लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४७७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४७६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४७७
[[लेखकः :|]]
अध्यायः ४७८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि कथां पातकनाशिनीम् ।
विश्वकर्मा गुरोर्भक्तिं चकार तत्फलं शुभम् ।। १ ।।
पातिव्रत्यं पितृव्रतं मातृव्रत गुरुव्रतम् ।
स्वर्गदं मोक्षदं चान्यदीप्सितस्य प्रदं ध्रुवम् ।। २ ।।
विश्वकर्माऽभवत् पूर्वं ब्रह्मणस्त्वपरा तनुः ।
त्वष्टुः प्रजापतेः पुत्रो निपुणो बुद्धिमान् स्वतः ।। ३ ।।
कृतोपनयनो बालो गुरुकुले वसन् व्रती ।
चकार गुरुशुश्रूषां भिक्षान्नकृतभोजनः ।। ४ ।।
एकदा तं गुरुः प्राह मदर्थमूटजां कुरु ।
यथा शैत्यं जलधारा तापो न बाधते मम ।। ५ ।।
यथा न जीर्णता तस्या विनाशो न यथा भवेत् ।
परिवर्तनमप्यस्याः कदाचिन्न भवेत् तथा ।। ६ ।।
सर्वर्तुसुखदां शालां कुरु पुत्र मदर्थिकाम् ।
तथास्त्विति गुरुं प्राह करिष्ये त्वत्प्रसादतः ।। ७ ।।
अथाऽयं गुरुपत्न्याऽपि समाज्ञप्तः कुरु प्रभम् ।
कंचुकं मम योग्यं वै सूर्यवह्निसमं मृदु ।। ८ ।।
न गाढं न श्लथं चापि वाल्कलं सुमनोहरम् ।
यस्य धृतौ न चान्याम्बरधृतिः समपेक्षते ।। ९ ।।
ओमित्यपि च तामाह ततः स सेवकः शुभः ।
गुरुपुत्रेण चाज्ञप्तो ममार्थं पादुके कुरु ।।1.477.१ ०।।
चर्मादिबन्धनिर्मुक्ते नित्यश्लिष्टे सुखप्रदे ।
यदारूढस्य मे चर्या पंके वार्षु स्थलेऽनिले ।। ११ ।।
ओमित्यपि च तं प्राह ततो गुरुसुताऽऽह तम् ।
भूषणे मे कर्णयोग्ये करयोग्ये तु कंकणे ।।१२।।
कुमारीक्रीडनीयानि दन्तिदन्तमयान्यपि ।
गृहोपकरणान्यत्र मूसलोलूखलादि च ।। १ ३।।
पीठानि चापि पात्राणि स्थालिका उज्ज्वलास्तथा ।
यथाऽङ्गुल्यो न दह्यन्ते पाको यत्र शुभो भवेत् ।। १४।।
एकस्तम्भमयं सौधं वाय्वाधारं च वस्तुकम् ।
ओमित्याहापि तां तद्वद् वयस्या अपि तं जगुः ।। १५।।
स्वस्वेष्टवस्तुनिर्माणं कर्तुं ताँश्चौं जगाद सः ।
तथेति संप्रतिज्ञाय सर्वेषां पुरतः प्रिये ।। १६।।
किञ्चित् कर्तुं न जानाति तेन चिन्तापरोऽभवत् ।
अंगीकृत्य गुरोर्वाक्यं न कुर्यान्निरयी भवेत् ।।१७।।
गुरुशुश्रूषणं धर्मः सदाऽस्ति ब्रह्मचारिणाम् ।
गुरूणां वाक्यकरणात् सिद्ध्यन्ति हि मनोरथाः ।। १८।।
एवं विचिन्त्य स ययौ वनं ददर्श तत्र वै ।
तपस्विनं स पप्रच्छ को भवानिति ते नमः ।। १९।।
तापसः प्राह तं त्वाष्ट्रं योऽस्मि, किं ते, वदात्र मे, ।
त्वाष्ट्रः प्राह कलाशैल्प्यं वेत्तुं जानामि ते मुखात् ।।1.477.२०।।
तापसः प्राह विश्वेशं शंकरं तपसा भवान् ।
तुष्टं करोतु ते शंभुर्दास्यति मानसेप्सितम् ।।२१ ।।
इत्युक्त्वाऽदृश्यतां यातस्तापसश्च ततः परम् ।
त्बाष्ट्रस्त्रिहायनं चोग्रं तपश्चचार भावतः ।।२२।।
तावत् प्रसन्नो भगवान् शंकरः पार्वतीपतिः ।
आविर्बभूव सहसा वरं ददौ कलामयम् ।।२३।।
सर्वकलास्तव बुद्धौ प्रयास्यन्ति विकासनम् ।
गृहाण मन्त्रं शुद्ध्यर्थं पात्रतार्थं च मन्मुखात् ।।२४।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
इतिमन्त्रं सदा त्वाष्ट्र जप सम्पत्प्रदं शुभम् ।।२५।।
कण्ठे करे च तुलसीमालां गृहाण पुण्यदाम् ।
भाले बिन्दुं गृहाणैनं कलात्मकं शुभास्पदम् ।।२६।।
इति दत्वा हरः प्राह विज्ञानं च तवेप्सितम् ।
श्रीकृष्णकृपया त्वस्तु नवकौशल्यबृंहितम् ।।२७।।
त्वं सुवर्णादिधातूनां दारूणां दृषदामपि ।
मणीनामपि रत्नानां पुष्पाणां वाससामपि ।।२८।।
कर्पूरादिसुगन्धीनां द्रव्याणामप्यपामपि ।
कन्दमूलफलानां च त्वक्साराणां त्वचामपि ।।२९।।
सर्वेषां वस्तुजातानां शैल्प्यं श्रेष्ठं प्रवेत्स्यसि ।
स्वामिनां रुच्यनुसारं चेष्टं कर्तुं प्रवेत्स्यसि ।।।1.477.३ ०।।
नेपथ्यरचनाः सर्वाः सर्वाः सूपादिसंस्कृतीः ।
तौर्यत्रिकादिकं चापि सर्वं ज्ञास्यसि तत्त्वतः ।। ३१ ।।
यन्त्रायुधजलावासदुर्गतन्तुकलादिकम् ।
ऐन्द्रजालं मनोज्ञानं लोकान्तरकलादिकम् ।।३२।।
अतिलोकोत्तरं चापि सर्वं वेत्स्यसि मूलतः ।
भज कृष्णं सदा त्वाशु स ते ज्ञानं प्रदास्यसि ।।३३।।
विश्वकर्मेति ते नाम भगवाँस्त्वां वदिष्यति ।
यदा तु राजा भविता दिवोदासो विधेर्वरात् ।।३४।।
तदाऽऽनन्दवने त्वं मे प्रासादं संकरिष्यसि ।
राजा द्रव्यव्ययं कृत्वा कारयिष्यति मन्दिरम् ।।३५।।
विश्वकर्मन् व्रज गुरोराज्ञायां तिष्ठ तत् कुरु ।
इत्युक्त्वाऽन्तर्हितः शंभुस्त्वाष्ट्रो ययौ गुरोर्गृहम् ।।३६।।
ओमित्युक्ताश्च ये यत्र शैल्प्ये ते तेन तोषिताः ।
प्रदाय तान्यभीष्टानि गृहीत्वा च तदाशिषः ।।३७।।
रञ्जयामास तान्सर्वान् कलाकौशल्यकर्मभिः ।
अथ साहाय्यदाः कान्ताः सस्मार कृष्णसन्निधौ ।।३८।।
श्रीकृष्णस्त्वाविरासीच्च स्वमूर्तेर्दिव्यशक्तयः ।
कृष्णेच्छया वामभागादुत्पन्नाः कन्यकास्तदा ।। ३९।।
चतुष्षष्टिकला दिव्याः सुरूपा नवयौवनाः ।
पातिव्रत्यपराः कृष्णाज्ञया त्वाष्ट्रं प्रवव्रिरे ।।1.477.४०।।
पतिं कृष्णस्वरूपं तं त्वाष्ट्रं ताः सम्प्रसेविरे ।
जपं चक्रुः कृष्णनारायणाय पतये नमः ।।४१ ।।
ध्यानं प्रपूजनं सेवां त्वाष्ट्रे कृष्णस्य चक्रिरे ।
कृष्णः प्रादुरभूत्तासां सन्निधौ च समान्तरे ।।।४२।।
कान्तभक्त्या प्रतुष्टः स ता ददुर्वरदानकम् ।
अत्र सर्वं सुखं भुक्त्वा सृष्ट्यन्ते मां प्रयास्यथ ।।४३।।
भवतीनां न चान्योऽस्ति धर्मः कान्तस्य सेवनात् ।
कान्ते चाऽहं कान्तस्त्वस्मि मया कान्तः प्रकीर्त्यते ।।४४।।
यत्र नाऽहं न स कान्तो न सा कान्ता मया विना ।
तस्यान्मत्पातिव्रत्येन कान्ते मोक्षमवाप्स्यथ ।।४५।।
इन्द्रादयो लोकपाला विश्वेदेवा मरुद्गणाः ।
आदित्या वसवो रुद्राः साध्या विद्याधरोरगाः ।।४६।।
ऋषयोऽप्सरसो यक्षा गन्धर्वाः सिद्धचारणाः ।
सर्वे मदात्मकाः सन्ति विश्वकर्माऽहमेव च ।।४७।।
तत्पत्न्यो मा स्वामिरूपं समाराध्य च मां सदा ।
कल्पे कल्पान्तके मुक्तिं यान्ति मच्छरणं शुभाः ।।४८।।
इत्युक्त्वा भगवान् कृष्णश्चान्तर्धानं ययौ ततः ।
तास्तु कलात्मिका दिव्याः पतिं त्वाष्ट्रं सिषेविरे ।।४९।।
पठनाच्छ्रवणात्त्वस्य कलाकौशलमाप्नुयात् ।
कथितं ते गुरोः पत्युर्भक्ते लक्ष्मि फलं शुभम् ।।1.477.५० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने त्वष्टुः पुत्रस्य गुरुभक्त्या शंभुवरेण कलाकौशल्यं श्रीकृष्णनारायणभक्त्या चतुःषष्टिकलात्मकपत्नीलाभः, तासां पातिव्रत्यं चेत्यादिनिरूपणनामा सप्तसप्तत्यधिकचतुश्शततमोऽध्यायः ।।४७७।।

[सम्पाद्यताम्]

तु. स्कन्दपुराणम् .४.२.८६