लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४७६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४७५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४७६
[[लेखकः :|]]
अध्यायः ४७७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि यथा प्राह दुर्वाससं द्विजाऽर्भकः ।
कृष्णनारायणो विष्णुः समयोचितमेव तत् ।। १ ।।
दुर्वाससं प्रणमन्त शोचन्तं कर्म वै स्वकम् ।
पूजयन्तं वासयन्तं कुशासनेऽतिभावतः ।। २ ।।
उवाच ब्राह्मणबटुस्तस्मै दत्वा सदाशिषम् ।
सर्वं जानासि दुर्वासर्गुरोर्मन्त्रप्रसादतः ।। ३ ।।
तथापि ब्राह्मणबटुः कथयामि निबोध मे ।
ब्राह्मणानां तपो धर्मस्तपः साध्यं जगत्त्रयम् ।। ४ ।।
वैष्णवानां हरेर्भक्तिर्दास्यं च परमं तपः ।
हरेः कथायाः श्रवणं भजनं तस्य सर्वदा ।। ५ ।।
सेवनं पूजनं सर्वं कर्तव्यं वैष्णवस्य वै ।
मुनेस्तु ते विशेषेण श्रेयः कार्यं शुभं सदा ।। ६ ।।
एतत् सर्वं परित्यज्य शोकं च शोककारणम् ।
कथं दुःखप्रदं बुद्धेर्नाशकं त्ववलम्बसे ।। ७ ।।
का कस्य पत्नी कः कान्तः कस्या वा भवचक्रके ।
मूर्खाणां वञ्चनां कर्तुं करोति मायया हरिः ।। ८ ।।
मिथ्या पत्नी तवेयं तु क्षणान्तेन गताऽधुना ।
नहि मिथ्या भवेन्नित्यं नित्यं नाऽदृश्यतां व्रजेत् ।। ९ ।।
तव पत्नी सदा चेयं कन्दली निर्मिता सती ।
नारायणेन ते छाया तव शिक्षाप्रदायिनी ।। 1.476.१ ०।।
यत् त्वया कल्पितो लोकस्त्वत्कम्पार्थं तु सा कृता ।
मा शोकं कुरु चात्रार्थे सा ते पत्नी पुनर्मुने ।। ११ ।।
भविष्यति न सन्देहो द्वेधा भूत्वा वरिष्यति ।
वद कान्तां प्रार्थनाढ्यामाकाशस्थां पतिव्रताम् ।। १२।।
प्रतीक्षमाणां ते त्वाज्ञां ब्रूहि किं सा करिष्यति ।
तावद् दुर्वाससा दृष्टा कथिता कदली भव ।। १ ३।।
शुभदा फलदा कान्ता सकृत्सूता सुदुर्लभा ।
बहुपुत्रीमती मूलात् सदा पतिव्रता भव ।। १४।।
इत्युक्ता सा प्रत्युवाच त्वं चापि कर्दमो भव ।
यथा नाम तथा दुर्वासात्मकः कर्दमो मम ।। १५।।
मूले क्लेदमयो नित्यं शैत्यभावान्वितो भव ।
इत्युक्तः कर्दमो भूत्वा रूपान्तरेण वै मुनिः ।। १६।।
दुर्वासः कर्दमो नित्यं कदलीमूलगोऽभवत् ।
कन्दली कदलीजातिर्भूता कदलदायिनी ।। १७।।
सकृत्प्रसूता फलदा मूलापत्यप्रदायिनी ।
संजाता वनमध्ये च वन्ध्या कदली चेत्यपि ।। १८।।
हस्तीनां भोजनं सा तु ह्यभवत् सर्वदा वने ।
अथ तं ब्राह्मणबटुः पुनः प्राह मुनिं हितम् ।। १ ९।।
शृणु विप्र तव पत्नी कल्पे कल्पे पुनः पुनः ।
कदली शान्तरूपा च भविष्यति सुखप्रदा ।।1.476.२० ।।
एकानंशाभिधा कृष्णस्वसा श्रीदेवकीसुता ।
पार्वत्यंशसमुद्भूता सुशीला चिरजीविनी ।।२१ ।।
कल्पे कल्पे तव पत्नी सुन्दरी सा भविष्यति ।
मनो देहि तपस्यायां मुदा तत्काल आगते ।।२२।।
शान्तस्वरूपा सा बाला कृष्णद्वारा मिलिष्यति ।
इत्युक्त्वा भगवान् कृष्णनारायणश्चतुर्भुजः ।।२३।।
दत्वा स्वदर्शनं तस्मै सोऽन्तर्धानो बभूव ह ।
मुनिः सर्वं भ्रमं त्यक्त्वा तपस्यायां मनो दधे ।।२४।।
अत्युच्छ्रितस्य दमनं सूचितं जायते क्वचित् ।
द्विगुणाऽभ्युदयश्चाऽनुजायते दमितस्य वै ।।२५।।
कन्दली कदलीजातिर्बभूव धरणीतले ।
यादृशी साऽभवत्तूग्रा तादृशीं शीततां गता ।।२६।।।
कन्दल्यास्तु पितुः सरस्वत्या नद्यास्तटे शुभे ।
आसीद् भव्याश्रमस्तत्र कन्दल्याः पातिव्रत्यतः ।।।२७।।
ब्रह्मशीलव्रतेनापि भक्त्या श्रीमाधवस्य च ।
पितुर्वस्त्राणि सर्वाणि शुष्काण्यार्द्राणि यानि च ।।२८।।
वायुना धार्यमाणानि तिष्ठन्ति त्वम्बरे सदा ।
विना तु कीलकं लक्ष्मि! चमत्कारोऽयमद्भुतः ।।२९।।
यावत् सा कन्दली दग्धा दुर्वासःशापतस्तदा ।
तत्क्षणं धौतवस्त्राणि पेतुरूर्ध्वाद् भुवस्तले ।।1.476.३०।।
पृथिव्यां पतिते वस्त्रे तपस्त्यक्त्वौर्व एव तु ।
ध्यानेन बुबुधे सर्वं कन्याभस्मादि संकटम् ।।३ १।।
शोकाविष्टो जगामाशु जामातुराश्रमं क्षणात् ।
सिषेच पृथिवीरेणून् रुदन् नयनबिन्दुभिः ।।३२।।
हे वत्से कदलीत्येवं रुरोदोच्चार्य वै पुनः ।
श्वशुरस्य स्वरं ज्ञात्वा दुर्वासा भयविह्वलः ।।३३।।
ऊटजाया बहिर्भूत्वा पपात' तत्पदाम्बुजे ।
विललाप भृशं पश्चात् सान्त्वयित्वा गुरुं मुनिम् ।।३४।।
वृत्तान्तं कथयामास मूलमारभ्य तं मुनिम् ।
श्रुत्वा वार्तां पुनरौर्वः शुशोच बहुधा पुनः ।।३५।।
जामातारं समुवाच भीतं प्रणतकन्धरम् ।
अये ब्रह्मन्नत्रिपुत्र पौत्रस्त्वं ब्रह्मणः शुभः ।।३६।।
स्वल्पदोषे बहुतरः कृतो दण्डस्त्वया कथम् ।
त्वज्जन्मशंकरांशेन शिष्यस्त्वं ब्रह्मणस्तथा ।।३७।।
वेदविज्ञश्च गुणवान् ज्ञानवाँश्च व्रतस्थितः ।
अनसूया महासाध्वी कमलांशा तव प्रसूः ।।३८।।
गुणवान् जनको यस्य माता गुणवती सती ।
तयोः पुत्रो दयाहीनः सृष्टेः सूक्ष्मा त्यहो गतिः ।।३९।।
न जाने केन दोषेण तव त्वैतादृशी मतिः ।
हिंसाप्रधाना शश्वद्वंशसम्पद्विनाशिनी ।।1.476.४०।।
मम प्राणाधिका त्वेका कन्या त्वयि समर्पिता ।
महापतिव्रता वाणीमात्रदोषसमन्विता ।।४१ ।।
वाग्दुष्टायास्तु दण्डो हि परित्यागो नयः स्मृतः ।
परित्यक्तां पुनः पुत्रीं पिता पालयति ध्रुवम् ।।४२।।
मदपत्यं स्वल्पदोषे यतो भस्मीकृतं त्वया ।
पराभवस्तेऽपि महान् भविष्यति न संशयः ।।४३।।
द्रोग्धुः कर्मफलं तूर्णे ददाति करुणानिधिः ।
इत्युक्त्वाऽतिविलप्यैव हा पुत्रीति वहन् मुहुः ।।४४।।
ज्ञात्वा तां कदलीवृक्षस्वरूपां सरितस्तटे ।
आमूलात्तां खनयित्वा सहनीत्वा ययौ गृहम् ।।४५।।
अस्वामिनीं फलहीनां पुत्रीं कुमारिकां तु ताम् ।
कन्दलीं कदलीरूपां पुपोष जलसेचनैः ।।४६।।
कर्दमस्तन्मूलदेशे क्लिद्यमानोऽभवत्ततः ।
दुर्गन्धः स च दुर्वासो दुर्वासाः शापतोऽभवत् ।।४७।।
तयोर्योगे त्वपत्यानि निष्फलान्यभवन्पुनः ।
वनानि तानि जातानि गजभुक्तिप्रदानि वै ।।४८ ।।
दुर्वाससस्तु चत्वारिंशदपत्यानि यानि वै ।
कदलीगर्भजातानि तान्यौर्वाश्रममाययुः ।।४९।।
और्वेण पालितान्येव तेषां वंशो व्यवर्धत ।
अथ स्मृत्वा प्रियां दुर्वासास्तपस्यापरोऽभवत् ।।।1.476.५ ०।।
ततः कालान्तरे राजाऽम्बरीषात् स पराभवम् ।
श्वशुरशापतो लेभे शृणु लक्ष्मि! वदामि ते ।।५१ ।।
अम्बरीषः सूर्यवंशी राजा परमधार्मिकः ।
श्रीकृष्णचरणाम्भोजे तन्मनः सततं ह्यभूत् ।।।५२।।।
न राज्येषु न भार्यासु न पुत्रेषु प्रजासु न ।
न सम्पत्सु क्षणं चित्तं पुण्यकर्माऽर्जितास्वपि ।।५३।।
ध्यायतेऽहर्निशं भक्तो ज्ञाने स्वप्ने हरिं सदा ।
महाभागवतः शान्तो विष्णुव्रतपरायणः ।।५४।।
एकादशीव्रतरतः कृष्णपूजासु तत्परः ।
सर्वकर्मस्वलिप्तश्च कर्ता कृष्णार्पितेषु च ।।५५।।
सुतीक्ष्णं षोडशारं च हरेश्चक्रं सुदर्शनम् ।
प्रभुणा रक्षितं शश्वद् रक्षायै नृपसन्निधौ ।।५६।।
एकादशीव्रतं कृत्वा द्वादशी दिवसे सति ।
स्नात्वाऽभ्यर्च्य हरिं दानं दत्वा सौवर्णराजतम् ।।५७।।
साधून् विप्रान् भोजयित्वा भोजनार्थमुवास सः ।
तावत्तत्र समायातो दुर्वासाः क्षुधितो मुनिः ।।५८।।
दृष्ट्वा नत्वा समुत्थाय दत्वा तं पाद्यमासनम् ।
पप्रच्छ राजा तं प्रीतः काऽऽज्ञा ते वद कामितम् ।।५९।।
दुर्वासाः प्राह देह्यन्नं विधिना क्षुधितस्य मे ।
किन्त्वघमर्षणमन्त्रं जप्त्वाऽऽयाम्यचिरेण वै ।।1.476.६०।।
क्षणं प्रतीक्षतां राजन्नित्युक्त्वा प्रययौ ततः ।
शीघ्रं नाऽऽयाति दुर्वासाः द्वादशीं विगतोन्मुखीम् ।।६१ ।।
विलोक्य राजा पप्रच्छ वशिष्ठं धर्मसंकटम् ।
नायाति मुनिशार्दूलः प्रयाति द्वादशी तिथिः ।।६२।।
संकटेऽस्मिन् विधेयं किं वदेति प्रत्युवाच तम् ।
वशिष्ठो हितकृत् तथ्यं पुण्यदं सर्वसम्मतम् ।।।६३।।
द्वादश्यां समतीतायां त्रयोदश्यां तु पारणम् ।
उपवासफलं हत्वा व्रतिनं हन्ति निश्चितम् ।।६४।।
न भोजयित्वा मूढश्चेदतिथिं समुपस्थितम् ।
स त्रस्तः क्षुधितो भुंक्ते कुंभीपाके व्रजेद् ध्रुवम् ।।६५।।
शतवर्षं तत्र तिष्ठन् नरश्चाण्डालतां व्रजेत् ।
व्याधियुक्तो दरिद्रश्च भवेज्जन्मनि जन्मनि ।।६६।।
अतोऽतिसूक्ष्मं ते ब्रूमोऽधुना परमसंकटे ।
रक्षां कुरु द्वयोर्धर्मं समालोक्य वदामि ते ।।६७।।
उपवासफलं रक्ष कृष्णस्य चरणोदकम् ।
भुक्त्वा शीघ्रमपो राजाँस्तद्भक्षणमभक्षणम् ।।६८।।
इत्युक्तो बुभुजे राजा किञ्चिद्वारि हरिं स्मरन् ।
एतस्मिन्नन्तरे तत्राऽऽजगाम क्रोधनो मुनिः ।।६९।।
चिच्छेद कोपात् सर्वज्ञः स्वजटां नृपतेः पुरः ।
ततः समुत्थितः खड्गहस्तो नरोऽग्निसन्निभः ।।1.476.७०।।
राजेन्द्रं हन्तुमायान्तं तं दृष्ट्वा चक्रमाच्युतम् ।
चिच्छेद कृत्यापुरुषं छेत्तुं दुर्वाससं प्रति ।।७१ ।।
गतं चक्रं विलोक्यैव विप्रो दुद्राव भीतवत् ।
ब्रह्माण्डक्रमणे चक्रं पश्चाद्धावत्सुदर्शनम् ।।७२।।
दृष्ट्वा त्राहीत्यभिगृणन् ब्रह्माणं शरणं ययौ ।
ब्रह्मा प्राह हरेर्दासं शप्तुं गतः कथं मुने ।।७३।।
रक्षिता यस्य भगवाँस्तं को हन्ति जगत्त्रये ।
क्षुद्राणां महतां चापि भक्तानां रक्षणाय तु ।।७४।।
ररक्ष सततं चक्रं श्रीहरिर्भक्तवत्सलः ।
यो मूढ वैष्णवं द्वेष्टि विष्णुप्राणसमं जनम् ।।७५।।
तस्य द्वेष्टुः स्वयं कृष्णनारायणोऽन्तमाचरेत् ।
शीघ्रं स्थानान्तरं गच्छ वत्स त्राणं न वाऽधुना ।।७६।।
अन्यथा त्वां मया सार्धं हनिष्यति सुदर्शनम् ।
किं ब्रह्मलोकं ब्रह्माण्डं दग्धुं शक्तं क्षणेन यत् ।।७७।।
तेजसा विष्णुतुल्यं यत् केनाऽन्येन निवार्यते ।
इति श्रुत्वा प्रदुद्राव जगाम शरणं शिवम् ।।७८।।
कृपानिधान मां रक्षेत्युवाच शंकरं भिया ।
न तं पप्रच्छ कुशलं कैलासस्थोऽपि शंकरः ।।७९।।
संहर्ता जगतां शंभुस्तूर्णमुवाच वै भिया ।
पौत्रस्त्वं जगतां धातुरत्रेस्तु तनयो मुने! ।।1.476.८०।।
ममांशो वेदविज्ञोऽसि मूर्खतुल्यं तु कर्म ते ।
वयं यस्मात् समुत्पन्नास्तद्भक्तं हंसि वै कथम् ।।८१।।
अहं ब्रह्मा च कमला दुर्गा वाणी च राधिका ।
प्रभा लक्ष्मीः पार्वती च माणिकी श्रीः रमा जया ।।८२।।
नहि भक्तात्पराः सर्वे भक्तोऽस्मभ्यः परो यतः ।
क्षुद्राँश्च महतो भक्तान् शश्वद् रक्षति यत्नतः ।।८३।।
चक्रेण भगवान् भक्तं रक्षति दुःसहेन वै ।
दुर्निवार्यं यदा चक्रं न प्रतीतं सुरक्षणे ।।८४।।
तदा चतुर्भुजः श्रीमान् स्वयं गच्छति रक्षितुम् ।
भक्तकृते भ्रमत्येव छायेव सततं हरिः ।।८५।।
कान्ता प्राणाधिका शश्वन्नहि लोके ततोऽधिकः ।
भक्तान् द्वेष्टि स्वयं सा चेत् तूर्णं त्यजति तां प्रभुः ।।८६ ।।
सर्वेषां तु प्रिया विप्राः स्वशरीरादपि हरेः ।
ब्राह्मणेभ्यः प्रिया भक्ताः साधवः प्राणतः प्रियाः ।।८७।।
विप्रेभ्यः साधवः श्रेष्ठाः सदाऽच्युतसुगोत्रकाः ।
साधुधर्मशीलरक्षाकरास्ते सर्वतः प्रियाः ।।८८।।
अयं राजापि साधूनां धर्मान् रक्षति माधवे ।
भज ब्राह्मण गोविन्दं स्मर तस्य पदाम्बुजम् ।।८९।।
व्रज शीघ्रं तु वैकुण्ठं श्रीकृष्णः शरणं तव ।
चक्रं कैलासवासाँस्तु प्रदहत् तत्र वर्तते ।।1.476.९०।।
पार्वती तु तदा प्राह सत्यं चेन्मे पतिव्रतम् ।
तेजः सत्यं तपः सत्यं यदि चेच्चिरसञ्चितम् ।।९१ ।।
कैलासस्थास्तथा चायं सर्वे भवन्तु विज्वराः ।
ममाशिषा हरेर्भक्त्या ब्राह्मणः शरणागतः ।।९२।।।
दुर्वासा वैष्णवो भक्तः शीघ्रं भवतु विज्वरः ।
इत्येवमुक्त्वा कृपया विरराम शिवा, शिवः ।।९३ ।।
सुदर्शनं क्षणं तिष्ठत् प्रतीक्षते मुनिं मुहुः ।
मुनिः प्रणम्य तौ देवौ वैकुण्ठं शरणं ययौ ।।९४।।
दृष्ट्वा सुदर्शनं पश्चात् पपात पादयोर्हरेः ।
त्राहि मां कमलाकान्त त्राहि मां करुणानिधे ।।९५।।
दीनबन्धो महाविष्णो त्राहि मां संकटार्णवे ।
भगवन्नव मां भीतं रक्ष मां भवसागरे । ।९६।।
किं स्तौमि पाहि मां कृष्णनारायण नमोऽस्तु ते ।
इत्युक्त्वा नेत्रनीरैः संसिसेच चरणाम्बुजे ।।९७।।
नारायणस्तु तं प्राह समुत्तिष्ठ स्थिरो भव ।
शृणु मे वचनं भद्रं भविष्यति सुखं तव ।।९८ ।।
अन्येषां भवति ज्ञानं श्रुत्वा शास्त्रं सतां मुखात् ।
मन्मूर्तयस्तु शास्त्राणि सन्तस्तु शास्त्रमूर्तयः ।।९९।।
मूर्तिमन्ति तु शास्त्राणि सन्तो मे विचरन्ति हि ।
तदुक्तं शास्त्रमेवाऽस्ति मदुक्तं तद्धृदि ह्यहम् ।। 1.476.१०० ।।
ब्राह्मणेभ्यश्च वेदेभ्यः सन्तः श्रेष्ठाः सदा मम ।
मत्तोऽपि साधवः श्रेष्ठास्तान् भजामि सदा हृदि ।। १०१ ।।
अहं प्राणो वैष्णवानां मम प्राणास्तु वैष्णवाः ।
तान् द्वेष्टि यः स मां द्वेष्टि मम प्राणस्य हिंसकः ।। १ ०२।।
पुत्रान् पौत्रान् कलत्राणि राज्यं लक्ष्मीं विहाय च ।
ध्यायन्ते सततं ये मां को मे तेभ्यः परः प्रियः ।। १०३ ।।
परा भक्तान्न मे प्राणा नहि लक्ष्मीर्न शंकरः ।
न भारती न वै ब्रह्मा न दुर्गा न गणेश्वरः ।। १ ०४।।
न ब्राह्मणा न वेदाश्च न वेदजननी परा ।
न राधा नहि गोपाला न गोप्यः प्राणतः प्रियाः ।। १ ०५।।
यथा प्रिया मम सन्तः सर्वपूज्या ममापि च ।
मयैतत् कथितं सर्वं सत्यं सारं च वास्तवम् ।। १ ०६।।
न प्रशंसापरं तेषां ते मे प्राणाधिकाः प्रियाः ।
ये द्विषन्ति तु मद्भक्तान् प्राणानामधिकं प्रियान् ।। १०७।।
तेषां शास्ता त्वहं पूर्णस्तूर्णं दण्डप्रदः प्रभुः ।
स्वतन्त्रः सर्वतत्त्वेषु परतन्त्रस्तु साधुषु ।। १ ०८।।
गोलोके वाऽथ वैकुण्ठे द्विभुजं वा चतुर्भुजम् ।
अक्षरे शाश्वतं रूपं रूपमात्रं हि तन्मम ।।१ ०९।।
प्राणास्तु सर्वथा भक्ते सत्सु वसन्ति मेऽनघ ।
जलान्नं भक्तदत्तं च भक्षणीयं हि तन्मम ।। 1.476.११ ०।।
अभक्ष्यं द्रव्यमन्येन दत्तं चेदमृतोपमम् ।
अम्बरीषं नृपश्रेष्ठं निरीहं तमहिंसकम् ।।१ ११ ।।
कथं हंसि दयाशीलं सन्तं प्राणिहिते रतम् ।
दयां कुर्वन्ति ये सन्तः सततं सर्वजन्तुषु ।।१ १२।
ये भजन्ति तु मां भक्त्या मद्भाग्याश्च मयि स्थिताः ।
तान् द्विषन्ति तु ये मूढास्तेषां हन्ताऽहमेव वै ।। ११ ३।।
भक्तानां हिंसकं शत्रुमहं रक्षितुमक्षमः ।
अम्बरीषालयं गच्छ स त्वां रक्षितुमीश्वरः ।।१ १४।।
करोतु पारणं तत्र राज्ञः संप्रीतये भवान् ।
पूर्णं वर्षं भवान् भीतो भ्रमत्येव स्थले स्थले ।। १ १५।।
उपवासी स राजेन्द्रः सभार्यः प्रशुचाऽन्वितः ।
ततोऽहमुपवासी च भक्तोपवासकारणात् ।। १ १६।।
ममाऽऽशिषा तु दुर्वासो विज्वरस्त्वं भविष्यसि ।
पथि हिंसां च मच्चक्रं तव नैव करिष्यति ।। १ १७।।
अहमद्य च निश्चिन्तः सुखं भोक्ष्यामि निश्चितम् ।
भक्तदत्तं पारणायां प्रीत्या कृत्वा सुधौपमम् ।। १ १८।।
लक्ष्मीदत्तमपि द्रव्यं नाहं भोक्तुमपीश्वरः ।
यावद्भक्तो मम त्वास्ते ह्युपवासी मम प्रियः ।। १ १९।।
गच्छ शीघ्रं त्वम्बरीषं कुरु त्वं भोजनं मुने! ।
इत्युक्तः प्रययौ शीघ्रं सचक्रः क्रोधनो मुनिः ।। 1.476.१२०।।
उपोष्य वत्सरं राजा प्रतीक्षते मुनीश्वरम् ।
ददर्श त्वागतं नत्वा भोजयित्वाऽन्नमुत्तमम् ।। १२१।।
स्वयं राजा तु बुभुजे चक्रं प्रापूजयत्ततः ।
तुष्टो विप्रोऽपि युयुजे नृपस्य परमाशिषम् ।।।१२२।।
जगाम स्वालयं तूर्णं प्रशशंस पुनः पुनः ।
माहात्म्यं सर्वतः श्रेष्ठं वैष्णवानां सतामहो ।। १२२।।।
अथ कालान्तरे तप्त्वा तपश्च क्रोधनो मुनिः ।
एकानंशां प्राप पत्नीं वसुदेवसुतां पुनः ।। १ २४।।
पतिव्रतया दुर्वासाः सेवितः सत्त्वकाम्यया ।
पत्नीयुतः सत्यलोके राजते क्रोधनो मुनिः ।। १२५।।
एतस्य श्रवणाल्लक्ष्मि! पातिव्रत्यं दृढं भवेत् ।
भक्तसेवां परं धर्मं ज्ञात्वा भक्ता भवेत् सती ।। १२६।।
कृष्णनारायणभक्ता भूत्वा कृष्णपतिव्रता ।
नाऽपराधं प्रकुर्वीत भक्तानां स्वामिनः सती ।। १२७।।
पत्युः सहेत सर्वस्वं क्षमावती यथा क्षितिः ।
शीता भवेत् कदलीवत् स्वामिनं सुखयेत् सती ।। १२८।।
कन्दल्यास्तु समाख्यानं श्रावितं बोधनाय वै ।
मम भवन्तु तथा नार्यो गालीदा कन्दली यथा ।। १ २९।।
मा भवन्तु नराश्चापि दुर्वासाश्च यथा सरुट् ।
पठनाच्छ्रवणात्त्वस्य भुक्तिर्मुक्तिर्भवेत् प्रिये! ।। 1.476.१३० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दुर्वाससो बटुविप्ररूपनारायणदर्शनं, कन्दल्याः कदलीवृक्षत्वं, दुर्वाससःकर्दमात्मकदुर्वासत्वं, और्वस्य शापेनाऽम्बरीषापराधजन्यमहद्भयागमः, पातिव्रत्यदार्ढ्यं, वसुदेवसुतया एकानंशया दुर्वाससो विवाह-
श्चेत्यादिनिरूपणनामा षट्सप्तत्यधिकचतुश्शततमोऽध्यायः ।।४७६।।