लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४८२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४८२
[[लेखकः :|]]
अध्यायः ४८३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कृष्णद्वैपायनव्यासस्य चेष्टितम् ।
नर्मदायास्तटेऽभीष्टार्थनां चापि सुमुक्तिदाम् ।। १ ।।
आसीत् पूर्वं महाश्रेष्ठः ऋषिर्नाम्ना पराशरः ।
तेन चोग्रं तपस्तप्तं गंगाम्भसि समा दश ।। २ ।।
कुंभकं प्राणनियमं कृत्वा स जाह्नवीजले ।
प्रविष्टश्च ततः पूर्णे द्वादशाब्दे विनिर्ययौ ।। ३ ।।
भिक्षार्थे स गतो ग्रामं नावि तत्रैव संस्थिता ।
तेन दृष्टा शुभा बालाऽक्षता सुदृढयौवना ।। ४ ।।
तां दृष्ट्वा मन्मथाऽऽविष्ट उवाच मधुराक्षरम् ।
मा रमस्वाऽद्य सुभ्रु त्वं मम चित्तप्रमाथिनी ।। ५ ।।
इत्युक्ता सा मुनिं नत्वोवाच क्वाऽहं हि धीवरी ।
क्व त्वं मुनिर्महान्साधुः संगमो युज्यते न नो ।। ६ ।।
ऋषिर्ध्यात्वाऽब्रवीत् कन्यां न त्वं कैवर्तपुत्रिका ।
राजपुत्री भवसि त्वं शृणु जन्म वदामि ते ।। ७ । ।
वसुनामा तु राजाऽभूत् सोमवंशे प्रतापवान् ।
जम्बूद्वीपाधिपः कन्ये बहुपत्नीपतिः स हि ।। ८ ।।
वैष्णवः स गुरोर्भक्तो राज्यं करोति धर्मतः ।
म्लेच्छास्तस्य विरोधेन शाकद्वीपनिवासिनः ।। ९ ।।
तेषां स विजयार्थं वै ययौ सभृत्यपुत्रकः ।
संग्रामस्तु महाञ्जातो वसुना ह्यवनिभृता ।। 1.482.१ ०।।
जिता म्लेच्छाः करदास्ते कृताः सखण्डभूभृतः ।
तस्य प्रधाना महिषी स्वस्या सौधे रजस्वला ।। ११ ।।
जाता तया प्रेषितो वै दूतो राजसमीपगः ।
दूतः स शुकरूपो वै पाठितं मानवो यथा ।। १ २।।
चञ्च्वा गृहीत्वा लिखितं पत्रं ययौ विहायसा ।
त्वां विना पट्टराज्ञीयं ऋतुकालेऽपि जीवति ।। १ २।।
इत्येवं लिखितं त्वासीद् भूर्जपत्रं शुभाक्षरम् ।
गतः पक्षी यत्र वसुः सत्यभामासुप्रेषितः ।। १४।।
लेखं ददौ शुको राजा वाचयामास तत्क्षणम् ।
स्वीयं वीर्यं समुत्पाद्य कृत्वा च पुटिकां दृढाम् ।। १५।।
शुकाय चार्पयामास गच्छ राज्ञीं प्रदेहि तत् ।
नृपं प्रणम्य चञ्च्वा संगृह्य स बीजपुट्टिकाम् । । १ ६।।
उत्पपात समुद्रस्योपरि त्वायाति वेगतः ।
शुकं सामिषं संकल्प्य श्येनस्तत्रापि धावितः ।। १७ ।।
हतश्चञ्चुप्रहारेण वीर्यपात्रं पपात ह ।
जले मत्स्येन गिलितं तत्राऽपत्ये बभूवतुः ।। १८ ।।
दाशैर्मत्स्यो गृहीतश्चोत्पाटितस्तावदेव च ।
यमलं ददृशुर्गर्भे शशिसूर्यसमप्रभम् ।। १९ ।।
हर्षितास्ते धीवरास्तु दृष्ट्वा बालं च बालिकाम् ।
पुत्रं राज्ञे प्रदायैव पुत्रीं ते प्रत्यपालयन् ।। 1.482.२० ।।
सा त्वं कन्ये वरारोहे न हि कैवर्त कन्यका ।
एवमुक्ता तु सा दत्वाऽऽत्मानं पराशराय वै ।। २१ ।।
यद्यहं राजकन्याऽस्मि मत्स्यगन्धो निवर्त्यताम् ।
पराशरेण तत्रैव तपसा सुरभीकृता ।। २२ ।।
जलयाने च तां मुनिः पस्पर्श दिवसे यदा ।
सा प्राह व्रीडिता लोकाः प्रपश्यन्त्यावरं कुरु ।। २३ ।।
तदा पराशरेणापि संध्याता तामसी सती ।
अन्धकारस्वरूपा च निहारवारिसंभृता ।। २४।।
जाता समन्ततस्तत्र यत्र नौर्नैव दृश्यते ।
बालाऽप्यतिप्रसन्नाऽभूद् रेमे ब्रह्मर्षिणा सह ।। २५।।
बीजदानोत्तरं तत्राऽपत्यं सा सुषुवे क्षणात् ।
बालकं तत्र जटिलं सुभगं दण्डधारकम् ।। २६ ।।
कमण्डलुधरं शान्तं मेखलाकटिभूषणम् ।
धृतोपवीतकं स्कन्धे मायागुणविवर्जितम् ।। २७ ।।
सा तं दिव्यं सुतं तत्र पराशरस्य संददौ ।
पराशरेण सा बाला शुभाशीर्भिर्नियोजिता ।। २८ ।।
मम योगेऽपि कन्या त्वं नाम्ना सत्यवती सती ।
शन्तनोर्नृपतेः पत्नी भविष्यसि न संशयः ।। २९।।
प्रथमा महिषी तस्य सोमवंशविभूषणा ।
इत्युक्त्वा स्व सुतं नीत्वा पराशरमुनिर्ययौ ।। 1.482.३० ।।
नत्वा पुत्रं पराभक्त्या साष्टांगं प्रणयेन च ।
तं प्रयान्तमथाऽऽलोक्य सत्यव्रत्यब्रवीत् सुतम् ।। ३१ ।।
वरो देयस्त्वयाऽभीष्टः स्नेहास्ते यदि मातरि ।
किमप्युपादिश त्वं मां येन सिद्धिमवाप्नुयाम् ।। ३२।।
पुत्र उवाच मातस्त्वमाराधय हरिं सदा ।
सर्वेषां कर्मणां सारं श्रीकृष्णार्पणमस्तु यत् ।। ३३ ।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
इतिजापं कुरु मातर्मोक्षस्ते संभविष्यति ।।३४।।
मत्स्यगन्धा तदा प्राह करिष्यामि तथा सुत ।
परन्तु जननीनां वै सुतस्य विरहानलः ।।३५।।
सर्वदा दुःखदः स्यात्तु तस्मान्मा गच्छ वत्सल ।
त्वद्वियोगादहं पुत्र पञ्चत्वं यामि नाऽन्यथा ।।३६।।
नास्ति पुत्रसमः स्नेहो नास्ति भ्रातृसमं बलम् ।
नास्ति पुत्रसमं स्थानं विश्रान्तेर्वृद्धताऽऽगमे ।।३७।।
व्यासः प्राह विषादं मा मा कुरु मां स्मर प्रभुम् ।
पश्य मे यादृशं रूपं मोक्षदं दिव्यमैश्वरम् ।।३८।।
इत्युक्त्वा दर्शयामास तेजः कोटिशशिप्रभम् ।
तत्र चतुर्भुजं रूपं सकिरीटसुकुण्डलम् ।।३९।।
नवीननीरदश्यामं शरत्पंकजलोचनम् ।
ईषद्धास्याननं रम्यं तेजः परिधिशोभितम् ।।1.482.४०।।
सतिलकं रक्तगण्डं बिम्बौष्ठं षोडशाब्दिकम् ।
श्रीवत्सचिह्नशोभाढ्यं वनमालाविराजितम् ।।४१ ।।
रक्तचरणकरयोस्तलैः सुकोमलैर्युतम् ।
चन्द्रनिभनखराजिराजितं रशनायुतम् ।।४२।।
सकिंकिणीनद्धभूषादिव्याम्बरविराजितम् ।
लक्ष्मीप्रभाजयापद्मापार्वतीमाणिकीयुतम् ।।४३।।
नन्दसुनन्दपार्षदगणसेवितपत्कजम् ।
अनन्तदासदासीभिर्जयशब्दैः सुवर्धितम् ।।।४४।।
एतादृशं दिव्यरूपं दृष्ट्वा सत्यवतीरूपम् ।
मेने नारायणं पुत्रं मोक्षदं कृपयाऽऽगतम् ।।४५।।
तावत् तत्राऽऽगतं दिव्यं विमानं कोटिपार्षदैः ।
सेवितं श्रीरमाराधालक्ष्मीदासीविराजितम् ।।४६।।
मातरं प्राह मोक्षं ते करोमि भवबन्धनात् ।
रूपं द्वयं कुरु मातर्मत्प्रभावाद् यथेष्टकम् ।।।४७।।
रूपेणैकेन मद्धाम प्रयाहि पार्षदैः सह ।
द्वितीयेन स्वरूपेण कन्याऽत्र वस मानवी ।।४८।।
शन्तनोस्त्वं भाविनी वै गृहिणी राज्यभोगिनी ।
वैकुण्ठे मे वियोगस्ते कदापि नैव जायते ।।४९।।
इत्युक्त्वा जलमादाय गांगं चिक्षेप तत्तनौ ।
सद्यो द्वयस्वरूपा साऽभवन्माता तदा क्षणात् ।।1.482.५०।।
व्यासाऽऽज्ञयैकरूपेणाऽऽरुरोह तद्विमानकम् ।
द्वितीयेन स्वरूपेण नौकायां सा स्थिताऽभवत् ।।५१ ।।
अथ व्यासः स्वरूपं स्वं दिव्यं तिरश्चकार ह ।
ययौ विमानं वैकुण्ठं नीत्वा सत्यवतीं प्रसूम् ।।५२ ।।
नौकास्था मायया तस्य मोहिता प्रार्थयत् सती ।
रक्षा कार्या मम पुत्र प्रदेयं दर्शनं सदा ।।५३।।
व्यासः प्राह त्वया मातर्विषादः कार्य एव न ।
आपत्काले त्वयाऽहं वै स्मर्तव्यः कार्यसिद्धये ।।५४।।
आपदस्तारयिष्यामि क्षम्यतां मातरात्मजे ।
यदा यदा तु स्मर्तव्यः साक्षाद् भवामि ते पुरः ।।।५५।।
इत्युक्त्वा तु ययौ व्यासः पराशरेण संयुतः ।
पराशरो ययौ स्वस्य कुट्यां तपःपरः पुनः ।।५६ ।।
पराशरसुतस्तत्र निषण्णो वनमध्यतः ।
नारदेन समाख्यातं देवेभ्यो व्यासजन्म च ।।।५७।।
गंगातटे समाजग्मुर्ब्रह्माद्या देवतास्तदा ।
भानुः पितामहः शक्रः सनकाद्या महर्षयः ।।५८।।
दक्षाद्याश्च समाजग्मुर्नारदाद्याश्च गायकाः ।
मनवः पितरो वेदाः शास्त्राण्यपि समाययुः ।।५९।।
देव्यः सरस्वतीलक्ष्मीशारदाद्याः समाययुः ।
नारायणः शिवः सत्या सहितस्त्वाययौ तदा ।।1.482.६० ।।
पितरो मानवा दिव्या दिव्यदेहाः समाययुः ।
तीर्थान्यपि ह्रदाश्चारण्यानि वनानि चाययुः ।।६ १ ।।
पुष्पैः संवर्धितो व्यासः कृष्णद्वैपायनः प्रभुः ।
आशीर्वादान् पृथग् दत्वा साधुसाध्वितिभाषितः ।।६२।।
पितामहेन बालोऽसौ गर्भाधानादिसंस्कृतः ।
द्वैपायनो द्वीपजन्मा पाराशर्यः पराशरात् ।।६३।।
कृष्णरूपः कृष्णनाम्ना कृष्णद्वैपायनः प्रभुः ।
विरिञ्चिनाऽभिषिक्तोऽसाऋषिसंघैः पुनः पुनः ।।६४।।
आशीर्वादैर्वर्धितश्च सरस्वत्यादिभिस्तथा ।
स्तुतो वेदैः प्ररक्षार्थं व्यासार्थं व्यास संभव ।।६५।।
सर्वैः स्वतेजसा दृष्टः कृष्णनारायणः प्रभुः ।
नत्वा सर्वान् शुभं वव्रे सर्वेभ्यो मानसं तथा ।।६६ ।।
आत्मीय ज्ञानमार्गीयं निर्बन्धनं च मोक्षदम् ।
तथास्त्विति तदा सर्वे प्रोचुश्चक्रुर्महोत्सवम् ।।६ ७।।
पुष्पवृष्टिर्बभूवाऽस्य मस्तके ननृतुः स्त्रियः ।
वेदा मन्त्रांस्तदा कृष्णवर्णकांश्च जगुर्मुदा ।।६ ८।।
सरस्वतीरमालक्ष्म्यादिभिर्मिष्टान्नभोजनैः ।
भोजितास्तत्र चायातास्ताम्बूलादिभिरर्चिता ।।६९ ।।
विधातुराज्ञयोत्सवसमाहारं प्रचक्रिरे ।
स्वस्वस्थानं ययुः सर्वे व्यासस्तीर्थेषु संययौ ।। 1.482.७० ।।
गंगाऽवगाहिता तेन केदारं बदरीस्थलम् ।
हरद्वारं पुष्करं च नारायणसरोवरम् ।। ७१ ।।
द्वारिकागोमतीस्नानं चमत्कारपुरं तथा ।
कुंकुमवापिकातीर्थं चाश्वपट्टसरस्तथा ।।७२।।
नदीं भद्रावतीं स्नात्वा ययौ वामनसंस्थलीम् ।
रैवताद्रिं ददर्शाग्रे स्वर्णरेखाऽवगाहनम् ।।७३।।
दामोदरस्य च नारायणह्रदेऽवगाहनम् ।
बलिखातभुवं गत्वा सोमनाथस्य दर्शनम् ।।७४।।
गोपीनाथं तथा नत्वा साभ्रमतीं प्रगाह्य च ।
नर्मदां चापि तपतीं विगाह्य त्र्यम्बकेश्वरम् ।।७५।।
उज्जयिनीं तथा चोंकारेश्वरं स प्रणम्य च ।
ताम्रपर्णीं चन्द्रभागां सेतुबन्धं ययौ ततः ।।७६ ।।
पुनराव्य तीर्थानि श्रीशैलादीनि चादरात् ।
कृत्वा ययौ जगन्नाथपुरं कामाक्षिणीमपि ।।७७।।
ब्रह्मपुत्रां ययौ पश्चात् कालीं कपिलतीर्थकम् ।
गयां काशीं तथाऽयोध्यां गण्डकीं च प्रयागकम् ।।७८।।
नैमिषं च कुरुक्षेत्रं सरस्वतीं ययौ ततः ।
यमुनायामवगाह्य ययौ वै नर्मदातटम् ।।७९।।
साह्लादं नर्मदां दृष्ट्वा चित्तं विश्रम्य शान्तिदम् ।
तपश्चचार विपुलं नर्मदातटमाश्रितः ।।1.482.८० ।।
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
सार्द्रवासास्तु हेमन्ते ध्यायमानो हरिं प्रभुम् ।।८१ ।।
कृष्णनारायणस्तस्य प्रत्यक्षोऽभूत् क्षणान्तरे ।
ददावाशीर्वचनानि शुकी पत्न्यभवत्तदा ।।८२।।
शुकः पुत्रोऽभवच्चापि त्वागताः ऋषिसत्तमाः ।
व्यासाश्रमे स्थितास्ते तु व्यासेन कृतसत्क्रियाः ।।८३ ।।
आरण्यानि सुशाकानि फलान्यारण्यकानि च ।
तानि दास्यामि सर्वेषां व्यासेनैव सभाजिताः ।।८४।।
एवमुक्त्वा शुचिर्भूत्वा नर्मदातटमाश्रितः ।
तुष्टाव नर्मदां साऽपि प्रत्यक्षा ह्यभवत् क्षणात् ।।८५।।
नर्मदा प्राह वचनं वरं वृणु यथेप्सितम् ।
व्यासो वव्रे यदि तुष्टा यदि देयो वरो मम ।।८६ ।।
आतिथ्यमुत्तरे कूले मम दातुं त्वमर्हसि ।
नर्मदा प्राह मे मार्गो दक्षिणाभिमुखो यतः ।।८७।।
कूलं कथं भवेदुत्तरस्त्वं स्वयं विचारय ।
तदा व्यासः स्वयमग्रे चचाल मार्गयादिशन् ।।८८।।
नर्मदा तत्पथा याता चक्रुः पुष्पाञ्जलिं सुराः ।
व्यासाश्रमः कृतस्तत्र व्यासतीर्थं ततोऽभवत् ।।८९।।
तत्रैव नर्मदा साक्षान्मूर्तिमती स्थिताऽभवत् ।
व्यासं नारायणं कृष्णं सेवते सा पतिव्रता ।।1.482.९०।।
व्यासोक्तेन तु मार्गेण याता सा प्रथमं सती ।
व्यासं नित्यं स्नापयति निजनिर्मलवारिणा ।। ९१ ।।
नैवेद्यजलपुष्पादिताम्बूलधूपदीपकैः ।
सेवते सततं व्यासं कृष्णनारायणं सती ।। ९२।।
एवं पातिव्रत्यपरा वर्तते नर्मदा सदा ।
तत्र स्नानं जनाः कृत्वा पूजयित्वा हरिं सतीम् ।।९३।।
पातिव्रत्यफलं श्रेष्ठं प्राप्स्यन्ति निश्चितं रमे ।
यः पठेच्छृणुयाच्चापि लभेत्तत्तीर्थजं फलम् ।।९४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पराशराद् व्यासस्य जन्म, मत्स्यगंधाया जन्मवृत्तान्तः, व्यासस्य तीर्थभ्रमणं नर्मदातीरे वासो नर्मदायाः पातिव्रत्यं चेत्यादिनिरूपणनामा द्व्यशीत्यधिकचतुश्शततमोऽध्यायः ।। ४८२ ।।