लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४७०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४६९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४७०
[[लेखकः :|]]
अध्यायः ४७१ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! सर्पजातौ पतिव्रता वृषं शुभम् ।
यमुनायास्तटे रम्ये ययौ कृष्णो बलान्वितः ।। १ ।।
गोपालकवृषैर्गाभिर्विजहार जलान्तिकम् ।
गावो वृषास्तथा बालाः पपुर्वारि तृषातुराः ।। २ ।।
विषाक्तं तज्जलं त्वासीत् कालीयसर्पवासतः ।
केचिन्मूर्छां गतास्तत्र त्वन्ये प्राणांश्च तत्यजुः ।। ३ ।।
कृप्णनारायणो ज्ञात्वा जीवयामास तांस्तदा ।
कृष्णः कदम्बमारुह्य कृत्वा देहं महत्तमम् । । ४ ।।
पपात जलमध्ये स नागस्योपरि माधवः ।
नैकहस्तप्रमाणं तु जलोत्थानं तदाभवत् ।। ५ ।।
स सर्पो मानुषं दृष्ट्वा दुद्राव क्रोधवेगतः ।
बद्धुं तं मानुषं रूपं यावज्जग्राह तं हरिम् ।। ६ ।।
तप्तलोहसमं जातं कृष्णवर्ष्म हि तेजसा ।
दग्धकण्ठोदरो नागस्तूद्विग्नः कृष्णतेजसा ।। ७ ।।
प्राणा यास्त्येवमुक्त्वा वै चकारोद्वमनं पुनः ।
भग्नदन्तो रक्तमुखः कृष्णवज्रांगचर्वणात् ।। ८ ।।
रक्तवक्त्रस्य भगवानुत्तस्थौ मस्तकोपरि ।
नागो विश्वंभराक्रान्तः पपात मूर्छितः प्रिये ।। ९ ।।
पुनः स चेतनां प्राप्य फणाभिः श्रीनरायणम् ।
स्वपुच्छेन मुहुर्युक्त्या श्रीकृष्णं समताडयत् ।। 1.470.१ ०।।
भगवान् श्रीहरिः कलानिधिस्तून्नमितां फणाम् ।
पल्लतया पुनर्युक्त्या तताड च ननर्त च ।। ११ ।।
फणा शिथिलतां प्राप्ता सर्पोऽभूत्तु मृदुर्बहुः ।
मूर्छितं तं तदा दृष्ट्वा नागिन्यो रुरुदुर्भृशम् ।। १ २।।
पतिप्राणाः स्वामिधर्माः पत्यर्थं कृतजीवनाः ।
तासु श्रेष्ठा सुरसाख्या पत्नी तस्य शुभा सती ।।१ ३।।
नागिनीभिः सह प्रेम्णा रुरोद पुरतो हरेः ।
बद्धाञ्जलिपुटा तूर्णं प्रणम्य श्रीहरिं सती ।। १४।।
धृत्वा पादारविन्दं श्रीकृष्णमाह भयाकुला ।
हे जगत्कान्त मे कान्तं देहि मानं सुमानद ।। १५।।
पतिः प्राणाधिकः स्त्रीणां नास्ति बन्धुस्तु तत्परः ।
पतिव्रताऽहं नागस्य पत्नी स्वेच्छास्वरूपिणी ।। १ ६।।
नागे मृगे च वैधव्यदुःखिता स्यां ततः प्रभो ।
मरणं मे प्रथमं च कुरु मे स्वामिनस्ततः ।। १७।।
तन्नाशे मम नाशोऽस्ति स्त्रीहत्या ते भविष्यति ।
नागपत्नीवचः श्रुत्वा श्रीकृष्णस्तामुवाच ह ।। १८।।
उत्तिष्ठोत्तिष्ठ नागेशि वरं वृणु भयं त्यज ।
गृहाण कान्तं नागेशि चिरजीवाऽजरामरा ।। ६ (ऽ।।
यमीह्रद्रं परित्यज्य सकुटुम्बाऽन्यतो व्रज ।
खण्डं रमणकं गच्छ तत्र संसुखिनो भव ।। 1.470.२०।।
यत्पादपद्मचिह्नेन गरुडस्त्वत्पति शुभे ।
कृत्वा तु स्तवनं भक्त्या प्रणमिष्यति मत्पदम् ।। २१ ।।
श्रुत्वदं सा भक्तिनम्रा सुरसोवाच माधवम् ।
त्वत्पादाब्जे दृढा भक्तिं निश्चला देहि मे हरे ।। २२।।
मन्मनस्त्वत्पदाम्भोजं भ्रमतु भ्रमरो यथा ।
स्वकान्तं मम सोभाग्यं सर्वदा देहि मे विभो ।। २३।।
एवं सम्प्रार्थ्य सुरसा ददर्श श्रीहरेर्मुखम् ।
लोचनाभ्यां पपौ वक्त्रं निमेषरहितं सता ।। २४।।
सर्वांगपुलकोद्भिन्ना सानन्दाश्रुपरिप्लुता ।
उवाच पुरतः कृष्णं भक्त्युद्रेकपरिप्लुता ।। २५।।
न यास्यामि रमणकं तत्र मे न प्रयोजनम् ।
सर्पः करोतु संसारे कुरु मां तव किंकरीम् ।। २६।।
नागपत्न्या वचः श्रत्वा श्रीश ओमित्युवाच ह ।
एतस्मिन्नन्तरे तूर्णं रथो दिव्यः समागतः ।। २७।।
पार्षदप्रवरैर्युक्तो दिव्यवस्तुपरिच्छदः ।
अवरुह्य शतचक्राद्रथाच्छ्रीकृष्णपार्षदाः ।। २८।।
प्रणम्य कृष्णं तां नीत्वा जग्मुर्गोलोकमुत्तमम् ।
कृष्णश्छायां विनिर्माय ददौ सर्पाय सर्पिणीम् ।।२९।।
सर्पः किञ्चिन्न बुबुधे चमत्कारं कदम्बिनः ।
अवरुह्य हरिर्मूध्नो ददौ हस्तं तु भोगिनि ।।1.470.३० ।।
सर्पः प्रबोधमासाद्य ददर्श पुरतो हरिम् ।
नागिनी साश्रुनेत्रां च सुरसां स्वपतिव्रताम् ।।३ १ ।।
बालकृष्णं नमस्कृत्य रुरोद प्रेमविह्वलः ।
श्रीकृष्णस्तं परं भक्तं वरं वृण्वित्युवाच ह ।।३२।।
त्वं मे भक्तो यतः सर्प सुखं तिष्ठ भयं त्यज ।
तस्याऽहमनुगृह्णामि यो मे भक्तोऽतिगाऽर्पितः ।।३३।।
किञ्चित्तद्दमनं कृत्वा तत्प्रसादं करोम्यहम् ।
त्वद्वंशजातान् सर्पांश्च हन्ति यो मानवः क्वचित् ।।३४।।
ब्रह्महत्यासमं पापं भविता तस्य निश्चितम् ।
मत्पादपद्मचिह्ने यः करोति दण्डघातनम् ।।३५।।
द्विगुणा ब्रह्महत्या वै भविता तस्य निश्चिता ।
लक्ष्मीर्यास्यति तद्गेहाच्छापं दत्वा सुदारुणम् ।।३६।।
वंशायुर्यशसां हानिर्भविता तस्य निश्चितम् ।
देहान्ते तस्य मृत्युश्च सर्पदंशाद् भविष्यति ।।३७।।
तस्य वंशोद्भवानां च त्वद्वंशाद् भविता भयम् ।
ये तु त्वद्वंशजान् दृष्ट्वा सुपदांकं मदीयकम् ।।३८।।
प्रणमिष्यन्ति भक्त्या ते मोक्ष्यन्ते चौरगाद् भयात् ।
गच्छ शीघ्रं रमणकं त्यज भीतिं खगाधिपात् ।।३९।।
मत्पदाङ्कं तव मूर्ध्नि दृष्ट्वा पक्षी नमिष्यति ।
तव त्वद्वंशजानां च गरुडान्न भयं क्वचित् ।।1.470.४०।।
वरं चाप्यपरं सर्प वाञ्छितं वरयाऽधुना ।
इत्युक्तः प्राह कालीयो भक्तिं देहि स्मृतिं तव ।।४१।।
दास्यं देहि त्वत्पदाब्जे ध्रुवं जन्मनि जन्मनि ।
तद्भवेत् सफलं यत्र स्मृतिस्त्वच्चरणाम्बुजे ।।४२।।
तन्निष्फलः स्वर्गवासो नास्ति चेत् त्वत्पदस्मृतिः ।
त्वत्पादध्यानयुक्तस्य यत्तत्स्थानं तु तत् परम् ।।४३।।
क्षणं वा कोटिकल्पं वा पुरुषायुः क्षणोऽस्तु वा ।
यदि त्वत्सेवया याति सफलो निष्फलोऽन्यथा ।।४४।।
तेषां त्वायुर्व्ययो नास्ति ये त्वत्पादाब्जसेवकाः ।
न सन्ति जन्ममरणरोगशोकाऽऽर्तिभीतयः ।।४५।।
सम्प्राप्तस्त्वन्मनुर्ब्रह्मन्ननन्ताद् यावदेव तु ।
तावत् त्वद्भावनेनैव त्वद्वर्णोऽहमनुग्रहात् ।।४६।।
मां तु भक्तमपक्वं वा विज्ञाय गरुडः स्वयम् ।
देशाद् दूरं च न्यक्कारं चकार दृढभक्तिमान् ।।४७।।
भवता तु दृढां भक्तिं दत्वाऽहं स्वीकृतः स्वकः ।
गरुडश्च समुक्तस्तु मा भक्तं खाद चोरगम् ।।४८।।
अनुगृहीतश्चाहं संरक्षितः सर्वदा त्वया ।
हे नाथ करुणासिन्धो दीनबन्धो क्षमाऽधमम् ।।४९।।
इति ब्रुवन्तं नागेन्द्रमोत्वित्याह हरिस्तदा ।
नागेन्द्राय वरं दत्वा गच्छेत्याह हरिः पुनः ।।1.470.५ ०।।
सर्पः प्राह कदा विष्णो द्रक्ष्यामि त्वत्पदाम्बुजम् ।
प्रणम्य शतकृत्वश्च ययौ रमणकं स्थलम् ।।५१ ।।
जलं जातं सुधाकल्पं प्रसन्नाः सर्वजन्तवः ।
शृणु लक्ष्मि तस्य पूर्वस्थलत्यागस्य कारणम् ।।।५२।।
शेषाज्ञया नागगणा प्रतिसंवत्सरं भिया ।
कार्तिकीपूर्णिमायां तु कुर्वन्ति गरुडार्चनम् ।।५३।।
पुष्पैर्धूपैः सुदीपैः सन्नैवेद्यैर्बलिभिस्तथा ।
पुष्करे ते महातीर्थे सुस्नातास्तस्य पूजनम् ।।५४।।
चक्रुस्तदा तु कालीयो न चकाराऽप्यहंकृतः ।
नागपूजोपकरणं बलाद् भक्षितुमुद्यतः ।।५५।।
तावत्तत्र समायातो गरुडो युयुधे तु तैः ।
कालीयजातीयसर्पैः सर्पास्तेन पलायिताः ।।५६ ।।
अनन्तं शरणं जग्मुस्तत्र गत्वा तु पक्षिराट् ।
युद्धं चकार तुमुलं त्वनन्तं जितवान् खगः ।।५७।।
कालीयस्तु विदुद्राव जगाम यमुनाह्रदम् ।
न तं सौभरिशापेन खगेन्द्रो गन्तुमीश्वरः ।।५८।।
गरुडस्त्वेकदा पूर्वं मत्स्यभक्षणवाञ्छया ।
तपतः सौभरेर्यमीतटस्थस्य समीपतः ।।५९।।
जग्राह चञ्चुना मीनं मीनोऽपि दैवयोगतः ।
चञ्च्वा वियुक्तो निकटे पपात सौभरेस्तदा ।।1.470.६ ० ।।
शरणागतरक्षां संकुरु चेत्याह मीनराट ।
मुनिराह गरुडं तं पुनरादातुमुद्यतम् ।।६ १ ।।
गच्छ दूरं गच्छ दूरं खगेन्द्र मत्समीपतः ।
करोमि भस्मसात्तूर्णं यद्यागच्छसि मे ह्रदम् ।।६२।।।
मदीयशापात् तूर्णं त्वं भस्मसाद् भवितासि वै ।
सौभरेस्तु वचः श्रुत्वा प्रचचाल खगेश्वरः ।।६३ ।।
स्मारं स्मारं कृष्णपादं तं प्रणम्य जगाम ह ।
इतिहेतोर्गरुडः स नायाति यमुनाह्रदम् ।।६४।।
अतो निर्भयतामाप्य कालीयस्तत्र संस्थितः ।
श्रीकृष्णस्य प्रतापेन दिव्यो भक्तेऽभवत्ततः ।।६५ ।।
गतो रमणकं खण्डं नागिन्याश्छायया सह ।
मूलरूपा तु मोक्षं सा सुरसा संजगाम ह ।।६६।।
नागरूपाऽपि तिर्यञ्ची पातिव्रत्यपरायणा ।
पतिं प्राप्त्वा रक्षयित्वा भूत्वा द्वेधाऽच्युताऽर्थनात् ।।६७।।
कृष्णदास्यं गता धाम्नि पत्यौ छायाऽप्यवर्तयत् ।
एवं रक्षा कृता चापि कृष्णनारायणेन वै ।।६८।।
किमस्ति दुर्लभं लक्ष्मि! भगवद्ध्यायिनोऽत्र वै ।
परत्रापि च दौर्लभ्यं सौलभ्ये परिवर्तते ।।६९।।
तस्माद् ध्येयः सदा कृष्णः सुखवाञ्च्छाप्रपूरकः ।
पठनाच्छ्रवणाच्चास्य नागभीतिर्न जायते ।।1.470.७०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने यमुनाह्रदस्थकालीयसर्पस्य पतिव्रतायाः सुरसानागिन्या भगवत्प्राप्तिः पतिसौभाग्यसातत्यं, नागभक्षकगरुडस्य सौभरिशापात् यमुनाह्रदे सर्पस्य निर्भयता, पश्चाद् रमणके वास इत्यादिनिरूपणनामा सप्तत्यधिकचतुश्शततमोऽध्यायः ।। ४७० ।।