लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४७२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४७१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४७२
[[लेखकः :|]]
अध्यायः ४७३ →

श्रीनारायण उवाच--
शृणु लक्ष्मि! तथा त्वन्यां कथां पारावतीभवाम् ।
देवालये निवसन्त्याः पारावत्यास्तु भर्तरि ।। १ ।।
पातिव्रत्येन धर्मेण सेवया तोषणेन च ।
देवदेवप्रसादेन भुक्तिर्मुक्तिर्बभूवतुः ।। २ ।।
नाम्ना रथन्तरे कल्पे त्रिलोचनस्य मन्दिरे ।
पीठे वीरजके क्षेत्रे रत्नसातौ सुशोभिते ।। ३ ।।
देदीप्यमानसौवर्णकलशैः संविराजिते ।
शृंगे पारावतद्वन्द्वं वसति स्म कृतालयम् ।। ४ ।।
प्रातः सायं च मध्याह्ने कुर्वान्नित्यं प्रदक्षिणाम् ।
उड्डीयमानं परितः पक्षवातैरितस्ततः ।। ।५ ।।
रजः प्रासादसंलग्नं दूरीकरोति सर्वदा ।
त्रिलोचनेति सततं नाम कृष्णनरायणम् ।। ६ ।।
भक्तैरुदाहृतं ताभ्यां तयोः कणाऽतिथीकृतम् ।
मंगलारात्रिकं तयोर्भक्तिं वर्धयति ध्रुवम् ।। ७ ।।
दिवा भक्तजनाकीर्णं प्रासादं परितोऽन्वहम् ।
तण्डुलादि चरन्तौ तौ प्रकुर्वाते प्रदक्षिणम् ।। ८ ।।
प्रासादिकजलं ता च पिबतः स्म नलागतम् ।
तयोरित्थं विचरतोर्महादेवसमीपतः ।। ९ ।।
अगाद् बहुतिथिः कालो द्विजयोः साधुचेष्टयोः ।
अथ देवालयस्कन्धे गवाक्षान्तर्गतौ क्वचित् ।। 1.472.१० ।।
श्येनो दृष्ट्वाऽपतद् वेगात् पारावातजिघृक्षुकः ।
उड्डीय तौ गतावन्तर्देवालयं रिरक्षया ।। ११ ।।
श्येनो विलोकयामास तत्र तयोर्विनिर्गमम् ।
कथं युगपदेतौ मे ग्राह्यौ स्यातामचिन्तयत् ।। १२।।
सायं श्येनो ययौ स्थानान्तरं लब्धौ न तौ यतः ।
अथ पारावती दक्षा पतिसेवापरायणा ।। १ ३।।
कालं पक्षिणं संलक्ष्य प्राह पारावतं पतिम् ।
प्रिय पारावत प्राज्ञ श्येनः स प्रबलो रिपुः ।। १४।।
भक्षयिष्यति नौ नाथ यावः स्थानान्तरं प्रभो ।
विधवात्वं विधुरत्वं यद्वा द्वयोर्विनाशनम् ।। १५।।
श्येनेन चेत् कृतं स्याद्वै महापत्तिमयं भवेत्। ।
पत्नीव्रतं तव स्वामिन् मम स्वामिव्रतं तथा ।। १६।।
विलुप्येत परो लोकः प्रतिबध्येत तेन वै ।
इति श्रुत्वा कलरव्याः साध्व्या प्राह पतिस्तु ताम् ।। १७।
दुर्गात्ममन्दिरे साध्वि! नास्ति चिन्ता हराश्रये ।
वस्तव्यं त्वद्यदिवसात् सुनिपूणतया प्रिये ।। १८।।
दुर्गस्थो नाभिभूयेताऽबलोऽपि केनचित् क्वचित् ।
मन्दिरं दुर्गरूपं वै वर्तते तत्र किं भयम् ।। १९।।
नैतादृशं वै लप्स्येत स्वाश्रयं सुस्थलान्तरम् ।
इति पारावतवाक्यं श्रुत्वा पारावती तदा ।।1.472.२०।।
मौनमालम्ब्य तत्रैव पत्युः पादार्पितेक्षणा ।
हितवर्त्मोपदिश्याऽपि प्रियप्रियचिकीर्षया ।।२१ ।।
साध्व्या जोषं समास्थेयं कार्यं पत्युर्वचः सदा ।
अन्येद्युरप्यथाऽयातः श्येनोऽपश्यत् स दम्पतीम् ।।२२।।
अपरिच्छिन्नया दृष्ट्या प्रासादं परितो भ्रमन् ।
अनाधृष्यौ शृंगमध्ये स्थितौ मत्वा ययौ हि सः ।।२३।।
गतेऽथ नभसि श्येने पुनः पारावती पतिम् ।
प्रोवाच प्रेयसी नाथ दृष्टो दुष्टो विघातकः ।।२४।।
अवश्यं स कदाचिद्वै नौ विघ्नं हि करिष्यति ।
तस्मात् स्थानान्तरं नाथ गन्तव्यं सुखदं भवेत् ।।२५।।
तस्या वाक्यं समाकर्ण्य पुनः कलरवोऽब्रवीत् ।
किं करिष्यत्यसौ मुग्धे! दुर्गे स्वर्गसमं हि नौ ।।२६।।
यत्र तस्य प्रवेशो न न जानाति प्रवेशिकाम् ।
देवसौधान्तरे वासो योगक्षेमकरः प्रिये ।।२७।।
यदि दैवाद्गगनेऽपि भवेदाकस्मिकोऽभिगः ।
तथापि वेद्मि ता गतीर्या न वेत्ति ममाऽहितः ।।२८।।
प्रडीनोड्डीनसण्डीनकाण्डव्याडकपाटिकाः ।
स्रंसनीमण्डलवती गतयोऽष्टावुदाहृताः ।।२९।।
भ्रमणं रेचनं स्यन्दमूर्ध्वयानं च वक्रता ।
पतनं मूर्छनं बद्धं गतयोऽष्टौ तथाऽपराः ।।1.472.३ ० ।।
सर्वा जानामि मे तत्र कौशल्यं सर्वथा प्रिये ।
यथा तथाऽम्बरे नास्ति पक्षिणोऽन्यस्य मत्समम् ।।३ १ ।।
सुखेन तिष्ठ का चिन्ता मयि जीवति ते प्रिये ।
इतिपत्युर्वचः श्रुत्वा सा स्थिता मूकवत् सती ।।३२।।
अपरेद्युरपि श्येनस्तत्र पद्मशिलोपरि ।
कियन्तं कालमासाद्योपविष्टोऽतिप्रहृष्टहृत् ।।३३।।
मार्गं त्वन्तःप्रवेशस्य भ्रमित्वा समलोक्य च ।
पुनर्ययौ व्योममार्गं दृष्ट्वा त्वन्तःस्थितौ तु तौ ।।३४।।
अथ भीता सती पारावती प्राह पुनः पतिम् ।
प्रिय! स्थानमिदं त्याज्यं शत्रुदृष्टिविदूषितम् ।।३५।।
असौ क्रूरोऽतिवेलं वै समायाति जिघृक्षया ।
श्रुत्वा प्रियावचः प्राह किं करिष्यत्यसौ प्रिये ।।३६।।
योषितां तु निसर्गोऽयं प्रायशो भीरुवृत्तिता ।
अथेतरेद्युरपि स श्येनः प्राप्तो जिघृक्षया ।।३७।।
ययोरभिमुखस्तत्र स्थितो यामद्वयावधिम् ।
पुनर्विलोक्य तौ शीघ्रं ययौ ततश्च साऽऽह तम् ।।३८।।
नाथ स्थानान्तरं यावो मृत्युर्नौ निकटोऽत्र यत् ।
गतिस्तेऽभिहिता नैकविधाऽत्र किं तवाऽऽग्रहः ।।३९।।
यत्र क्वापि निवत्स्यावः सिद्धिरुद्योगसन्मुखा ।
सोपसर्गं निजं देशं यो न त्यजति मानवः ।।1.472.४०।।
स पंगुर्नाशमाप्नोति बल्यपि दैववर्जितः ।
प्रियोदितं खगो नैव मेने भाविदशार्दितः ।।४१ ।।
प्राह मा भैः खगात् साध्वि स्थानं नैतादृशं परम् ।
अथाऽपरस्मिन्नहनि स श्येनः प्रातरेव तु ।।४२।।
तन्मार्गदेशमासाद्य सायं यावत् स्थितो बलः ।
सूर्यास्ते तु खगे याते प्राह पारावती पतिम् ।।४३ ।।
नाथ निर्गमनस्याऽयं कालोऽस्तीदं गृहं त्यज ।
त्यक्त्वा मामपि निर्याहि पश्चाद् योग्यं भविष्यति ।।४४।।
त्वयि जीवति दुष्प्राप्यं न किञ्चिज्जगतीतले ।
पुनर्दाराः पुनर्मित्रं पुनर्वसु पुनर्गृहम् ।।४५।।
आत्मा चेद् रक्षितः पुंसा दारैरपि धनैरपि ।
प्रियो बन्धुरयमात्मा रक्षणीयो महद्धनम् ।।४६।।
धर्मार्थकाममोक्षाणामयमात्माऽर्जकः परः ।
यावदात्मनि वै क्षेमं तावत् क्षेमं जगत्त्रये ।।४७।।
अतः क्षेमकरं वाक्यं ममश्रुत्वा नयान्वितम् ।
इतोऽन्यत्र व्रज स्वामिन्नन्यथा मां स्मरिष्यसि ।।४८।।
इत्युक्तोऽपि स वै पत्न्या पतिसेवासुमेधया ।
न निर्ययौ ततः स्थानाद् भवित्र्या प्रतिवारितः ।।४९।।
अथोषसि समायातः श्येनः प्राह प्रसह्य तम् ।
आगच्छ स्थानतो बाह्ये त्वद्य भक्ष्यो भविष्यसि ।।।1.472.५०।।।
यद्वा क्षुधितश्चाहं वै स्वार्थी कष्टं न पश्यति ।
आगच्छामि गृहान्तस्ते प्रिये वा मारयामि वा ।।५१ ।।
इत्युक्त्वाऽन्तःप्रविश्यैव श्येनेन चरणेन सः ।
धृतः खगस्ततश्चत्र्च्वा बलिना सा धृता खगी ।।।५२।।
आक्रोशं चक्रतुस्तौ वै न वै केनापि रक्षितौ ।
श्येनस्तं भक्षितुं स्थानं निर्विघ्नं चिन्तयन्मुहुः ।।५३।।
व्योम्नि संभ्रमणं चक्रे तावत् खग्या सुमेधया ।
कथितं नाथ वचनं त्वन्तिमं मेऽनुवर्तय ।।५४।।
चञ्च्वा त्वात्मविमुक्त्यै त्वमरेः पादं दृढं दश ।
इत्यादिष्टश्चकारैवं श्येनः पीडां जगाम ह ।।५५।।
अत्यतिदंशितः श्येनश्चित्कारान् कृतवाँस्तदा ।
पारावती मुखात्तस्य निःसृता कलया बलात् ।।५६।।
सापि पृष्ट मुहुश्चञ्च्वा पद्भ्यां जघान घातकम् ।
तेन पारावतश्चापि मुक्तस्त्वाकुलितेन वै ।।५७।।
उभाभ्यां मूर्छितः श्येनो विपद्यवि समुद्यमात् ।
दुर्बलेऽप्युद्यमवति फलं भाग्यं ददाति वै ।।५८।।
प्रशंसन्त्युद्यमं तस्मात् सर्वावस्थासु रागिणः ।
अथ तौ क्षतमापन्नावपि भाग्यवशात् खलु ।।५९।।
जीववन्तौ सरय्वाश्च नद्यास्तटे मनोहरे ।
चिरं साकेतनगरे स्थित्वा मृत्युमुपागतौ ।।1.472.६०।।
पक्षी तत्राऽभवद् विद्याधरो मन्दारदामजः ।
अनेकविद्यानिलयो नाम्ना परिमलालयः ।।६१ ।।
कौमारं वय आसाद्य शिवभक्तिपरोऽभवत् ।
नियमं चातिजग्राह ब्रह्मचर्यपरायणः ।।६२।।
एकपत्नीव्रतं श्रेष्ठं चरिष्यामि ऋतुस्थितम् ।
यावज्जीवं महादेवमनर्च्याऽश्नामि नाण्वपि ।।६३।।
एवं करोति नित्यं स नियमं त्वथ सा खगी ।
रत्नावलीति नाम्नाऽभून्नागकन्या सतीवृषा ।।६४।।
कामरूपधरा नित्यं साकेतारण्यवासिनी ।
तस्याः सखीद्वयं त्वासीत् प्रभावती कलावती ।।६५।।
सुरूपे यौवनं प्राप्ते कामरूपधरे शुभे ।
रत्नावली युवत्यपि जग्राह नियमं सती ।।६६ ।।
शंभुं प्रातः सटा दृष्ट्वा मौनं त्यक्ष्यामि नान्यथा ।
दिने दिने तु सा नैकवर्णगन्धसुपुष्पकैः ।।६७।।
मालाचन्दनदीपाद्यैः पूजयित्वा हरं ततः ।
तिस्रोऽपि गीतं गायन्ति लसद्गान्धारसुन्दरम् ।।६८।।
रासमण्डलभेदैश्च लास्यं तिस्रोऽपि कुर्वते ।
वीणावेणुमृदंगांश्च लयतालविचक्षणाः ।।।६९।।
वादयन्ति मुदा युक्तास्तिस्रो नागकुमारिकाः ।
विचित्रगन्धमालाभिः सम्मार्जनविलेपनैः ।।1.472.७०।।
सेवयन्ति हरं नित्यं नृत्यगीतसुभोजनैः ।
वैशाखे त्वेकदा तिस्रस्तृतीयायामुपोषिताः ।।७१ ।।
चक्रुर्जागरणं रात्रौ प्रातः पूजां प्रचक्रिरे ।
साधून् संभोजयामासुस्ततो मध्याह्नके क्षणे ।७२।।
नैवेद्यं ता ददुर्मिंष्टं जलं च शंकराय वै ।
आरार्त्रिकं प्रचक्रुश्च पुष्पाञ्जलीन् ददुर्यदा ।।७३।।
तावच्छ्रीशंकरस्तुष्टः साक्षात् तासां बभूव ह ।
शुद्धकर्पूरगौरांगो जटामुकुटमण्डलः ।।७४।।
सत्यधिश्रितवामोरुर्नागयज्ञोपवीतिकः ।
प्रसन्नवदनो देवः कामारिर्मोक्षदायकः ।।७५।।
तं विलोक्य तु ताः कन्या बभूवुः पुलकांकिताः ।
ववन्दिरे तुष्टुवुश्च सन्नकण्ठ्योऽतिगद्गदम् ।।७६।।
जय शंभो जय भक्तवत्सल प्रजय प्रभो ।
जय साध्वीपते पशुपते विश्वपते जय ।।७७।।
जय मोक्षपते भक्तपते पावन शंकर ।
जयस्तेऽस्तु नमस्तेऽस्तु नमस्तुभ्यं नमो नमः ।।७८।।
इत्युक्त्वा दण्डवत् भूमौ प्रणिपेतुः कुमारिकाः ।
ताः समाश्लिष्य भगवान् समुवाच कृपानिधिः ।।७९।।
सुतो मन्दारनाम्नो यो नाम्ना परिमलालयः ।
पतिर्विद्याधरवरो भवतीनां भविष्यति ।।1.472.८०।।
चिरं विद्याधरे लोके भोगान् भुक्त्वा समन्ततः ।
ततो निर्वेदमापन्ना मोक्षसिद्धिमवाप्स्यथ ।।८ १ ।।
यूयं तिस्रोऽपि मे भक्ताः स च विद्याधरो मम ।
चत्वरोऽप्येत एवात्र प्रान्ते मोक्षमवाप्स्यथ ।।८२।।
जन्मान्तरे पुरा सेवा युष्माभिर्विहिता मम ।
तेनापि विहितं दास्यं व्रतं ब्रह्मव्रतं तथा ।।८३।।
तेन पुण्येन भगवान् कृष्णनारायणः स्वयम् ।
गुरुर्मे भवतीनां च मोक्षदाता भविष्यति ।।८४।।
भवन्तु च महाभाग्यवत्यः कृष्णपतिव्रताः ।
अहं जपामि सर्वेशं कृष्णनारायणं पतिम् ।।८५।।
भवत्योऽपि भजन्त्येनं गृह्णन्त्वस्य मनुं परम् ।
प्रसादं च जलं त्वेतद् गृह्णन्त्वच्युतसेवितम् ।।८६।।
इति कृत्वा हरस्ताभ्यो ददौ मनुं सुमोक्षदम् ।
ओं नमः श्रीकृष्णनारायण स्वामिने नमः ।।८७।।
त्रिवारं सम्प्रदायैव ददौ तुलसिकादलम् ।
तुलसीमालिकां चापि कण्ठे करे च सन्ददौ ।।८८।।
बिन्दुं ददौ ललाटेऽथ चन्दनस्य हरः स्वयम् ।
एवं दत्वातु विधिना प्रतिमां मणिनिर्मिताम् ।।८९।।
प्राह स्वस्ति सदा चास्त्वखण्डसौभाग्यमच्युते ।
वैष्णवीत्वं सदा कृष्णे दास्यं पतिव्रतं तथा ।।1.472.९०।।
आराधनं तथा कृष्णनारायणेऽस्तु सर्वदा ।
पतिसेवा कृष्णसेवा विना भेदं सदाऽस्तु वः ।।९१ ।।
इत्युक्त्वा शिरसि दत्वा करं त्वदृश्यतां गतः ।
तास्तु प्रहृष्टहृदया गत्वा गृहं जगुर्मुदा ।।।९२।।
दिव्यभावं समापन्ना भित्त्याद्यावरणादिभिः ।
अनिरुद्धा व्योममार्गगतयः कमला यथा ।।९३।।
पूर्वजातिस्मराः सत्यो ब्रह्मचर्यपरायणाः ।
कृष्णभक्तिपराः शंभोरादेशात् सात्त्वतीमुखाः ।।९४।।
जीवन्मुक्ताः प्रसञ्जाताः स्वतन्त्रगतिका इह ।
लक्ष्मि! पारावतः पूर्वे द्विजो नारायणाह्वयः ।।।९५।।।
आमुष्यायणपुत्रोऽभूत् पितृशुश्रूषणव्रतः ।
सर्पदंष्टो मृतश्चाथ सोऽयं पारावतोऽभवत् ।।९६।।
चारायणस्य पुत्र्यौ द्वे भवानी गौतमी तथा ।
आमुष्यायनपुत्रस्य पत्नी नारायणस्य ते ।।९७।।
वैधव्यदुःखमापन्ने दैन्यग्रस्ते बभूवतुः ।
अथर्षेः कस्यचिद् दैवादाश्रमे परमाद्भुते ।।९८।।
रंभाफलानि संगृह्य खादतः स्म तदा मुनेः ।
शापात्ते कन्यके नष्टे वानर्यौ ते बभूवतुः ।।९९।।
जले पतित्वा तत्यजतुः प्राणाँस्तीर्थोत्तमे ततः ।
ते जाते नागकन्ये वै देवालयाश्रमाश्रयात् ।।1.472.१ ० ०।।
कृष्णधर्मपरे साध्व्यौ प्रभावती कलावती ।
परिमलालयविद्याधरपत्न्याः सखीद्वयम् ।। १०१ ।।
पितृभ्यां ते प्रेमवत्यौ ज्ञात्वा विद्याधरे शुभे ।
परिमलालये पश्चात्तस्मै दत्ते विवाहिते ।। १ ०२।।
एवं पत्नीत्रयं रत्नावली प्रभा कलावती ।
कृष्णनारायणे रक्ता पातिव्रत्यपरायणा ।। १०३ ।।
कृष्णनारायणं नित्यं भजन्ते स्म सुखान्विताः ।
पूजां जपं च नैवेद्यं स्तुतिं नीराजनं क्षमाम् ।। १ ०४।।
पुष्पांजलिं प्रकुर्वन्ति नित्यं नैमित्तिकोत्सवान् ।
कार्तिके कृष्णपक्षे ता अष्टम्यां कृष्णपूजनम् ।। १ ०५।।
जयन्तीं ता अभिप्रेत्य कृष्णव्रतं प्रचक्रिरे ।
गोलोकात्तु स्वयं कृष्णो राधारमाप्रभापतिः ।। १०६ ।।
आजगाम विमानेन नेतुं ताः पतिसंयुताः ।
दिव्यं स्वं दर्शनं दत्वा नीत्वा विमानकोत्तमे ।। १ ०७ ।।
ययौ गोलोकमेवासौ मुक्तिं दास्यात्मिकां ददौ ।
वद् लक्ष्मि न कृष्णाऽग्रे भक्तानां भिन्नभावना ।। १ ०८।।
यत्र क्वापि प्रसूतोऽपि भक्तो हरिपदं लभेत् ।
सर्वे वै बालकास्तस्य कृष्णानारायणस्य वै ।। १ ०९।।
तं भजित्वा प्रयान्त्येव परमं धाम शाश्वतम् ।
श्रीकृष्णस्य कथामेतां श्रुत्वा पापाद् विमुच्यते ।। 1.472.१ १० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पारावतदम्पत्यौ शिवमन्दिराश्रयेण विद्याधरजन्म ललभतुः, परिमलालयविद्याधरस्य रत्नावलीप्रभावतीकलावतीपत्नीत्रयम्, कार्तिककृष्णाष्टमीव्रतेन कृष्णपातिव्रत्येन चत्वारोऽपि ते मुक्तिं जग्मुरितिनिरूपणनामाद्वासप्तत्यधिकचतुश्शततमोऽध्यायः ।।४७२।।