लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४८१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४८१
[[लेखकः :|]]
अध्यायः ४८२ →

श्रीनारायण उवाच-
भूयस्तु संप्रवक्ष्यामि ऋषिपत्नीकृतं व्रतम् ।
तच्छृणुष्व मयाऽऽख्यातं पवित्रं पापनाशनम् ।। १ ।।
सप्तर्षीणां तु या भार्याः सप्तपत्न्यः पतिव्रताः ।
तास्तु गंगां गताः स्नातुं दृष्ट्वा वह्निं कुशस्थले ।। २ ।।
शैत्येन वेपितास्तप्तुं गतास्ता वह्निसन्निधौ ।
वास्तवोऽग्निः स नैवाऽऽसीत् किन्तु क्षिप्तः स गंगया ।। ३ ।।
तेजस्वी शंकरस्याऽऽसीद्धातुर्वे वह्निसदृशः ।
शरस्तम्बे वह्नितुल्यो वह्निनाऽप्सु समर्पितः ।। ४ ।।
वह्निमिश्रः स वै धातुर्दृष्ट्वा स्नातपतिव्रताः ।
तासु प्रविष्टश्च तदा वह्निना प्रेरितः क्षणात् ।। ५ ।।
गर्भवत्यस्तु ता जाता विज्ञाताः ऋषिभिस्तु ताः ।
एवं दैवपरिभ्रष्टा दूषिता पावकेन वै ।। ६ ।।
ऋषिभिः परित्यक्तास्ता बभ्रमुश्च वनाद्वनम् ।
एवं बहुगते काले नारदो वैष्णवः परः ।। ७ ।।
तासां शुभं समिच्छन् वै समायातो वनान्तरे ।
ताभिः स सत्कृतस्तत्र धृतव्रतो महामुनिः ।। ८ ।।
समासीनस्ता उवाच देशकालोचितं वचः ।
किमिदं क्रियते जातो भवतीनां पराभवः ।। ९ ।।
कस्माद्वै ऋषिभिस्त्यक्ता लोकमातृपतिव्रताः ।
ता ऊचुर्हि वयं त्यक्ताः कार्तिकेयप्रसंगतः ।। 1.481.१ ०।।
शंकरस्य महद्वीर्यं वह्नावासीत् कुशोपरि ।
वह्निं ज्ञात्वा वयं स्नात्वा तप्तुं तत्र गता यदा ।। ११ ।।
अग्निः स्पृष्ट्वा गुप्तरूपः प्रविष्टो नो हि वर्ष्मसु ।
धातुश्चास्मद्गर्भभागे संलग्नो योनिमण्डले ।। १ २।।
तेन जाताः सगर्भाश्च वयं दुष्टा इति स्थितिः ।
यज्ञकार्यकरैस्तैश्च वयं त्यक्ताः सुदुःखिताः ।। १३ ।।
लोकापवादजं किञ्चिज्जात दिष्टवशादघम् ।
किं कुर्मः क्व च गच्छामः किं तपः का च देवता ।। १४।।
यस्याऽऽराधनपुण्येन व्रजामः पूततां पुनः ।
एतन्निश्चित्य वै ब्रह्मन्नत्राऽस्मान् वद तत्त्वतः ।। १५।।
इति पृष्टो नारदस्तु ध्यात्वोवाच हितावहम् ।
श्रूयतां भोस्तपःश्रेष्ठं भवतीनां सुकारणम् ।। १६।।
गयातीर्थं महाश्रेष्ठं महाकालवनस्थितम् ।
तत्राऽक्षयवटं गत्वा धूतपापा भविष्यथ ।। १७।।
भाद्रशुक्लस्य पञ्चम्यामुपोषणपरायणाः ।
संकुरुत व्रतं जागरणान्वितं सुपावनम् ।। १८।।
नारदस्य वचः श्रुत्वा ऋषिपत्न्यः सुहर्षिताः ।
महाकालवनं जग्मुर्यत्र तीर्थं गयाभिधम् ।। १ ९।।
तत्र वटं विलोक्याथ स्नात्वा दानादिकाः क्रियाः ।
कृतवत्यस्तु ताः पुण्या भाद्रस्य धवले दले ।। 1.481.२०।।
पञ्चम्यां ताः समुपोष्य जागरं त्वैकनैशिकम् ।
चक्रुस्ताः परपुंस्पर्शदोषहीनास्तदाऽभवन् ।।।२१ ।।
भर्तृकोपविनिवृत्ताः सद्यो ययुर्गृहं स्वकम् ।
ऋषिभिः स्वागतं दत्तं पूर्ववदृषिदृष्टिभिः ।।२२।।
तदाप्रभृति लोकेऽत्र सा तिथिः ऋषिपञ्चमी ।
नारीणां व्रतलाभाय कृता नारायणेन वै ।।२३।।
लक्ष्म्या च राधया गौर्या प्रभया जयया तथा ।
पार्वत्या पद्मया मंजुलया माणिक्यया तथा ।।२४।।
सावित्र्या संज्ञया शच्या मेनया नारदाननात् ।
श्रुत्वा व्रतं कृतं तद्वै ऋषिपञ्चमिकात्मकम् ।।।२५।।
परपुंसः स्पर्शजन्यं मासेषु द्वादशस्वपि ।
कामाऽकामादिसंसर्गजन्यं पापं च यत् स्त्रियाः ।।२६।।
स्वल्पं वापि महच्चापि भोगाऽभोगकृतं तु यत् ।
रजस्वलाहःसंस्पर्शजन्यं वा सूतकादिकम् ।।२७।।
अशुद्धिः स्पर्शजन्या या गृहोपकरणादिषु ।
जलभोजनपात्रेषु स्थले सर्वत्र वस्तुषु ।।२८।।
राजस्वल्यकृतो दोषः स्पर्शजन्यश्च यो भवेत् ।
बालकेषु च वृद्धेषु पराधीनेषु वापि यः ।।२९।।।
देहसंसर्गजा दोषा कामसंसर्गजास्तथा ।
सर्वे नश्यन्ति नारीणामृषिपंचमिकाव्रतात् ।।1.481.३ ०।।
व्रतेन ऋषिपञ्चम्याः शुद्ध्यन्ति सर्वथा स्त्रियः ।
पवित्रास्ता भवन्त्येव राजस्वल्येन सर्वथा ।।३ १ ।।
नीवाराहारकं कुर्याच्छुचिर्भूत्वाऽबला नरः ।
न तयोर्जायते कञ्चिदापद्दुःखं कदाचन ।। ३२।।
दुर्भगत्वं न नारीणां न वियोगश्च भर्तृभिः ।
पुत्रतो धनतो वापि न वियोगो भविष्यति ।। ३३ ।।
अवन्त्यामीदृशं तीर्थं वर्तते पापनाशकम् ।
अत्र दानादिकं कृत्वा लभते पुण्यमक्षयम् ।।३४।।
यो वै नियममाश्रित्य कथामेतां शृणोति च ।
पर्वे वा सततं सोऽपि हयमेधफलं लभेत् ।।३५।।
पातिव्रत्यफलं पत्नी लभेत् पंचमीपालनात् ।
अक्षयं च हरेर्धाम सह पत्या लभेत्ततः ।। ३६ ।।
सधवा वाऽप्यधवा वा कुर्यादेतद्व्रतं परम् ।
कृष्णनारायणपतिं सन्तोष्टुं शुद्धिकाम्यया ।। ३७।।
कृष्णनारायणः श्रीमान् शोधयित्वा सतीजनम् ।
रक्षिष्यति कृपालुः स पादयोर्निजसेवने ।।३८।।
व्रतं नारायणे येन यथा वाऽर्पितमञ्जसा ।
तयोः कृष्णः पतिः स्वामी भविष्यत्यविता ध्रुवम् ।।३९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सप्तर्षिपत्नीनां कार्तिकेयप्रसंगेनाऽनलस्पर्शजन्यदोषवारणार्थमृषिपञ्चमीव्रतमभिहितम्, पातिव्रत्यमहिमदर्शनं चेतिनिरूपणनामैकाशीत्यधिकचतुश्शततमोऽध्यायः ।। ४८१ ।।