लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४७१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४७० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४७१
[[लेखकः :|]]
अध्यायः ४७२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! च मण्डुक्याः कथामुद्धारकारिणीम् ।
आनन्दकानने शंभोर्मन्दिरं त्वास शोभनम् ।। १ ।।
एका भेकी सदा तत्र संवस्ते शिवसन्निधौ ।
प्रदक्षिणं करोतीयं निर्माल्याऽक्षतभक्षिणी ।। २ ।।
एकदा सा बहिर्याता विहारार्थं तृणादिषु ।
कश्चित् काकः समालोक्य मण्डूकी तामितस्ततः ।। ३ ।।
संप्लवमानामादाय चञ्च्वा क्षेत्राद् बहिर्गतः ।
वर्षाभ्वी तेन सा क्षिप्ता काकेन क्षेत्रबाह्यतः ।। ४ ।।
मृता चञ्चुप्रहारेण प्रदक्षिणादिपुण्यतः ।
पुष्पबटुगृहे कन्या गान्धर्वी सा व्यजायत ।। ५ ।।
शंकरस्य तु लिंगस्य शैवालादि तु भक्षितम् ।
तेन पुण्यप्रभावेण शुद्धा मिष्टस्वरान्विता ।। ६ ।।
बाल्यादेव निपूणा सा संव्यजायत गीतिषु ।
नाम्ना सा माधवी साध्वी शंभुपतिव्रताऽभवत् ।। ७ ।।
शुभावयवसंस्थाना श्रेष्ठलक्षणलक्षिता ।
महाभागवती जातिस्मरा भक्तोत्तमाऽभवत् ।। ८ ।।
सम्यग्गीतरहस्यज्ञा नितरां मधुरस्वरा ।
गायत्येव यथाकालं षड्जमृषभं वा स्वरम् ।। ९ ।।
गान्धारं मध्यमं पञ्चमं वा धैवतमित्यपि ।
क्वचिन्निषादं सा बाला गायति प्रवरोच्छ्रयम् ।। 1.471.१० ।।
षड्जग्रामैर्मध्यमग्रामैश्च गान्धारग्रामकैः ।
अथ तत्र षड्जग्रामे मूर्छनाः सुयुनक्ति सा ।। ११ ।।
उत्तरमन्दां च रजनीं तृतीयामुत्तरायताम् ।
शुद्धषड्जां मत्सरितामश्वक्रान्ताऽभिरुद्गते ।। १२।।
एवं मध्यमग्रामेषु सौवीरी हारिणां तथा ।
अश्वां च कालोपततां शुद्धमध्यमां गीर्मयीम् ।। १३ ।।
पौरवीं चेत्यथ गान्धारग्रामेषु तु नन्दिकाम् ।
विशालां सुमुखीं चित्रां चित्रवतीं सुखां तथा ।। १४।।
आलापां च यथावाहं सुयुनक्ति धिया सती ।
तानाँस्त्वेकोनपञ्चाशत् क्रमाऽत्रूट्या युनक्ति च ।। १५।।
अग्निष्टोमं तथाऽत्यग्निष्टोमं च वाजपेयकम् ।
षोडशीं पुण्डरीकं चाऽश्वमेधं राजसूयकम् ।। १६।।
एवमादीन् दर्शयित्वा करोति शुभगायनम् ।
तालानेकोत्तरशतं ध्रुवं साम्यं तथाऽपरान् ।। १७।।
सन्निपातादिकान् लाति गायत्यपि तथाविधान् ।
षड्रागान् श्रीं वसन्तं च पंचमं भैरवं तथा ।। १८।।
मेघं जटुलरायणं निष्कासयति यत्नतः ।
प्रत्येकस्य च पञ्चापि रागिनीः पञ्च सा सती ।।१९।।
षट्त्रिंशद्रागरागिणीः प्रकाशयति कण्ठतः ।
देशकालविभेदेन पञ्चषष्ट्यपरास्तथा ।। 1.471.२० ।।
यावन्त एव तालाः स्यू रागास्तावन्त इत्यपि ।
तान् सर्वान् नित्यदा साध्वी गायति गीतिवेदिना ।।२१ ।।
माधवी मधुरालापा ओंकारं शंकरं सदा ।
सन्तोषयति रागाद्यैर्नर्तनैः पूजनैः स्तवैः ।।।२२।।
प्राप्याऽप्यनर्घ्यतारुण्यमोंकारं बह्वमन्यत ।
स्वभावचञ्चलं चेतः शंभौ स्थैर्यं समागमत् ।। २३ ।।
न वै तां बाधयाञ्चक्रे क्षुत्तृण्निद्राश्रमादिकम् ।
अतन्द्रितमानसाऽऽसीन्नित्यं शंकरसेविका ।।२४।।
निमेषं विघ्नरूपं सा मेने कालं निरर्थकम् ।
निमेषान्तरितः कालो यो यो व्यर्थो गतो मम ।।२५।।
शिवाऽनवेक्षणात्तस्य प्रायश्चित्तं करोति च ।
इति सञ्चिन्तयन्त्येव सेवां तत्याज नैव सा ।।२६ ।।
जलाभिलाषिणी शंभुनामाऽमृतं पिबत्यपि ।
नान्यद्दिदृक्षिणी तस्या अक्षिणी श्रुतिगे ह्यपि ।।२७।।
तस्याः कर्णौ शिवशब्देतरशब्दग्रहौ न वै ।
अतीव सुन्दरौ हस्तौ शिवार्थं मालिकाकरौ ।।।२८।।
नाऽन्यत्र चरणौ तस्याश्चरतः सुखवाञ्च्छया ।
नामान्तरं न गृह्णाति क्वचिदन्यस्य कस्यचित् ।। २९।।
शिवं शंभुं हरं कृष्णं नारायणं सतीपतिम् ।
परं पतिं च रटति स्वामिनं प्रणवाभिधम् ।।1.471.३०।।
रसना नैव जानाति तस्या अन्यद रसान्तरम् ।
सम्मार्जनं रंगमालाः प्रासादं परितः सदा ।।३ १ ।।
विदधाति माधवी सा प्रतिमापूजनं मुदा ।
पात्राणां शोधनं नित्यं मन्दिरस्य प्रसेवनम् ।।३२।।
ये केऽपि च हरे भक्तिमन्तस्तेषां समर्चिका ।
शुश्रूषयति नित्यं तान् पितृबुद्ध्याऽतिभक्तितः ।।३३।।
वैशाखस्य चतुर्दश्यामेकवारं तु माधवी ।
रात्रौ जागरणं कृत्वा दिवोपवाससद्व्रता ।।३४।।
भक्त्या मिलितभक्तेषु प्रातर्गतेषु वै ततः ।
सम्मार्जनादिकं कृत्वा शंभुमभ्यर्च्य भावतः ।।३५।।
गायन्ती मधुरं गीतं नृत्यन्ती निजलीलया ।
ध्यायन्ती श्रीहरिं कृष्णमोंकारेश्वरबिम्बके ।।३६।।
अतीव द्रवभावेन पश्यतां तु तपस्विनाम् ।
अनेनैव शरीरेण पार्थिवेन महामतिः ।।३७।।
तत्रैवोंकारमूता सा लयं याता रसात्मिका ।
तत्र ज्योतिषि सा बाला ज्योतिर्मय्यपि सा सती ।। ३८।।
वैशाखशुक्लपक्षस्य चतुर्दश्या पतिव्रता ।
दिव्यभावं गता तत्र शंभुस्तस्या विमुक्तये ।।३९।।
ददौ तस्यै कृष्णमन्त्रं तुलसीमालिकां गले ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।।1.471.४० ।।
मन्त्रं त्रिवारं तिलकं वैष्णवीत्वं ददौ हरः ।
चतुर्भुजा सती भूत्वा ययौ गोलोकमीश्वरी ।।४ १ ।।
मत्स्योदरीतटे क्षेत्रे गोघट्टं च पतिव्रताः ।
स्नान्ति दिव्ये कृष्णदेवालये कुर्वन्ति दर्शनम् ।।४२।।
घनश्यामस्य ये लोका अक्षरं ते प्रयान्ति वै ।
पञ्चनदे तु प्राक् स्नात्वा तत ओंकारसन्निधौ ।।४३।।
मत्स्योदरीं ततः स्नात्वा गोघट्टे तु ततः परम् ।
मत्स्योदर्युद्यानदक्षे श्रीघनश्याममन्दिरे ।।४४।।
लक्ष्मीनारायणं काशीविश्वेश्वरं प्रपूज्य च ।
गणेशं हनुमन्तं च नत्वा मुक्तो भवत्यपि ।।४५।।
यदाप्रभति विश्वेशो मन्दरादागतोऽभवत् ।
काश्यामानन्दवनके लक्ष्मीनारायणोऽप्यहम् ।।४६।।
मत्स्योदरीतटे सप्तशिखराढ्ये सुमन्दिरे ।
पद्माकारे महारम्ये कृष्णनारायणाह्वयः ।।४७।।
योऽहं गोलोकधामस्थः काम्भरेयोऽत्र भूतले ।
सोऽहं तत्र निवसामि प्रतिमायां त्वया सह ।।४८।।
मम नाम सदा विप्रा जपन्ति तत्र शाश्वतम् ।
लक्ष्मीनारायणं कृष्णनारायणं तथा प्रिये ।।४९ ।।
विश्वेश्वरं तथौंकारं पूजयन्ति च पण्डिताः ।
यावन्नेन्द्रियवैकल्यं यावन्नैवाऽऽयुषः क्षयः ।।1.471.५ ० ।।
यावत्सुयोगः पुण्यस्य मानसस्याऽतिभावना ।
तावत् सेव्यः प्रयत्नेन मोक्षदो भगवान् हरिः ।।५ १ ।।
य आनन्दवने शंभोः शिश्रियुः श्रीनिकेतनम् ।
अचला श्रीर्न मुञ्चेत् तान्महासौख्यप्रदायिनी ।।५२।।
इममध्यायमाकर्ण्य जनाः श्रीश्वरमानसाः ।
विमुक्ताः सर्वपापेभ्योऽक्षुरं पदमवाप्नुयुः ।।।५३ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मण्डूक्याः शिवप्रसादादने मरणोत्तरं गान्धर्वीत्वं शिवपातिव्रत्येन शिवालये गायन्त्या माधव्यास्तस्या मोक्ष इत्यादिनिरूपणनामैकसप्तत्यधिकचतुश्शततमोध्यायः ।।४७ १ ।।