त्वेते पितरावाहुरादरात् ।
तपस्तप्तुं समिच्छामो यास्यामोऽतो वनान्तरम् ।।८७।।
माता श्रुत्वा शोकमग्ना ह्यभवत् पुत्रगर्धिनी ।
उवाच पुत्राः सौख्यार्थं तपस्तप्तं मया यतः ।।८८ ।।
लालनार्थं पालनार्थं सौख्यार्थं त्रय एव हि ।
दर्शनार्थं च सेवार्थं मया देवा सुतीकृताः ।।८९।।
कथं तेऽस्मान् विहायैव तपसे यास्यथाऽच्युताः ।
सहिष्यते वियोगो न तस्माद् गन्तव्यमेव नः ।।1.483.९०।।
श्रूत्वा देवास्त्रयो मातुर्दधू रूपद्वयं ततः ।
दिव्यरूपैर्ययुः तपःकरणार्थं स्थलान्तरम् ।।९१ ।।
दुर्वासाः संययौ नैजं कैलासं शिवसन्निधौ ।
चन्द्रमाः सत्यलोकं च दत्तो द्वीपान्तरं ययौ ।।९२।।
अथ बालस्वरूपास्ते त्रयो भूत्वा गृहे निजे ।
मातुरंके रममाणा वर्तन्ते प्राकृता इव ।।९३।।
पितुरंके रममाणा आश्रमे विहरन्ति ते ।
हरिणानां बालकैस्ते मृगपक्षिभिरित्यपि ।।९४।।
तापसैः सह वर्तन्ते प्राकृता बालका इव ।
बालखेलनकैर्देवपूजनैः पितृरञ्जनैः ।।९५।।
यापयन्ति दिवसाँस्ते मातापितृसुखप्रदाः ।
एवं वै तपसा प्राप्तास्त्रयो देवाः ऋषेः सुताः ।।९६ ।।
यज्ञोपवीतमागृह्य वेदाध्ययनमाचरन् ।
यज्ञकार्याणि नित्यं ते चक्रुरत्रेः पुरस्त्रयः ।।९७।।
अत्रेरेव गृहीतश्च कृष्णनारायणात्मकः ।
मन्त्रश्च तुलसीमाला तैस्तु वैष्णवपुंगवैः ।।९८।।
चिरंजीवास्त्रयस्ते च सर्वलोकगतिकृतः ।
वर्तन्ते तारका दिव्या वैष्णवाः कुलतारकाः ।।९९।।
एतत्ते कथितं लक्ष्मि! दिव्याख्यानं परं शुभम् ।
पठनाच्छ्रवणाच्चापि स्वर्गदं मोक्षदं मतम् ।। 1.483.१०० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽत्रेः पत्न्याऽनसूयया तपसा ब्रह्मविष्णुमहेशाः सोमदत्तदुर्वाससः पुत्रा लब्धाः पातिव्रत्यबलंचेत्यादिनिरूपणनामा त्र्यशीत्यधिकचतुश्शततमोऽध्यायः ।। ४८३ ।।