लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४७८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४७७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४७८
[[लेखकः :|]]
अध्यायः ४७९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयामि व्यासस्य चरितं शुभम् ।
आनन्दकानने नित्यं वसतः शास्त्रशेवधेः ।। १ ।।
बभाषे त्वेकदा शिष्यान् श्लोकं पठन्त्विमं हि सः ।
विद्यानां त्वाश्रयः काशी काशी लक्ष्म्याः पराश्रयः ।। २ ।।
मुक्तिक्षेत्रमिदं काशी काशी सर्वा त्रयीमयी ।
कश्च ब्रह्मा शश्च शंभुरश्च विष्णुस्त्रयोऽत्र वै ।। ३ ।।
ब्राह्मी ब्रह्म परब्रह्म त्रयः काश्यां वसन्ति हि ।
भोगो मोक्षस्तथा दास्यं लभ्यन्तेऽत्र त्रयोऽपि च ।। ४ ।।
कर्म ज्ञानं च भक्तिं च विन्दते मानवोऽत्र वै ।
एतादृशे वने तत्र व्यासः श्रुत्वा पवित्रताम् ।। ५ ।।
भिक्षार्थं काशिकायां स बभ्राम सर्वतोदिशम् ।
न लेभे स यदा भिक्षां कोपाच्छशाप काशिकाम् ।। ६ ।।
यतो भिक्षां न ददति गर्विष्ठाश्चात्र वै जनाः ।
माभूत् त्रैपूरुषी विद्या माभूत् त्रैपूरुषं धनम् ।। ७ ।।
माभूत् त्रैपूरुषी मुक्तिर्जनेषु काशिवासिषु ।
दत्वा शापं परिक्षिप्य भिक्षापात्रं च निर्ययौ ।। ८ ।।
अथ गच्छन् महादेव्या गृहद्वारि निषण्णया ।
प्राकृतस्त्रीस्वरूपिण्या भिक्षायै प्रार्थितोऽतिथिः ।। ९ ।।
भगवान् भिक्षुकास्तावदद्य दृष्टा न कुत्रचित् ।
असत्कृत्याऽतिथिं नाथो न मे भोक्ष्यति कर्हिचित् ।। 1.478.१० ।।
वैश्वदेवादिकं कृत्वा प्रतीक्षतेऽतिथिं सदा ।
ततोऽतिथिर्भवानद्य भव मे स्वामिनो द्विज ।। ११ ।।
विनाऽतिथिं गृहस्थो यस्त्वन्नमेको निषेवते ।।
भुंक्ते पापं गृहपतिः सहितः स्वपितामहैः ।। १२।।
तस्मादागच्छ विप्रेन्द्र कुरु मे पत्युरीहितम् ।
गार्हस्थ्यं मम पत्युश्च भिक्षया सफलं कुरु ।। १ ३।।
श्रुत्वा सविस्मयो व्यासः पप्रच्छ तां दयापराम् ।
भद्रे का त्वं धर्ममयी मूर्तिः शान्तिप्रदाऽत्र वै ।। १४।।
त्वां विलोक्याऽन्तरात्मा मे प्रसीदति शिवाऽसि किम् ।
यद्वा लक्ष्मीः कमलस्था रोहिणी वा शशिस्थिता ।। १५।।
किं वा वाराणसी चाऽऽस्से मुक्तिदेवी च विद्यसे ।
करुणा वा स्वयं यद्वा मद्भाग्यं प्रमदात्मकम् ।। १६।।
भक्तिर्यद्वा भवपत्नी त्वं चान्नदात्री हरिप्रिया ।
सर्वथैव न नारी त्वं त्वमस्यभीष्टदेवता ।। १७।।
केयं चिन्ताऽथवा मेऽत्र काचित् त्वं भव सुन्दरि ।
यदि चेत् कथयेः स्वस्या भिक्षां गृह्णामि भावतः ।। १८।।
इत्युक्ता प्राह गृहिणोऽत्रत्यस्यैवाऽस्मि कामिनी ।
नित्यं चरन्तं पश्यामि त्वां तु शिष्यगणैर्वृतम् ।। १ ९।।
त्वमेव मां नो जानीषे जाने त्वामहमेव यत् ।
तपस्विन् मे स्वामिनस्त्वयातिथ्यं सफलीकुरु ।।।1.478.२० ।।
व्यासः प्राहाऽस्ति मे कश्चिन्नियमः पूरितो भवेत् ।
एकभिक्षां तदाऽहं वै करिष्ये नान्यथाऽधिकाम्।।२१ ।।
सती प्राहाऽविशंकं त्वं वद न्यूनं यतोऽत्र न ।
व्यासः प्राहाऽयुतशिष्यैः सह पंक्तिमहं वृणे ।।२२।।।
सती प्राहाऽविलम्बेन सशिष्यो भव पंक्तिशः ।
सिद्धं सर्वं मम पत्युः प्रतापाद् वर्ततऽदनम् ।।२३।।
अहं न तादृङ्महिला भर्तृयशोविघातिका ।
आयात्यतिथिर्भवनं तावत् सिद्ध्यति भोजनम् ।। २४।।
परिपूर्णाः सर्वशालाः परिपूर्णमनोरथाः ।
परिपूर्ण गृहे सर्वं पत्युः पादप्रसादतः ।। २५।।
इत्युक्तश्च प्रहृष्टश्च सशिष्यः पंक्तिशोऽभवत् ।
तावत्पात्रेषु भोज्यानि जलपात्राणि चन्दनम् ।। २६।।
व्योमतस्त्वेककालेन स्थापितानि विधानतः ।
भोक्तुं त्वारेभिरे सर्वे विधिना परिवेषितान् ।।२७।।
तद्दिव्यपाकसंभारान् भुक्त्वा तृप्तिं सुलेभिरे ।
आचान्ताः पूजितास्त्वेते यावद् गन्तुं प्रचक्रमुः ।। २८।।
तावत् सती तं पप्रच्छ तीर्थस्थस्य वृषोऽत्र कः ।
यथा तदनुसारेण तीर्थे वर्तामहे वयम् ।।२९।।
श्रुत्वोवाच सतीं व्यासो धर्मांस्तीर्थनिवासिनाम् ।
स एष धर्मो नान्योऽस्ति यस्त्वया परिचर्यते ।। 1.478.३० ।।
त्वमेव धर्मं जानासि पतिशुश्रूषणे रता ।
येनैष तोषमायाति तव भर्ता चिरन्तनः ।।३ १ ।।
सती प्राह स वै धर्मः पाल्यतेऽहर्निशं मया ।
साधारणानि धर्माणि सम्पृच्छे तानि मे वद ।।३२।।
व्यासः प्राह शृणु साध्वि! नोद्वेगं जनयेत् क्वचित् ।
मनसा वचसा वाऽथ क्रियया प्राणिनं सदा ।।३३।।
परोत्कर्षं विलोक्यैव कार्या प्रसन्नता हृदि ।
विचार्य सर्वं कर्तव्यं येन स्यादुदयः शुभः ।।३४।।
शंभुः प्राह तदा व्यासं त्वय्येषु कोऽस्ति तद्वद ।
त्वया शापः प्रदत्तो यः काशीनिवासिषु क्रुधा ।।३५।।
उद्वेगजनकं तत्तु परोत्कर्षो न सह्यते ।
विचार्य न कृतं तद्धि येन स्यादुदयः शुभः ।।३६।।
त्वयोक्तो नियमो भग्नस्त्वयैव शापदानतः ।
एवं वै वर्तमानस्य काशी योग्या न वै तव ।।३७।।
बहिर्गच्छ सदा व्यास माऽत्र वासोऽस्ति ते कृते ।
इत्युक्तः स ययौ पूर्वरोधसि सरितोऽन्तिकम् ।।३८।।
कृत्वाश्रमं शुभं व्यासो नित्यं तिष्ठति तत्र वै ।
यत्र व्यासो गतस्तत्र ययौ देवी सरस्वती ।। ३९।।
काश्यां मुक्ता जना जाता आबालवृद्धमानवाः ।
विष्णुरूपाणि सर्वाणि मुनयो वेदपारगाः ।।1.478.४० ।।
ययुः सर्वाणि शास्त्राणि व्यासाश्रमं शुभाश्रयम् ।
शंकराद्यास्तदा सर्वे मूका आसन् क्षणात् खलु ।।४१ ।।
ज्ञात्वा तु कारणं तत्र व्यासनिष्कासनात्मकम् ।
शंकरः पार्वतीयुक्तो ययौ व्यासाश्रमं तदा ।।४२।।
नत्वा व्यासं पूजयित्वा चकार स्तवनं हरः ।
क्षमस्व व्यास मद्दोषं कृष्णनारायण प्रभो ।।४३।।
गर्वनाशक देवेश मूका मे नगरी यतः ।
विना सरस्वतीं व्यासं विना शास्त्राणि सर्वथा ।।४४।।
यत्र सन्ति न वै वेदा यत्र शास्त्रं न विद्यते ।
यत्र मन्त्रा न विद्यन्ते मूकास्तत्र तु भूसुराः ।।४५।।
यत्र सरस्वती नास्ति न सन्ति यत्र पण्डिताः ।
तत्स्थले लयमित्युक्तं काशीशून्याऽद्य विद्यते ।।४६।।
तमोभावेन बुद्धेर्वा गर्वेणाऽवदमच्युत ।
क्षमस्व तत्कृपानाथ त्वया कृष्णेन जीववान् ।।४७।।
त्वया व्यापकदेवेन वसामि शाश्वते पुरे ।
समागच्छ कृपासिन्धो मूकत्वं दूरगं कुरु ।।४८।।
इत्यर्थितस्तदा व्यासः कृष्णद्वैपायनः प्रभुः ।
शंकरं पार्वतीं प्राह मूकत्वं तु तदा व्रजेत् ।।४९।।
सरस्वतीनिवासं चेत् करोतु तव सन्निधौ ।
यदि त्वं सगणः शंभो पूर्णायां प्रातिमासिकम् ।।1.478.५० ।।
प्रातस्त्वत्र समागत्य कुरु मे पूजनं महत् ।
तदा सरस्वती तत्राऽऽगमिष्यति ममाऽऽज्ञया ।।५१ ।।
मन्दिरं तु सरस्वत्याः पूर्वस्यां तव सन्निधौ ।
प्रकारय च तत्रेयं नित्यदा संनिवत्स्यति ।।५२।।
इत्युक्तः शंकरस्त्वाह तथौमिति शिवायुतः ।
अथ व्यासः सुशास्त्राणि वेदाः सरस्वती तथा ।।५३।।
ययुश्च मुनयो विप्राः काश्यामूषुर्यथास्थलम् ।
सर्वं निर्मूकतां प्राप्तं विश्वेश्वरोऽपि मोदते ।।५४।।
शंकरेणाऽर्पिते सौधे तस्थौ माता सरस्वती ।
व्यासो निर्मूकतां दत्वा ययौ नैजाश्रमं पुनः ।।५५।।।
शंभुः शिवा तथा देवाः पूर्णायां प्रातिमासिकीम् ।
यात्रां कुर्वन्ति तत्रैव यत्र व्यासाश्रमोऽस्ति वै ।।५६ ।।
शंकरेण सह सर्वे देवास्तीर्थानि भूतयः ।
गच्छन्ति व्यासपूजार्थं निर्मूकत्वस्य सिद्धये ।।५७।।
इत्येवं कथितं लक्ष्मि! सामर्थ्यं शंकरस्य वै ।
पार्वत्यास्तत्पातिव्रत्यं व्यासस्यैश्वर्यमुत्तमम् ।।५८।।
शंकरस्य सदा कृष्णे पातिव्रत्यं परं तथा ।
सर्वेषामपि देवानां कृष्णद्वैपायने च तत् ।।५९।।
पातिव्रत्यं परं यस्य श्रवणात्पठनात्तथा ।
भुक्तिर्मुक्तिर्भवेल्लक्ष्मि! स्वेप्सितं सुखमाप्नुयात् ।।1.478.६ ० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने व्यासस्य काश्यां भिक्षाया अलाभे शापस्ततः पार्वतीकृताऽतिथिसत्कारः, शंभुना व्यासस्य बहिर्वासकरणम्, व्यासेन सरस्वत्याद्याहृतं, काशीप्रजाया मूकता, शंभुर्गत्वाव्यासादीनानिनाय,मूकतानिवृत्तिः, पूर्णिमायां व्यासतीर्थं कर्तव्यमित्यादिनिरूपणनामाऽष्टसप्तत्यधिकचतुश्शततमोऽध्यायः ।। ४७८ ।।