लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४६६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४६५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४६६
[[लेखकः :|]]
अध्यायः ४६७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! धर्मपत्न्याः पातिव्रत्यपरायणाम् ।
कथां काशीपंचगंगातीर्थकरीं सुपावनीम् ।। १ ।।
काश्यां पञ्चनदं तीर्थमध्यास भगवान् स्वयम् ।
भुर्भुवःस्वःप्रदेशेषु तीर्थं पञ्चनदं परम् ।। २ ।।
स्थितः कृष्णः स्वयं तत्र तीर्थे पञ्चनदे परे ।
पुरा वेदशिरा नाम महासंयमतापसः ।। ३ ।।
भृगुवंशमुनिरासीत् तपस्यानिरतः सदा ।
युवानं तं समालोक्य शुचिनाम्न्यप्सरोवरा ।। ४ ।।
चकमे तेन ऋषिणा स्खलितं सा पपौ शुचिः ।
शुचिं वेदशिराः प्राह धार्मिकं दोषवर्जितम् ।। ५ ।।
शृणु साध्वि! यौवनस्य विकृतिः सर्वदेहिषु ।
जायते सा न दोषाय कामवर्जितदेहिनः ।। ६ ।।
स्वाभाविकं निर्मनस्त्वं धातूनां स्खलनं सति ।
तपोभंगाय नैवाऽस्ति स्नानेन शुद्धिरिष्यते ।। ७ ।।
किन्तु ते मनसि त्वस्ति भावना बीजलब्धये ।
तेन धातुः स्रवितो मे विना मैथुनसंचरात् ।। ८ ।।
तस्माद् धारय गर्भे त्व यं त्वं पीतवती प्रिये ।
देवपत्नी यथेष्टं वै कर्तुं शक्नोति सर्वथा ।। ९ ।।
अमोघबीजा मुनयो मम बीजात्तव प्रिये ।
कन्यारत्नं वैष्णवाग्र्यं भविष्यति पतिव्रतम् ।। 1.466.१ ०।।
इत्युक्ता साऽऽश्रमे तस्य तस्थौ प्रसववाञ्छया ।
अथ कालेन दिव्यस्त्रीकन्यारत्नमजीजनत् ।। ११ ।।
अतीव भासुरं नेत्रानन्ददं रूपशेवधिम् ।
दत्वा पुत्रीं ययौ स्वर्गं शुचिनाम्न्यप्सरोवरा ।। १ २।।
तां तु वेदशिरा कन्यां स्नेहेन समवर्धयत् ।
हरिण्याः स्वाश्रमस्थायाः स्तन्येन पयसा मुनिः ।। १ ३।।
मुनिर्नाम ददौ तस्या धूतपापेति सार्थकम् ।
दशवर्षोत्तरां कन्यां दृष्ट्वा पप्रच्छ तां मुनिः ।। १४।।
कस्मै दद्यां वराय त्वां त्वमेवास्याहि ये शुभे ।
श्रुत्वा पितुः शुभं वाक्यं प्रोवाच भक्तिमानसा ।। १५।।
सर्वेभ्योऽतिपवित्रो यो यः सर्वेषां नमस्कृतः ।
सर्वे यमभिलष्यन्ति यस्मात् सर्वसुखोदयः ।। १६।।
कदाचिद्यो न नश्येद्वै यः सदैवानुवर्तते ।
इहामुत्रापि यो रक्षेन्महापद्भ्यः स्वरूपवान् ।। १७।।
सर्वे मनोरथा यस्मात् प्रपूर्णाः संभवन्ति मे ।
दिने दिनेऽतिसौभाग्यं वर्धते यस्य सेवया ।। १८।।
नैरन्तर्येण यत्पार्श्वे भय कस्यापि नैव मे ।
यन्नामग्रहणाच्चापि बाधा लीयन्त उत्कटाः ।। १ ९।।
यदाधारेण तिष्ठन्ति ब्रह्माण्डान्यपि सृष्टिषु ।
एवमाद्या गुणा यत्र तस्मै मां देहि शर्मणे ।।1.466.२०।।
एतच्छ्रुत्वा मुनिश्चातिप्रसन्नो मुदमाप ह ।
धन्योऽस्मि यद्गृहे पुत्री धार्मिकी कुलतारिणी ।।२१ ।।
धूतपापा सार्थनाम्नी धन्येयं ज्ञानशेवधिः ।
अनया वर्णितः कोऽत्र भवेद्वै सद्गुणोदयः ।।२२।।
वरं तं धर्मदेवाख्यं मन्ये तस्मै ददामि ताम् ।
परं स सुखलभ्यो न सर्वसद्गुणमण्डनः ।।२३।।
तपःपणेन स क्रय्यो बहुपुण्येन वा क्वचित् ।
विचार्येत्थं सुतां प्राह कन्ये वरोऽस्ति तादृशः ।।२४।।
नार्थभारैः स सुलभो न कौलीन्येन कन्यके ।
न चैश्वर्यबलेनापि न बुद्ध्या न पराक्रमैः ।।२५।।
मनःशुद्ध्येन्द्रियशुद्ध्या तपसा दमनेन च ।
लभ्यते स महाप्राज्ञो नान्यथा सदृशः पतिः ।।२६।।
इतिपितृवचः श्रुत्वा पितरं प्रणिपत्य च ।
अनुज्ञां तु पितुर्लब्ध्वा तेपे तपः सुदारुणम् ।।२७।।
कठोरं वर्ष्म संसाध्य वर्षाधारासु सा स्थिता ।
शिलासु हिमवातेषु न चकम्पे मनागपि ।।२८।।
पञ्चाग्नीन् परिधायाऽपि तपस्यति तपोवने ।
जलाभिलाषिणी बाला जलं नैवाऽपिबत् तदा ।।२९।।
अपास्तभोगसंपर्का वाय्वाहाराऽभवत् सती ।
कृशाऽतितपसा क्षामा दिदीपे तत्तनुस्तराम् ।।1.466.३ ०।।
ब्रह्मा त्वागत्य तामाह प्रसन्नोऽस्मि वरं वृणु ।
धूतपापा नमस्कृत्योवाच श्रीपरमेष्ठिनम् ।।३ १ ।।
पितामह पवित्रेभ्यः कुरु मामतिपावनीम् ।
तुष्टो ब्रह्मा च तामाह संपवित्राणि यानि वै ।।३२।।
तेभ्योऽधिकं सुपावित्र्यमेधिमद्वरदानतः ।
तिस्रः कोट्योऽर्धकोटि च सन्ति तीर्थानि कन्यके ।।३३ ।।
अष्टषष्टिप्रधानानि श्रेष्ठानि तेषु सन्ति च ।
तानि सर्वाणि तीर्थानि त्वत्तनौ प्रतिलोम वै ।। ३४।।
वसन्तु मम वाक्येन भव सर्वातिपावनी ।
कल्पान्तरे तु मूर्तिस्त्वं भविष्यसि न संशयः ।। ३५६।।
धर्मदेवप्रिया पत्नी हरेर्माता तु दक्षजा ।
इत्युक्त्वाऽन्तर्दधे ब्रह्मा ययौ सापि पितुर्गृहम् ।।३६।।
ज्ञात्वा वेदशिरा सर्वं तुतोष तपसा मुहुः ।
सापि नित्यं धर्ममूर्तिं संविधाय चतुर्भुजाम् ।।३७।।
षोडशवस्तुभिर्दिव्यां प्रातर्नित्यमपूजयत् ।
पातिव्रत्येन धर्मेण सर्वं वृषाय चार्पयत् ।। ३८।।
स्वप्ने धर्मं धूतपापा ददर्श नित्यमेव सा ।
कदाचिद् धर्मदेवः सः साक्षादागत्य तं मुनिम् ।। ३९ ।।
ययाचे कन्यकां योग्यां मुनिस्तस्मै ददौ ततः ।
कन्या चन्द्रसमा कान्तिमती धर्मं प्रसेवते ।। 1.466.४०।।
अथ तत्र महाक्षेत्रे धूतपापा महासती ।
अदृश्येन स्वरूपेण धर्मगृहे विराजते ।।४१ ।।
द्वितीयेन स्वरूपेण चन्द्रकान्तमणिः स्वयम् ।
भूत्वा जले तु गंगाया राजते सा तपस्विनी ।।।४२।।
धर्मदेवोऽपि तु धर्मनदो भूत्वा जलान्तरे ।
चन्द्रकान्तशिलायुक्तो राजते वै दिवानिशम् ।। ४३।।
धर्मस्य मन्दिरे दिव्यस्वरूपेणापि राजते ।
एवं काश्यां तु गंगायां धर्मो धर्मनदोऽभवत् ।। ४४।।
धूतपापाऽभवत् स्वल्पा नदी चापि नदान्विता ।
अथ सूर्यः समागत्य तप उग्रं चचार ह ।।४५।।
किरणेभ्यः प्रववृते महास्वेदजसन्ततिः ।
ततः सा किरणा नाम नदी जाताऽतिपावनी ।।४६।।
अथ तत्र समायाता सरस्वती महासती ।
यमुना गंगया युक्ता तत्र तिष्ठति पावनी ।।४७।।
किरणा धूतपापा च यमी गंगा सरस्वती ।
पञ्चनद्यो महासत्यो नदो धर्मनदाह्वयः ।।४८।।
मिलिताः सर्व एवैतास्तीर्थं पञ्चनदात्मकम् ।
पञ्चगंगेतिनाम्ना वै प्रसिद्धं सर्वथाऽभवत् ।।४९।।
तत्र स्नात्वा जलं पीत्वा मुच्यते सर्वबन्धनात् ।
दत्वा पञ्चनदे दानं कृत्वा वै पितृतर्पणम् ।।1.466.५०।।
बिन्दुमाधवमभ्यर्च्य न भूयो जन्मभाग् भवेत् ।
पञ्चकूर्चेन पीतेन या तु शुद्धिरुदाहृता ।।५१ ।।
सा शुद्धिः श्रद्धया प्राश्य बिन्दुं पाञ्चनदाम्भसः ।
पुरा धर्मनदं नाम ततश्च धूतपापकम् ।।५२।।
ततो वै बिन्दुतीर्थं तत् ततः पञ्चनदाह्वयम् ।
गोभूतिलहिरण्याऽश्ववासोऽन्नस्रग्विभूषणम् ।।५३।।
यत्किंचिद् बिन्दुतीर्थेऽत्र दत्त्वाऽक्षयमवाप्नुयात् ।
तत्राऽऽगत्य वह्निबिन्दुस्तपस्तेपेऽतिदारुणम् ।।।५४।।
कृष्णनारायणः साक्षादागत्याह वरं वृणु ।
अग्निबिन्दुर्हरिं प्राह वसाऽत्र मम सन्निधौ ।।५५।।
तथाऽस्त्विति हरिः प्राह निवासं चाऽकरोन्मुदा ।
बिन्दुमाधवसंज्ञोऽहं वसामि तत्र पद्मजे ।।५६।।
धर्मदेवगृहे पुत्रो बिन्दुमाधवसंज्ञकः ।
नित्यं वसामि दिव्योऽहं धूतपापासुपुत्रकः ।।।५७।।
धूतपापा जननी मे पिता धर्मो मम प्रिये ।
अहं माधवरूपश्च वसामो बिन्दुतीर्थके ।।५८।।
वसुस्वरूपिणी लक्ष्मीलक्ष्मीर्निर्वाणसंज्ञिका ।
धर्मपार्श्वे स्थिता सा मे हृदि पञ्चनदेऽप्यहम् ।।५९।।
व्रतैः संशोधिते देहे धर्मो वसति नित्यशः ।
कृष्णश्चापि धूतपापा श्रीश्च वसन्ति सर्वथा ।।1.466.६ ०।।
अर्थकामौ सनिर्वाणौ तत्र वसतः सर्वदा ।
आदिमाधवनामाऽहं ततश्चानन्तमाधवः ।।६१ ।।
श्रीदमाधवसंज्ञोऽपि ततो वै बिन्दुमाधवः ।
एवं नामभिः सर्वेशः स्थास्याम्यानन्दकानने ।।६२।।
मम माता धर्मपत्नी धूतपापा पतिव्रता ।
श्रीधर्मं सेवते नित्यं पातिव्रत्यपरायणा ।।६३।।
पञ्चनदे महापुण्ये दिव्ये श्रीधर्ममन्दिरे ।
नरा नार्यश्च तत्क्षेत्रे स्नात्वा कृत्वा वृषार्चनम् ।।६४।।
धूतपापार्चनं कृत्वा माधवस्य ममार्चनम् ।
धर्मप्रतिज्ञां कृत्वा च चातुर्मास्यव्रतादिकम् ।।६५।।
कृत्वा कार्तिकदानादि व्रती मोक्षमवाप्नुयात्। ।
धर्मपत्न्यस्तथा तत्र वसन्ति धर्मसेवने ।।६६।।
द्वितीयेन स्वरूपेण सर्वा विश्वस्य मातरः ।
श्रद्धालक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ।।६७।।
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ।
ताश्च सर्वा धर्मसेवां कुर्वन्त्येव सह स्थिता ।।६८ ।।
पातिव्रत्यपराः सर्वा यत्र धर्मस्तु तत्र ताः ।
धूतपापा विशेषेण सेवते श्रीवृषं पतिम् ।।६९।।
प्रातः स्नात्वा तु सा देवी प्रातः स्नापयति वृषम् ।
वस्त्रालंकारकस्तूरीचन्दनाक्षतकुंकुमैः ।।1.466.७० ।।
पूजयित्वा ततो देवी नीराजयति तं पतिम् ।
प्रदक्षिणां स्तुतिं कृत्वा नत्वा तत्पादयोः सती ।।७१ ।।
गंगाजलेन धर्मस्य प्रक्षाल्य चरणावुभौ ।
आचमनामृतं शुद्धं पीत्वा दत्वा सुमाञ्जलिम् ।।७२।।
ततो धर्माय षट्पञ्चाषन्मिष्टान्नानि भोजने ।
सव्यञ्जनानि रस्याऽऽद्यपेययुक्तानि सा प्रिया ।।७३ ।।
समर्पयति ताम्बूलं करोति देहमर्दनम् ।
नृत्यं करोति धर्माग्रे कीर्तिं करोति शार्ङ्गिणः ।।७४।।
नरनारायणगाथां करोति धर्मदेशतः ।
सपत्नीनां ततः सेवां श्रद्धादीनां करोति सा ।।७५।।
कृष्णनारायणभक्तिं धर्माज्ञया करोत्यपि ।
एकदा श्रीधर्मदेवश्चातुर्मास्यव्रते स्थितः ।।७६ ।।
लक्ष्मीनारायणसंहितायाः पारायणं शुभम् ।
वाचयामास सततं तीर्थे पञ्चनदे गृहे ।।७७।।
ऋषयो मुनयो देवाः पितरो मानवाः स्त्रियः ।
चतुर्दशभुवां संस्थाश्चायातास्तत्र तूत्सवे ।।७८।।
नद्यो नदाश्च तीर्थानि क्षेत्राणि विविधान्यपि ।
सर्वेषां सुनिवासादि धूतपापा चकार ह ।।७९।।
धूतपापा सती प्राह यद्यहं धर्मचारिणी ।
धर्मपत्नी धर्मधर्त्री धर्मपतिव्रतार्थिनी ।।1.466.८० ।।
तदा दिव्यं सुनगरं पंचाशत्क्रोशविस्तृतम् ।
ब्रह्मेन्द्रशंभुमुख्यानां सम्पदो यास्तु सन्ति वै ।।८ १ ।।
ततोऽधिकानि मे सौधे खाद्यपेयानि सन्ति वै ।
यानवाहनभोग्यानि शय्याशृंगारकाणि च ।।८२।।
पात्राणि रसभोज्यानि दृश्यानि विविधानि च ।
वह्निशुद्धांशुकादीनि सन्तु मत्पतिसद्गृहे ।।८३ ।।
दधिकुल्या घृतकुल्या मधुकुल्याः सिताद्रयः ।
पयःकुल्यास्तथा दासा दास्यः सन्तु च लक्षशः ।।८४।।
इतिसंकल्पितं स्मृत्वा धर्मस्य चरणाम्बुजम् ।
तावद् दिव्या बहुविधाः स्मृद्धयः क्षणतोऽभवन् ।।८५।।
स्वर्णरत्नविभूषाश्च हीरकाद्या मणिव्रजाः ।
समुद्भूता धूतपापासंकल्पात् तन्नदान्तिके ।।८६ ।।
सुधर्मासदृशी दिव्या सभा जाता क्षणात् प्रिये ।
दुर्गा सरस्वती लक्ष्मीः सावित्री राधिका दया ।।८७।।
जया ललिता माणिक्या रमा पद्मा च पार्वती ।
प्रभा हंसा च मनसा मंजुला श्रीश्च पद्मिनी ।।।८८।।
शान्तिः शान्ता हेमलता देवी मुक्ता च मौक्तिका ।
आसन् वै सेविका धर्मगृहे तत्र कथोत्सवे ।।८९।।
लक्ष्मीनारायणसंहिताकथाश्रवणकारिणाम् ।
स्वागतादिमहत्कार्ये भोज्यपेयसमर्पिकाः ।।1.466.९०।।
कार्तिके च प्रबोधन्यां कथान्ते पूजनं परम् ।
धर्मदेवस्य तैः सर्वैः सर्वाभिश्च कृतं महत् ।।९१ ।।
अनन्तपुण्यदं रत्नस्वर्णहीरकवस्तुभिः ।
धर्मोऽपि दक्षिणाः सर्वा ददौ ताभ्यो मुदान्वितः ।।९२।।
देवेभ्यः श्रोतृवर्गेभ्यो विप्रेभ्योऽतिधनं ददौ ।
तत्र यज्ञे समायातः कृष्णनारायणो हरिः ।।९३।।
कंभरा च महालक्ष्मीर्गोपालकृष्ण आगतौ ।
विमानेन तदा सर्वैः प्रत्यक्षे पुरुषोत्तमे ।।९४।।
पुष्पवृष्टिः कृता दिव्या जयकारोऽभवन्मुहुः ।
पितृभ्यां सहितः कृष्णनारायणो महामखे ।।९५।।
दशांशहवनं चक्रे धर्माज्ञयाऽतिभावतः ।
यज्ञं समाप्य विधिवत् कृत्वाऽवभृथमन्तिमम् ।।९६।।
धर्मदेवो ददौ दिव्यां दक्षिणां च द्विजातये ।
काशीराजो मैथिलेशः साकेतेशः कलिंगराट् ।।९७।।
सौराष्ट्रेशो मरुस्वामी सिन्धुभूपो निपालराट् ।
कुरुक्ष्मेशः श्वेतभूपः प्राग्ज्योतिर्भूप आर्चयन् ।।९८।।
धर्मदेवं भूसुराँश्च साधून् साध्वीः सहस्रशः ।
स्वर्णहीरकरूप्याणि ददुर्वस्त्राणि दक्षिणाः ।।९९।।
व्यसर्जयत् ततः सर्वान् भोजयित्वा समर्च्य च ।
धर्मदेवः परीहारं च स्वतेजसा सती ।। 1.466.१० ०।।
धूतपापा जलं हस्ते गृह्याऽसंकल्पयन् मुदा ।
विद्यहं धर्मदेवस्य स्वामिनो मे प्रतुष्टये ।। १०१ ।।
सर्वं क्लृप्तवती तर्हि पत्युर्भक्तेर्बलेन मे ।
अदृश्यं भवतु सौधादिकं स्मृद्धं नदे मयि ।। १ ०२।।
इति संकल्पिते तूर्णं क्षणात् सर्वं तिरोऽभवत् ।
जग्मुराश्चर्यमति वै देवाद्याः कोटिशो जनाः ।। १ ०३।।
पातिव्रत्यप्रतापं तं ज्ञात्वा शशंसुरादरात् ।
तां सतीं धूतपापां वै देव्यः शशंसुरीश्वरीम् ।। १ ०४।।
एवं पञ्चनदं तीर्थं धर्मदेवाश्रमात्मकम् ।
पावनं सर्वदेवानां धूतपापाप्रभावतः ।। १ ०५।।
धूतपापापतिव्रतबलं ते कथितं प्रिये ।
पठनाच्छ्रवणाच्चास्य मुक्तिर्भुक्तिर्भवेत्तथा ।। १ ०६।।
पातिव्रत्यात्मको धर्मो भवेद्वै मोक्षदो दृढः ।
सर्वसम्पत्प्रदश्चापि धर्मभक्तिप्रदस्तथा ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वेदशिरसः ऋषेः शुचिनाम्न्यप्सरसि जाताया धूतपापाख्यकन्याया धर्मदेवपतिप्राप्त्या मूर्तिदेवीत्वं, पञ्चनदे संहिताकथाप्रसंगे पातिव्रत्यबलेन पंचाशत्क्रोशेषु नगररचना, देवादिभूपादिमानवादीनामागमः, यज्ञोऽवभृथं चेत्यादि, नूत्ननगरस्मृद्धितिरोभावचमत्कारश्चेतिनिरूपणनामा षट्षष्ट्यधिकचतुश्शततमोऽध्यायः ।। ४६६ ।।