लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४६७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४६६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४६७
[[लेखकः :|]]
अध्यायः ४६८ →

श्रीनारायण उवाच--
शृणु लक्ष्मि! कलावत्या वृषभानोस्तु योषितः ।
पतिव्रतायाः सामर्थ्यं प्रवदामि महोत्तमम् ।। १ ।।
पितॄणां मानसी कन्या कमलांशा कलावती ।
सुन्दरी वृषभानस्य पतिव्रतपरायणा ।। २ ।।
यस्यास्तु तनया राधा कृष्णप्राणाधिका प्रिया ।
श्रीकृष्णार्धांशसम्भूता तेन तुल्या च तेजसा ।। ३ ।।
बभूवुः कन्यकास्तिस्रः पितॄणां मानसात्पुरा ।
कलावती रत्नधन्या मेनका च दिनान्तरे ।। ४ ।।
रत्नधन्या तु जनकं वरयामास भूभृतम् ।
हिमाचलं हरेरंशं वरयामास मेनका ।। ५ ।।
रत्नधन्यासुता सीता रामपत्नी पतिव्रता ।
मेनापुत्री सती शंभुपत्नी च पार्वती तथा ।। ६ ।।
अयोनिसंभवे चोभे पतिव्रते रमे शुभे ।
कलावती सुचन्द्रं तु वरयामास सत्पतिम् ।। ७ ।।
मनुवंशीयनृपतिं प्राप्य वर्षसहस्रकम् ।
रेमे राज्ये ततो राजा संविरक्तो बभूव ह ।। ८ ।।
जगाम तपसे विन्ध्यशैलं सह स्वयोषिता ।
पुलहाश्रममासाद्य तपस्तेपेऽतिदारुणम् ।। ९ ।।
मोक्षाकांक्षी निराहारो दिव्यवर्षसहस्रकम् ।
समाधिमाप नृपतिर्ध्यात्वा कृष्णपदाम्बुजम् ।। 1.467.१ ०।।
तद्गात्रव्याप्तवल्मीकं पत्नी दूरं चकार सा ।
निश्चेष्टितं पतिं दृष्ट्वा प्राणाऽसञ्चारविग्रहम् ।। ११ ।।
मांसशोणितशून्यं तमस्थिसंसक्तविग्रहम् ।
शोकं चकार सा राज्ञी सा रुरोद कलावती ।। १२।।
हे नाथनाथेत्युच्चार्य पातिव्रत्यपरायणा ।
श्रुत्वा तु रोदनं तस्याः कृपया स कृपालयः ।। १३।।
आविर्बभूव जगतां पितामहो ह्यजः स्वयम् ।
ब्रह्मा तां च नृपं चापि विलोक्य शोकमाप ह ।। १४।।
ततः कमण्डलुजलेनासिच्य नृपविग्रहम् ।
जीवं संचारयामास ब्रह्मशक्त्या स विश्वसृट् ।। १५।।
राजा तु पुरतो दृष्ट्वा जगद्धातारमेव तम् ।
प्रणनाम प्रतुष्टाव प्रसन्नवदनेक्षणम् ।। १६।।
ब्रह्मा नृपं समुवाच वरं वृणु यथेप्सितम् ।
राजा वव्रे तु निर्वाणं नित्यमोक्षं परं पदम् ।। १७।।
श्रुत्वा ब्रह्मा वरं दातुमुद्यतस्त्वभवद् यदा ।
कलावती महासाध्वी ब्रह्माणमाह सादरम् ।। १८।।
यदि मुक्तिं नृपेन्द्राय ददासि कमलोद्भव ।
ततोऽबलाया हे ब्रह्मन् का गतिर्मे विना धवम् ।। १ ९।।
विना कान्तं तु कान्तानां का शोभा विधवात्मनि ।
व्रतं त पतिव्रतायाश्च पतिरेव श्रुतौ मतम् ।।1.467.२० ।।
गुरुश्चाभीष्टदेवो हि तपोधर्ममयः पतिः ।
सर्वे वै बान्धवाः श्रेष्ठाः पतितुल्या न योषिताम् ।।२१ ।।
सर्वेषां तु प्रियतमो बन्धुर्न स्वामिनः परः ।
सर्वधर्मात् परा ब्रह्मन् पतिसेवा सुदुर्लभा ।।२२।।
व्रतं दानं तपः पूजा जपहोमादिकं तु यत् ।
स्वामिसेवाविहीनायाः सर्वं तन्निष्फलं भवेत् ।। २३।।
सर्वतीर्थेषु च स्नानं तथा पृथ्च्याः प्रदक्षिणा ।
सर्वयज्ञेषु दीक्षा च महादानव्रतानि वै ।।२४।।
वेदानां पठनं चापि यावन्त्यपि तपांसि च ।
सतामर्थे भोजनं च विप्रार्चा देवसेवनम् ।।२५।।।
चातुर्मास्यतपकृच्छ्रचान्द्रायणादिकं तथा ।
एतानि स्वामिसेवायाः कलां नार्हन्ति षोडशीम् ।।२६।।
स्वामिसेवाविहीना या वदन्ति स्वामिने कटु ।
पतन्ति कालसूत्रे ता यावच्चन्द्रदिवाकरौ ।।२७।।
सर्पाश्च कृमयस्तत्र दशन्ति ता दिवानिशम् ।
मूत्रश्लेष्मपुरीषाणां भक्षणं कारयन्ति ताः ।।२८।।
तासां मुखे ददत्येवमुल्कास्तु यमकिंकराः ।
एवं वै यातना भुक्त्वा कृमियोनिं प्रयान्ति ताः ।।२९।।
भक्षन्ति तत्र मलिनं यान्ति मानुषतां ततः ।
इतिश्रुतं मया सद्भ्यो वेदवाक्येभ्य इत्यतः ।।1.467.३ ० ।।
किं वदामि जगद्धातर्न जानाम्यबला यतः ।
त्वं पिता जगतां धाता योगी गुरुः सतां सदा ।।३ १ ।।
सर्वज्ञं किं बोधयामि मा वियोजय मां पितः ।
प्राणाऽधिकोऽयं कान्तो मे यदि मुक्तो बभूव ह ।।३२।।।
मम को रक्षिता ब्रह्मन् धर्मस्य यौवनस्य च ।
कौमारे रक्षिता तातो दत्वा पात्राय मुच्यते ।।३३।।
लग्नेन रक्षिता कान्तो यावज्जीवति वै पतिः ।
तदभावे सुतो रक्षेत् त्रातारस्ते त्रयः स्मृताः ।।३४।।
अरक्षके सती साध्वी त्वन्याश्रयमुपाव्रजेत् ।
तदधीना भवेत् तत्र पातिव्रत्यं लयं व्रजेत् ।।३५।।
बहुजन्मार्जितं पुण्यं तदा नार्या विनश्यति ।
बाल्ये च यौवने कान्ते वार्धक्येऽपि सतीस्त्रियाः ।।३६।।
पतिव्रतायाः कान्ते स्वे सर्वकाले समा स्पृहा ।
पुत्रे स्नेहो हि मातॄणां भवेत्सर्वाधिकोऽपि च ।।३७।।
पतिस्नेहस्य साध्वीनां कलां नार्हति षोडशीम् ।
पुत्रस्य स्तन्यलाभान्तो मिष्टान्ने भोजनावधि ।।३८।।।
स्वार्थिनां स्वार्थलाभान्तः स्नेहो भवति न ध्रुवः ।
कान्ते स्नेहः सतीनां तु स्वप्ने जाग्रति सन्ततः ।।३९।।
स्मृत्यन्तो बन्धुविच्छेदः पुत्राणां तु ततोऽधिकः ।
सुदारुणः स्वामिनस्तु दुःखं नातः परं स्त्रियाः ।।1.467.४० ।।
अविदग्धा यथा दग्धा ज्वलदग्नौ विषादने ।
तथाऽविदग्धा दग्धा स्यात् स्वामिनो विरहानले ।।४१ ।।
नाऽन्ने तृष्णा जले तृष्णाऽम्बरे भोग्ये न तृष्णिका ।
गृहे यशसि सौन्दर्ये साध्वीनां स्वामिनं विना ।।४२।।
विरहाग्नौ मनो दग्धं रक्तं दग्धं तथाऽऽननम् ।
भुक्तं दग्धं धनं दग्धं भवेदग्नौ तृणं यथा ।।४३।।
नहि कान्तात्परो बन्धुर्नहि कान्तात्परः प्रियः ।
नहि कान्तात् परो देवो नहि कान्तात्परो गुरुः ।।४४।।
नहि कान्तात्परे प्राणा नहि कान्तात् परः स्त्रियाः ।
नहि कान्तात्परो धर्मो नहि कान्तात् परं धनम् ।।४५।।
निमग्नं श्रीकृष्णनारायणे यथा सतां मनः ।
यथैकपुत्रे मातुश्च कृपणानां धने यथा ।।४६।।
यथा भयेषुभीतानां शास्त्रेषु विदुषां यथा ।
स्तन्यपाने शिशूनां च शिल्पेषु शिल्पिनां यथा ।।४७।।
यथा कान्ते कामिनीनां तथा प्रिये मनो मम ।
तं विना जीवितुं ब्रह्मन् क्षणमेकं न वै क्षमम् ।।४८।।
मरणं तु वरं तासां जीवनं मरणायते ।
तद्भर्तृरहितानां च सतीनां शोकचेतसाम् ।।४९।।
अन्यशोको भवेद् दूरः पानभोजनखेलनैः ।
कान्तशोको वर्धते वै पानभोजनखेलने ।।1.467.५०।।
सती नारी पतिच्छाया वियोक्तुं नार्हति क्वचित् ।
पतिपुण्यकृता मूर्तिः पत्यावेव सुसज्जते ।।५१ ।।
स्वामिना कृतपुण्यस्य फलं नारी पतिव्रता ।
फलभोगः स्वामिनोऽस्ति कथं साध्वी वियुज्यते ।।५२।।
वियोगे फलभोगो न कृतं पत्युर्निरर्थकम् ।
तस्मान्नारी सती नित्यं युयुजे स्वामिना शुभा ।।५३।।
इतरे खलु नश्यन्ति देहनाशे स्वभावतः ।
नारी कर्मफला मूर्तिः सार्था जन्मनि जन्मनि ।।५४।।
ततो ब्रह्मन् पतिं मुक्तं चेत् करोषि मया विना ।
त्वां शप्त्वा त्वां प्रदास्यामि प्रसह्य स्त्रीवधं ह्यघम् ।।५५।।
श्रुत्वा कलावतीवाक्यं विस्मितश्च प्रजापतिः ।
हितं स्यात्तु यथा सत्यास्तथोवाच भयान्वितः ।।५६ ।।
वत्से मुक्तिं न दास्यामि स्वामिनं ते त्वया विना ।
तव पुण्यं तथा त्वास्ते स्वर्गभोगेन नश्यति ।। ५७।।
मुक्तं कर्तुं त्वया सार्धं साम्प्रतं नाहमीश्वरः ।
सुते मुक्तिः पुण्यभोगं विना सर्वस्य दुर्लभा ।।५८।।
निर्वाणतां समाप्नोति धर्मी भोगेन नाशने ।
बहुकालं स्वर्गभोगं कुरुष्व स्वामिना सह ।।५ ९।।
ततश्च युवयोर्जन्म भविता यमुनातटे ।
यदा भविष्यति सती कन्या ते राधिका स्वयम् ।।1.467.६०।।
जीवन्मुक्तौ तया सार्धं गोलोकं संगमिष्यथः ।
साध्वी वै सत्त्वयुक्तेयं मा मां शप्तुं समर्हसि ।।६१ ।।
जीवन्मुक्ताः समाः सन्तः कृष्णनारायणे रताः ।
इत्यक्त्वा प्रययौ ब्रह्मा स्वालयं ययतुश्च तौ ।।६२।।
स्वर्गं भुक्त्वा सुचन्द्रश्च वृषभानुर्बभूव ह ।
पद्मावत्या हि जठरे सुरभानस्य रेतसा ।।६३।।
जातिस्मरो हरेरंशो हरिपादाब्जमानसः ।
नन्दबन्धुर्महायोगी वैष्णवः परमो महान् ।।६४।।
कलावती कान्यकुब्जे बभूवाऽयोनिसंभवा ।
जातिस्मरा महासाध्वी भनन्दस्य सुपुत्रिका ।।६५।।
यज्ञकुण्डोत्थितां तां च लब्ध्वा सुकनकप्रभाम् ।
मालावत्यै ददौ पत्न्यै सा पुपोष प्रहर्षिता ।।६६।।
चक्रे कलावतीनाम चकार सुमहोत्सवम् ।
भवन्दनो नृपतिस्तां प्रददौ वृषभानवे ।।६७।।
जातिस्मरो हरेरंशो वृषभानुरुपाददे ।
तस्यां कन्याऽभवद् राधा कृष्णनारायणप्रिया ।।६८।।
तस्या विवाहो भाण्डीरे वटे ब्रह्मा व्यधापयत् ।
कृष्णेन सह राधायाः सुखं प्रापातिराधिका ।।६९ ।।
राधैकदा सती कृष्णं वृन्दावने रहस्थले ।
कृष्णजन्मदिने कृष्णं स्नपयामास सुन्दरी ।।1.467.७०।।
यमीजलेन तत्रैव सस्मार स्वकगोधनम् ।
गोलोकादागता गावस्तस्याः स्मरणमात्रतः ।। ७ १ ।।
सुनन्दा सुमनाश्चापि सुशीला सुरभिस्तथा ।
कपिला पंचमी चेति स्ववंशविस्तरैर्युता ।।७२।।
वात्सल्यदृष्ट्या कृष्णस्य तासामूधांसि सुस्रुवुः ।
ववृषुः पयसां पूरैस्तदूधांसि पयोधराः ।।७३।।
कृष्णः संस्नापितस्ताभिः शृंगारितश्च राधया ।
कृष्णेन कृतसत्कारा वाराणसीं ययुस्तु ताः ।।७४।।
राधा संभोजयामास रमयामास तं पतिम् ।
जन्मोत्सवं सुखं कृत्वा ययौ कृष्णो गृहं निजम् ।।।७५।।
वाराणस्यां तु ता गावः शंकरं परमीश्वरम् ।
धारासारैरविच्छिन्नर्दुग्धानां पापनाशिनाम् ।।७६ ।।
स्नपयामासुरत्यर्थं तावद्यावद्ध्रदोऽभवत् ।
शंभुर्यत्राऽभवत् पूर्वं स्थितः स्नातश्च दुग्धकैः ।।७७।।
आगतानां गवां स्नेहात् प्रतिजगाम यत्स्थले ।
तत्स्थलं त्वभत् ख्यातं कपिलाह्रद एव यत्। ।।७८।।
कपिलधारा तत्तीर्थे तत्र श्राद्धेन पायसैः ।
अग्निष्वात्ता बर्हिषद आज्यपाः सामपास्तथा ।।७९।।
पितरस्त्वन्यजातीया अपि तृप्यन्ति शाश्वतम् ।
पठनाच्छ्रवणाल्लक्ष्मि मोक्षदं कथितं तव ।।1.467.८०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने राधिकामातुः कलावत्या वृषभानोः पत्न्या प्राग्भवे सुचन्द्रपत्न्याः कलावत्यास्तस्याः पातिव्रत्येन पत्युस्तपसा च दम्पत्योर्वृषभानुकलावतीरूपेण यमुनातटे जन्म, तयोः पुत्री राधिका कृष्णजन्मोत्सवे गोदुग्धैः कृष्णं स्नपयामा-
सेत्यादिनिरूपणनामा सप्तषष्ट्यधिक चतुश्शततमोऽध्यायः ।। ४६७ ।।