लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४६८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४६७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४६८
[[लेखकः :|]]
अध्यायः ४६९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! शंकरस्य भक्तायास्तु कथां शुभाम् ।
असच्छूद्राया नर्तक्या नट्याः पतिव्रतात्मिकाम् ।। १ ।।
पुरा तु नर्तकी शंभोर्भक्ता नाम्ना कलावती ।
ब्रह्मचर्यपरा त्वासीन्नृत्यनाट्यार्थकोविदा ।। २ ।।
सैकदा फाल्गुने कृष्णे शिवरात्र्यां शिवालये ।
ननर्त जागरं कृत्वा जगौ गीतं स्वरेण सु ।। ३ ।।
स्वयं प्रवादयामास वाद्यान्यपि ननर्त च ।
पतिः कृष्णः पतिः शंभुः पतिर्न्नारायणो मम ।। ४ ।।
दिव्यः पतिर्मया ज्ञातो लब्धो देवः पतिर्मया ।
धर्ता पाता रक्षिता चाऽऽनन्दयिता हरिर्मम ।। ५१ ।।
नान्येना स्वामिना त्वत्र प्रयोजनं मम प्रभो ।
इत्येवं गायति वक्ति नृत्यत्यपि प्रहृष्यति ।। ६ ।।
नित्यं स्नापयति शंभुं शृंगारयति भावतः ।
भोजयति सुमिष्टान्नं पाययति पयः शुभम् ।। ७ ।।
नीराजयति सन्ध्यायां रात्रौ ध्यायति शंकरम् ।
पतिं मत्वा सदा शंभुं समर्चयति सर्वथा ।। ८ ।।
एवं शंभोः पातिव्रत्यपरा पुण्ययुता नटी ।
कालधर्मवशं याता यदा सा भक्तनर्तकी ।। ९ ।।
सुता गन्धर्वराजस्य वसुभूतेर्बभूव सा ।
रम्या रत्नावलीनाम्नी - रूपलावण्यशालिनी ।। 1.468.१ ०।।
कलाकलापकुशला मधुरालापवादिनी ।
पितुरानन्ददा नित्यं वसुभूतेः सुपुत्रिका ।। ११ ।।
सर्वगान्धर्वकुशला गुणरत्नमहाखनिः ।
तस्याः सखीत्रयं त्वासीच्चारुचातुर्यभाजनम् ।। १ २।।
तदप्यासीद्धरे पातिव्रत्यधर्मान्वितं प्रिये ।
शशिलेखाऽनङ्गलेखा चित्रलेखेति नामतः ।। १ ३।।
तिसृभिस्ताभिरेकत्र वाग्देवी परिशीलिता ।
ताभ्यः सर्वाः कलाः प्रादात् परिप्रीता सरस्वती ।। १४।।
प्राप्य रत्नावली स्वस्या गतजन्मस्मृतिं मुहुः ।
शंकरस्य प्रजग्राह नियमं परमं तु सा ।। १५।।
नित्यं सन्दर्शनं कृत्वा काश्यां कृष्णेश्वरस्य वै ।
अन्यत् कार्यं करिष्यामि वक्ष्याम्यपि वचो मुखे ।। १६ ।।
इत्थं नियमवत्यासीत् सा गन्धर्वसुता सती ।
ताभिः सखीभिः सहिता नित्यं शंभुं प्रपश्यति ।। १७।।
एकदा सा समानर्च कृष्णेश्वरं तु शंकरम् ।
रञ्जयामास तं बाला रम्यया गीतमालया ।। १८।।
सख्यः प्रदक्षिणीकर्तुं कृष्णेश्वरं ययुर्यदा ।
तदा रत्नावली गीतैः प्रसन्नः शंकरः स्वयम् ।। १ ९।।
वैष्णवैः सर्वचिह्नैश्च कृष्णनारायणं गृणन् ।
उवाच दर्शनं दत्वा वरं वृणु सुकन्यक ।।1.468.२० ।।
कन्या प्राह प्रभो शंभो भवान् ब्रह्म प्रवर्ण्यते ।
त्वां जानामि महादेवं परात्परपुमुत्तमम् ।।२१ ।।
त्वया त्वाराधना कस्य मालया क्रियते प्रभो ।
कस्येदं तिलकं भाले चन्द्रकः कस्य शंकरः ।।२२।।
तुलसीमालिका कस्यात् कण्ठे सन्धार्यते त्वया ।
शंभुः प्राह हितं मिष्टं श्रुत्वा कृष्णस्मृतिप्रदम् ।।२३ ।।
धन्याऽसि त्वं भागवती बाले यं मां सुपृच्छसि ।
इष्टदेवः स्वयं कृष्णनारायणो हरिर्मम ।।२४।।
तस्य चरणरेखायास्तिलकं धार्यते मया ।
चन्द्रकः कुंकुमकृतो भाले लक्ष्म्याः प्रधार्यते ।।२९।।
तुलसी भगवत्पत्नी हरेः प्रासादिकं दलम् ।
तस्याः सन्धार्यते बाले माला कृष्णजपार्थिका ।।२६।।
करे कण्ठे सदा वृन्दामाला यस्य तु विद्यते ।
स वै भागवतश्रेष्ठः परमो वैष्णवः सदा ।।२७।।
एतच्छ्रत्वाऽऽह सा कन्या यन्माला जप्यते त्वया ।
स मे भर्ता भवेन्नाथः कान्तः पतिर्वरो मम ।।२८।।
वराणां श्रेष्ठमेनं वै वरं देहि महेश्वर ।
तथाऽस्त्विति हरः प्राह प्राह चातिहितं ततः ।।२९।।
अद्य रात्रौ स्वयं कृष्णः रंस्यते तु त्वया सह ।
तव भावप्रसन्नः सः तव भर्ता भविष्यति ।।1.468.३ ०।।
इमाः सख्यः कृष्णदास्यो भविष्यन्ति त्वया सह ।
वरं लब्ध्वा तु ताः सर्वा ययुर्गृहं ततः परम् ।।३ १ ।।
प्राहुः सख्यस्तु तां रत्नावलीं विहस्य वै शृणु ।
यद्यायाति स ते रात्रावद्य कृष्णनरायणः ।। ३२।।
चौरो बाहुलतापाशैः पाशितव्योऽतियत्नतः ।
गोचरीक्रियतेऽस्माभिर्यथा स राधिकापतिः ।।३३।।
अहो भाग्योदयस्तेऽद्य महान्पुण्योदयस्तव ।
एकस्यास्तेऽभवत् सिद्धिस्त्वया साकं च नः खलु ।। ३४।।
इति संव्याहरन्त्यस्ता निन्यू रात्रिं यथातथम् ।
अथ प्रातः समुत्थाय पुनरेकत्र संगताः ।।३५ ।।
प्रातः कलावती स्नात्वा पूजयित्वा हरं ततः ।
निर्बन्धेन वयस्याभिः परिपृष्टा जगाद ह ।।३६।।
गुरोः कृपास्तथा त्वाशीर्वादाः फलन्ति वै ध्रुवम् ।
गुरोः सेवा तपः शीघ्रं ददात्येव परं सुखम् ।।३७।।
अद्य कृष्णं हृदि कृत्वाऽऽविशं शय्यां हि सत्वरम् ।
निद्राधिष्ठितनयना तद्विलोकनलालसा ।।३८।।।
क्षणात् स्वप्नदशां प्राप्ता भाविनोऽर्थस्य गौरवात् ।
आत्मविस्मरणे हेतू ततो मे द्वौ बभूवतुः ।। ३९।।
तन्द्रो कृष्णांगसंस्पर्शौ मम बोधापहारकौ ।
तन्द्र्यां परवशा त्वासं ततस्तत्स्पर्शनेन च ।।1.468.४०।।
आनन्दशेवधौ मग्ना न जाने मां च तं प्रभुम् ।
सुखयित्वा जिगमिषुं यावद्धर्तुं समुत्सहे ।।४१ ।।
तावद्धस्तं वञ्चयित्वा विहस्य सत्वरं गतः ।
दोष्णोः कंकणशब्दैश्च द्रागहं त्ववबोधिता ।। ४२।।
सुखसन्तानपीयूषहृदे परिनिमज्ज्य वै ।
क्षणं तु तद्वियोगाग्नौ पतिताऽहं समुत्कटे ।।।४३ ।।
दुनोति नितरां सख्यस्तद्विश्लेषाऽनलो महान् ।
प्राणानां मे यियासूनां पुनराशा महौषधम् ।।४४।।
अहो तस्य पुनः शक्तिरहो तस्य बलं क्रिया ।
अहो तस्य प्रसौन्दर्यं रमणं तस्य चाद्भुतम् ।।४५ ।।
अहो चूडामणिस्तस्य पिच्छं मायूरकं शुभम् ।
ललाटफलकं रम्यं पद्मपत्रायतेक्षणे ।।४६।।
सस्मितं त्वाननं मिष्टं मिष्टश्चासप्रपूरितम् ।
चन्द्रकोट्युज्ज्वलं वक्त्रं तेजःपरिधिमण्डितम् ।।४७।।
कामगर्वहरा भ्रूश्च वक्षः शीतलपंकवत् ।
करौ सुकोमलौ पुष्टौ बाहुपार्श्वौ मनोहरौ ।।४८।।
उदरं जघनं यत्र हृदयं मे जडं ह्यभूत् ।
ऊरू नेत्राऽऽनन्दकरौ यथा मणी प्रकाशकौ ।।४९।।
चरणौ कोमलौ स्पर्शः स्वाकर्षणकरः परः ।
अहो तस्य पुमंकस्य सुखदत्वं चिरायितम् ।।1.468.५०।।
सर्वस्वेन मया तत्र हुतं वर्ष्म प्रमोदने ।
अहो योगो बलं तस्य त्वहो वीर्यं दृढांगता ।।५१ ।।
पुनः पुनः प्रयोगेण जिता शक्तिश्च मे हृता ।
काऽलीकमालयो वक्ति स्निग्धे मुग्धे सखीजने ।।५२।।
दशम्यवस्था सन्नह्येद् बाधितुं मां हि तं विना ।
इति तस्या गिरः श्रुत्वा मूर्छा प्रापुस्तदाऽऽलयः ।।५३ ।।
तावत् कृष्णः समायातस्तासां सौभाग्यहेतवे ।
स्वप्ने सुरूपो भगवान् युवा ताः परिषस्वजे ।।५४।।
तास्तु दत्वा सुखं तत्र तिरोऽभूद् वै क्षणान्तरे ।
शशिलेखाऽनङ्गलेखाचित्रलेखा जजागरुः ।।५५।।
दृष्ट्वा कृष्णकृताऽऽश्लेषचिह्नानि स्वकलेवरे ।
परस्परं विलोक्यैता ह्रीयुक्ताः संविरेजिरे ।।५६ ।।
ननृतुः सुखसंहृष्टाः सख्यो मुमुदिरे भृशम् ।
श्रवणं चापि कृष्णस्य साक्षात्कारप्रदं त्वभूत् ।।५७।।
चतस्रस्ताः स्वपितरं पितृतुल्यं सुवैष्णवम् ।
वसुभूतिं तु गन्धर्वं प्रातः प्रोचुर्हिदर्शनम् ।।५८।।
स्वप्ने कृष्णो यथा दृष्टो यथा कृष्णः प्रतोषितः ।
यथा वरो महादेवात् पूर्वं लब्धोऽप्यभूत् तथा ।।५९।।
श्रुत्वा सर्वं पिता प्राह तास्तु चतुःकुमारिकाः ।
कृष्णस्यैव कृते पुत्र्यो मया जलेन चार्पिताः ।।1.468.६ ० ।।
अद्य कृष्णो यदि त्वायाद् वक्तव्या मन्नतिः स्तुतिः ।
वाग्दानं च महादेव्यो भवताद् भगवान्पतिः ।।६ १ ।।
जामाता श्रीकृष्णनारायणः कुत्र हि लभ्यते ।
शंकरस्य वरदानाल्लब्धो युष्माभिरेव सः ।।६ २ ।।
धन्योऽहं कृतकृत्योऽहं धन्यं मेऽपि कुलं सदा ।
जामाता यस्य भगवान् श्रीकृष्णः पुरुषोत्तमः ।।६३ ।।
धन्या यूयं सदा साध्व्यो धन्या यूयं पतिव्रताः ।
धन्या यूयं कृष्णपत्न्यो धन्याः कृष्णव्रताः स्त्रियः ।।६४।।
इत्युक्त्वा कारयामास मण्डपं कन्यकाऽऽज्ञया ।
श्रीकृष्णाय प्रदातव्याः कन्यका इतिवाञ्च्छया ।।६५।।
द्वितीयायां निशायां स समाजगाम माधवः ।
बुभुजे ताः कन्यका वै ताभिस्तूक्तः परेश्वरः ।।६६ ।।
विवाहार्थं तथाऽस्त्विति कृष्णः प्राह कृपावशः ।
प्रातरेव महाब्राह्मे मुहूर्ते वह्निसन्निधौ ।।६७।।
गवां मध्ये ददौ कन्याः कृष्णाय परमात्मने ।
वसुभूतिः कृष्णनारायणं चानर्च भावतः ।।६८।।
श्यामं सुयौवनं पुष्टं पीतकौशेयवाससम् ।
सुन्दरं सस्मितं शान्तं राधाकान्तं मनोहरम् ।।६९।।
शरत्पार्वणचन्द्रास्यं रत्नालंकारभूषितम् ।
रत्नकुण्डलयुग्माभ्यां गण्डस्थलविराजितम् ।।1.468.७०।।
रत्नकेयूरवलयरत्ननूपुरभूषितम् ।
आजानुलम्बितां शुभ्रां बिभ्रतं रत्नमालिकाम् ।।७ १ ।।
मालतीमालया कण्ठवक्षःस्थलविराजितम् ।
चन्दनागुरुकस्तूरीकुंकुमाञ्चितविग्रहम् ।।७२।।
सुनखं सुकपोलं च पक्वबिम्बाधरं वरम् ।
पक्वदाडीमबीजाभं बिभ्रतं दन्तमण्डलम् ।। ७३।।
शिखिपिच्छसमायुक्तं बद्धचूडं परात्परम् ।
कदम्बपुष्पयुग्माभ्यां कर्णमूले विराजितम् ।।७४।।
समर्च्य सर्वभूषाढ्यं ननाम कन्यकापिता ।
कृष्णस्ताः कन्यका दिव्या जग्राह विधिना प्रभुः ।।७५।।
शरत्पार्वणचन्द्राभा मुष्टवक्त्रमनोहराः ।
शरन्मध्याह्नपद्मानां शोभामोचनलोचनाः ।।७६।।
परितस्तारकापक्ष्मविचित्रकज्जलोज्ज्वलाः ।
खगेन्द्रचञ्चुचारुश्रीशंसानाशुकनासिकाः ।।७७।।
तन्मध्यस्थलशोभार्हस्थूलमुक्ताफलोज्ज्वलाः ।
कबरीवेषसंयुक्ता मालतीमाल्यवेष्टिताः ।।७८ ।।
ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टककुण्डलाः ।
पक्वबिम्बफलानां च श्रीमुष्टाऽधरयुग्मकाः ।।७९।।
मुक्तापंक्तिप्रभातैकदन्तपंक्तिसमुज्ज्वलाः ।
ईषत्प्रफुल्लकुन्दानां सुप्रभासंशुभस्मिताः ।।1.468.८०।।
कस्तूरीबिन्दुसंयुक्तसिन्दूरबिन्दुभूषिताः ।
कपालानि च मल्लिकायुक्तानि श्रीयुतानि च ।।८१।।
संदधानाः कृष्णकान्ताः कृष्णतुल्यसुशोभिताः ।
सुचारुवर्तुलाकारकपोलपुलकान्विताः ।।८२।।
मणिरत्नेन्द्रसाराणां हारोरःस्थलभूषिताः ।
सुचारुश्रीफलद्वयकठिनस्तनसंभवाः ।।८३ ।।
पत्रावलीश्रिया युक्ता दीप्ताः सद्रत्नकान्तिभिः ।
यासां सुवर्तुलाकारमुदरं सुमनोहरम् ।।८४।।
विचित्रत्रिवलीयुक्तं निम्ननाभिश्च वर्तुला ।
सद्रत्नसाररचितमेखलाजालभूषिताः ।।८५।।
कामास्त्रसारभ्रूभंगयोगीन्द्रचित्तमोहिकाः ।
स्थलपद्मप्रभाशोभाऽञ्चिततलपदाम्बुजाः ।।८६।।
रत्नभूषणसंयुक्ता यावकद्रवशोभिताः ।
मणीन्द्रशोभासंमुष्टसालक्तककरद्वयाः ।।८७।।
सद्रत्नसाररचितक्वणन्मञ्जीररञ्जिताः ।
रत्नकंकणकेयूरचारुशंखविभूषिताः ।।८८।।
रत्नांगुलीयनिकरवह्निशुद्धांशुकोज्ज्वलाः ।
चारुचम्पकपुष्पाणां प्रभामुष्टकलेवराः ।।८९।।
सहस्रदलसंयुक्तक्रीडाकमलशोभिताः ।
रत्नदर्पणसंयुक्ता नववधूः स्वयं हरिः ।। 1.468.९०।।
रञ्जयन् बहुधा नीत्वा यौतकं चातिमूल्यकम् ।
ययौ प्रस्थापितो यानैर्वैहायसैः परं पदम् ।।९१ ।।
तेनैव वर्ष्मणा तास्तु दिव्याः कृष्णप्रसंगतः ।
गोलोकयोग्याः सञ्जाता राधालक्ष्मीसमाः प्रियाः ।।९२।।
इति ते कथितं लक्ष्मि! पातिव्रत्यपरायणम् ।
कृष्णप्राप्त्यात्मकं पुण्यं श्रवणादपि मोक्षकृत् ।।९३।।
पठनादस्य तत्पुण्यं कृष्णसौभाग्यदं भवेत् ।
अनूढो लभते कन्यारत्नं श्रेष्ठकुलोचितम् ।।९४।।
कन्याऽपीमं समाकर्ण्य कृष्णभक्तिसमन्विता ।
श्रद्धया सत्पतिं प्राप्य भविष्यति पतिव्रता ।।९५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कलावतीनर्तक्याः शंकरद्वारा कृष्णपतिव्रताधर्मेण तिसृभिः सखीभिः सह जन्मान्तरे गान्धर्वीत्वं कृष्णेन विवाह्य च गोलोकप्राप्तिमत्त्वं चेतिनिरूपणनामाऽष्टषष्ट्यधिकचतुश्शततमोऽध्यायः ।। ४६८ ।।